सुश्रुत संहिता चौखम्बा — पृष्ठ 201–210
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 201–210
पृष्ठ 201
पाठ पढ़ें पाठ छिपाएँ
०८ अ ० ८ ] ख-चा-मु-त्र द्वि-। का-भ-। इ-7-न-तु I-5 I-सूत्रस्थानम् । ४३ ९ ५३ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri तंत्र नखशस्त्रैषण्यौ अष्टाङ्गुले, सूच्यो वक्ष्यन्ते, । ( प्रदेशिन्यग्र-पर्वप्रदेशप्रमाणा मुद्रिका । दशाङ्गुला शरारीमुखी सा च कर्त्तरीति कथ्यते ) । शेषाणि तु षडङ्गुलानि ॥ ७ ॥
तौनि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहित-सुखामाण्यकरालानि चेति शस्त्रसम्पत् ॥ ८ ॥
तंत्र वक्रं, कुण्ठं, खण्डं, खरैधारम्, अतिस्थूलम्, अतितुच्छम्, अतिदीर्घम्, अतिह्रस्वम्, इत्यष्टौ शस्त्रदोषाः । अतो विपरीतगुणमा-ददीत, अन्यत्र करपत्रात् । तद्धि खरधारमस्थिच्छेदनार्थम् ॥ ९ ॥
तत्र धारा भेदनानां मासूरी, लेखनानामर्द्धमासूरी, व्यधनानां विस्रावणानाञ्च कैशिकी, छेदनानामर्धकैशिकीति ॥। १० ॥ डिश दन्तशङ्कञ्चानता " । " तीक्ष्णकण्टकप्रथमयवपत्र मुख्ये-पणी गण्डूपदाकारमुखी च ॥ ११ ॥
तेषां " पायना त्रिविधा क्षारोदकतैलेषु । तत्र क्षारपायितं शरश-ल्यास्थिच्छेदनेषु, उदकपायितं मांसच्छेदनभेदनपाटनेषु, तैलपायितं सिराव्यधनस्नायुच्छेदनेषु ॥ १२ ॥
तेषां निशानार्थं " श्लक्ष्णशिला माषवर्णा, धारासंस्थापनार्थं १ ४ शाल्मलीफलकमिति ॥ १३ ॥
न्त्रमागमान्तरं च शस्त्राकाराभिधायकं दर्शयति ' इति । १ यन्त्राणां परिमाणानि प्रतिपादयति - तत्रेति । २ कंसान्तर्गतः पाठो निबन्धाख्यव्याख्याऽनुसारेणाधिकः प्रतिभाति । ३ शस्त्रगुणानभिदधाति -तानीति । ४ शस्त्रदोषान्निर्दिशति - तत्रेति । ५ खरधारं = कर्कशधारमित्यर्थः । ६ मासूरी = मसूरदलधारासदृशतन्वी, नखशस्त्रादी-नामित्यर्थः । ७ अर्धमासूरी = मंसूरदलधाराऽर्थतन्वी, मण्डलाग्रादीनामित्यर्थः । ८ | कैशिकी = केशप्रमाणातन्वी कुठारिकाऽऽदीनां सूचीकुशपत्रादीनाञ्चेत्यर्थः । ९ अर्ध-कैशिकी = अर्धकेशप्रमाणा तन्वी, वृद्धिपत्रादीनामित्यर्थः । १० इति बढिशस्यैव विशेषणम्, दन्तशङ्कोस्तु शङ्कुतुल्यत्वेन तस्यानतत्वमस्त्येव । ११ एषणीशस्त्रस्य त्रैविध्यमुपपादयति — तीक्ष्णेति । १२ पायना = पातुं प्रयोजना, शस्त्रधाराया मृ-दुमध्यतीक्ष्णीकरणप्रक्रियेत्यर्थः । श्रीहाराणचन्द्रस्तु –'निर्वृत्तानां शस्त्राणां तत्क्ष-णाद् द्रवद्रव्येषु निर्वापणं पायना ' इति वक्ति । १३ श्लक्ष्णशिला = अनिशित-धाराणां निशानार्थमकर्कशा शिलेत्यर्थः । १४ निशितधाराणां संस्थापनार्थं
पृष्ठ 202
पाठ पढ़ें पाठ छिपाएँ
४४ Digitized by Arya Samajo and संहिता Gangotri भवति चात्र । [ अ ० ८
यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् ।
सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् ॥ १४ ॥
अनुशंसितु त्वक्सारस्फटिककाच कुरुविन्दै जलौकाऽग्नि-चारैनखगोजी शेफालिकाशाकपत्रकरोवालाङ्गलय इति ॥ १५ ॥
शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् ।
त्वक्सारादिचतुर्वर्ग छेद्ये भेद्ये च बुद्धिमान् ॥ १६ ॥
आहार्य्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत् ।
विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् ॥ १७ ॥
ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये ।
गोजी शेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् ॥ १८ ॥
एष्येष्वेषण्य लाभेतु वालाङ्गल्यङ्कुराहिताः ।
शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु ।
कौरयेत् करणप्राप्तं कर्मारं कर्मकोविदम् ॥ १ ९ ॥
प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः । शाल्मलीपट्टकमित्यर्थः । वाग्भटेन तु – “ स्यान्नवाङ गुलविस्तारः सुघनो द्वादशा-ङ्गुलः । क्षौमपत्रोणँकौशेयदुकूलमृदुचर्मजः । विन्यस्तपाशः सुस्यूतः सान्नरोर्णास्थश-स्त्रकः । शलाकापिहितास्यश्च शस्त्रकोशः सुसंचयः ॥ ” इति शस्त्रसंस्थापनाय शस्त्र-कोश उक्तः । १ कर्मार्हशस्त्रं लक्षयति- यदेति । २ सुगृहीतं = ‘ वृद्धिपत्रवृन्तफ-लसाधारणे भागे गृह्णीयात् ' इति प्राक् सूत्रोक्तम् । ३ शस्त्राणां तत्कर्मसाध-कद्रव्यान्तरमतिदिशति — अनुशस्त्राणीति । ४ ' कुरुन्द ' इति ख्यातोऽतिकठोरः पाषाणभेदः । _५ पलाशकाष्ठादिदाहसम्भवो लवणरसभस्मविशेषः क्षारः । गोजी = गोजिह्वा, ‘ सिहोड ' इति नाम्ना ख्यातो वा वृक्षस्तस्य पत्राणि; ‘ शाकपत्र'-घटकपत्रशब्दस्येहारभ्य प्रत्येकमभिसम्बन्धात् । शाको महावृक्षविशेषः । ६ अश-स्त्रावचारणीयान् दर्शयन् शस्त्रकर्मसाधकद्रव्यान्तरस्य विषयभेदमाख्याति– शिशुना-मिति । ७ ळे त्वक्सारादिभिः त्वक्सारस्फटिककाचकुरुविन्दैश्चतुर्भिः कृतो वर्ग-स्तम् । ८ शैक्यं = तीदणम् । ९ कारयेत् = कर्तुं प्रयोजयेत्करणप्राप्तं = स्त्र-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 203
पाठ पढ़ें पाठ छिपाएँ
८ अ ० ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । ४५ 1 TT-श-त्र-फ. ध-रः । न'-श T-ग-व-तस्मात परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा ॥ २० ॥
इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो नाम अष्टमोऽध्यायः ॥ ८ ॥
नवमोऽध्यायः ।
अथातो योग्य सूत्रीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ।
अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्याङ्कारयेत् । स्नेहादिषु छे-द्यादिषु च कर्मपथमुपदिशेत् । सुबहुश्रुतोऽप्यकृतं योग्यः कर्मस्व-योग्यो भवति ॥ ३ ॥
तत्र, पुष्पफलालाबूकालिन्द कत्रपुर्वारुकर्का रुकप्रभृतिषु छेद्य-विशेषान् दर्शयेत्, उत्कर्तर्न परिकर्त्तनानि चोपदिशेत् । दृतिबस्तिप्र-सेवकप्रभृतिषु उदकपङ्कपूर्णेषु भेवयोग्याम् । सरोम्णि चर्मण्या-तते लेख्यस्य । मृतपशुसिरासूत्पलनालेषु च वेध्यस्य । घुणोपहतकाष्ठ-वेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य । पनसविम्बीबिल्वफलमज्जमृत-पशुदन्तेष्वाहार्य्यस्य । मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्य-स्य | सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य । पुस्तमयपुरु-कर्मणि निपुणम् । १ परिचयं = शस्त्रग्रहणाभ्यासम् । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यामष्टमोऽध्यायः । नवमोऽध्यायः । २ योग्या सम्यक्कर्माभ्यासः, ' योग्याऽर्कयोषित्यभ्यासे ' इति हेमचन्द्रः; तस्याः सूत्रं विद्यते यस्मिन् स योग्यासूत्रीयस्तम् । ३ अकृतयोग्यः = अकृतकर्माभ्यासः । ४ छेद्यादिकर्मणः सम्यगम्यासात् प्राग् यस्य कर्मणो यस्मिन् द्रव्ये साम्यमस्ति तद्दर्श-यति - तन्त्रेति । पुष्पफलं = कूष्माण्डः | ५ कालिन्दकः = ' तरवूज ' इति भाषायां ख्यातः । ६ उत्कर्तनम् = ऊर्ध्वकर्तनम्, परिकर्तनम् = अधश्छेदनम् । ७ प्रसे-वकः = चर्मनिर्मितभाण्डम् ।.८ श्रतते = प्रसारिते । ९ " मृदा वा दारुणा वाऽथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वाऽपि पुस्तमित्यभिधीयते ” ॥ पुस्तो दार्व्या-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 204
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां ४६ Digitized by Arya Samaj nai and eGangotri [ अ ० १० षाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्याम् । मृदुचर्ममांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम् । मृदुपु मांसखण्डेष्वभिक्षारयोग्याम् । उदकपूर्णंघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानवस्तित्रणव-स्तिपीडनयोग्यामिति ॥ ४ ॥
भवतश्चात्र ।
एवमादिषु मेधावी योग्यार्हेषु यथाविधि ।
द्रव्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ॥ ५ ॥
तस्मात । कौशलमन्विच्छन् शत्रक्षाराग्निकर्मसु ।
यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ॥ ६ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः ॥ ९ ॥
दशमोऽध्यायः ।
अथातो विशिखाऽनुप्रवेशनीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मरणा कृतयोग्येन शाखं निगदता राजानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरि-हितेन छत्रवता दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्या-णाभिव्याहारेणाकुइँकेन बन्धुभूतेन भूतानां सुसहायवता वैद्येन वि-शिखाऽनुप्रवेष्टव्या ॥ ३ ॥
दिमय्याः स्त्र्याद्याकृतेरुपादानकारणं यद्वस्तु तदुच्यते इत्यरुणदत्तः संहरति -- तस्मादिति ॥ १ पूर्वोक्तमुप-इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां नवमोऽध्यायः । दशमोऽध्यायः । २ विंशिखायाः = वैद्यकव्यवसायसम्बन्धिकर्ममार्गस्य अनुप्रवेशनमधिकृत्य कृतो-ऽध्यायो विशिखाऽनुप्रवेशनीयस्तम् । अत्र चक्रः-- यदि वा विशिखा रथ्यैव तस्यां चिकित्सार्थमनुप्रवेशनम् ' इति । ३ कथम्भूतो वैद्यः कर्ममार्गप्रवेशाधिकारी-त्याशङ्कायामभिधत्ते -- अधिगतेति । ४ अकुहकेन -- कुद्दकः शास्त्रविहीनः परम-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 205
पाठ पढ़ें पाठ छिपाएँ
अ ० १० ] O षु ॥ च-" T-च-प-तो-चैव री-म. सूत्रस्थानम् । ४७ भवति चात्र । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य, उपवि-श्य, आतुरमभिपश्येत् स्पृशेत् पृच्छेच 1 । त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायगो वेदितव्या इत्येके । तत्तु न सम्यक्, पड्विधो हि रोगाणां विज्ञानोपायः । तद्यथा— पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ॥ ४ ॥
तत्र श्रोत्रेन्द्रियविज्ञेया विशेषा रोगेषु व्रणास्रावविज्ञानीयादिपु वक्ष्यन्ते — ' तत्र सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति ' इत्ये-वमादयः । स्पर्शनेन्द्रियविज्ञेयाः शीतोष्ण क्ष्णकर्कशमृदुकठिनत्वा-दयः स्पर्शविशेषा ज्वरशोफादिषु । चक्षुरिन्द्रियविज्ञेयाः, शरीरोपच-यापचयायुर्लक्षणबलवर्णविकारादयः । रसनेन्द्रियविज्ञेयाः प्रमेहा-दिषु रसविशेषाः । घ्राणेन्द्रियविज्ञेया अरिष्टलिङ्गादिषु व्रणानामत्र-गानाञ्च गन्धविशेषाः । प्रश्नेन च विजानीयाद्देशं कालं जातिं सात्म्य-मातसमुत्पत्तिं वेदनासमुच्छ्रायं वलमन्तरग्नि वातमूत्रपुरीषाणां प्रवृत्त्यप्रवृत्ती कालप्रकर्षादींश्च विशेषान् । श्रात्मसदृशेषु विज्ञानाभ्यु-• पायेषु तत्स्थानीयैर्जानीयात् ॥ ५ ॥
मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च । विश्वासकारको मायावी, ततो नञ्तत्पुरुषः; तेनाकुहकेन ।: १ “ दर्शनप्रश्न संस्पर्शैः परीक्षा त्रिविधा स्मृता ” इति चक्रः । २ श्रोत्रत्वक्चक्षूरसनब्राणप्रश्नात्मकैरित्यर्थः । ३ यद्यस्य सेवितं सत् सुखाय सम्पद्यते तत्तस्य सात्म्यम्, प्रकृत्यनुकूलमित्यर्थः । तच्च द्विविधम् - चेष्टाऽऽख्यमाहाराख्यं च । चेष्टाऽऽख्यं कायवाङ्मनो भेदात्त्रिविधम् । आहा-राख्यं रसभेदात् षडविधम् । चरके - " सात्म्यं नाम तद्यदात्मन्युपशेते । तत्त्रिविधम्-प्रवरावरमध्यविभागेन । तत्र सर्वरसं प्रवरम्, एकरसमवरम्, मध्यन्तु प्रवरावरमध्य-स्थम् ” इति । ४ आतङ्कसमुत्पत्तिं = रोगकारणम् । ' आतङ्को रोगसन्तापशङ्कासु मुरजध्व-नौ ' इति मेदिनी । वेदनासमुच्छ्रायं = वातादिवेदनोद्गतिम् । ५ आत्मसदृशेषु = वात-पित्तश्लेष्मरूपदोषोचितेषु । श्रीहाराणचन्द्रस्तु – ' आत्मासदृशेषु ' इति पाठं मत्वा उचिता परपर्यायोऽयं सदृशशब्दः । ' सदृशं समे उचिते ' इति मेदिनी । ततश्चात्मासदृशेषु आत्मनोऽनुचितेष्वयुक्तेषु होनेष्विति यावदिति व्याख्याति । ६ शब्दस्पर्शरूपरसगन्ध-स्तत्स्थानीयैरित्यर्थः । ७ पञ्चज्ञानेन्द्रियद्वारा समोचीनतया न परीक्षिता इत्यर्थः । ८ दुराख्याता = रोगिणा यथायथं नोक्ताः 1
पृष्ठ 206
पाठ पढ़ें पाठ छिपाएँ
' सुश्रुतसंहिताया Digitized by Arya Samaj Foundation ४८ i and eGangotri [ अ ० ११ तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ॥ ६ ॥
एवमभिसमीक्ष्य साध्यान् साधयेत्, योध्यान् यापयेत, असा-ध्यान्नोपक्रमेत्, परिसंवत्सरोत्थितश्च विकारान् प्रायशो वर्जयेत् ॥७ ॥
तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति । तद्यथा— श्रोत्रियनृपतिस्त्रीबालवृद्धभीरुराजसेवक कितवदुर्बल वैद्यवि-दग्धव्याधिगोपकदरिद्रकृपणक्रोधनानामनात्मवतामनाथानाञ्चैवं नि-रूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ॥ ८ ॥
भवति चात्र ।
स्त्रीभिः सहास्यां संवासं परिहासञ्च वर्जयेत् ।
दत्तञ्च ताभ्यो नादेर्यमन्नादन्यद्भिषग्वरैः ॥ ९ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने विशिखाऽनुप्रवेशनीयो नाम दशमोऽध्यायः ॥१० ॥
एकादशोऽध्यायः ।
अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः; छेद्यभेद्यलेख्यकरणात्, १ साध्यान् = सुसाध्यदुःसाध्यभेदेन द्विविधान् । २ याप्यलक्षणम् - " यापनीयं तु तं विद्यात् क्रिया धारयते हि यम् । क्रियायां तु निवृत्तायां सद्यो यश्च विनश्यति ॥ ” इति । ३ श्रसाध्यान् = याप्यप्रत्याख्येयप्रभेदेन द्विविधान् । ४ संवत्सरातीतानित्यर्थः । साध्येऽपि रोगे दुश्चिकित्स्यानाह - श्रोत्रियेति । ६ राज्ञाऽनुमतं सर्वं गृह्णीयादिति भावः । चरके– “ न च कदाचित् स्त्रीदत्तमाभिषमादातव्यमननुज्ञातं भर्त्राऽथवाऽध्य-क्षेण ” । आमिषं भोग्यवस्तु । श्रामिषं भोग्यवस्तुनि ' इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां इति दशमोऽध्यायः रभसः ॥ एकादशोऽध्यायः । ७ पाकश्च विधिश्चेति पाकविधी, क्षारस्य पाकविधी यस्मिन्नध्याये स क्षारपाकविधि-स्तम् । पाकः क्षारनिर्माणपद्धतिः । विधिरवचारणम् । ८ यद्यप्यग्निजलौकसोः प्राधान्यं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 207
पाठ पढ़ें पाठ छिपाएँ
३१ T-7७ ॥ ॥ वे-१० ॥ तु र्नः । दिति ध्य-विधि-gitized by Arya Samaj Foundation Chennai and eGangotri अ ० ११ सूत्रस्थानम् prai त्रिदोषन्नत्वात्, विशेषक्रियाऽवचारणाच्च ॥ ३ ॥
तत्र क्षरणात् क्षरणनाद्वा क्षारः ॥ ४ ॥
४ ९ नानौषधिसमवायात्र्त्रिदोषन्नः, शुक्लत्वात् सौम्यः, तस्य सौ-म्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा । स खल्वाग्ने-यौषधिगुणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्णः पाचनो विलयनः शोधनो रोपण: शोषण: स्तम्भनो लेखनः कृभ्यामकफकुष्ठविषमेद-सामुपहन्ता पुंस्त्वस्य चातिसेवितः ॥ ५ ॥
सद्विविध: - प्रतिसारणीयः, पानीयश्च ॥ ६ ॥
तत्र, प्रतिसारणीयः कुजुकिटिभ दद्रुमण्डलकिलासभगन्दरार्बुदा-शदुष्टव्रणनाडी चर्मकीलेतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृ-मिविपादिषूपदिश्यते । सप्तसु च मुखरोगेषूपजिह्वाऽधिजिह्वोप-कुशदन्तवैदर्भेषु तिसृषु च रोहिणीषु, एतेष्वेवानुशस्त्रप्रणिधा-पृथगध्याये वक्ष्यते; किन्त्वत्र जलौका: प्रधानम्, अग्निः प्रधानतरः, क्षारस्तु प्रधानतमः । “ अतिशायने तमविष्ठनौ " इति प्रकृष्टार्थे तमप् । क्षारस्य श्रेष्ठत्वमुक्तं वाग्भटेन - “ सर्वश-स्त्रानुशस्त्राणां क्षारः श्रेष्ठो बहूनि यत् । छेद्यभेद्यादिकर्माणि कुरुते विषमेष्वपि । दुःखाव-चार्यशस्त्रेषु तेन सिद्धिमयात्सु च । अतिकृच्छ्रेषु रोगेषु यच्च पानेऽपि युज्यते । ” इति । १ क्षरणात् = दुष्टत्वङ्मांसादीनां शातनात्, क्षणनात् = त्वङ्मांसादीनां हिंसनात् । २ क्षारस्य पूर्वोक्तत्रिदोषघ्नत्व हेतुसाधनपुरस्सरं गुणकर्माह -नानौषधीति । ३ चरके— “ तीक्ष्णोष्णो लघुरुष्णश्च क्लेदी पाकी विदारणः । दाहनो दीपनश्छेत्ता सर्वक्षारोऽग्नि-सन्निभः ॥ ” इति । पाचनः = बाह्यप्रयोगे व्रणशोथस्य पक्ता, विलयन: - वातकफभूयि-ष्ठस्य शोफस्य, शोधनः - दुष्टव्रणादेः । योगशक्तिप्रभावात्तिलयवकल्कवत् क्षारस्य व्रण-शोधनरोपणत्वे न विरोधः । अन्ये तु - सिरादिक्षणनभयाच्छुद्धे व्रणे रोपणार्थं चारो न ह्यवचार्य्यते, शुद्धो व्रणः स्वयमेव रोहति । तस्माद् ' रोपण: ' इति पाठः पारम्पर्येणेति । ४ ‘ उपहन्ता ' इत्यस्य कृम्यादिभिः प्रत्येकं सम्बन्धः । प्रतिसारणीयः = बाह्यपरि-मार्जनः, पानीयः = आभ्यन्तरपरिमार्जनः । तदुक्तं सङ्ग्रह - " स द्विविधो बाह्याभ्यन्तर-परिमार्जनभेदेन ” इति । तत्र पानार्हक्षारवृक्षा रसार्णवे – “ तिलापामार्गकदलीपलाशशि-ग्रुमोचकाः । मूलार्द्रकचिञ्चाऽश्वत्था वृक्षक्षाराः प्रकीर्तिताः ॥ ” इति । ५ प्रतिसारणीय प्रभेदक्षारस्य विषयं दर्शयति - कुष्ठेति । ६ “ समुत्थाननिदाना-भ्यां चर्मकीलः प्रकीर्तितः ” इत्यर्शोनिदानपठितः । ७ उक्तं च- " वातात् पित्तात्कफात् ४ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 208
पाठ पढ़ें पाठ छिपाएँ
५० Digitized by Arya Sam स्सुश्रुतसंहिता aimarand eGangotri नमुक्तम् ॥ ७ ॥
[ अ ० ११ पानीयस्तु गंरगुल्मोदराग्निसङ्गाजी रोचकानाह शकेराश्मय-भ्यन्तरविद्रधिकृमिविपार्शस्सुपयुज्यते ॥ ८ ॥
अहितस्तु रक्तपित्तज्वरितपित्तप्रकृति बालवृद्ध दुर्बल भ्रममदमू-छतिमिरपरी तेभ्योऽन्येभ्यश्चैवंविधेभ्यः ॥ ९ ॥
तञ्चेतरक्षारवद् दग्ध्वा परिस्रावयेत् । तस्य विस्तारो s -यंत्र ॥ १० ॥
अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च । तं चिकीर्षः शरदि गिरि-सानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यम-वयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा खण्डशः प्रकल्प्यावपाटय निर्वाते देशे निचितिं कृत्वा सुधाशर्कराश्च त्रिभ्यो रक्ताद्रोहिण्य ईरिताः । अन्त्ये सद्यो मारयत आद्यास्तिस्रः क्रियां विना " ॥ इति । चरके— “ वातपित्तकफा यस्य युगपत्कुपितास्त्रयः । जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समु-च्छ्रिताः " इत्यादिना रोहिणीनिदानमुक्तम् । १ पानीयप्रभेदक्षारस्य विषयं दर्शयति — गरेति 1 । सङ्ग्रहे— “ नानाप्राण्यङ्गश-मलविरुद्धौषधिभस्मनाम् । विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः । कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः " ॥ गुल्मं वक्ष्यति - " हृद्वस्त्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः । चयापचयवान् वृत्तः स गुल्म इति कीर्तितः " ॥ २ पानीयक्षारस्या-विषयं दर्शयति — रक्तेति । ३ विषमद्यशोणितोत्थविकारोमदः । ४ परीत-शब्दस्य भ्रमादिभिः सह प्रत्येकमभिसम्बन्धः । ५ यथेतरक्षारस्य प्रतिसारणीयाख्यस्य काष्ठदाहः, षड्गुणोदकपाकः, त्रिभागशेषकरणानन्तरं परिस्रावणं; तथा पानीयस्यापि पाकविधिर्द्वितीयपाकवर्जे स्रावणं च कार्यम् । ६ उत्तरतन्त्रे गुल्मादिष्वध्यायेषु । ७ प्रतिसारणीयस्य, पाकविधिं निर्दिशति - तमिति । ८ श्रसित मुष्ककं = कृ-ष्णपुष्पपाटलितरुम्, ‘ गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ' इत्यमरः । अधि-वास्य = मन्त्रबलिपूजादिभिरधिवासनं विधाय, तदुक्तं सङ्ग्रहे– “ सुरापललसु-मनोऽक्षतादिभिश्चतुर्दिशं बलिं कृत्वा प्रदक्षिणं चाभ्यच्यैनमधिवासयेत् ” दधिवासनं भूतानामपसारणार्थं भवतीत्युक्तं तन्त्रान्तरे— “ निवसन्तीह भूतानि । एत-यान्यस्मिन् कानिचिद् द्रुमे । श्रपक्रामन्त्वतश्छेद्यः परार्थे श्वो ह्ययं द्रुमः ” ॥ ९ निचितिं = काष्ठानामौत्तराधर्येणावस्थितिम् । १० सुधाशर्कराः = शुक्लखढिकाः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 209
पाठ पढ़ें पाठ छिपाएँ
२ T-य -न ॥ 1 अ ० ११ Jigitized by Arya Samaj सूत्रस्थानम् opnai: dation Chennai and eGangotri ५१ CC - 0. Gurukul Kangri Collection, Haridwar प्रक्षिप्य तिलनालैरादीपयेत् । अथोपशान्तेऽग्नौ तद्भस्म पृथग् गृह्णी-याद्भस्मैशर्कराश्च । अथानेनैव विधानेन कुटजपलाशाश्वकर्णपा-रिभद्रकविभीतकारग्वधतिल्वकार्कस्नुह्यप । मार्गपाटलानक्तमालवृषक-दलीचित्रकपूति केन्द्रवृक्षास्फोताश्वमारकसप्तच्छदाग्निमन्थगुञ्जाश्चत-स्त्रश्च कोशातकीः समूलफलपत्र शाखा दहेत् । ततः चारैद्रोणमुद-कद्रोणैः पभिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य, महति कटाहे शनैर्दव्यऽवघट्टयन् विपचेत् । स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलच तंमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रयेत् । तत एव च क्षारोदकात् कुडवमध्यर्धं वाऽपनयेत् । ततः कटशर्कराभस्म शर्कराक्षीर पाकशङ्खनाभीरग्नि-वर्णाः कृत्वाऽऽयसे पात्रे तस्मिन्नेव नारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसम्मितं शङ्खनाभ्यादीनां " प्रमाणं प्रतिवाप्य सतत-मप्रमत्तश्चैनमवघट्टयन् विपचेत् _१२ । स यथा नातिसान्द्रो नातिद्रवश्च भवति तथा प्रयतेत । अथैनमागतपाकमवतार्थ्यानुगुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ॥। ११ ॥ १ भस्मशर्कराःः राः = दह्यमानार्द्रकाष्ठरसाच्छर्करें वान्योन्य संहताः । उक्तञ्च— “ मुष्ककाद्दह्य-मानात्तु रसः प्रच्यवते हि यः । भस्मना सह संयुक्तः काठिन्यमुपगच्छति ॥ तां भस्मश-कंरामाहुः ” इति निघण्टौ । २ अश्वकर्णः = ' गन्धियाभॉट ' ' गजहुंड ' इति नाम्ना पूर्वदेशे प्रसिद्धः पारीषाश्वत्थः, शालभेदो वा । ' साले तु सर्जकार्याश्वकर्णकाः सस्यसंवरः’इत्य-मरः । ३ इन्द्रवृक्षः = श्वेतपुष्पकुटजतरुः, आस्फोता - सारिवा । ४ मूलादीनां चतुणां कुटजादिभिः सह प्रत्येकमभिसम्बन्धः । ५ क्षारद्रोणं = भागद्वयं मुष्ककभस्मनो भागकं कुटजादिभस्मनो मिश्रीकृतमुच्यते । ६ परिस्राव्य = एकविंशतिवारान् वाससा गाल-यित्वेत्यर्थः । ७ तं = क्षारक्काथम् । = इतरं = क्षारभस्मकल्कम् । ९ अपन-येत् = कटशर्कराऽऽदीनि द्रव्याणि प्रत्येकं कुडवप्रमाणानि अध्यर्ध कुडव प्रमाणानि वा-ऽऽवपॆदित्यर्थः; कुडवमित्यस्य श्रध्यर्धमित्यत्र सम्बन्धात् । १० क्षीरपाकः = जल-शुक्तिः । ११ आदिशब्दात्तन्त्रान्तरोक्तान्यावाप्यानि ग्राह्याणि – “ श्लक्ष्णं शकृद्दक्षशि-खिगृध्रकङ्ककपोतजम् । चतुष्पात्पक्षिपित्तालमनोह्वालवणानि च ॥ ” इति । १२ षट्-त्रिंशदधिक पञ्चदशशतोदकपलैः सह विपचेदित्यर्थः । पच्यमानस्य तस्य तैक्ष्ण्याच्छर-क्तपिच्छिलादयो गुणाः षोडशांशावशिष्टे षण्णवतिपलप्रमाणे भवन्ति ।
पृष्ठ 210
पाठ पढ़ें पाठ छिपाएँ
५२ Digitized by Arya Sam an सुश्रुतसंहितायां -The - and eGangotri [ अ ० ११ एष एवाप्रतीवापः पक्वः संव्यूहिमो मृदुः ॥ १२ ॥
प्रतीवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलकीपूतिकप्रवा-लतालपत्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाः श्लक्ष्ण-चूर्णाः शुक्तिप्रमाणाः प्रतीवापः । स एव सप्रतीवापः पक्वः पाक्य-स्तीक्ष्णः ॥ १३ ॥
तेषां यथाव्याधिबलमुपयोगः ॥ १४ ॥
क्षीणबले तु क्षारोदकमावपेद् बलकरणार्थम् ॥ १५ ॥
भवतश्चात्र ।
नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः ।
अँविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः । १६ ॥
“ प्रतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्य सर्पिताः ।
सान्द्रताऽपक्कता हीनद्रव्यता दोष उच्यते ॥ १७ ॥
१० क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपे देशेऽस-१ अत्र चक्र: - “ क्षारो द्विविधः - सप्रतीवापोऽप्रतीवापश्च । आवापानन्तरं यत्पुनः श-क्त्यतिशयार्थं दीयते सप्रतीवापः । तत्राप्रतीवापो मृदुः संव्यूहिमसंज्ञः, सप्रतीवापश्च पा-क्य संज्ञस्तीक्ष्णः ” इति । संव्यू हिमश्च दन्त्यादिद्रव्यसहितः क्षारः । २ पाक्यसंज्ञं तीक्ष्णं संव्यूहिमं क्षारं प्रतिपादयति - प्रतीवाप इति । " द्रवद्रव्ये द्रव्यान्तरं श्लक्ष्णपिष्टं दीयते स-प्रतीवाप उच्यते ” इत्यरुणदत्तः । ३ द्रवन्ती = चीरितपत्रदन्तीप्रभेदा । लाङ्गलकी -कुष्ठदुष्टव्रणनाशिका कलिकारिका, पूतिकप्रवालाः = कण्टकिकरञ्जपल्लवाः, ' प्रकीर्यः पूति-करजः पूतीकः कलिमारकः ' इत्यमरः । माधवमते - पूतिक इति ह्रस्वेकारघटितोऽपि । ' प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे'इति हेमचन्द्रः । ४ सुवर्चिका = जतुकाख्या, भाषायां ‘ चकवत ' इति नाम्ना व्यवहृता । ५ क्षीणं बलं यस्यासौ तस्मिन् क्षीणबले, हीनशक्तिकक्षारे, तु क्षारोदकं क्षाराम्बु । तदुक्तं वाग्भटे – “ बलार्थं क्षीणपानीये क्षाराम्बु पुनरावपेत् ” इति । ६ क्षारस्य गुणानाख्याति – नैवेति । ७ लक्ष्णः = = अ कर्कशः, त्त्वगिन्द्रियसुखप्रद इत्यर्थः । ८ अविष्यन्दी = योऽवचारितो न प्रसर्पति । ९ क्षार-स्य दोषानभिधत्तं— अतीति । प्रतिशब्दस्य मार्दवादिभिः प्रत्येकमभिसम्बन्धः । तदुक्तम्– “ अत्यौष्ण्यमतिपैच्छिल्यमतितैक्ष्ण्यं विसर्पिता । अत्यर्थं मार्दवं श्वैत्यमत्यर्थं सान्द्रमेव च ॥ हीनौषधविपक्वत्वं क्षारदोषा नव स्मृताः । ” इति । १० प्रतिसारणीयक्षारविधिमभिदधाति — तत्रेति । क्षारस्य साध्यश्चासौ विधिस्तेन CC - 0. Gurukul Kangri Collection, Haridwar