सुश्रुत संहिता चौखम्बा — पृष्ठ 201–210

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 201–210

पृष्ठ 201

सुश्रुत संहिता चौखम्बा, पृष्ठ 201 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

०८ अ ० ८ ] ख-चा-मु-त्र द्वि-। का-भ-। इ-7-न-तु I-5 I-सूत्रस्थानम् । ४३ ९ ५३ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri तंत्र नखशस्त्रैषण्यौ अष्टाङ्गुले, सूच्यो वक्ष्यन्ते, । ( प्रदेशिन्यग्र-पर्वप्रदेशप्रमाणा मुद्रिका । दशाङ्गुला शरारीमुखी सा च कर्त्तरीति कथ्यते ) । शेषाणि तु षडङ्गुलानि ॥ ७ ॥

तौनि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहित-सुखामाण्यकरालानि चेति शस्त्रसम्पत् ॥ ८ ॥

तंत्र वक्रं, कुण्ठं, खण्डं, खरैधारम्, अतिस्थूलम्, अतितुच्छम्, अतिदीर्घम्, अतिह्रस्वम्, इत्यष्टौ शस्त्रदोषाः । अतो विपरीतगुणमा-ददीत, अन्यत्र करपत्रात् । तद्धि खरधारमस्थिच्छेदनार्थम् ॥ ९ ॥

तत्र धारा भेदनानां मासूरी, लेखनानामर्द्धमासूरी, व्यधनानां विस्रावणानाञ्च कैशिकी, छेदनानामर्धकैशिकीति ॥। १० ॥ डिश दन्तशङ्कञ्चानता " । " तीक्ष्णकण्टकप्रथमयवपत्र मुख्ये-पणी गण्डूपदाकारमुखी च ॥ ११ ॥

तेषां " पायना त्रिविधा क्षारोदकतैलेषु । तत्र क्षारपायितं शरश-ल्यास्थिच्छेदनेषु, उदकपायितं मांसच्छेदनभेदनपाटनेषु, तैलपायितं सिराव्यधनस्नायुच्छेदनेषु ॥ १२ ॥

तेषां निशानार्थं " श्लक्ष्णशिला माषवर्णा, धारासंस्थापनार्थं १ ४ शाल्मलीफलकमिति ॥ १३ ॥

न्त्रमागमान्तरं च शस्त्राकाराभिधायकं दर्शयति ' इति । १ यन्त्राणां परिमाणानि प्रतिपादयति - तत्रेति । २ कंसान्तर्गतः पाठो निबन्धाख्यव्याख्याऽनुसारेणाधिकः प्रतिभाति । ३ शस्त्रगुणानभिदधाति -तानीति । ४ शस्त्रदोषान्निर्दिशति - तत्रेति । ५ खरधारं = कर्कशधारमित्यर्थः । ६ मासूरी = मसूरदलधारासदृशतन्वी, नखशस्त्रादी-नामित्यर्थः । ७ अर्धमासूरी = मंसूरदलधाराऽर्थतन्वी, मण्डलाग्रादीनामित्यर्थः । ८ | कैशिकी = केशप्रमाणातन्वी कुठारिकाऽऽदीनां सूचीकुशपत्रादीनाञ्चेत्यर्थः । ९ अर्ध-कैशिकी = अर्धकेशप्रमाणा तन्वी, वृद्धिपत्रादीनामित्यर्थः । १० इति बढिशस्यैव विशेषणम्, दन्तशङ्कोस्तु शङ्कुतुल्यत्वेन तस्यानतत्वमस्त्येव । ११ एषणीशस्त्रस्य त्रैविध्यमुपपादयति — तीक्ष्णेति । १२ पायना = पातुं प्रयोजना, शस्त्रधाराया मृ-दुमध्यतीक्ष्णीकरणप्रक्रियेत्यर्थः । श्रीहाराणचन्द्रस्तु –'निर्वृत्तानां शस्त्राणां तत्क्ष-णाद् द्रवद्रव्येषु निर्वापणं पायना ' इति वक्ति । १३ श्लक्ष्णशिला = अनिशित-धाराणां निशानार्थमकर्कशा शिलेत्यर्थः । १४ निशितधाराणां संस्थापनार्थं

पृष्ठ 202

सुश्रुत संहिता चौखम्बा, पृष्ठ 202 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४ Digitized by Arya Samajo and संहिता Gangotri भवति चात्र । [ अ ० ८

यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् ।

सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् ॥ १४ ॥

अनुशंसितु त्वक्सारस्फटिककाच कुरुविन्दै जलौकाऽग्नि-चारैनखगोजी शेफालिकाशाकपत्रकरोवालाङ्गलय इति ॥ १५ ॥

शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् ।

त्वक्सारादिचतुर्वर्ग छेद्ये भेद्ये च बुद्धिमान् ॥ १६ ॥

आहार्य्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत् ।

विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् ॥ १७ ॥

ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये ।

गोजी शेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् ॥ १८ ॥

एष्येष्वेषण्य लाभेतु वालाङ्गल्यङ्कुराहिताः ।

शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु ।

कौरयेत् करणप्राप्तं कर्मारं कर्मकोविदम् ॥ १ ९ ॥

प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः । शाल्मलीपट्टकमित्यर्थः । वाग्भटेन तु – “ स्यान्नवाङ गुलविस्तारः सुघनो द्वादशा-ङ्गुलः । क्षौमपत्रोणँकौशेयदुकूलमृदुचर्मजः । विन्यस्तपाशः सुस्यूतः सान्नरोर्णास्थश-स्त्रकः । शलाकापिहितास्यश्च शस्त्रकोशः सुसंचयः ॥ ” इति शस्त्रसंस्थापनाय शस्त्र-कोश उक्तः । १ कर्मार्हशस्त्रं लक्षयति- यदेति । २ सुगृहीतं = ‘ वृद्धिपत्रवृन्तफ-लसाधारणे भागे गृह्णीयात् ' इति प्राक् सूत्रोक्तम् । ३ शस्त्राणां तत्कर्मसाध-कद्रव्यान्तरमतिदिशति — अनुशस्त्राणीति । ४ ' कुरुन्द ' इति ख्यातोऽतिकठोरः पाषाणभेदः । _५ पलाशकाष्ठादिदाहसम्भवो लवणरसभस्मविशेषः क्षारः । गोजी = गोजिह्वा, ‘ सिहोड ' इति नाम्ना ख्यातो वा वृक्षस्तस्य पत्राणि; ‘ शाकपत्र'-घटकपत्रशब्दस्येहारभ्य प्रत्येकमभिसम्बन्धात् । शाको महावृक्षविशेषः । ६ अश-स्त्रावचारणीयान् दर्शयन् शस्त्रकर्मसाधकद्रव्यान्तरस्य विषयभेदमाख्याति– शिशुना-मिति । ७ ळे त्वक्सारादिभिः त्वक्सारस्फटिककाचकुरुविन्दैश्चतुर्भिः कृतो वर्ग-स्तम् । ८ शैक्यं = तीदणम् । ९ कारयेत् = कर्तुं प्रयोजयेत्करणप्राप्तं = स्त्र-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 203

सुश्रुत संहिता चौखम्बा, पृष्ठ 203 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ अ ० ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । ४५ 1 TT-श-त्र-फ. ध-रः । न'-श T-ग-व-तस्मात परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा ॥ २० ॥

इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो नाम अष्टमोऽध्यायः ॥ ८ ॥

नवमोऽध्यायः ।

अथातो योग्य सूत्रीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ।

अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्याङ्कारयेत् । स्नेहादिषु छे-द्यादिषु च कर्मपथमुपदिशेत् । सुबहुश्रुतोऽप्यकृतं योग्यः कर्मस्व-योग्यो भवति ॥ ३ ॥

तत्र, पुष्पफलालाबूकालिन्द कत्रपुर्वारुकर्का रुकप्रभृतिषु छेद्य-विशेषान् दर्शयेत्, उत्कर्तर्न परिकर्त्तनानि चोपदिशेत् । दृतिबस्तिप्र-सेवकप्रभृतिषु उदकपङ्कपूर्णेषु भेवयोग्याम् । सरोम्णि चर्मण्या-तते लेख्यस्य । मृतपशुसिरासूत्पलनालेषु च वेध्यस्य । घुणोपहतकाष्ठ-वेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य । पनसविम्बीबिल्वफलमज्जमृत-पशुदन्तेष्वाहार्य्यस्य । मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्य-स्य | सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य । पुस्तमयपुरु-कर्मणि निपुणम् । १ परिचयं = शस्त्रग्रहणाभ्यासम् । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यामष्टमोऽध्यायः । नवमोऽध्यायः । २ योग्या सम्यक्कर्माभ्यासः, ' योग्याऽर्कयोषित्यभ्यासे ' इति हेमचन्द्रः; तस्याः सूत्रं विद्यते यस्मिन् स योग्यासूत्रीयस्तम् । ३ अकृतयोग्यः = अकृतकर्माभ्यासः । ४ छेद्यादिकर्मणः सम्यगम्यासात् प्राग् यस्य कर्मणो यस्मिन् द्रव्ये साम्यमस्ति तद्दर्श-यति - तन्त्रेति । पुष्पफलं = कूष्माण्डः | ५ कालिन्दकः = ' तरवूज ' इति भाषायां ख्यातः । ६ उत्कर्तनम् = ऊर्ध्वकर्तनम्, परिकर्तनम् = अधश्छेदनम् । ७ प्रसे-वकः = चर्मनिर्मितभाण्डम् ।.८ श्रतते = प्रसारिते । ९ " मृदा वा दारुणा वाऽथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वाऽपि पुस्तमित्यभिधीयते ” ॥ पुस्तो दार्व्या-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 204

सुश्रुत संहिता चौखम्बा, पृष्ठ 204 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां ४६ Digitized by Arya Samaj nai and eGangotri [ अ ० १० षाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्याम् । मृदुचर्ममांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम् । मृदुपु मांसखण्डेष्वभिक्षारयोग्याम् । उदकपूर्णंघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानवस्तित्रणव-स्तिपीडनयोग्यामिति ॥ ४ ॥

भवतश्चात्र ।

एवमादिषु मेधावी योग्यार्हेषु यथाविधि ।

द्रव्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ॥ ५ ॥

तस्मात । कौशलमन्विच्छन् शत्रक्षाराग्निकर्मसु ।

यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ॥ ६ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः ॥ ९ ॥

दशमोऽध्यायः ।

अथातो विशिखाऽनुप्रवेशनीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मरणा कृतयोग्येन शाखं निगदता राजानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरि-हितेन छत्रवता दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्या-णाभिव्याहारेणाकुइँकेन बन्धुभूतेन भूतानां सुसहायवता वैद्येन वि-शिखाऽनुप्रवेष्टव्या ॥ ३ ॥

दिमय्याः स्त्र्याद्याकृतेरुपादानकारणं यद्वस्तु तदुच्यते इत्यरुणदत्तः संहरति -- तस्मादिति ॥ १ पूर्वोक्तमुप-इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां नवमोऽध्यायः । दशमोऽध्यायः । २ विंशिखायाः = वैद्यकव्यवसायसम्बन्धिकर्ममार्गस्य अनुप्रवेशनमधिकृत्य कृतो-ऽध्यायो विशिखाऽनुप्रवेशनीयस्तम् । अत्र चक्रः-- यदि वा विशिखा रथ्यैव तस्यां चिकित्सार्थमनुप्रवेशनम् ' इति । ३ कथम्भूतो वैद्यः कर्ममार्गप्रवेशाधिकारी-त्याशङ्कायामभिधत्ते -- अधिगतेति । ४ अकुहकेन -- कुद्दकः शास्त्रविहीनः परम-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 205

सुश्रुत संहिता चौखम्बा, पृष्ठ 205 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १० ] O षु ॥ च-" T-च-प-तो-चैव री-म. सूत्रस्थानम् । ४७ भवति चात्र । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य, उपवि-श्य, आतुरमभिपश्येत् स्पृशेत् पृच्छेच 1 । त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायगो वेदितव्या इत्येके । तत्तु न सम्यक्, पड्विधो हि रोगाणां विज्ञानोपायः । तद्यथा— पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ॥ ४ ॥

तत्र श्रोत्रेन्द्रियविज्ञेया विशेषा रोगेषु व्रणास्रावविज्ञानीयादिपु वक्ष्यन्ते — ' तत्र सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति ' इत्ये-वमादयः । स्पर्शनेन्द्रियविज्ञेयाः शीतोष्ण क्ष्णकर्कशमृदुकठिनत्वा-दयः स्पर्शविशेषा ज्वरशोफादिषु । चक्षुरिन्द्रियविज्ञेयाः, शरीरोपच-यापचयायुर्लक्षणबलवर्णविकारादयः । रसनेन्द्रियविज्ञेयाः प्रमेहा-दिषु रसविशेषाः । घ्राणेन्द्रियविज्ञेया अरिष्टलिङ्गादिषु व्रणानामत्र-गानाञ्च गन्धविशेषाः । प्रश्नेन च विजानीयाद्देशं कालं जातिं सात्म्य-मातसमुत्पत्तिं वेदनासमुच्छ्रायं वलमन्तरग्नि वातमूत्रपुरीषाणां प्रवृत्त्यप्रवृत्ती कालप्रकर्षादींश्च विशेषान् । श्रात्मसदृशेषु विज्ञानाभ्यु-• पायेषु तत्स्थानीयैर्जानीयात् ॥ ५ ॥

मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च । विश्वासकारको मायावी, ततो नञ्तत्पुरुषः; तेनाकुहकेन ।: १ “ दर्शनप्रश्न संस्पर्शैः परीक्षा त्रिविधा स्मृता ” इति चक्रः । २ श्रोत्रत्वक्चक्षूरसनब्राणप्रश्नात्मकैरित्यर्थः । ३ यद्यस्य सेवितं सत् सुखाय सम्पद्यते तत्तस्य सात्म्यम्, प्रकृत्यनुकूलमित्यर्थः । तच्च द्विविधम् - चेष्टाऽऽख्यमाहाराख्यं च । चेष्टाऽऽख्यं कायवाङ्मनो भेदात्त्रिविधम् । आहा-राख्यं रसभेदात् षडविधम् । चरके - " सात्म्यं नाम तद्यदात्मन्युपशेते । तत्त्रिविधम्-प्रवरावरमध्यविभागेन । तत्र सर्वरसं प्रवरम्, एकरसमवरम्, मध्यन्तु प्रवरावरमध्य-स्थम् ” इति । ४ आतङ्कसमुत्पत्तिं = रोगकारणम् । ' आतङ्को रोगसन्तापशङ्कासु मुरजध्व-नौ ' इति मेदिनी । वेदनासमुच्छ्रायं = वातादिवेदनोद्गतिम् । ५ आत्मसदृशेषु = वात-पित्तश्लेष्मरूपदोषोचितेषु । श्रीहाराणचन्द्रस्तु – ' आत्मासदृशेषु ' इति पाठं मत्वा उचिता परपर्यायोऽयं सदृशशब्दः । ' सदृशं समे उचिते ' इति मेदिनी । ततश्चात्मासदृशेषु आत्मनोऽनुचितेष्वयुक्तेषु होनेष्विति यावदिति व्याख्याति । ६ शब्दस्पर्शरूपरसगन्ध-स्तत्स्थानीयैरित्यर्थः । ७ पञ्चज्ञानेन्द्रियद्वारा समोचीनतया न परीक्षिता इत्यर्थः । ८ दुराख्याता = रोगिणा यथायथं नोक्ताः 1

पृष्ठ 206

सुश्रुत संहिता चौखम्बा, पृष्ठ 206 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

' सुश्रुतसंहिताया Digitized by Arya Samaj Foundation ४८ i and eGangotri [ अ ० ११ तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ॥ ६ ॥

एवमभिसमीक्ष्य साध्यान् साधयेत्, योध्यान् यापयेत, असा-ध्यान्नोपक्रमेत्, परिसंवत्सरोत्थितश्च विकारान् प्रायशो वर्जयेत् ॥७ ॥

तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति । तद्यथा— श्रोत्रियनृपतिस्त्रीबालवृद्धभीरुराजसेवक कितवदुर्बल वैद्यवि-दग्धव्याधिगोपकदरिद्रकृपणक्रोधनानामनात्मवतामनाथानाञ्चैवं नि-रूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ॥ ८ ॥

भवति चात्र ।

स्त्रीभिः सहास्यां संवासं परिहासञ्च वर्जयेत् ।

दत्तञ्च ताभ्यो नादेर्यमन्नादन्यद्भिषग्वरैः ॥ ९ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने विशिखाऽनुप्रवेशनीयो नाम दशमोऽध्यायः ॥१० ॥

एकादशोऽध्यायः ।

अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः; छेद्यभेद्यलेख्यकरणात्, १ साध्यान् = सुसाध्यदुःसाध्यभेदेन द्विविधान् । २ याप्यलक्षणम् - " यापनीयं तु तं विद्यात् क्रिया धारयते हि यम् । क्रियायां तु निवृत्तायां सद्यो यश्च विनश्यति ॥ ” इति । ३ श्रसाध्यान् = याप्यप्रत्याख्येयप्रभेदेन द्विविधान् । ४ संवत्सरातीतानित्यर्थः । साध्येऽपि रोगे दुश्चिकित्स्यानाह - श्रोत्रियेति । ६ राज्ञाऽनुमतं सर्वं गृह्णीयादिति भावः । चरके– “ न च कदाचित् स्त्रीदत्तमाभिषमादातव्यमननुज्ञातं भर्त्राऽथवाऽध्य-क्षेण ” । आमिषं भोग्यवस्तु । श्रामिषं भोग्यवस्तुनि ' इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां इति दशमोऽध्यायः रभसः ॥ एकादशोऽध्यायः । ७ पाकश्च विधिश्चेति पाकविधी, क्षारस्य पाकविधी यस्मिन्नध्याये स क्षारपाकविधि-स्तम् । पाकः क्षारनिर्माणपद्धतिः । विधिरवचारणम् । ८ यद्यप्यग्निजलौकसोः प्राधान्यं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 207

सुश्रुत संहिता चौखम्बा, पृष्ठ 207 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१ T-7७ ॥ ॥ वे-१० ॥ तु र्नः । दिति ध्य-विधि-gitized by Arya Samaj Foundation Chennai and eGangotri अ ० ११ सूत्रस्थानम् prai त्रिदोषन्नत्वात्, विशेषक्रियाऽवचारणाच्च ॥ ३ ॥

तत्र क्षरणात् क्षरणनाद्वा क्षारः ॥ ४ ॥

४ ९ नानौषधिसमवायात्र्त्रिदोषन्नः, शुक्लत्वात् सौम्यः, तस्य सौ-म्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा । स खल्वाग्ने-यौषधिगुणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्णः पाचनो विलयनः शोधनो रोपण: शोषण: स्तम्भनो लेखनः कृभ्यामकफकुष्ठविषमेद-सामुपहन्ता पुंस्त्वस्य चातिसेवितः ॥ ५ ॥

सद्विविध: - प्रतिसारणीयः, पानीयश्च ॥ ६ ॥

तत्र, प्रतिसारणीयः कुजुकिटिभ दद्रुमण्डलकिलासभगन्दरार्बुदा-शदुष्टव्रणनाडी चर्मकीलेतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृ-मिविपादिषूपदिश्यते । सप्तसु च मुखरोगेषूपजिह्वाऽधिजिह्वोप-कुशदन्तवैदर्भेषु तिसृषु च रोहिणीषु, एतेष्वेवानुशस्त्रप्रणिधा-पृथगध्याये वक्ष्यते; किन्त्वत्र जलौका: प्रधानम्, अग्निः प्रधानतरः, क्षारस्तु प्रधानतमः । “ अतिशायने तमविष्ठनौ " इति प्रकृष्टार्थे तमप् । क्षारस्य श्रेष्ठत्वमुक्तं वाग्भटेन - “ सर्वश-स्त्रानुशस्त्राणां क्षारः श्रेष्ठो बहूनि यत् । छेद्यभेद्यादिकर्माणि कुरुते विषमेष्वपि । दुःखाव-चार्यशस्त्रेषु तेन सिद्धिमयात्सु च । अतिकृच्छ्रेषु रोगेषु यच्च पानेऽपि युज्यते । ” इति । १ क्षरणात् = दुष्टत्वङ्मांसादीनां शातनात्, क्षणनात् = त्वङ्मांसादीनां हिंसनात् । २ क्षारस्य पूर्वोक्तत्रिदोषघ्नत्व हेतुसाधनपुरस्सरं गुणकर्माह -नानौषधीति । ३ चरके— “ तीक्ष्णोष्णो लघुरुष्णश्च क्लेदी पाकी विदारणः । दाहनो दीपनश्छेत्ता सर्वक्षारोऽग्नि-सन्निभः ॥ ” इति । पाचनः = बाह्यप्रयोगे व्रणशोथस्य पक्ता, विलयन: - वातकफभूयि-ष्ठस्य शोफस्य, शोधनः - दुष्टव्रणादेः । योगशक्तिप्रभावात्तिलयवकल्कवत् क्षारस्य व्रण-शोधनरोपणत्वे न विरोधः । अन्ये तु - सिरादिक्षणनभयाच्छुद्धे व्रणे रोपणार्थं चारो न ह्यवचार्य्यते, शुद्धो व्रणः स्वयमेव रोहति । तस्माद् ' रोपण: ' इति पाठः पारम्पर्येणेति । ४ ‘ उपहन्ता ' इत्यस्य कृम्यादिभिः प्रत्येकं सम्बन्धः । प्रतिसारणीयः = बाह्यपरि-मार्जनः, पानीयः = आभ्यन्तरपरिमार्जनः । तदुक्तं सङ्ग्रह - " स द्विविधो बाह्याभ्यन्तर-परिमार्जनभेदेन ” इति । तत्र पानार्हक्षारवृक्षा रसार्णवे – “ तिलापामार्गकदलीपलाशशि-ग्रुमोचकाः । मूलार्द्रकचिञ्चाऽश्वत्था वृक्षक्षाराः प्रकीर्तिताः ॥ ” इति । ५ प्रतिसारणीय प्रभेदक्षारस्य विषयं दर्शयति - कुष्ठेति । ६ “ समुत्थाननिदाना-भ्यां चर्मकीलः प्रकीर्तितः ” इत्यर्शोनिदानपठितः । ७ उक्तं च- " वातात् पित्तात्कफात् ४ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 208

सुश्रुत संहिता चौखम्बा, पृष्ठ 208 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० Digitized by Arya Sam स्सुश्रुतसंहिता aimarand eGangotri नमुक्तम् ॥ ७ ॥

[ अ ० ११ पानीयस्तु गंरगुल्मोदराग्निसङ्गाजी रोचकानाह शकेराश्मय-भ्यन्तरविद्रधिकृमिविपार्शस्सुपयुज्यते ॥ ८ ॥

अहितस्तु रक्तपित्तज्वरितपित्तप्रकृति बालवृद्ध दुर्बल भ्रममदमू-छतिमिरपरी तेभ्योऽन्येभ्यश्चैवंविधेभ्यः ॥ ९ ॥

तञ्चेतरक्षारवद् दग्ध्वा परिस्रावयेत् । तस्य विस्तारो s -यंत्र ॥ १० ॥

अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च । तं चिकीर्षः शरदि गिरि-सानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यम-वयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा खण्डशः प्रकल्प्यावपाटय निर्वाते देशे निचितिं कृत्वा सुधाशर्कराश्च त्रिभ्यो रक्ताद्रोहिण्य ईरिताः । अन्त्ये सद्यो मारयत आद्यास्तिस्रः क्रियां विना " ॥ इति । चरके— “ वातपित्तकफा यस्य युगपत्कुपितास्त्रयः । जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समु-च्छ्रिताः " इत्यादिना रोहिणीनिदानमुक्तम् । १ पानीयप्रभेदक्षारस्य विषयं दर्शयति — गरेति 1 । सङ्ग्रहे— “ नानाप्राण्यङ्गश-मलविरुद्धौषधिभस्मनाम् । विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः । कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः " ॥ गुल्मं वक्ष्यति - " हृद्वस्त्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः । चयापचयवान् वृत्तः स गुल्म इति कीर्तितः " ॥ २ पानीयक्षारस्या-विषयं दर्शयति — रक्तेति । ३ विषमद्यशोणितोत्थविकारोमदः । ४ परीत-शब्दस्य भ्रमादिभिः सह प्रत्येकमभिसम्बन्धः । ५ यथेतरक्षारस्य प्रतिसारणीयाख्यस्य काष्ठदाहः, षड्गुणोदकपाकः, त्रिभागशेषकरणानन्तरं परिस्रावणं; तथा पानीयस्यापि पाकविधिर्द्वितीयपाकवर्जे स्रावणं च कार्यम् । ६ उत्तरतन्त्रे गुल्मादिष्वध्यायेषु । ७ प्रतिसारणीयस्य, पाकविधिं निर्दिशति - तमिति । ८ श्रसित मुष्ककं = कृ-ष्णपुष्पपाटलितरुम्, ‘ गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ' इत्यमरः । अधि-वास्य = मन्त्रबलिपूजादिभिरधिवासनं विधाय, तदुक्तं सङ्ग्रहे– “ सुरापललसु-मनोऽक्षतादिभिश्चतुर्दिशं बलिं कृत्वा प्रदक्षिणं चाभ्यच्यैनमधिवासयेत् ” दधिवासनं भूतानामपसारणार्थं भवतीत्युक्तं तन्त्रान्तरे— “ निवसन्तीह भूतानि । एत-यान्यस्मिन् कानिचिद् द्रुमे । श्रपक्रामन्त्वतश्छेद्यः परार्थे श्वो ह्ययं द्रुमः ” ॥ ९ निचितिं = काष्ठानामौत्तराधर्येणावस्थितिम् । १० सुधाशर्कराः = शुक्लखढिकाः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 209

सुश्रुत संहिता चौखम्बा, पृष्ठ 209 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ T-य -न ॥ 1 अ ० ११ Jigitized by Arya Samaj सूत्रस्थानम् opnai: dation Chennai and eGangotri ५१ CC - 0. Gurukul Kangri Collection, Haridwar प्रक्षिप्य तिलनालैरादीपयेत् । अथोपशान्तेऽग्नौ तद्भस्म पृथग् गृह्णी-याद्भस्मैशर्कराश्च । अथानेनैव विधानेन कुटजपलाशाश्वकर्णपा-रिभद्रकविभीतकारग्वधतिल्वकार्कस्नुह्यप । मार्गपाटलानक्तमालवृषक-दलीचित्रकपूति केन्द्रवृक्षास्फोताश्वमारकसप्तच्छदाग्निमन्थगुञ्जाश्चत-स्त्रश्च कोशातकीः समूलफलपत्र शाखा दहेत् । ततः चारैद्रोणमुद-कद्रोणैः पभिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य, महति कटाहे शनैर्दव्यऽवघट्टयन् विपचेत् । स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलच तंमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रयेत् । तत एव च क्षारोदकात् कुडवमध्यर्धं वाऽपनयेत् । ततः कटशर्कराभस्म शर्कराक्षीर पाकशङ्खनाभीरग्नि-वर्णाः कृत्वाऽऽयसे पात्रे तस्मिन्नेव नारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसम्मितं शङ्खनाभ्यादीनां " प्रमाणं प्रतिवाप्य सतत-मप्रमत्तश्चैनमवघट्टयन् विपचेत् _१२ । स यथा नातिसान्द्रो नातिद्रवश्च भवति तथा प्रयतेत । अथैनमागतपाकमवतार्थ्यानुगुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ॥। ११ ॥ १ भस्मशर्कराःः राः = दह्यमानार्द्रकाष्ठरसाच्छर्करें वान्योन्य संहताः । उक्तञ्च— “ मुष्ककाद्दह्य-मानात्तु रसः प्रच्यवते हि यः । भस्मना सह संयुक्तः काठिन्यमुपगच्छति ॥ तां भस्मश-कंरामाहुः ” इति निघण्टौ । २ अश्वकर्णः = ' गन्धियाभॉट ' ' गजहुंड ' इति नाम्ना पूर्वदेशे प्रसिद्धः पारीषाश्वत्थः, शालभेदो वा । ' साले तु सर्जकार्याश्वकर्णकाः सस्यसंवरः’इत्य-मरः । ३ इन्द्रवृक्षः = श्वेतपुष्पकुटजतरुः, आस्फोता - सारिवा । ४ मूलादीनां चतुणां कुटजादिभिः सह प्रत्येकमभिसम्बन्धः । ५ क्षारद्रोणं = भागद्वयं मुष्ककभस्मनो भागकं कुटजादिभस्मनो मिश्रीकृतमुच्यते । ६ परिस्राव्य = एकविंशतिवारान् वाससा गाल-यित्वेत्यर्थः । ७ तं = क्षारक्काथम् । = इतरं = क्षारभस्मकल्कम् । ९ अपन-येत् = कटशर्कराऽऽदीनि द्रव्याणि प्रत्येकं कुडवप्रमाणानि अध्यर्ध कुडव प्रमाणानि वा-ऽऽवपॆदित्यर्थः; कुडवमित्यस्य श्रध्यर्धमित्यत्र सम्बन्धात् । १० क्षीरपाकः = जल-शुक्तिः । ११ आदिशब्दात्तन्त्रान्तरोक्तान्यावाप्यानि ग्राह्याणि – “ श्लक्ष्णं शकृद्दक्षशि-खिगृध्रकङ्ककपोतजम् । चतुष्पात्पक्षिपित्तालमनोह्वालवणानि च ॥ ” इति । १२ षट्-त्रिंशदधिक पञ्चदशशतोदकपलैः सह विपचेदित्यर्थः । पच्यमानस्य तस्य तैक्ष्ण्याच्छर-क्तपिच्छिलादयो गुणाः षोडशांशावशिष्टे षण्णवतिपलप्रमाणे भवन्ति ।

पृष्ठ 210

सुश्रुत संहिता चौखम्बा, पृष्ठ 210 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२ Digitized by Arya Sam an सुश्रुतसंहितायां -The - and eGangotri [ अ ० ११ एष एवाप्रतीवापः पक्वः संव्यूहिमो मृदुः ॥ १२ ॥

प्रतीवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलकीपूतिकप्रवा-लतालपत्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाः श्लक्ष्ण-चूर्णाः शुक्तिप्रमाणाः प्रतीवापः । स एव सप्रतीवापः पक्वः पाक्य-स्तीक्ष्णः ॥ १३ ॥

तेषां यथाव्याधिबलमुपयोगः ॥ १४ ॥

क्षीणबले तु क्षारोदकमावपेद् बलकरणार्थम् ॥ १५ ॥

भवतश्चात्र ।

नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः ।

अँविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः । १६ ॥

“ प्रतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्य सर्पिताः ।

सान्द्रताऽपक्कता हीनद्रव्यता दोष उच्यते ॥ १७ ॥

१० क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपे देशेऽस-१ अत्र चक्र: - “ क्षारो द्विविधः - सप्रतीवापोऽप्रतीवापश्च । आवापानन्तरं यत्पुनः श-क्त्यतिशयार्थं दीयते सप्रतीवापः । तत्राप्रतीवापो मृदुः संव्यूहिमसंज्ञः, सप्रतीवापश्च पा-क्य संज्ञस्तीक्ष्णः ” इति । संव्यू हिमश्च दन्त्यादिद्रव्यसहितः क्षारः । २ पाक्यसंज्ञं तीक्ष्णं संव्यूहिमं क्षारं प्रतिपादयति - प्रतीवाप इति । " द्रवद्रव्ये द्रव्यान्तरं श्लक्ष्णपिष्टं दीयते स-प्रतीवाप उच्यते ” इत्यरुणदत्तः । ३ द्रवन्ती = चीरितपत्रदन्तीप्रभेदा । लाङ्गलकी -कुष्ठदुष्टव्रणनाशिका कलिकारिका, पूतिकप्रवालाः = कण्टकिकरञ्जपल्लवाः, ' प्रकीर्यः पूति-करजः पूतीकः कलिमारकः ' इत्यमरः । माधवमते - पूतिक इति ह्रस्वेकारघटितोऽपि । ' प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे'इति हेमचन्द्रः । ४ सुवर्चिका = जतुकाख्या, भाषायां ‘ चकवत ' इति नाम्ना व्यवहृता । ५ क्षीणं बलं यस्यासौ तस्मिन् क्षीणबले, हीनशक्तिकक्षारे, तु क्षारोदकं क्षाराम्बु । तदुक्तं वाग्भटे – “ बलार्थं क्षीणपानीये क्षाराम्बु पुनरावपेत् ” इति । ६ क्षारस्य गुणानाख्याति – नैवेति । ७ लक्ष्णः = = अ कर्कशः, त्त्वगिन्द्रियसुखप्रद इत्यर्थः । ८ अविष्यन्दी = योऽवचारितो न प्रसर्पति । ९ क्षार-स्य दोषानभिधत्तं— अतीति । प्रतिशब्दस्य मार्दवादिभिः प्रत्येकमभिसम्बन्धः । तदुक्तम्– “ अत्यौष्ण्यमतिपैच्छिल्यमतितैक्ष्ण्यं विसर्पिता । अत्यर्थं मार्दवं श्वैत्यमत्यर्थं सान्द्रमेव च ॥ हीनौषधविपक्वत्वं क्षारदोषा नव स्मृताः । ” इति । १० प्रतिसारणीयक्षारविधिमभिदधाति — तत्रेति । क्षारस्य साध्यश्चासौ विधिस्तेन CC - 0. Gurukul Kangri Collection, Haridwar