सुश्रुत संहिता चौखम्बा — पृष्ठ 241–250

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 241–250

पृष्ठ 241

सुश्रुत संहिता चौखम्बा, पृष्ठ 241 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६ अ ० १६ ] छिडे र्याः ॥ निरू इति T च स्त-॥५ ॥

श-शु चा-| ६ || ि | ८ || । क-। JI-ले. रा. त्य म्ब.. Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।

एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम् ।

दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ॥ ९ ॥

८३ तत्र समासेन पञ्चदेशकर्णबन्धनाकृतयः । तद्यथा— ने मिस न्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वे-धिमो व्यायोजिमः कपाटसन्धिकोऽर्द्धक पाटसन्धिकः सङ्क्षिप्तो हो-नकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्टक इति । तेषु, पृथुलायतसमो-भयपौलिर्नेमिसन्धानकः । वृत्तायतसमोभयपालिरुत्पलभेद्यकः । ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः । अभ्यन्तरदीर्घंकपालिरासङ्गिमः । बाह्यदीर्घौकपालिर्गण्डकर्णः । पालिरुभयतोऽप्याहार्य्यः । पीठोपम-पालिरुभयतः क्षीणपुत्रिकांश्रितो निर्देधिमः । स्थूलाणुसमविषमपा-लिययोजिमः । अभ्यन्तरदीधैकपालिरितराल्पपालिः कपाटस-न्धिकः । बाह्यदीयैकपालिरितराल्पपालिरर्ध कपाटसन्धिकः । तत्र दशैते कर्णबन्धविकल्पाः साध्याः । तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः । सङ्क्षिप्तादयः पञ्चासाध्याः । तत्र शुष्कंशष्कुलिरु-त्सन्नपालिरितराल्पपालिः सङ्क्षिप्तः । अनधिष्ठानप लिः पर्यन्तयोः क्षीणमांसो हीनकर्णः । तनुविषमाल्पपालिर्वल्लीकर्णः । ग्रथितमांस-स्तब्धसिरासन्ततसूक्ष्म पालिर्यष्टिकर्णः । निर्मांससङ्क्षिप्ताग्राल्पशो-रिंगत पालिः काकौष्ठक इति । बद्धेष्वपि तु शोफदाहरागपाकपिडका-स्रावयुक्ता न सिद्धिमुपयान्ति ॥ १० ॥

१ सन्धेयकर्णस्य सन्धानार्थमसन्धेयकर्णस्य च परित्यागार्थं वक्ति – तत्रेति । ' २ यद्यपि पञ्चदशकर्णेषु नेमिसन्धानकादिदशकर्णा बन्धनार्हाः सङ्क्षिप्तादिपञ्चकर्णा असाध्यत्वादबन्धनार्हास्तथाऽप्येषां पञ्चानां वन्धसम्बन्धाद् वन्धसम्भावनामात्रमित्यव-सेयम् । ३ पालिः = कर्णलताग्रभागः, ' पालिः कर्णलताग्रेऽस्रौ पङ्क्तावङ्कप्रभेदयोः ’ इति मेदिनी । ४ कर्णपालिकाया उपरि कर्णकुहरमुभयतो यत् किञ्चिदुद्गता सा पुत्रिका तदाश्रितः, निर्वेधिमः = व्यधेन निर्वृत्तः । ५ अमी बन्धविकल्पा नित्यकर्मदर्श-नादभ्यासाच्च जायन्ते । ६ असाध्याः = सन्धानायाशक्याः । ७ शुष्का शष्कुलिः कर्ण-रन्ध्रं यत्र स शुष्कशष्कुलिः कर्ण इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 242

सुश्रुत संहिता चौखम्बा, पृष्ठ 242 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— भवन्ति चात्र । यस्य पालिद्वयमपि कर्णस्य न भवेदिह । [ अ ० १६ कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ॥ ११ ॥

बौह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् ।

आभ्यन्तरायां दीर्घायां बाह्यसन्धिरुदाहृतः ॥ १२ ॥

एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या ।

तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ॥ १३ ॥

गण्डादुत्पाटय मांसेन सानुबन्धेन जीवता ।

कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् ॥ १४ ॥

अतोऽन्यतमं बन्धं चिकीर्षुरग्रहो पहरणीयोक्तोपसम्भृतसम्भारं विशेषतश्चात्रोपहरेत्, सुरामण्डं क्षीरमुदकं धान्याम्लं कपालंचूर्णञ्चे-ति 1 । ततोऽङ्गनां पुरुषं वा ग्रथित केशान्तं लघु भुक्तवन्तमामैः सुपरि-गृहीतं च कृत्वा बन्धमुपधार्य्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति । तत्र वातदुष्टे धान्याम्लोष्णो-दुकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णो-दुकाभ्यां प्रक्षाल्य कर्णी, पुनरवलिख्यानुन्नतमहोनम विषमञ्च कर्णसन्धि सन्निवेश्य, स्थितरक्तं सन्दध्यात् । ततो मधुघृतेनाभ्यज्य पिचुप्लोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलञ्च बद्ध्वा कपालचूर्णेनावकीर्य्यचारिकमुपदिशेद् द्विव्रणीयोक्तेन च १ सन्धेयकर्णस्य निर्वेधिमसंज्ञस्य सन्धानमभिधत्ते – यस्येति । २ कर्णशष्कुल्यां यतः पालिकाया श्रारम्भस्तत्कर्णपीठम् । ३ सन्धेयकर्णानां व्यायोजिमकपाटस-न्धिकार्धकपाटाख्यानां सन्धानमाख्याति – बाह्यायामिति । यदा बाह्या कपो-लदूरवर्तिनी पालिदीर्घा स्यात्तदाऽऽभ्यन्तरा कपोलसंश्रयी सन्धिः कर्तव्यः । यदा चाभ्यन्तरा पालिदीर्घा स्यात्तदा बाह्यः सन्धिः कर्तव्य इति भावः । ४ सन्धेयास-ङ्गिमस्य सन्धानमभिदधाति - एकैवेति । ५ आहार्यस्य सन्धानमाह - गण्डादिति । ६ सानुबन्धेन = गण्डप्रदेशलग्नेनेत्यर्थः । ७ कपालचूर्णं = नूतनमृद्भाण्डचूर्णम् । ८ ग्रथितकेशान्तं = केशव्याकुलतया कर्माभिघातभयाद् बन्धविश्लेषभयाद्वा सङ्ग्रथित-

पृष्ठ 243

सुश्रुत संहिता चौखम्बा, पृष्ठ 243 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ ] Digitized by Aryaption Chennai and eGangotri ८५ विधानेनोपचरेत् ॥ १५ ॥भवति चात्र ॥

विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् १६ ॥ व्यवायैमग्निसन्तापं वाक्श्रमञ्च विवर्जयेत् ॥ ( आमतैलपरीषेकं त्रिरात्रमवचारयेत् । ततस्तैलेन संसृष्टं त्र्यहादपनयेत् पिचुम् ॥ १ ॥ )

न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा सन्दध्यात् । हि वातदुष्टे रक्ते रूढोऽपि पैरिपुटनवान् । पित्तदुष्टे दाहपाक-रागवेदनावान् । श्लेष्मदुष्टे स्तब्धः कण्डूमान् । अतिप्रवृत्तर श्यावशोफवान् । ' क्षीणोऽल्पमांसो न वृद्धिमुपैति ॥ १७ ॥

आँमतैलेन त्रिरात्रं परिषेचयेत् । त्रिरात्राञ्च पिचुं परिवर्तयेत् । स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं शनैरशनैरभिवर्द्ध-येत् । अतोऽन्यथा संरम्भदाह पाकरागवेदनावान्, पुनश्छिद्यते वा ॥१८ ॥

अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः । तद्यथा — गोधाप्रतुदवि-किरानूपौदक वसामज्जानौ पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं सम्भृत्यार्कालर्क बलाऽतिबलाऽनन्ताऽपामार्गाश्वगन्धाविदारिगन्धाक्षी-रशुक्लाजले शूकमधुर वर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनु-गुप्तं निदध्यात् ॥ १ ९ ॥ " स्वेदितोन्मर्दितं कर्ण स्नेहेनैतेन योजयेत् । · कचावयवम् । १ विधानेन = श्रालेपनाद्यौषधेन । २ परिहरणीयानाह - विघट्टन-मिति । ३ व्यवायः = मैथुनम् । ४ अशुद्धरक्तकर्णस्य सन्धाने दोषं दर्शयति— सहीति । ५ त्वच उच्चटनं सशोफः कर्णलतिकारोगो वा परिपुटनम् । तदुक्तं चिकित्सिते— “ सौकुमार्याच्चिरोत्सृष्टे सहसाऽभिप्रवर्तते । कर्णशोफो भवेत्पाल्यां सरुजः परिपोटवान् ॥ ” इति । ६ अतिप्रवृत्तरक्तकर्णस्य सन्धाने दोषमाख्याति – अतीति । ७ क्षीणकर्णस्य सन्धाने दोषमाह- क्षीण इति । ८ विशेषविधिमभिधत्ते — आमेति । ९ जलशूकः = शैवालः, जलवासी कीटविशेषः; मधुरवर्गः = रसविज्ञानीये वक्ष्य-माणः, पयस्या = विदारीभेदः क्षीरकाकोली, अर्कपुष्पी वा । १० पूर्वोक्तमन्दाराद्योष-घिपाचिततैलावचारणे गुणमाह - स्वेदीति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 244

सुश्रुत संहिता चौखम्बा, पृष्ठ 244 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० १६ अथानुपद्रवः सम्यक् बलवांश्च विवर्द्धते ॥ २० ॥

यवाश्वगन्धायष्ट्याह्वैम्तिलैश्चोद्वर्त्तनं हितम् ।

शैतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः ॥ २१ ॥

तैलं विपक्कं सक्षीरमभ्यङ्गात् पालिवर्द्धनम् ।

ये तु न वर्द्धन्ते स्वेदस्नेहोपपादिताः ॥ २२ ॥

तेषामपाङ्गदेशे तु कुर्य्यात् प्रच्छानमेव तु ।

बाह्यच्छेदं न कुर्वीत व्यापदः स्युस्ततो ध्रुवाः ॥ २३ ॥

बद्धमात्रं तु यः कर्णं सहसैवाभिवर्द्धयेत् ।

आर्मकोशी समाध्मातः चिप्रमेव विमुच्यते ॥ २४ ॥

जात रोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः ।

सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः ॥ २५ ॥

अमिताः “ कर्णबन्धास्तु विज्ञेयाः कुशलैरिह ।

यो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत् ॥ २६ ॥

" कर्णपाल्यामयान्नृणां पुनर्वक्ष्यामि सुश्रुत! । * कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः ॥ २७ ॥

द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः ।

विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके ॥ २८ ॥

दाहविस्फोटजननं शोफः पाकश्च पैत्तिके ।

कण्डूः सश्वयथुः स्तम्भो गुरुत्वञ्च कफात्मके ॥ २ ९ ॥

यथादोषं च संशोध्य कुर्य्यात्तेषां चिकित्सितम् । १ कर्णपालिवर्धनार्थमन्यत्तैलं निर्दिशति – शतावर्येति । २ जीवनैः = काकोल्यादिद्रव्यैः । ३ अवर्धमानकर्णानां वर्धनोपायमाह - य इति देशे = कर्णशष्कुल्याः किञ्चिदधोदेशै । ५ प्रच्छानम् = ईषत्तिर्यक्छेदनम् । ४ अपाङ्ग- । ६ बाह्यच्छेदं = कर्णवाह्यलतिकाच्छेदम् । ७ व्यापदः = कर्णलतिका त्रुटनादिव्यापद इत्यर्थः । अथवा श्रन्ध्यादयः, वक्ष्यति शारीरे – “ भ्रूपुच्छयोरन्धोऽक्ष्णोर्बाह्यतोऽपाङ्गौ नाम तत्रान्ध्यं दृष्टयुपघातो वा " इति । ८ आमकोशी = असम्यग्रूढमध्य इत्यर्थः । ९ वर्धनयोग्यकर्णं निर्दिशति - जातेति । १० कर्णबन्धानाममितत्वं दर्शयति— अमिता इति 1 । ११ कर्णपाल्यामयान् तच्चिकित्सां चाह – कर्णेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 245

सुश्रुत संहिता चौखम्बा, पृष्ठ 245 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ॥ ३० ॥

मुद्रीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा ।

य एवं वेत्ति दोषाणां चिकित्सां कर्त्तमर्हति ॥ ३१ ॥

अत ऊर्ध्वं नामेलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् ।

उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ॥ ३२ ॥

अवैमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा ।

स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ॥। ३३ ॥

अपामार्ग: सर्जरस: पाटलालकुचत्वचा ।

ज्लाट के प्रलेपः स्यात्तैलमेभिश्च पाचयेत् ॥ ३४ ॥

शम्पाकशिपूतीकान् गोधा मेदोऽथ तद्वसाम् ।

वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ॥ ३५ ॥

मुत्पुटके दद्यात्तैलमेभिश्च साधितम् ।

गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् ॥ ३६ ॥

श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् ।

पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम् ॥। ३७ ॥

दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् ।

व्रणीभूतस्य देयं स्यादिदं तैलं विजानता ॥ ३८ ॥

मधुक क्षीरकाकोली जीव काद्यैर्विपाचितम् ।

गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे ॥ ३ ९ ॥

प्रलेपनमिदं दद्यादवसिच्यावमन्थके ।

प्रपौण्डरीकं मधुकं समङ्गां धवमेव च ॥ ४० ॥

तैलमेभिश्च सम्पक्कं शृणु कण्डूमतः क्रियाम् ।

सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् ॥। ४१ ॥

एतैरालेपनं दद्यात्तैलमेभिश्च साधितम् ॥ ४२ ॥।

८७ १ नामलिङ्गैः – नामभिराख्यातानि लिङ्गानि नामलिङ्गानि तैः । २ उत्पाटयति पाकेन उन्मूलयतीत्युत्पाटकः, उत्पुटं मांसाभिवृद्धयोद्गतसन्धिं करोतीत्युत्पुटकः, श्यावः रक्तदुष्टया श्याववर्णः । ३ अवमथ्नाति मन्थनमिव पीडयतीत्यवमन्थकः । ४ लकुचः = ' बड़हर ' इति नाम्ना प्रसिद्धः। ५ अनन्ता = सारिवा । ६ समङ्गा - लज्जालुः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 246

सुश्रुत संहिता चौखम्बा, पृष्ठ 246 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां—

ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु ।

ततः सैन्धवचूर्णन्तु घृष्ट्वा लेपं प्रदापयेत् ॥ ४३

लिखित्वा तत् स्रुतं घृष्ट्वा चूर्णैर्लोभ्रस्य जम्बुले ।

क्षीरेण प्रतिसाय्यैनं शुद्धं संरोपयेत्ततः ॥ ४४ ॥

मधुपर्णी मधूकञ्च मधुकं मधुना सह । [ अ ० १६ लेपः स्राविरिण दातव्यस्तैलमेभिश्च साधितम् ॥ ४५ ॥

पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः ।

जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् ॥ ४६ ॥

विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् ।

नासाप्रमाण पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बितस्य ॥ ४७ ॥

तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् ।

विलिख्य चाशु प्रतिसन्दधीत तत् साधुबन्धैर्भिपगप्रमत्तः ॥ ४८ ॥

सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा ।

प्रोन्नम्य चैनामवचूर्णयेत्तु पत्तङ्गयष्टीमधुकाञ्जनैश्च ॥ ४ ९ ॥

सञ्छाद्य सम्यक् पिचुना सितेन तैलेन सिचेद्सकृत्तिलानाम् ।

घृतञ्च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ॥ ५० ॥

रूढञ्च सन्धानमुपागतं स्यात् तदर्द्धशेषन्तु पुनर्निकृन्तेत् ।

हीनां पुनर्वर्द्धयितुं यतेत समाञ्च कुर्यादतिवृद्ध मांसाम् ॥ ५१ ॥

नौडीयोगं विनौष्ठस्य नासासन्धानर्वाद्वधिम् ।

य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ॥ ५२ ॥

इति श्री सुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधवन्धविधिर्नाम षोडशोऽध्यायः ॥ १६ ॥

१ विश्लेषिताया नासिकाया सन्धानविधिमाह – विश्लेषिताया इति । ” २ नासाप्रमाणं - • विश्लेषितांशपरिमितम् । ३. नासिकाग्रं = वियोजितांशोपरिभागम् । ४ नलकृत मे रण्डपत्र नालकृतं वा नाढीद्वयम् । ५ छिन्नस्योष्ठस्य सन्धानविधिमभिधत्ते - नाडीति । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां षोडशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 247

सुश्रुत संहिता चौखम्बा, पृष्ठ 247 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri अथात सूत्रस्थानम् ।

सप्तदशोऽध्यायः ।

आपकैषणीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

८ ९ शोफे समुत्थाना ग्रन्थिविद्रध्यलजीप्रभृतयः प्रायेण व्याधयोऽ-भिहिता अनेकाकृतयः, तैर्विलक्षणः पृथुर्मथितः समो विषमो वा त्वङ्मांसस्थायी दोषसङ्घातः शरीरैकदेशोत्थितः शोर्फ इत्युच्यते ॥३ ॥

सँ षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः । तस्य॒ दोष रूपव्यञ्जनैर्लक्षणानि व्याख्यास्यामः । तत्र, वातशोफोऽरुणः कृष्णो वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषा भवन्ति । पि-त्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसार्योषादयश्चात्र वेदनाविशेषा भवन्ति । श्लेष्मशोफः पाण्डुः शुक्लो वा कठिनः शीतः स्निग्धो मन्दा-नुसारी कण्ड्वादयश्चात्र वेदनाविशेषा भवन्ति । सर्ववर्णवेदन: स-न्निपातजः । पित्तवच्छोणितजोऽतिकृष्णश्च । पित्तरक्तलक्षण आग-न्तुहितावभासश्च ॥ ४ ॥

सं यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न सम्भावितः प्रशमयितुं क्रियाविपर्ययाद् बहुत्वाद्वा दोषारणां तदा पाकाभिमुखो भवति ॥ तस्यामस्य पच्यमानस्य पकस्य च लक्षणमुच्यमानमुपधारय । तत्र, सप्तदशोऽध्यायः । १ आमं विपच्यमानं चेति वक्ष्यमाणत्वादत्रामशब्दात्पच्यमानोऽपि ज्ञातव्यः । तथा च- आमचं पच्यमानश्च पक्वश्च तेषामेषणं विज्ञानं विद्यते यस्मिन् स आमप-क्वैषगरी त्यस्तम् । २ शोथमुपपादयति – शोफेति । समुत्तिष्ठन्त्यनेनेति समुत्थान श्राकारः, शोफः समुत्थान एषामिति शोफसमुत्थानाः । ३ विलक्षणः = ग्रन्थ्यादि-रोगविशेषेभ्यो भिन्नः । ४ शरीरैकदेशोत्थित इत्युक्त्याऽस्य शोथस्य पृथक्त्वं सूच्यते । ५ शोफः = व्रणशोथः । ६ व्रणशोथस्य षाड्विध्यं दर्शयति – स इति । ७ वातादिरूपैर्वर्णादिभिरित्यर्थः । ८ प्रलेपनक्वाथपानादिबाह्याभ्यन्तरैः शोधान वचारणे दोषं, कथयति · त्यादित्यर्थः — स यदेति । ९ क्रियाविपर्ययात् = अतर्पणादिक्रियावैपरी-। १० पाकाभिमुखस्यामशोथस्य लक्षणमभिधत्ते = तत्रेति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 248

सुश्रुत संहिता चौखम्बा, पृष्ठ 248 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ ० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० १७ मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टम् । सूर्चिभिरिव निस्तुद्यते दश्यत इव पिपीलि-काभिस्ताभिश्च संसर्प्यत इव छिद्यत इव शस्त्रेण भिद्यत इव शक्ति-भिस्ताड्यत इव दण्डेन पीड्यत इव पाणिना घट्यत इव चाङ्गु-ल्या, दह्यते पच्यत इव चाग्निक्षाराभ्याम्, ओषैचोपपरोदाहाश्च भवन्ति । वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति । आध्मातत्रस्तिरिवातर्तंश्च शोफो भवति, त्वग्वैवर्ण्य शोफाभिवृद्धिर्ध्व-रदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गम् । वेद्नोपशान्तिः पाण्डु-ताऽल्पशोफता बलीप्रादुर्भावत्वक्परिपुटनं निम्न्नदर्शनमङ्गुल्याऽवपी-डिते प्रत्युन्नमनं, बस्ताविवोदकसरणं पूयस्य, प्रपीडयत्येकँम-न्तमन्ते वाऽवपीडिते, मुहुर्मुहुस्तोदः कण्डूरुन्नतता व्याधेरुपद्रवशा-न्तिर्भक्ताभिकाङ्क्षा च पक्कलिङ्गम् ॥ ५ ॥

कफजेषु तु रोगेषु * गम्भीरगतित्वादभिघातजेषु वा केषुचिद-समस्तं पक्वलक्षणं दृष्ट्वा पक्कमपकमिति मन्यमानो भिषग् मोहमु-पैति । यत्र॑ हि त्वक्सवर्णता शीतशोफता स्थौल्यमल्परुजताऽश्म-वच्च " घनता, न तत्र मोहमुपेयादिति ॥ ६ ॥

II भवन्ति चात्र ।

आमं विपच्यमानं च सम्यक् पक्वञ्च यो भिषक् ।

जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ॥ ७ ॥

वाताहते नास्ति रुजा न पाकः पित्ताहते नास्ति तस्मात् समस्ताः परिपाककाले पचन्ति शोफात्रय कफाच्च एव दोषाः । || ८ || १ पाकाभिमुखपच्यमानशोथस्य लक्षणं दर्शयति- सूचिभिरिति । २ निःशब्द-स्यात्र भृशार्थकत्वाद् भृशं व्यथत इत्यर्थः । ३ एकदेशिकदाह श्रोषः । ४ श्राततः = त्वक्सङ्कोचरहितः । ५ पाकाभिमुखपक्कशोथस्य लक्षणं वक्ति - वेदेत्यादिना । ६ वस्तावुदकसञ्चरणमिव शोथे पूयसञ्चरणं भवतीत्यर्थः । ७ एकमवयवं प्रपीडयति यपरमप्यवयवं प्रपीडयतीति भावः । ८ रोगेषु = शोथेषु । ९ श्रभिघातजेषु = त्रिवरानुप्रविष्टशल्यादिकारणादभिघातजन्यशोथेष्वित्यर्थः । १० पक्वविज्ञानोपायमाह— यत्रेति । ११ घनता = काठिन्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 249

सुश्रुत संहिता चौखम्बा, पृष्ठ 249 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । ९ १

कालान्तरेणाभ्युदितेन्तु पित्तं कृत्वा वशे वातकफौ प्रसह्य ।

पचत्यतः शाणितमेव पाको मतोऽपरेषां विदुषां द्वितीयः ॥ ९ ॥

तत्र, आमच्छेदे मांससिरास्नाय्वस्थिसन्धिव्यापादनमतिमात्रं शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भावोऽवदरणमने को पद्रव दर्शनं क्षतवि-द्रधिर्वा भवति । सँ यदा भयमोहाभ्यां पक्कमप्यपक्कमिति मन्यमा-नश्चिरमुपेक्षते व्याध वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदीर्योत्सङ्ग महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ॥ १० ॥

भवन्ति चात्र ।

यश्छिनत्त्याममज्ञानाद्यश्च पक्कमुपेक्षते ।

श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ॥ ११ ॥

प्रीक शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक् ।

मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनासहः ॥ १२ ॥

न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते ।

तस्मादवश्यं भोक्तव्यं रोगषूक्तेषु कर्मणि ॥ १३ ॥

प्राणो ह्याभ्यन्तरो नृणां बाह्यप्राणगुणान्वितः ।

धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् ॥ १४ ॥

अल्पो " महान् वा क्रियया विना यः समुच्छ्रितः पाकमुपैति शोफः ।

विशालमूलो विषमो विदग्धः स कृच्छ्रतां यात्यवगाढदोषः ॥ १५ ॥

" आलेपविस्रावरणशोधनैस्तु सम्यक् प्रयुक्तैर्यदि नोपशाम्येत् । इति १ प्रकोपप्रसरस्थानसंश्रयकालावधिनाऽभ्युदितं समन्ततः पुनरुद्गतमित्यर्थः । २ आमपच्यमानव्रणशोथच्छेदने दोषं दर्शयति-— तत्रेति । ३ क्षतजन्यवि-द्रधिरित्यर्थः । ४ भयमोहाभ्यां पक्वशोथस्योपेक्षायामपि दोषं निर्दिशति – स 1 ५ उत्सङ्ग इव, व्रणाशये बहुकालं पूयावस्थानेन · विदारिताभ्यन्त-रप्रदेशनिम्नमुत्सङ्गसादृश्यादुत्सङ्गमित्यर्थः । ६ शस्त्रकर्मणः प्राक् प्रागिति । ७ शस्त्रं = शस्त्रवेदनामित्यर्थः । जोजन्यभारहरणादिशक्तिलक्ष- कर्मोपदिशति— राबलमाभ्यन्तरः प्राणः । ९ पाञ्चभौतिकाहारजन्योपचयलक्षणबलं १० अल्पस्य महतो वा शोथस्थ प्रतिक्रियाऽभावे दोषमाह – अल्प बाह्यः प्राणः । ११ आलेपनादिक्रियोपचारितानामपि शोथानामुपशमाभावे इति शीघ्रपाकोपक्रमसा- । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 250

सुश्रुत संहिता चौखम्बा, पृष्ठ 250 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

-1 ९ २ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० १८ पच्येत शीघ्रं सममल्पमूलः स पिण्डितश्चोपरि चोन्नतः स्यात् ॥१६ ॥

कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य ।

तथैव पूयोऽप्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ॥१७ ॥

औदौ विम्लापनं कुर्य्याद् द्वितीयमवसेचनम् ।

तृतीयमुपनाहञ्च चतुर्थी पाटनक्रियाम् ॥ १८ ॥

पञ्चमं शोधनं कुर्य्यात् षष्ठं रोपणमिष्यते ।

एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् ॥ १ ९ ॥

इति श्रीसुश्रुतसंहितायां सूत्रस्थाने आमपक्कैषिणीयविधिर्नाम सप्तदशोऽध्यायः ।

अष्टादशोऽध्यायः ।

अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

आलेप औद्य उपक्रमः, एष सर्वशोफानां सामान्यः प्रधानत-मश्च, तं च प्रतिरोगं वक्ष्यामः । ततो बन्धः प्रधानं, तेन शुद्धि-फल्यं दर्शयति — आलेपेति । १ पिण्डितः = वर्तुलः । २ पक्कशोथस्योपेक्षणे प्रागु-क्तमेव दोषं निदर्शयति — कक्षमिति । कक्षं = शुष्कतृरणादिबहुलप्रदेशम् । ३ व्रणस्यावचारणक्रममाह— आदाविति । विम्लापनम् शोथविलयनम्, अवसेचनं जलौकाऽऽदिभी रुधिरविस्रावणम् = अङ्गुल्यादिविमर्दनेन बन्धनम्, पाटनक्रियां = छेदनकर्म, शोधनं = प्रलेपादिभिः, उपनाहः = पाचनाय क्षतादिपूरणम्, वैकृतापहं – विकृतिसम्पन्नस्य रोमसञ्जननादिसवर्णकरणम् शुद्धिकरणम् । रोपणं = सप्त व्रणस्योत्तरोत्तरक्रमाः । व्रणस्य षष्टिरुपक्रमाश्चिकित्सास्थानस्य; इत्येते द्वित्रणीये वक्ष्यन्ते । = इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां सप्तदशोऽध्यायः । अष्टादशोऽध्यायः । .४ व्रणस्यालेपनबन्धयोर्विधिर्विद्यते यस्मिन् स तम् षष्टिरुपक्रमेष्वपतर्पणस्याद्यत्वमुक्तम्, तथाऽप्यत्र शोथभेषजप्रयोगापेक्षया । ५ यद्यपि द्विव्रणीये व्रणस्य वाऽऽलेपस्याद्यत्वमुक्तम्; तथा च परस्परं न विरोध इति बोध्यम् । ६ ततः प्रधानतया = आलेपात् । CC - 0. Gurukul Kangri Collection, Haridwar