सुश्रुत संहिता चौखम्बा — पृष्ठ 241–250
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 241–250
पृष्ठ 241
पाठ पढ़ें पाठ छिपाएँ
१६ अ ० १६ ] छिडे र्याः ॥ निरू इति T च स्त-॥५ ॥
श-शु चा-| ६ || ि | ८ || । क-। JI-ले. रा. त्य म्ब.. Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।
एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम् ।
दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ॥ ९ ॥
८३ तत्र समासेन पञ्चदेशकर्णबन्धनाकृतयः । तद्यथा— ने मिस न्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वे-धिमो व्यायोजिमः कपाटसन्धिकोऽर्द्धक पाटसन्धिकः सङ्क्षिप्तो हो-नकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्टक इति । तेषु, पृथुलायतसमो-भयपौलिर्नेमिसन्धानकः । वृत्तायतसमोभयपालिरुत्पलभेद्यकः । ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः । अभ्यन्तरदीर्घंकपालिरासङ्गिमः । बाह्यदीर्घौकपालिर्गण्डकर्णः । पालिरुभयतोऽप्याहार्य्यः । पीठोपम-पालिरुभयतः क्षीणपुत्रिकांश्रितो निर्देधिमः । स्थूलाणुसमविषमपा-लिययोजिमः । अभ्यन्तरदीधैकपालिरितराल्पपालिः कपाटस-न्धिकः । बाह्यदीयैकपालिरितराल्पपालिरर्ध कपाटसन्धिकः । तत्र दशैते कर्णबन्धविकल्पाः साध्याः । तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः । सङ्क्षिप्तादयः पञ्चासाध्याः । तत्र शुष्कंशष्कुलिरु-त्सन्नपालिरितराल्पपालिः सङ्क्षिप्तः । अनधिष्ठानप लिः पर्यन्तयोः क्षीणमांसो हीनकर्णः । तनुविषमाल्पपालिर्वल्लीकर्णः । ग्रथितमांस-स्तब्धसिरासन्ततसूक्ष्म पालिर्यष्टिकर्णः । निर्मांससङ्क्षिप्ताग्राल्पशो-रिंगत पालिः काकौष्ठक इति । बद्धेष्वपि तु शोफदाहरागपाकपिडका-स्रावयुक्ता न सिद्धिमुपयान्ति ॥ १० ॥
१ सन्धेयकर्णस्य सन्धानार्थमसन्धेयकर्णस्य च परित्यागार्थं वक्ति – तत्रेति । ' २ यद्यपि पञ्चदशकर्णेषु नेमिसन्धानकादिदशकर्णा बन्धनार्हाः सङ्क्षिप्तादिपञ्चकर्णा असाध्यत्वादबन्धनार्हास्तथाऽप्येषां पञ्चानां वन्धसम्बन्धाद् वन्धसम्भावनामात्रमित्यव-सेयम् । ३ पालिः = कर्णलताग्रभागः, ' पालिः कर्णलताग्रेऽस्रौ पङ्क्तावङ्कप्रभेदयोः ’ इति मेदिनी । ४ कर्णपालिकाया उपरि कर्णकुहरमुभयतो यत् किञ्चिदुद्गता सा पुत्रिका तदाश्रितः, निर्वेधिमः = व्यधेन निर्वृत्तः । ५ अमी बन्धविकल्पा नित्यकर्मदर्श-नादभ्यासाच्च जायन्ते । ६ असाध्याः = सन्धानायाशक्याः । ७ शुष्का शष्कुलिः कर्ण-रन्ध्रं यत्र स शुष्कशष्कुलिः कर्ण इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 242
पाठ पढ़ें पाठ छिपाएँ
८४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— भवन्ति चात्र । यस्य पालिद्वयमपि कर्णस्य न भवेदिह । [ अ ० १६ कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ॥ ११ ॥
बौह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् ।
आभ्यन्तरायां दीर्घायां बाह्यसन्धिरुदाहृतः ॥ १२ ॥
एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या ।
तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ॥ १३ ॥
गण्डादुत्पाटय मांसेन सानुबन्धेन जीवता ।
कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् ॥ १४ ॥
अतोऽन्यतमं बन्धं चिकीर्षुरग्रहो पहरणीयोक्तोपसम्भृतसम्भारं विशेषतश्चात्रोपहरेत्, सुरामण्डं क्षीरमुदकं धान्याम्लं कपालंचूर्णञ्चे-ति 1 । ततोऽङ्गनां पुरुषं वा ग्रथित केशान्तं लघु भुक्तवन्तमामैः सुपरि-गृहीतं च कृत्वा बन्धमुपधार्य्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति । तत्र वातदुष्टे धान्याम्लोष्णो-दुकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णो-दुकाभ्यां प्रक्षाल्य कर्णी, पुनरवलिख्यानुन्नतमहोनम विषमञ्च कर्णसन्धि सन्निवेश्य, स्थितरक्तं सन्दध्यात् । ततो मधुघृतेनाभ्यज्य पिचुप्लोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलञ्च बद्ध्वा कपालचूर्णेनावकीर्य्यचारिकमुपदिशेद् द्विव्रणीयोक्तेन च १ सन्धेयकर्णस्य निर्वेधिमसंज्ञस्य सन्धानमभिधत्ते – यस्येति । २ कर्णशष्कुल्यां यतः पालिकाया श्रारम्भस्तत्कर्णपीठम् । ३ सन्धेयकर्णानां व्यायोजिमकपाटस-न्धिकार्धकपाटाख्यानां सन्धानमाख्याति – बाह्यायामिति । यदा बाह्या कपो-लदूरवर्तिनी पालिदीर्घा स्यात्तदाऽऽभ्यन्तरा कपोलसंश्रयी सन्धिः कर्तव्यः । यदा चाभ्यन्तरा पालिदीर्घा स्यात्तदा बाह्यः सन्धिः कर्तव्य इति भावः । ४ सन्धेयास-ङ्गिमस्य सन्धानमभिदधाति - एकैवेति । ५ आहार्यस्य सन्धानमाह - गण्डादिति । ६ सानुबन्धेन = गण्डप्रदेशलग्नेनेत्यर्थः । ७ कपालचूर्णं = नूतनमृद्भाण्डचूर्णम् । ८ ग्रथितकेशान्तं = केशव्याकुलतया कर्माभिघातभयाद् बन्धविश्लेषभयाद्वा सङ्ग्रथित-
पृष्ठ 243
पाठ पढ़ें पाठ छिपाएँ
अ ० १६ ] Digitized by Aryaption Chennai and eGangotri ८५ विधानेनोपचरेत् ॥ १५ ॥भवति चात्र ॥
विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् १६ ॥ व्यवायैमग्निसन्तापं वाक्श्रमञ्च विवर्जयेत् ॥ ( आमतैलपरीषेकं त्रिरात्रमवचारयेत् । ततस्तैलेन संसृष्टं त्र्यहादपनयेत् पिचुम् ॥ १ ॥ )
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा सन्दध्यात् । हि वातदुष्टे रक्ते रूढोऽपि पैरिपुटनवान् । पित्तदुष्टे दाहपाक-रागवेदनावान् । श्लेष्मदुष्टे स्तब्धः कण्डूमान् । अतिप्रवृत्तर श्यावशोफवान् । ' क्षीणोऽल्पमांसो न वृद्धिमुपैति ॥ १७ ॥
आँमतैलेन त्रिरात्रं परिषेचयेत् । त्रिरात्राञ्च पिचुं परिवर्तयेत् । स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं शनैरशनैरभिवर्द्ध-येत् । अतोऽन्यथा संरम्भदाह पाकरागवेदनावान्, पुनश्छिद्यते वा ॥१८ ॥
अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः । तद्यथा — गोधाप्रतुदवि-किरानूपौदक वसामज्जानौ पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं सम्भृत्यार्कालर्क बलाऽतिबलाऽनन्ताऽपामार्गाश्वगन्धाविदारिगन्धाक्षी-रशुक्लाजले शूकमधुर वर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनु-गुप्तं निदध्यात् ॥ १ ९ ॥ " स्वेदितोन्मर्दितं कर्ण स्नेहेनैतेन योजयेत् । · कचावयवम् । १ विधानेन = श्रालेपनाद्यौषधेन । २ परिहरणीयानाह - विघट्टन-मिति । ३ व्यवायः = मैथुनम् । ४ अशुद्धरक्तकर्णस्य सन्धाने दोषं दर्शयति— सहीति । ५ त्वच उच्चटनं सशोफः कर्णलतिकारोगो वा परिपुटनम् । तदुक्तं चिकित्सिते— “ सौकुमार्याच्चिरोत्सृष्टे सहसाऽभिप्रवर्तते । कर्णशोफो भवेत्पाल्यां सरुजः परिपोटवान् ॥ ” इति । ६ अतिप्रवृत्तरक्तकर्णस्य सन्धाने दोषमाख्याति – अतीति । ७ क्षीणकर्णस्य सन्धाने दोषमाह- क्षीण इति । ८ विशेषविधिमभिधत्ते — आमेति । ९ जलशूकः = शैवालः, जलवासी कीटविशेषः; मधुरवर्गः = रसविज्ञानीये वक्ष्य-माणः, पयस्या = विदारीभेदः क्षीरकाकोली, अर्कपुष्पी वा । १० पूर्वोक्तमन्दाराद्योष-घिपाचिततैलावचारणे गुणमाह - स्वेदीति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 244
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० १६ अथानुपद्रवः सम्यक् बलवांश्च विवर्द्धते ॥ २० ॥
यवाश्वगन्धायष्ट्याह्वैम्तिलैश्चोद्वर्त्तनं हितम् ।
शैतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः ॥ २१ ॥
तैलं विपक्कं सक्षीरमभ्यङ्गात् पालिवर्द्धनम् ।
ये तु न वर्द्धन्ते स्वेदस्नेहोपपादिताः ॥ २२ ॥
तेषामपाङ्गदेशे तु कुर्य्यात् प्रच्छानमेव तु ।
बाह्यच्छेदं न कुर्वीत व्यापदः स्युस्ततो ध्रुवाः ॥ २३ ॥
बद्धमात्रं तु यः कर्णं सहसैवाभिवर्द्धयेत् ।
आर्मकोशी समाध्मातः चिप्रमेव विमुच्यते ॥ २४ ॥
जात रोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः ।
सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः ॥ २५ ॥
अमिताः “ कर्णबन्धास्तु विज्ञेयाः कुशलैरिह ।
यो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत् ॥ २६ ॥
" कर्णपाल्यामयान्नृणां पुनर्वक्ष्यामि सुश्रुत! । * कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः ॥ २७ ॥
द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः ।
विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके ॥ २८ ॥
दाहविस्फोटजननं शोफः पाकश्च पैत्तिके ।
कण्डूः सश्वयथुः स्तम्भो गुरुत्वञ्च कफात्मके ॥ २ ९ ॥
यथादोषं च संशोध्य कुर्य्यात्तेषां चिकित्सितम् । १ कर्णपालिवर्धनार्थमन्यत्तैलं निर्दिशति – शतावर्येति । २ जीवनैः = काकोल्यादिद्रव्यैः । ३ अवर्धमानकर्णानां वर्धनोपायमाह - य इति देशे = कर्णशष्कुल्याः किञ्चिदधोदेशै । ५ प्रच्छानम् = ईषत्तिर्यक्छेदनम् । ४ अपाङ्ग- । ६ बाह्यच्छेदं = कर्णवाह्यलतिकाच्छेदम् । ७ व्यापदः = कर्णलतिका त्रुटनादिव्यापद इत्यर्थः । अथवा श्रन्ध्यादयः, वक्ष्यति शारीरे – “ भ्रूपुच्छयोरन्धोऽक्ष्णोर्बाह्यतोऽपाङ्गौ नाम तत्रान्ध्यं दृष्टयुपघातो वा " इति । ८ आमकोशी = असम्यग्रूढमध्य इत्यर्थः । ९ वर्धनयोग्यकर्णं निर्दिशति - जातेति । १० कर्णबन्धानाममितत्वं दर्शयति— अमिता इति 1 । ११ कर्णपाल्यामयान् तच्चिकित्सां चाह – कर्णेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 245
पाठ पढ़ें पाठ छिपाएँ
अ ० १६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ॥ ३० ॥
मुद्रीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा ।
य एवं वेत्ति दोषाणां चिकित्सां कर्त्तमर्हति ॥ ३१ ॥
अत ऊर्ध्वं नामेलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् ।
उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ॥ ३२ ॥
अवैमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा ।
स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ॥। ३३ ॥
अपामार्ग: सर्जरस: पाटलालकुचत्वचा ।
ज्लाट के प्रलेपः स्यात्तैलमेभिश्च पाचयेत् ॥ ३४ ॥
शम्पाकशिपूतीकान् गोधा मेदोऽथ तद्वसाम् ।
वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ॥ ३५ ॥
मुत्पुटके दद्यात्तैलमेभिश्च साधितम् ।
गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् ॥ ३६ ॥
श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् ।
पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम् ॥। ३७ ॥
दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् ।
व्रणीभूतस्य देयं स्यादिदं तैलं विजानता ॥ ३८ ॥
मधुक क्षीरकाकोली जीव काद्यैर्विपाचितम् ।
गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे ॥ ३ ९ ॥
प्रलेपनमिदं दद्यादवसिच्यावमन्थके ।
प्रपौण्डरीकं मधुकं समङ्गां धवमेव च ॥ ४० ॥
तैलमेभिश्च सम्पक्कं शृणु कण्डूमतः क्रियाम् ।
सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् ॥। ४१ ॥
एतैरालेपनं दद्यात्तैलमेभिश्च साधितम् ॥ ४२ ॥।
८७ १ नामलिङ्गैः – नामभिराख्यातानि लिङ्गानि नामलिङ्गानि तैः । २ उत्पाटयति पाकेन उन्मूलयतीत्युत्पाटकः, उत्पुटं मांसाभिवृद्धयोद्गतसन्धिं करोतीत्युत्पुटकः, श्यावः रक्तदुष्टया श्याववर्णः । ३ अवमथ्नाति मन्थनमिव पीडयतीत्यवमन्थकः । ४ लकुचः = ' बड़हर ' इति नाम्ना प्रसिद्धः। ५ अनन्ता = सारिवा । ६ समङ्गा - लज्जालुः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 246
पाठ पढ़ें पाठ छिपाएँ
८८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां—
ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु ।
ततः सैन्धवचूर्णन्तु घृष्ट्वा लेपं प्रदापयेत् ॥ ४३
लिखित्वा तत् स्रुतं घृष्ट्वा चूर्णैर्लोभ्रस्य जम्बुले ।
क्षीरेण प्रतिसाय्यैनं शुद्धं संरोपयेत्ततः ॥ ४४ ॥
मधुपर्णी मधूकञ्च मधुकं मधुना सह । [ अ ० १६ लेपः स्राविरिण दातव्यस्तैलमेभिश्च साधितम् ॥ ४५ ॥
पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः ।
जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् ॥ ४६ ॥
विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् ।
नासाप्रमाण पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बितस्य ॥ ४७ ॥
तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् ।
विलिख्य चाशु प्रतिसन्दधीत तत् साधुबन्धैर्भिपगप्रमत्तः ॥ ४८ ॥
सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा ।
प्रोन्नम्य चैनामवचूर्णयेत्तु पत्तङ्गयष्टीमधुकाञ्जनैश्च ॥ ४ ९ ॥
सञ्छाद्य सम्यक् पिचुना सितेन तैलेन सिचेद्सकृत्तिलानाम् ।
घृतञ्च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ॥ ५० ॥
रूढञ्च सन्धानमुपागतं स्यात् तदर्द्धशेषन्तु पुनर्निकृन्तेत् ।
हीनां पुनर्वर्द्धयितुं यतेत समाञ्च कुर्यादतिवृद्ध मांसाम् ॥ ५१ ॥
नौडीयोगं विनौष्ठस्य नासासन्धानर्वाद्वधिम् ।
य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ॥ ५२ ॥
इति श्री सुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधवन्धविधिर्नाम षोडशोऽध्यायः ॥ १६ ॥
१ विश्लेषिताया नासिकाया सन्धानविधिमाह – विश्लेषिताया इति । ” २ नासाप्रमाणं - • विश्लेषितांशपरिमितम् । ३. नासिकाग्रं = वियोजितांशोपरिभागम् । ४ नलकृत मे रण्डपत्र नालकृतं वा नाढीद्वयम् । ५ छिन्नस्योष्ठस्य सन्धानविधिमभिधत्ते - नाडीति । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां षोडशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 247
पाठ पढ़ें पाठ छिपाएँ
अ ० १७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri अथात सूत्रस्थानम् ।
सप्तदशोऽध्यायः ।
आपकैषणीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
८ ९ शोफे समुत्थाना ग्रन्थिविद्रध्यलजीप्रभृतयः प्रायेण व्याधयोऽ-भिहिता अनेकाकृतयः, तैर्विलक्षणः पृथुर्मथितः समो विषमो वा त्वङ्मांसस्थायी दोषसङ्घातः शरीरैकदेशोत्थितः शोर्फ इत्युच्यते ॥३ ॥
सँ षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः । तस्य॒ दोष रूपव्यञ्जनैर्लक्षणानि व्याख्यास्यामः । तत्र, वातशोफोऽरुणः कृष्णो वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषा भवन्ति । पि-त्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसार्योषादयश्चात्र वेदनाविशेषा भवन्ति । श्लेष्मशोफः पाण्डुः शुक्लो वा कठिनः शीतः स्निग्धो मन्दा-नुसारी कण्ड्वादयश्चात्र वेदनाविशेषा भवन्ति । सर्ववर्णवेदन: स-न्निपातजः । पित्तवच्छोणितजोऽतिकृष्णश्च । पित्तरक्तलक्षण आग-न्तुहितावभासश्च ॥ ४ ॥
सं यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न सम्भावितः प्रशमयितुं क्रियाविपर्ययाद् बहुत्वाद्वा दोषारणां तदा पाकाभिमुखो भवति ॥ तस्यामस्य पच्यमानस्य पकस्य च लक्षणमुच्यमानमुपधारय । तत्र, सप्तदशोऽध्यायः । १ आमं विपच्यमानं चेति वक्ष्यमाणत्वादत्रामशब्दात्पच्यमानोऽपि ज्ञातव्यः । तथा च- आमचं पच्यमानश्च पक्वश्च तेषामेषणं विज्ञानं विद्यते यस्मिन् स आमप-क्वैषगरी त्यस्तम् । २ शोथमुपपादयति – शोफेति । समुत्तिष्ठन्त्यनेनेति समुत्थान श्राकारः, शोफः समुत्थान एषामिति शोफसमुत्थानाः । ३ विलक्षणः = ग्रन्थ्यादि-रोगविशेषेभ्यो भिन्नः । ४ शरीरैकदेशोत्थित इत्युक्त्याऽस्य शोथस्य पृथक्त्वं सूच्यते । ५ शोफः = व्रणशोथः । ६ व्रणशोथस्य षाड्विध्यं दर्शयति – स इति । ७ वातादिरूपैर्वर्णादिभिरित्यर्थः । ८ प्रलेपनक्वाथपानादिबाह्याभ्यन्तरैः शोधान वचारणे दोषं, कथयति · त्यादित्यर्थः — स यदेति । ९ क्रियाविपर्ययात् = अतर्पणादिक्रियावैपरी-। १० पाकाभिमुखस्यामशोथस्य लक्षणमभिधत्ते = तत्रेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 248
पाठ पढ़ें पाठ छिपाएँ
९ ० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० १७ मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टम् । सूर्चिभिरिव निस्तुद्यते दश्यत इव पिपीलि-काभिस्ताभिश्च संसर्प्यत इव छिद्यत इव शस्त्रेण भिद्यत इव शक्ति-भिस्ताड्यत इव दण्डेन पीड्यत इव पाणिना घट्यत इव चाङ्गु-ल्या, दह्यते पच्यत इव चाग्निक्षाराभ्याम्, ओषैचोपपरोदाहाश्च भवन्ति । वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति । आध्मातत्रस्तिरिवातर्तंश्च शोफो भवति, त्वग्वैवर्ण्य शोफाभिवृद्धिर्ध्व-रदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गम् । वेद्नोपशान्तिः पाण्डु-ताऽल्पशोफता बलीप्रादुर्भावत्वक्परिपुटनं निम्न्नदर्शनमङ्गुल्याऽवपी-डिते प्रत्युन्नमनं, बस्ताविवोदकसरणं पूयस्य, प्रपीडयत्येकँम-न्तमन्ते वाऽवपीडिते, मुहुर्मुहुस्तोदः कण्डूरुन्नतता व्याधेरुपद्रवशा-न्तिर्भक्ताभिकाङ्क्षा च पक्कलिङ्गम् ॥ ५ ॥
कफजेषु तु रोगेषु * गम्भीरगतित्वादभिघातजेषु वा केषुचिद-समस्तं पक्वलक्षणं दृष्ट्वा पक्कमपकमिति मन्यमानो भिषग् मोहमु-पैति । यत्र॑ हि त्वक्सवर्णता शीतशोफता स्थौल्यमल्परुजताऽश्म-वच्च " घनता, न तत्र मोहमुपेयादिति ॥ ६ ॥
II भवन्ति चात्र ।
आमं विपच्यमानं च सम्यक् पक्वञ्च यो भिषक् ।
जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ॥ ७ ॥
वाताहते नास्ति रुजा न पाकः पित्ताहते नास्ति तस्मात् समस्ताः परिपाककाले पचन्ति शोफात्रय कफाच्च एव दोषाः । || ८ || १ पाकाभिमुखपच्यमानशोथस्य लक्षणं दर्शयति- सूचिभिरिति । २ निःशब्द-स्यात्र भृशार्थकत्वाद् भृशं व्यथत इत्यर्थः । ३ एकदेशिकदाह श्रोषः । ४ श्राततः = त्वक्सङ्कोचरहितः । ५ पाकाभिमुखपक्कशोथस्य लक्षणं वक्ति - वेदेत्यादिना । ६ वस्तावुदकसञ्चरणमिव शोथे पूयसञ्चरणं भवतीत्यर्थः । ७ एकमवयवं प्रपीडयति यपरमप्यवयवं प्रपीडयतीति भावः । ८ रोगेषु = शोथेषु । ९ श्रभिघातजेषु = त्रिवरानुप्रविष्टशल्यादिकारणादभिघातजन्यशोथेष्वित्यर्थः । १० पक्वविज्ञानोपायमाह— यत्रेति । ११ घनता = काठिन्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 249
पाठ पढ़ें पाठ छिपाएँ
अ ० १७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । ९ १
कालान्तरेणाभ्युदितेन्तु पित्तं कृत्वा वशे वातकफौ प्रसह्य ।
पचत्यतः शाणितमेव पाको मतोऽपरेषां विदुषां द्वितीयः ॥ ९ ॥
तत्र, आमच्छेदे मांससिरास्नाय्वस्थिसन्धिव्यापादनमतिमात्रं शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भावोऽवदरणमने को पद्रव दर्शनं क्षतवि-द्रधिर्वा भवति । सँ यदा भयमोहाभ्यां पक्कमप्यपक्कमिति मन्यमा-नश्चिरमुपेक्षते व्याध वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदीर्योत्सङ्ग महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ॥ १० ॥
भवन्ति चात्र ।
यश्छिनत्त्याममज्ञानाद्यश्च पक्कमुपेक्षते ।
श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ॥ ११ ॥
प्रीक शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक् ।
मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनासहः ॥ १२ ॥
न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते ।
तस्मादवश्यं भोक्तव्यं रोगषूक्तेषु कर्मणि ॥ १३ ॥
प्राणो ह्याभ्यन्तरो नृणां बाह्यप्राणगुणान्वितः ।
धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् ॥ १४ ॥
अल्पो " महान् वा क्रियया विना यः समुच्छ्रितः पाकमुपैति शोफः ।
विशालमूलो विषमो विदग्धः स कृच्छ्रतां यात्यवगाढदोषः ॥ १५ ॥
" आलेपविस्रावरणशोधनैस्तु सम्यक् प्रयुक्तैर्यदि नोपशाम्येत् । इति १ प्रकोपप्रसरस्थानसंश्रयकालावधिनाऽभ्युदितं समन्ततः पुनरुद्गतमित्यर्थः । २ आमपच्यमानव्रणशोथच्छेदने दोषं दर्शयति-— तत्रेति । ३ क्षतजन्यवि-द्रधिरित्यर्थः । ४ भयमोहाभ्यां पक्वशोथस्योपेक्षायामपि दोषं निर्दिशति – स 1 ५ उत्सङ्ग इव, व्रणाशये बहुकालं पूयावस्थानेन · विदारिताभ्यन्त-रप्रदेशनिम्नमुत्सङ्गसादृश्यादुत्सङ्गमित्यर्थः । ६ शस्त्रकर्मणः प्राक् प्रागिति । ७ शस्त्रं = शस्त्रवेदनामित्यर्थः । जोजन्यभारहरणादिशक्तिलक्ष- कर्मोपदिशति— राबलमाभ्यन्तरः प्राणः । ९ पाञ्चभौतिकाहारजन्योपचयलक्षणबलं १० अल्पस्य महतो वा शोथस्थ प्रतिक्रियाऽभावे दोषमाह – अल्प बाह्यः प्राणः । ११ आलेपनादिक्रियोपचारितानामपि शोथानामुपशमाभावे इति शीघ्रपाकोपक्रमसा- । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 250
पाठ पढ़ें पाठ छिपाएँ
-1 ९ २ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० १८ पच्येत शीघ्रं सममल्पमूलः स पिण्डितश्चोपरि चोन्नतः स्यात् ॥१६ ॥
कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य ।
तथैव पूयोऽप्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ॥१७ ॥
औदौ विम्लापनं कुर्य्याद् द्वितीयमवसेचनम् ।
तृतीयमुपनाहञ्च चतुर्थी पाटनक्रियाम् ॥ १८ ॥
पञ्चमं शोधनं कुर्य्यात् षष्ठं रोपणमिष्यते ।
एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् ॥ १ ९ ॥
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने आमपक्कैषिणीयविधिर्नाम सप्तदशोऽध्यायः ।
अष्टादशोऽध्यायः ।
अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
आलेप औद्य उपक्रमः, एष सर्वशोफानां सामान्यः प्रधानत-मश्च, तं च प्रतिरोगं वक्ष्यामः । ततो बन्धः प्रधानं, तेन शुद्धि-फल्यं दर्शयति — आलेपेति । १ पिण्डितः = वर्तुलः । २ पक्कशोथस्योपेक्षणे प्रागु-क्तमेव दोषं निदर्शयति — कक्षमिति । कक्षं = शुष्कतृरणादिबहुलप्रदेशम् । ३ व्रणस्यावचारणक्रममाह— आदाविति । विम्लापनम् शोथविलयनम्, अवसेचनं जलौकाऽऽदिभी रुधिरविस्रावणम् = अङ्गुल्यादिविमर्दनेन बन्धनम्, पाटनक्रियां = छेदनकर्म, शोधनं = प्रलेपादिभिः, उपनाहः = पाचनाय क्षतादिपूरणम्, वैकृतापहं – विकृतिसम्पन्नस्य रोमसञ्जननादिसवर्णकरणम् शुद्धिकरणम् । रोपणं = सप्त व्रणस्योत्तरोत्तरक्रमाः । व्रणस्य षष्टिरुपक्रमाश्चिकित्सास्थानस्य; इत्येते द्वित्रणीये वक्ष्यन्ते । = इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां सप्तदशोऽध्यायः । अष्टादशोऽध्यायः । .४ व्रणस्यालेपनबन्धयोर्विधिर्विद्यते यस्मिन् स तम् षष्टिरुपक्रमेष्वपतर्पणस्याद्यत्वमुक्तम्, तथाऽप्यत्र शोथभेषजप्रयोगापेक्षया । ५ यद्यपि द्विव्रणीये व्रणस्य वाऽऽलेपस्याद्यत्वमुक्तम्; तथा च परस्परं न विरोध इति बोध्यम् । ६ ततः प्रधानतया = आलेपात् । CC - 0. Gurukul Kangri Collection, Haridwar