शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 11–20

शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 11–20

पृष्ठ 11

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 11 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४२३ स्वत्वकामित्वम् = स्वस्वामित्वमात्राभिलाषत्वम्, वा = अथवा, अन्येष्टनाशनकारिता— अन्येषाम् = आत्मभिन्नजनानाम्, इष्टानाम् = अभिलषितानाम्, नाशनकारिता = विघातकत्वम्, एतत् = पूर्वोक्तद्वयम्, वैरिलक्षणम् = शत्रुताविधायकम् ॥५ ॥

हिन्दी – एक ही वस्तु के विषय में दो आदमी का अपना वर्चस्व कायम करना अथवा एक - दूसरे की अभिलषित वस्तु को विनष्ट करना – ये दोनों लक्षण वैरभाव रखने के हैं ॥५ ॥

अनन्येति । द्वयोः एकस्मिन् विषये वस्तुनि अनन्यस्वत्वकामत्वं निजस्वामित्वमात्रकामना वा अथवा अन्येषाम् इष्टानां नाशनकारिता विनाशकत्वमित्यर्थः, एतत् उभयं वैरिलक्षणं शत्रु-ताप्रयोजकमित्यर्थः ॥५ ॥

भ्रात्रभावे पितृद्रव्यमखिलं मम वै भवेत् ।

न स्यादेतस्य वश्येऽयं ममैव स्यात् परस्परम् ॥ ६ ॥

भोक्ष्येऽखिलमहं चैतद्विनान्यं स्तः सुवैरिणौ ।

द्वेष्टि द्विष्ट उभौ शत्रू स्तश्चैकतरसंज्ञकौ ॥७ ॥

अन्वयः — भ्रातुः अभावे अखिलं पितृद्रव्यं मम वै भवेत्, एतस्य न स्यात्, अयञ्च ममैव वश्यं स्यात् । अहम् अन्यं विना अखिलम् एतत् भोक्ष्ये, परस्परं द्वौ तौ सुवैरिणौ स्तः । यश्च द्वेष्टि द्विष्टः तौ एकतरसंज्ञकौ शत्रू स्तः॥६-७ ॥ व्याख्या– भ्रातुः = सोदरस्य, अभावे = सत्ताभावे, अखिलम् = सकलम्, पितृद्रव्यम् = आनुवांशिकधनम्, ममैव = मदीयैव, वै = इति निश्चयेन भवेत् = स्यात्, एतस्य = ' भ्रातुः न = नहि, स्यात् = भवेत्, अयञ्च = एषश्च, विना = विहाय, अखिलम् = समग्रम्, एतत् = धनं वस्तुजातम्, च, भोक्ष्ये = उपभोगं करिष्यामि, अनेन प्रकारेण, परस्परम् = अन्योऽन्यम्, यौ = भ्रातारौ, विचारयतः इति शेषः, तौ = भ्रातारौ, सुवैरिणौ = घोरारी, स्तः = भवतः । यश्च = यो हि भ्राता, द्वेष्टि = द्वेषं करोति, यश्च = भ्राता, द्विष्टः सापल्यभावभूतः, तौ = सोदरौ, एकतरसंज्ञकौ = एकतरनामानौ, शत्रू = रिपू, स्तः = भवतः ॥ ६-७ ॥ हिन्दी — अपने भाई के रहने के बावजूद भी पिता का अर्जित सारा धन मेरा ही है हो, किसी दूसरे भाई के हाथ न लगे, दूसरा भाई मेरे अधीन रहे, मैं किसी के अधीन न रहूँ; इसे अलग हटा कर सम्पूर्ण धन का मैं अकेले उपभोग करूँ — इस प्रकार जो परस्पर भाई लोग एक - दूसरे के प्रति विचार रखते हैं, वे एक - दूसरे के परम शत्रु कहलाते हैं । जो केवल द्वेष करता है या किसी के द्वेष का पात्र होता है, वे दानों एकतरफा दुश्मन कहलाते हैं॥६-७ ॥ उभयप्रकारं दृष्टान्तेन दर्शयति – भ्रात्रभावे इति । भोक्ष्ये इति । भ्रातुः अभावे अविद्यमानतायामपीत्यर्थः, अखिलं समग्रं पितृद्रव्यं मम वै ममैव वैशब्दोऽवधारणे । भवेत्, एतस्य भ्रातुः न स्यात्, अयञ्च भ्राता ममैव वश्यः स्यात् । अहम् अन्यं विना अखिलं समग्रम् एतत् वस्तु भोक्ष्ये इत्येवं परस्परं यौ मन्त्रयत इति शेषः, तौ सुवैरिणौ परमशत्रू स्तः भवतः । यश्च द्वेष्टि, द्वेषं करोति, यश्च द्विष्टः द्वेषविषयीभूतः तौ एकतरसंज्ञकौ एकतरनामानौ शत्रू स्तः भवतः ॥ ६-७ ॥

शूरस्योत्थानशीलस्य बलनीतिमतः सदा ।

सर्वे मित्रा गूढवैरा नृपा: कालप्रतीक्षकाः ॥ ८ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 12

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 12 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( L ४२४ शुक्रनीतिः

भवन्तीति किमाश्चर्य्यं राज्यलुब्धा न ते हि किम्? ।

न राज्ञो विद्यते मित्रं राजा मित्रं न कस्य वै॥९॥

अन्वयः — शूरस्य सदा उत्थानशीलस्य बलनीतिमतः सर्वे गूढवैराः कालप्रतीक्षकाः नृपाः मित्राः भवन्ति इति आश्चर्यं किम्? ते हि किं राज्यलुब्धाः न? राज्ञः मित्रं न विद्यते, राजाऽपि कस्य मित्रं न 112-8 11 व्याख्या — शूरस्य = पराक्रमशालिनः सदा = सर्वदा, उत्थानशीलस्य = उन्नतिशीलस्य, तथा बलनीतिमतः = शक्तिशालिनो नयशालिनो जनस्य, सर्वे: = सकलाः, गूढवैराः = प्रच्छन्नशत्रुत्वम्, कालप्रतीक्षकाः = समयापेक्षिणः, नृपाः = राजानः, मित्राः = सुहृद्भूताः, भवन्ति = जायन्ते, इति = अस्मिन् विषये, आश्चर्यम् = विस्मयः, किम् = इति प्रश्ने? ते = नृपाः, हि = यतः, किमिति प्रश्ने, राज्यलुब्धाः = जनपदगृध्नवः, न = नहि, अपितु, राज्यलुब्धाः एव, केवलं कालं प्रतीक्षन्ते एव । कोऽपि जनः राज्ञः = नृपस्य, मित्रम् = सुहृत्, न = नहि, विद्यते = अस्ति, राजाऽपि = नृपोऽपि, कस्यापि, मित्रम् = सुहृद्, न = नहि, वै = इति निश्चयेन भवतीति ॥ ८ - ९ ॥ हिन्दी – जो राजा शूर, सदा उन्नतिशील, बल तथा नीति से युक्त होता है, उसके सभी राजा लोग मौके का इन्तजार करने वाले होते हैं । वे छिपे ढंग से दुश्मनी तथा ऊपर से मित्रता करने वाले होते हैं । इस बात पर आश्चर्य करना क्या उचित है? क्या वे राजे राज्य के लोभी नहीं होते हैं? अर्थात् अवश्य होते हैं । इससे यही सिद्ध हुआ कि न तो राजा का कोई मित्र होता है और न राजा किसी का मित्र होता है ॥ ८ - ९ ॥ शूरस्येति । भवन्तीति । शूरस्य विक्रमशालिनः सदा उत्थानशीलस्य उद्योगिनः तथा बलनीतिमतः बलशालिनो नीतिपरायणस्य च जनस्य सर्वे गूढवैराः गुप्तशात्रवाः कालप्रतीक्षकाः समयापेक्षिणः नृपाः मित्राः मित्रभूताः भवन्ति इत्यत्र आश्चर्य्यं किम्? ते हि नृपाः किं राज्यलुब्धाः न? अपितु राज्यलुब्धा एव केवलं कालं प्रतीक्षन्ते इति भावः । कोऽपि जनः राज्ञः मित्रं न विद्यते, राजापि कस्यापि मित्रं न वै नैवेत्यर्थः ॥ ८ - ९ ॥

प्रायः कृत्रिममित्रे ते भवतश्च परस्परम् ।

केचित् स्वभावतो मित्राः शत्रवः सन्ति सर्वदा ॥ १० ॥

अन्वयः — प्रायः ते परस्परं कृत्रिममित्रे भवतः । च केचित् स्वभावतः मित्राः शत्रवः सर्वदा सन्ति ॥ १० ॥

व्याख्या – प्रायः = बहुधा, ते = नृपाः, परस्परम् = अन्योन्यम्, कृत्रिममित्रे = अनैसर्गिकसु-हृदौ, भवतः = स्तः, च = पुनः, केचित् = कश्चन, स्वभावतः = निसर्गतः, मित्राः इत्यार्षप्रयोगः, सुहृदः, शत्रवः = अरयः, सर्वदा = कदाचित्, सन्ति = भवन्तीति भावः ॥१० ॥

हिन्दी- - प्रायः वे राजे आपस में बनावटी मित्र बने रहते हैं । किन्तु इनमें कुछ ऐसे भी होते हैं, जो निःस्वार्थ प्रेम करते हैं या शत्रु बन जाते हैं ॥१० ॥

प्राय इति । प्रायः बाहुल्येन तौ प्रजाराजानौ परस्परं कृत्रिममित्रे कार्य्यजबन्धू भवतः । किञ्च केचित् स्वभावतः मित्राः सर्वदा कदाचिदित्यर्थः, शत्रवः सन्ति भवन्ति ॥१० ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 13

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 13 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४२५

माता मातृकुलं चैव पिता तत् पितरौ तथा ।

पितृपितृव्यात्मकन्या पत्नी तत् कुलमेव हि ॥ ११ ॥

पितृमात्रात्मभगिनीकन्यकासन्ततिश्च या ।

प्रजापालो गुरुश्चैव मित्राणि सहजानि हि ॥ १२ ॥

अन्वयः — माता मातृकुलं पिता तत् पितरौ तथा पितृपितृव्यात्मकन्या पत्नी तत् कुलमेव हि पितृमात्रात्मभगिनीकन्यकासन्ततिः च प्रजापालः गुरुः हि एतानि सहजानि मित्राणि ॥ ११-१२ ॥ व्याख्या - माता = जननी, मातृकुलम् = मातामहप्रभृतयः, पिता = जनकः, तत् = तस्य पितुः, पितरौ- - माता च पिता च पितरौ = पितामहः पितामही च, तथा, पितुः पितृव्यः = पितुः पितृसोदरः, आत्मकन्या = स्वसुता, पत्नी = भार्या, तत् = तस्याः, कुलम् = श्वसुरादयः, पितृभगिनी =: पितृष्वसा, मातृभगिनी = मातृष्वसा, आत्मभगिनी = स्वसहोदरा, तासाम् = भगिनीनाम्, कन्यकाश्च = सुताश्च, या च सन्ततिः तासाम्, सन्ततिः = प्रसवः, प्रजापालः = प्रजारक्षको नृपतिः, तथा गुरुः = शुभचिन्तकः आचार्यः, हि = इति निश्चयेन, एतानि = पूर्वोक्तानि, सहजानि = स्वाभाविकाः, मित्राणि = सुहृदो भवन्तीति भावः ॥११-१२ ॥ हिन्दी – माता, ननिहाल के सम्बन्धी वर्ग, पिता, दादा - दादी तथा पिता के चाचा, अपनी बेटी, पत्नी तथा ससुराल के सम्बन्धी वर्ग, फूफी, मौसी, बहन और इनकी सन्तान, प्रजापालक राजा और शुभचिन्तक गुरु — ये सभी किसी भी व्यक्ति के स्वाभाविक मित्र होते हैं ॥ ११-१२ ॥ मातेति । माता, मातृकुलं मातामहादिः पिता तथा तस्य पितुः पितरौ मातापितरौ पितामहः पितामही चेत्यर्थः, पितुः पितृव्यः, आत्मकन्या, पत्नी, तस्याः कुलं श्वशुरादिः, पितृभगिनी, मातृभगिनी, आत्मभगिनी, तासां कन्यकाश्च या च सन्ततिः पुत्र इत्यर्थः, प्रजापालः, भूपतिः, तथा गुरुः एतानि सहजानि मित्राणि हिशब्दोऽवधारणार्थः ॥ ११-१२ ॥

विद्या शौर्य्यञ्च दाक्ष्यञ्च बलं धैर्य्यञ्च पञ्चमम् ।

मित्राणि सहजान्याहुर्वर्त्तयन्ति हि तैर्बुधाः ॥ १३ ॥

अन्वयः --विद्या शौर्य्यं दाक्ष्यं बलं तथा पञ्चमं धैर्यं सहजानि मित्राणि आहुः । हि बुधाः तैः वर्त्तयन्ति ॥ १३ ॥

व्याख्या – विद्या = ज्ञानम्, शौर्यम् = पराक्रमः, दाक्ष्यम् = कौशलम्, बलम् = शक्तिम्, तथा पञ्चमम्, धैर्यम् = धीरत्वम्, मनःस्थैर्यमित्यर्थः, एतानि सहजानि = स्वाभाविकानि, मित्राणि = सुहृदः, आहुः = कथयन्ति । हि, बुधाः = पण्डिताः, तैः = पूर्वोक्तैः विद्यादिभिः, वर्त्तयन्ति = जीवन्ति ॥ १३ ॥

हिन्दी — विद्या, वीरता, चतुरता, शक्ति तथा धैर्य —ये पाँचों किसी भी व्यक्ति के सहज मित्र कहलाते हैं । बुद्धिमान् व्यक्ति इन्हीं के सहारे अपनी आजीविका का निर्वाह करते हैं ॥१३ ॥

विद्येति । विद्या, शौर्य्यं दाक्ष्यं नैपुण्यं, बलं तथा पञ्चमं धैर्य्यम् एतानि सहजानि मित्राणि आहुः कथयन्ति बुधा इति शेषः, बुधाः पण्डिताः तैः विद्यादिभिः वर्त्तयन्ति जीवन्ति ॥ १३ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 14

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 14 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

C ४२६ शुक्रनीति:

पित्रोर्निदेशवर्त्ती यः स पुत्रोऽन्वर्थनामवान् ।

श्रेष्ठ एकस्तु गुणवान् किं शतैरपि निर्गुणैः ॥ १४ ॥

अन्वयः — यः पित्रोः निदेशवर्त्ती सः पुत्रः अन्वर्थनामवान् । एकः गुणवान् श्रेष्ठः, निर्गुणैः शतैरपि किम्? ॥१५ ॥

व्याख्या — यः पुत्रः, पित्रोः = जननी - जनकयोः, निदेशवर्त्ती: = आज्ञापालकः, सः = - असो पुत्रः = सुतः, अन्वर्थनामवान् = सार्थकनामा, भवतीति भावः । एकः = एकमात्रः, गुणवान् = गुणज्ञः,, श्रेष्ठः = उत्कृष्टः, निर्गुणैः = गुणहीनैः, शतैः = शतसंख्यकैः, अपि किम् = न किमपीत्यर्थः ॥१४ ॥

हिन्दी — माता - पिता की आज्ञा का पालन करने वाला पुत्र ही सार्थक पुत्र है, क्योंकि सैकड़ों निर्गुण पुत्रों की अपेक्षा एक गुणवान् पुत्र ही श्रेष्ठ होता है ॥१४ ॥

पित्रोरिति । यः पुत्रः पित्रोः मातापित्रोः निदेशवर्त्ती आज्ञावर्त्ती सः पुत्रः अन्वर्थनामवान् यथार्थनामा इत्यर्थः । एकः गुणवान् पुत्रः श्रेष्ठः, निर्गुणैः शतैरपि किम्? न किमपि प्रयोजन-मित्यर्थः ॥१४ ॥

स्वभावतो भवन्त्येते हिंस्रो दुर्वृत्त एव च ।

ऋणकारी पिता शत्रुर्माता स्त्री व्यभिचारिणी ॥ १५ ॥

अन्वयः — एते स्वभावतः मित्राणि भवन्ति । तथाहि — हिंस्रः दुर्वृत्तः तथा ऋणकारी पिता व्यभिचारिणी माता च स्त्री शत्रुः ॥ १५ ॥

व्याख्या – एते = पूर्वोक्ताः, स्वभावतः = = * निसर्गतः, मित्राण्यपि = सुहृदोऽपि, कदाचित्कारणवशाच्छत्रवो भवन्ति । तथाहि हिंस्रः = हिसंक: दुर्वृत्तः = दुराचारी, तथा ऋणकारी = ऋणकर्त्ता, पिता [ = = जनकः, व्यभिचारिणी = पुंश्चली, माता = जननी, च = पुनः, स्त्री = भार्या, शत्रुः = रिपुः भवतीति भावः ॥ १५ ॥

हिन्दी - पूर्वोक्त स्वाभाविक मित्र भी कारणवश कभी शत्रु बन जाते हैं । जैसे ऋणकर्त्ता पिता, दुराचारिणी माता एवं पत्नी दुश्मन होते हैं ॥ १५ ॥

स्वभावत इति । एते पूर्वोक्ताः मात्रादयः स्वभावतः मित्राणि अपि कदाचित् शत्रवः भवन्ती-त्यन्वयः । तथाहि हिंस्रः दुर्वृत्तः तथा ऋणकारी पिता, व्यभिचारिणी माता स्त्री च शत्रुः ॥१५ ॥

आत्मपितृभ्रातरश्च तत् स्त्रीपुत्राश्च शत्रवः ।

स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तथा ॥ १६ ॥

अन्वयः — आत्मपितृभ्रातरश्च तत् स्त्रीपुत्राश्च तथा स्नुषा श्वश्रूः सपत्नी ननान्दा यातरः शत्रवः भवन्ति ॥ १६ ॥

व्याख्या – आत्मनः = स्वस्य, पितुः = जनकस्य, भ्रातरः = - सोदराः, अर्थात् पितृव्यश्च, तथा तत् = तेषाम्, स्त्रियः = पल्यः, पुत्राश्च = सुताश्च, तथा स्नुषा = पुत्रवधूः, श्वश्रूः = पतिपत्नीप्रसूः, सपत्नी |: = समानः पतिर्यस्याः सा = समानपतिका, ननान्दा = भर्तृपत्नी, यातरः = ज्येष्ठस्य जाया देवरपल्यश्च वेति, कदाचित् शत्रवः = रिपवो भवन्ति, विपरीताचारादिति ॥१६ ॥

हिन्दी — सगे भाई, चाचा, चाची, चचेरा भाई, सास - पतोहू, सौत - सौत, ननद - भौजाई तथा जेठानी - देवरानी — ये सभी प्रायः परस्पर शत्रु होते हैं ॥१६ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 15

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 15 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४२७ आत्मेति । आत्मनः पितुश्च भ्रातरः सोदराः पितृव्याश्च इत्यर्थः, तेषां स्त्रियः पुत्राश्च तथा स्नुषा पुत्रवधूः, श्वश्रूः श्वशुरपत्नी, सपत्नी, ननान्दा, यातरः देवरपल्यश्च कदाचिद्विरुद्धाचाराः शत्रवः भवन्तीति शेषः ॥१६ ॥

मूर्खः पुत्रः कुवैद्यश्चारक्षकस्तु पतिः प्रभुः ।

चण्डश्चण्डा प्रजा शत्रुरदाता धनिकश्च यः ॥ १७ ॥

अन्वयः - मूर्खः पुत्रः, कुवैद्यः, अरक्षकः पतिः, चण्डः प्रभुः, चण्डाः प्रजा तथा यः धनिकः च अदाता सः शत्रुः ॥ १७ ॥

व्याख्या— मूर्खः = निर्बुद्धिः पुत्रः = सुतः, कुवैद्यः = कुत्सितचिकित्सकः, अरक्षकः = अत्राणदः, पतिः = स्वामी, चण्डः = = कोपनः, प्रभुः = स्वामी, चण्डा = अतिकोपना, प्रजा = जनाश्च, तथा च यः = पुरुषः, धनिकः = सम्पत्तिशाली, अथ च अदाता = कृपणः, सः - असौ, शत्रुः = रिपुः, भवतीति ॥ १७ ॥

हिन्दी – मूर्ख बेटा, अधकचरा वैद्य, पालने में अक्षम पति, क्रोधी राजा, क्रोधी प्रजा या सन्तान तथा नहीं देने वाला कंजूस धनी - ये सभी शत्रु होते हैं ॥१७ ॥

मूर्ख इति । मूर्खः पुत्रः, कुवैद्यः कुचिकित्सकः, अरक्षकः पतिः चण्डः कोपनः प्रभुः स्वामी चण्डा प्रजा च तथा यः धनिकः धनवान् अथ च अदाता कृपणः सः शत्रुः ॥ १७ ॥

दुष्टानां नृपतिः शत्रुः कुलटानां पतिव्रता ।

साधुः खलानां शत्रुः स्यान्मूर्खाणां बोधको रिपुः ॥ १८ ॥

अन्वयः — नृपतिः दुष्टानां शत्रुः, पतिव्रता कुलटानां, साधुः खलानां रिपुः स्यात् हि ॥ १८ ॥

व्याख्या – नृपतिः = राजा, दुष्टानाम् = दुर्वृत्तानाम्, शत्रुः = रिपुः कुलटानाम् = पुंश्चलीनाम्, साधुः = सत्पुरुषः, खलानाम् = दुर्वत्तानां बोधकः: = = ज्ञापकः, मूर्खाणाम् = अज्ञानाम्, शत्रुः = रिपुः स्यात् = भवेत् ॥ हिन्दी — दुश्चरित्रों के लिए राजा शत्रु होता है, व्यभिचारिणी औरतों सज्जनों के लिए दुर्जन शत्रु होते हैं और मूर्खों के लिए उपदेशक ही शत्रुः, बोधकः मूर्खाणां , पतिव्रता = साध्वी, शत्रु = रिपुः, भवन्तीति, १८ ॥ के लिए सच्चरित्र नारी, शत्रु होता है ॥१८ ॥

दुष्टानामिति । नृपतिः दुष्टानां शत्रुः पतिव्रता कुलटानां व्यभिचारिणीनां शत्रुः, साधुः खलानां दुर्जनानां शत्रुः, बोधकः उपदेशकः मूर्खाणां शत्रुः स्यात् ॥१८ ॥

उपदेशो हि मूर्खाणां क्रोधायैव शमाय न ।

पयःपानं भुजङ्गानां विषायैवामृताय न ॥। १ ९ ॥।

अन्वयः— मूर्खाणाम् उपदेशः क्रोधाय एव न शमाय । भुजङ्गानां पयःपानं विषाय एव न अमृताय ॥ १ ९ ॥ व्याख्या – मूर्खाणाम् = ज्ञानहीनानाम्, उपदेशः = बोधनम्, क्रोधाय = कोपाय, एव = केवलं भवति, न = नहि, शमाय = शान्तये भवति । यथा भुजङ्गानाम् = सर्पाणाम्, पयःपानम् = क्षीरभोजनम्, विषाय = विषवर्द्धनाय एव = केवलं भवति, न = नहि, अमृताय = सुधाच्यवनायेति ॥ १ ९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 16

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 16 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२८ शुक्रनीतिः हिन्दी - मूर्खों को उपदेश देना उसके क्रोध को बढ़ाना है, न कि उसकी शान्ति के लिए होता है । साँप को दूध पिलाने से उसका जहर ही बढ़ता है, न कि अमृत चूता है ॥१ ९ ॥ उपदेश इति । मूर्खाणाम् उपदेशः क्रोधाय एव कोपवर्द्धनाय न शमाय न शान्तये । अस्तीति शेषः । सर्पाणां पयःपानं दुग्धपानं विषाय विषवर्द्धनाय अमृताय न अमृतक्षरणाय इत्यर्थः ॥१ ९ ॥

आसमन्ताच्चतुर्दिक्षु सन्निकृष्टाश्च ये नृपाः ।

तत्परास्तत्परा येऽन्ये क्रमाद्धीनबलारयः ॥ २० ॥

शत्रूदासीनमित्राणि क्रमात् ते स्युस्तु प्राकृता:।

अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ॥ २१ ॥

क्रमशो वा नृपा ज्ञेयाश्चतुर्दिक्षु तथारयः ।

स्वसमीपतरा भृत्या ह्यमात्याद्याश्च कर्षिताः ॥ २२ ॥

अन्वयः — आसमन्तात् चतुर्दिक्षु ये नृपाः सन्निकृष्टाः ये च तत्पराः पुनश्च तत्पराः, ये अन्ये ते क्रमात् हीनबलारयः ते तु क्रमात् प्राकृताः मित्राणि उदासीनाः तथा शत्रवः स्युः । किञ्च अरिः मित्रम् उदासीनः अनन्तरः तत्परः तथा परः एते चतुर्दिक्षु क्रमशः नृपाः ज्ञेयाः । तथा स्वसमीपतराः भृत्याः कर्षिताः अमात्याद्याश्च अरयः ज्ञेयाः ॥ २०-२२ ॥ व्याख्या — आसमन्तात् = परितः, चतुर्दिक्षु = समन्तात्, ये नृपाः = राजानः, सन्निकृष्टाः = समीपवर्त्तिनः, ये = नृपाः, च = पुनः, तत्पराः — तत् = तस्य, पराः = परवर्त्तिनः, पुनश्च = भूयश्च, तत्पराः = तदनन्तरवर्त्तिनः अन्ये = अपरे राजानः, ते = नृपाः क्रमात् = क्रमशः, हीनबलारय: -हीनानि = अल्पतराणि, बलानि = सामर्थ्याणि, अरयः = शत्रवश्च, येषां तादृशाः भवन्ति । ते = नृपास्तु, क्रमात् = आनुपूर्व्येण, प्राकृताः = स्वाभाविकाः, मित्राणि = सुहृदः, उदासीनाः = तटस्थाः निःस्पृहाः वा, तथा शत्रवः = अरयः, स्युः = भवेयुः । किञ्च, अरिः = शत्रुः, मित्रम् = सुहृद्, उदासीनः = तटस्थः, अनन्तरः = पश्चात्, तत्परः- तत् = तस्य, परः = परवर्त्ती, तथा परः = अन्यः, एते = पूर्वोक्ताः चतुर्दिक्षु = सर्वतः, क्रमशः = आनुपूर्व्येण, स्थिताः, नृपाः = राजानः, प्राकृताः मित्रशत्रवः, ज्ञेयाः = बोध्याः । तथा स्वसमीपतराः - स्वस्य = आत्मनः, समीपतराः = अतिसन्निकृष्टाः, भृत्याः = सेवकाः, कर्षिताः = क्लेशिताः, अमात्याद्याश्च = आप्तसचिवादयश्च, अरयः = शत्रवो भवन्ति ॥ २०-२२ ॥ हिन्दी - किसी भी राजा के राज्य की सभी ओर चारों दिशाओं में अत्यन्त निकटवर्त्ती राजे तथा उस राज्य के बाद वाले राजे के रास्ते तथा उनकी सीमा से बाहर के राजे क्रमशः स्वाभाविक रूप से समीपवर्ती राजे दुश्मन, उनके बाद वाले राजे उदासीन तथा उनके बादवाले राजे मित्र होते हैं । फिर कम ताकत वाले दुश्मन भी पार्श्ववर्त्ती, मध्यवर्ती एवं दूरवर्ती होने के कारण क्रम से शत्रु, उदासीन एवं मित्र होते हैं । फिर दुश्मन, दोस्त और उदासीन राजाओं के भी उनके चारों ओर रहने वाले पार्श्ववर्ती राजे दुश्मन, मध्यवर्त्ती राजे उदासीन एवं दूरवर्ती राजे मित्र होते हैं । अपने अत्यन्त निकटवर्ती सेवक एवं मंत्री प्रभृति भी राजा के द्वारा कष्ट दिये जाने पर भी दुश्मन बन जाते हैं ॥२०-२२ ॥ आसमन्तादित्यादि । आसमन्तात् सर्वतः चतुर्दिक्षु ये नृपाः निकटवर्त्तिनः, ये च तत्पराः तदनन्तरवर्त्तिनः तत्पराः पुनश्च तदनन्तरवर्त्तिनः अन्ये नृपाः ते क्रमात् हीनानि बलानि अरयः शत्रवश्च CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 17

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 17 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४२ ९ येषां तादृशाः भवन्ति । ते तु क्रमात् प्राकृताः सहजाः मित्राणि उदासीनाः मध्यस्थाः तथा शत्रवः स्युः । किञ्च अरिः मित्रम् उदासीनः, अनन्तरः तत्परः तथापरः अन्यः एते चतुर्दिक्षु क्रमशः स्थिताः नृपाः प्राकृताः मित्रशत्रवः ज्ञेयाः । तथा स्वस्य समीपतराः अतिसन्निकृष्टाः भृत्याः कर्षिताः क्लेशिताः अमात्याद्याश्च अरयः शत्रवः ज्ञेया इति शेषः ॥ २०-२२ ॥ बृंहयेत् कर्षयेत् मित्रं हीनाधिकबलं क्रमात् ॥ २३ ॥

अन्वयः — हीनाधिकबलं मित्रं क्रमात् बृंहयेत् कर्षयेच्च ॥ २३ ॥

व्याख्या — हीनाधिकबलम् - हीनबलम् = न्यूनशक्तिम्, अधिकबलम् = आत्मनोऽधिक-शक्तिशालिनम्, मित्रम् = सुहृदम्, क्रमात् = क्रमशः, बृंहयेत् = वर्द्धयेत्, हीनबलम्, अधिकबलम् = निजाधिकबलशालिनो मित्रराजानम्, च = पुनः कर्षयेत् = क्षीणं कुर्यात् ॥ २३ ॥

हिन्दी — कम बल वाले और अधिक बल वाले राजाओं को भी वाले को अधिक बलशाली तथा अपने से अधिक बलशाली को चाहिए ॥ २३ ॥

बृंहयेदिति । हीनाधिकबलं हीनबलम् अधिकबलञ्च मित्रं बृंहयेत् कृशीकुर्य्यात् ॥ २३ ॥

भेदनीया कर्षणीया: पीडनीयाश्च शत्रवः ।

विनाशनीयास्ते सर्वे सामादिभिरुपक्रमैः ॥ २४ ॥

क्रमशः कम बल क्षीणबल बनाना वर्द्धयेत् कर्षयेच्च अन्वयः – ते सर्वे शत्रवः सामादिभिः उपक्रमैः भेदनीयाः कर्षणीयाः पीडनीयाः च विनाशनीयाः ॥ २४ ॥

व्याख्याः — ते = पूर्वोक्ताः, सर्वे = सकलाः, शत्रवः = अरयः सामादिभिः = सामदान-भयभेदादिभिः, उपक्रमैः = उपायज्ञानपूर्वकारम्भैः, भेदनीयाः = विदारणीयाः, कर्षणीयाः = क्षरणीयाः, पीडनीयाः = क्लेशनीयाः, च = पुनः, विनाशनीयाः = विध्वंसनीयाः ॥ २४ ॥

हिन्दी — और जो राजे दुश्मन हैं उनमें सामादि उपायों से भेद डालकर उन्हें कमजोर बना कर एवं सता कर विनष्ट कर देना चाहिए ॥२४ ॥

भेदनीया इति । ते सर्वे शत्रवः सामादिभिः सामदानभेदाद्यैः उपायैः भेदनीयाः प्रकृतिषु मनोभङ्गं प्रापणीयाः कृशीकरणीयाः विनाशनीयाश्च ॥ २४ ॥

मित्रं शत्रुं यथायोग्यैः कुर्य्यात् स्ववशवर्त्तिनम् ।

उपायेन यथा व्यालो गजः सिंहोऽपि साध्यते ॥ २५ ॥

अन्वयः — उपायेन यथा व्यालः गजः सिंहोऽपि साध्यते । तथा यथायोग्यैः मित्रं शत्रुं स्व-वशवर्त्तिनं कुर्यात् ॥ २५ ॥

व्याख्या — उपायेन = उचितसाधनेन, यथा = येन प्रकारेण, व्यालः =: सर्पः, गजः = = 1 द्विपः, सिंहोऽपि = मृगराजोऽपि साध्यते = वशीक्रियते, तथा = = तेनैव प्रकारेण, यथायोग्यैः = यथार्हैः, साधनैः, मित्रम् = सुहृदम्, शत्रुम् = रिपुम्, च, स्ववशवर्त्तिनम् [ - — स् स्वस्य = आत्मनः, वशवर्त्तिनम् = वशानुगम्, कुर्यात् = विधेयात् ॥ २५ ॥

हिन्दी — जैसे सही उपाय से लोग विषैले साँप, मतवाले हाथी और सिंह को वशवर्त्ती CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 18

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 18 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४३० शुक्रनीतिः बना लेते हैं, उसी तरह अच्छे साधनों से दोस्त और दुश्मनों को अपना वशानुगामी बनाना चाहिए ॥ २५ ॥

मित्रमिति । यथा उपायेन व्यालः सर्पः सिंहः गजः हस्ती च साध्यते वशीक्रियते तथा यथायोग्यैः उपायैरित्यर्थः, मित्रं शत्रुञ्च स्वस्य वशवर्त्तिनं कुर्य्यात् ॥ २५ ॥

भूमिष्ठाः स्वर्गमायान्ति वज्रं भिन्दन्त्युपायतः ॥ २६ ॥

अन्वयः — उपायतः भूमिष्ठाः स्वर्गम् आयान्ति च वज्रं भिन्दन्ति ॥ २६ ॥

व्याख्या — उपायतः = = सदुपायेन, भूमिष्ठाः = धरास्थाः जनाः, स्वर्गम् = अपरलोकम्, आयान्ति = व्रजन्ति, च = पुनः, वज्रम् = ऐन्द्रास्त्रम्, भिन्दन्ति = स्फोटयन्ति ॥ २६ ॥

हिन्दी — क्योकि उपाय से मनुष्य धरती पर रहकर भी स्वर्ग में पहुँच जाते हैं और वज्र को भी चीर डालते हैं ॥ २६ ॥

भूमिष्ठा इति । उपायतः उपायेन भूमिष्ठाः पृथिवीस्था जनाः स्वर्गम् आयान्ति गच्छन्ति, वज्रं भिन्दन्ति च ॥ २६ ॥

सुहृत्सम्बन्धिस्त्रीपुत्रप्रजाशत्रुषु ते पृथक् ।

सामदानभेददण्डाश्चिन्तनीयाः स्वयुक्तितः ॥ २७ ॥

अन्वयः — ते सामदानभेददण्डाः स्वयुक्तितः सुहृत्सम्बन्धिस्त्रीपुत्रप्रजाशत्रुषु च पृथक् पृथक् चिन्तनीयाः ॥ २७ ॥

व्याख्या – ते = पूर्वोक्ताः, सामदानभेददण्डाः = उपायभेदाः, स्वयुक्तितः = आत्मकौशलेन, सुहृत्सु = मित्रवर्गेषु, सम्बन्धिषु = बान्धवेषु, स्त्रीषु = नारीषु, पुत्रेषु = सुतेषु, प्रजासु = प्रशासितजनेषु, शत्रुषु = रिपुषु, च = पुनः, पृथक् पृथक् = भिन्नं भिन्नम्, चिन्तनीयाः = विचारणीयाः ॥ २७ ॥

हिन्दी — मित्रवर्ग, सम्बन्धी, बेटे, प्रजा और शत्रु — इन सबों के बारे में पूर्वोक्त साम, दान तथा दण्ड का प्रयोग अपनी युक्ति से अलग - अलग सोचना चाहिए ॥ २७ ॥

सुहृदिति । ते सामदानभेददण्डाः स्वयुक्तितः निजयुक्त्यनुसारेण सुहृत्सु सम्बन्धिषु, स्त्रीषु, पुत्रेषु प्रजासु शत्रुषु च पृथक् पृथक् चिन्तनीयाः ॥ २७ ॥

एकशीलवयोविद्याजातिव्यसनवृत्तयः साहचर्ये भवेन्मित्रमेभिर्यदि तु सार्जवैः ॥ २८ ॥

त्वत्समस्तु सखा नास्ति मित्रे साम इदं स्मृतम् ।

मम सर्वं तवैवास्ति दानं मित्रे सजीवितम् ॥ २ ९ ॥

अन्वयः — ये एकशीलवयोविद्याजातिव्यसनवृत्तयः सार्जवैः एभिः साहचर्ये यदि मित्रं भवेत् तदा मित्रे त्वया समः सखा नास्ति, इदं साम स्मृतम् । किञ्च मित्रे मम सर्वं तवैवास्ति इदं सजीवितं दानं स्मृतम् ॥ २८-२९ ॥ व्याख्या — ये = पूर्वोक्ताः एकः = समानः, शीलम् = स्वभावम्, वयः = अवस्थाक्रमः, विद्या = ज्ञानम्, जातिः = कुलं, व्यसनम् = दोषः, वृत्तिः = आजीविका, येषां ते तथोक्ताः, सार्जवैः = कपटशून्यैः, एभिः = एतैः साहचर्ये = सहवर्त्तित्वे, यदि = चेत्, मित्रम् = मित्रत्वम्, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 19

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 19 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्थाध्यायस्य प्रथमं प्रकरणम् ४३१ भवेत् = स्यात्, तदा = तस्मिन् मित्रे, त्वया = भवता, समः सदृशः, सखा = मित्रम्, नास्ति = न विद्यते । इदम् = एतत् साम = सान्त्वनावचनम्, स्मृतम् = कथितम् । किञ्च तथाविधे मित्रे, मम = = मदीयम्, सर्वम् = सकलम्, वस्तु, तवैव = भवतः एव, अस्ति = विद्यते, इदम् = एतत्, सजीवितम् = जीवनसहितम्, दानम् = प्रदानवचनम्, स्मृतम् = कथितमिति शेषः॥२८-२९ ॥ हिन्दी — जिनके आपस में स्वभाव, उम्र, ज्ञान, जाति, आदत और आजीविका- ये सभी बातें समान हैं, वे यदि निष्कपटभाव से सरल होकर एक जगह मिलते हैं तो परस्पर मित्र बन जाते हैं । ऐसे मित्रों के साथ ' तुम्हारे समान मेरा दूसरा कोई मित्र नहीं हैं ' ऐसा कहना ही ‘ साम ' कहलाता है तथा ' मेरी सारी वस्तु ही नहीं मेरी जान भी तुम्हारी ही है ' ऐसा कहना मित्र के लिए ‘ दानवाक्य ' कहलाता है ॥ २८-२९ ॥ एकेति । त्वत्सम इति । ये एकः समानः शीलं वयः वयः क्रमः विद्या जातिः व्यसनं दोषः वृत्तिः जीवनोपायश्च येषां ते तथोक्ताः, सार्जवैः अकपटै: एभिः साहचर्य्ये यदि मित्रं मित्रत्वमित्यर्थः, भावप्रधानो निर्देशः, भवेत् तदा तस्मिन् मित्रे त्वया समः सखा नास्ति इदं साम सान्त्ववचनं स्मृतम् । किञ्च तथाविधे मित्रे मम सर्वं वस्तु तवैव अस्ति, इदं सजीवितं जीवनसहितं दानं दानवाक्यं स्मृतमिति शेषः ॥ २८-२९ ॥

मित्रेऽन्यमित्रसुगुणान् कीर्त्तयेद् भेदनं हि तत् ।

मित्रे दण्डो न करिष्ये मैत्रीमेवंविधोऽसि चेत् ॥ ३० ॥

अन्वयः– मित्रे अन्यमित्रसुगुणान् यत् कीर्त्तयेत् तत् हि भेदनम् । चेत् एवंविधोऽसि मैत्रीं न करिष्ये इति मित्रे दण्डः ॥३० ॥

व्याख्या – मित्रे = सुहृत्सम्मुखे, अन्येषाम् = अपरेषाम्, मित्राणाम् = सुहृदाम्, सुगुणान् = श्रेष्ठगुणान्, यत्कीर्त्तयेत् = वर्णयेत्, तद्गुणकथनम्, तस्य = मित्रस्य, भेदनम् = भेदकम्, हि = इति निश्चयेन भवति । चेत् = यदि, एवंविधः = एतादृशः, असि = भवसि तदा भवता सह, मैत्रीम् = सौहार्दम्, न = नहि, करिष्ये = विधास्ये, इति वचनम्, मित्रे = सुहृदि, दण्डः = दण्डाख्यो भेदः, कथितः इति शेषः ॥ ३० ॥

हिन्दी – मित्र के सामने अन्य मित्रों के सुन्दर गुणों का बखान करना उस मित्र के लिए भेदवाक्य होता है और ‘ तुम यदि ऐसे हो तो तुम्हारे साथ दोस्ती नहीं करूँगा ' यह कहना ही मित्र के लए ‘ दण्ड ' वाक्य है ॥३० ॥

मित्रे इति । मित्रे अन्येषां मित्राणां सुगुणान् उत्तमगुणान् यत् कीर्त्तयेत् तत् कीर्त्तनं तस्य मित्रस्य भेदनं मनोभङ्गकरणं हि । चेत् यदि त्वम् एवंविधः एतादृशः असि, तदा त्वया सह मैत्रीं न करिष्ये इति वचनं मित्रे दण्डः स्मृत इति शेषः ॥३० ॥

यो न संयोजयेदिष्टमन्यानिष्टमुपेक्षते ।

उदासीनः स न कथं भवेच्छत्रुः सुसान्धिकः? ॥ ३१ ॥

अन्वयः — यः इष्टं न संयोजयेत् अन्यानिष्टं उपेक्षते, सः उदासीनः सुसान्धिकः शत्रुः कथं न भवेत्? ॥३१ ॥

व्याख्या – यः = जनः, इष्टम् = अभिलषितम्, न = नहि, संयोजयेत् = सम्मेलयेत्, तथा अन्यकृतम् = अपरजनसम्पादितम्, अनिष्टम् = अनभिलषितम्, उपेक्षते = उपेक्षां कुरुते, सः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 20

शुक्रनीति - विमला हिन्दी टीका सहित, पृष्ठ 20 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्रनीतिः ४३२ उदासीनः = निःस्पृहः, सः = असौ, सुसान्धिकः = सुष्ठुतया सन्धिना साध्यः, शत्रुः = रिपुः, कथम् = केन प्रकारेण, न = = नहि, भवेत् = स्यात्, अपितु रिपुरेव भवेदिति ॥३१ ॥

हिन्दी — जो व्यक्ति अपनी अभिलषित वस्तु की सिद्धि न करे और दूसरों के द्वारा किये गये अनभिलषित काम की उपेक्षा करे, ऐसा निःस्पृह व्यक्ति भलीभाँति सन्धि करने के बावजूद भी भला कयों न दुश्मन हो? ॥३१ ॥

य इति । यः इष्टं न संयोजयेत् न कुर्य्यात्, तथा अन्यकृतमनिष्टम् उपेक्षते न पश्यति स उदासीनः, सः सुसान्धिकः सुष्ठु सन्धिना साध्यः शत्रुः कथं न भवेत्? अपितु शत्रुरेव ॥ ३१ ॥

परस्परमनिष्टं न चिन्तनीयं त्वया मया ।

सुसाहाय्यं हि कर्त्तव्यं शत्रौ साम प्रकीर्त्तितम् ॥ ३२ ॥

अन्वयः — त्वया मया च परस्परं अनिष्टं न चिन्तनीयं प्रत्युत सुसाहाय्यं कर्त्तव्यम्, इति शत्रौ साम प्रकीर्त्तितम् ॥ ३२ ॥

व्याख्या — त्वया = भवता, मया च परस्परम्, अनिष्टम् = अहितम्, न = नहि, चिन्तनीयम् = विचारणीयम्, प्रत्युत = अपितु, सुसाहाय्यम् = सुष्ठुपकृतिः, कर्त्तव्यम् = अनुष्ठेयम्, इति = एवम्, शत्रौ = रिपौ, साम = = उपायभेदः, प्रकीर्तितम् = कथितम् ॥ ३२ ॥

हिन्दी —- तुम्हें और हमें परस्पर एक - दूसरे के अनिष्ट का विचार नहीं रखना चाहिए, प्रत्युत एक - दूसरे की सहायता करनी चाहिए - इस प्रकार कहना शत्रु के लिए सामवाक्य कहलाता है ॥३२ ॥

परस्परमिति । त्वया मया च परस्परं परस्परस्य अनिष्टं न चिन्तनीयं प्रत्युत सुसाहाय्यं कर्त्तव्यं हि इति वचनं शत्रौ साम प्रकीर्त्तितम् ॥३२ ॥

करैर्वा प्रमितैर्ग्रामैर्वत्सरे प्रबलं रिपुम् ।

तोषयेत् तद्धि दानं स्याद् यथायोग्येषु शत्रुषु ॥ ३३ ॥

अन्वयः - यथायोग्येषु शत्रुषु प्रबलं रिपुं वत्सरे प्रमितैः करैः ग्रामैः वा यत् तोषयेत् तत् हि दानम् ॥३३ ॥

व्याख्या — यथायोग्येषु = यथोचितेषु, शत्रुषु = रिपुषु मध्ये, प्रबलम् = = प्रकर्षबलशालिनम्, रिपुम् = अरिम्, वत्सरे = प्रतिवर्षे, प्रमितैः = प्रमाणितैः स्तोकैः, करैः = राजस्वैः, ग्रामैर्वा = वसतिभिर्वा, यत् तोषयेत् = तृप्येत् मोदयेद्वा, तत् हि = तदेव, तादृशे शत्रौ दानम्, कथितमिति शेषः ॥३३ ॥

हिन्दी — अपने से अधिक शक्तिशाली शत्रु को वार्षिक मालगुजारी देकर या छोटा - सा कोई गाँव देकर या यथोचित कुछ देकर उसे संतुष्ट कर लेता है, वही दान कहलाता है ॥३३ ॥

करैरिति । यथायोग्येषु शत्रुषु मध्ये प्रबलं रिपुं शत्रुं वत्सरे वत्सरे प्रमितैः परिमितैः करैः राजस्वैः ग्रामैर्वा त्यक्तैरिति शेषः, यत् तोषयेत् तत् हि तदेव तादृशे शत्रौ दानं प्रकीर्त्तितमिति शेषः ॥ ३३ ॥

शत्रुसाधकहीनत्वकरणात् प्रबलाश्रयात् ।

तद्धीनतोज्जीवनाच्च शत्रुभेदनमुच्यते ॥ ३४ ॥

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA