शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 201–210
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 201–210
पृष्ठ 201
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ६१३ कान की परिधि छत्तीस अंगुल की होनी चाहिए ॥ १७२ ॥
कर्णयोरिति । कर्णयोः अन्तरे मध्ये व्यासः वेधपरिमाणमित्यर्थः, द्व्यङ्गुलः अङ्गुलद्वयाधिकः तालसम्मितः तालप्रमाणः । अस्यैव गणेशस्य मस्तके परिधिः षट्त्रिंशदङ्गुलः ज्ञेयः ॥ १७२ ॥
नेत्रोपान्ते च परिधिः शीर्षतुल्यः सदा मतः ।
सद्व्यङ्गुलद्वितालः स्यान्नेत्राधः परिधिः करे ॥ १७३ ॥
करा परिधिर्ज्ञेयः पुष्करे च दशाङ्गुलः त्र्यङ्गुलं कण्ठदैर्घ्यं तत्परिधिस्त्रिंशदङ्गुलः ॥ १७४ ॥
अन्वयः — नेत्रोपान्ते च परिधिः सदा शीर्षतुल्यः मतः । नेत्राधः परिधिः सद्व्यङ्गुलद्वितालः स्यात् । करे कराग्रे पुष्करे च परिधिः दशाङ्गुलः ज्ञेयः । कण्ठदैर्घ्यं त्र्यङ्गुलं, तत्परिधिः त्रिंशदङ्गुल. ज्ञेयः ॥ १७३-१७४ ॥ व्याख्या – नेत्रयोः = नयनयो:, उपान्ते = अन्तसमीपभागे, च = पुनः, यः परिधिः = परिवेशः, सः तदा, शीर्षतुल्यः = मस्तकसदृशः, मतः = कथितः । नेत्राधः – नेत्रयोः = नयनयोः, अधः = अधोभागे, परिधिश्च = मण्डलञ्च द्व्यङ्गुलद्वितालः = अङ्गुलिद्वयाधिकद्वितालः, स्यात् = भवेत् । करे = हस्तिहस्ते, कराग्रे = शुण्डादण्डाग्रे, पुष्करे = गजशुण्डाये च, परिधिः = परिणाहः, दशाङ्गुलः = अङ्गुलिदशपरिमितः, ज्ञेयः = बोध्यः । कण्ठस्य = गलप्रदेशस्य, दैर्घ्यम् = आयामः, त्र्यङ्गुलः = अङ्गुलित्रयपरिमितम्, तत् = तस्य, च परिधिः = विस्तारः त्रिंशदङ्गुलः = त्रयोऽधिकदशाङ्गुलपरिमितः, ज्ञेयः = बोध्यः ॥ १७३-१७४ ॥ हिन्दी — दोनों आँखों के पार्श्ववर्ती स्थानों की परिधि सदा माथे के समान ही होनी चाहिए । आँखों के नीचले भाग की परिधि दो अंगुल ज्यादा दो वित्ता होनी चाहिए । सूँड में सूँड की जड़ तथा उसकी अन्तिम छोर की परिधि दस अंगुल होनी चाहिए । कंठ की लम्बाई तीन अंगुल तथा इसका विस्तार तीस अंगुल होना चाहिए ॥ १७३-१७४ ॥ नेत्रोपान्ते इति । कराने इति । नेत्रयोः उपान्ते च यः परिधिः सः तदा शीर्षतुल्यः मस्तकसदृशः मतः कथितः । नेत्रयोः अधः निम्नदेशे परिधिश्च सद्व्यङ्गुलद्वितालः अङ्गुलद्वयसहितद्वितालः स्यात् । करे शुण्डादण्डे कराग्रे शुण्डाये पुष्करे च परिधिः दशाङ्गुलः ज्ञेयः । कण्टकस्य दैर्घ्यं त्र्यङ्गुलम् अङ्गुलत्रयपरिमितं तस्य कण्ठस्य परिधिश्च त्रिंशदङ्गुलः ज्ञेय इति शेषः ॥ १७३-१७४ ॥
परिणाहस्तूदरे च चतुस्तालात्मिकः सदा ।
षडङ्गुलो नियोक्तव्योऽष्टाङ्गुलो वापि शिल्पिभिः ॥ १७५ ॥
अन्वयः — उदरे परिणाहः सदा चतुस्तालात्मिकः षडङ्गुलः वा अष्टाङ्गुलः वापि शिल्पिभिः सदा नियोक्तव्यः ॥ १७५ ॥
व्याख्या — उदरे = तुन्दे, परिणाहः = परिधिः, सदा = सर्वदा, चतुस्तालात्मिकः = तालचतुष्टयपरिमितः, षडङ्गुलः = अङ्गुलषट्काधिकः, वा = अथवा, अष्टाङ्गुलः = अङ्गुलाष्टाधिकः, शिल्पिभिः = मूर्तिकारैः, सदा = सततम्, नियोक्तव्यः = नियोजनीयः ॥ १७५ ॥
हिन्दी - मूर्तिकार को हमेशा इनके पेट की लम्बाई छः या आठ अंगुल अधिक चार वित्ते की बनानी चाहिए ॥ १७५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 202
पाठ पढ़ें पाठ छिपाएँ
६१४ शुक्रनीतिः परिणाह इति । उदरे च परिणाहः दैर्घ्यं चतुस्तालात्मिकः तालचतुष्टयप्रमाणः षडङ्गुलः अङ्गुलषट्काधिकः वा अष्टाङ्गुलः अङ्गुलाष्टकाधिकः शिल्पिभिः निर्मातृभिः सदा नियोक्तव्यः कार्य इत्यर्थः ॥ १७५ ॥
दन्तः घडलो दीर्घस्तन्मूलपरिधिस्तथा ।
षडङ्गुलश्चाधँरोष्ठः पुष्करं कमलान्वितम् ॥ १७६ ॥
अन्वयः — दन्तः षडङ्गुलः दीर्घः, तत् मूलपरिधिः तथा अधरोष्ठश्च षडङ्गुलः तथा पुष्करं कमलान्वितम् ॥ १७६ ॥
व्याख्या — दन्तः = रदः, षडङ्गुलः = अङ्गुलषट्कमितः, दीर्घः = आयतः, तस्य = दशनस्य, मूलपरिधिः = मूलवेष्टनम्, तथा = तथैव षडङ्गुलः = अङ्गुलषट्कैव, अधरोष्ठश्च - अधरः = अधस्तनः ओष्ठः, ओष्ठश्च = दन्तच्छद च षडङ्गुलः = अङ्गुलषट्कमेव, तथा पुष्करम् = = गजशुण्डाग्रभागश्च, कमलेन = पद्मेन, अन्वितम् = सहितम्, निर्मातव्यमिति शेषः ॥ १७६ ॥
हिन्दी – दाँत की लम्बाई छ: अंगुल तथा उसकी जड़ की परिधि भी छ: अंगुल हो होना चाहिए । अधेराष्ठ भी छः अंगुल का तथा सूँड का अगला भाग कमल की तरह होना चाहिए ॥ १७६ ॥
दन्त इति । दन्तः दैर्घ्ये षडङ्गुलः, तस्य दन्तस्य मूलपरिधिः मूलवेष्टनञ्च तथा षडङ्गुल इत्यर्थः, अधरोष्ठश्च षडङ्गुलः तथा पुष्करं कमलेन पद्मेन अन्वितं युक्तं कार्य्यमिति शेषः ॥ १७६ ॥
ऊरुमूलस्य परिधिः षट्त्रिंशदङ्गुलो मतः ।
त्रयोविंशत्यङ्गुलः स्यादूर्वग्रपरैधिस्तथा ॥ १७७ ॥
अन्वयः — ऊरुमूलस्य परिधिः षट्त्रिंशदङ्गुलः मतः, तथा ऊर्वग्रपरिधिः त्रयोविंशत्यङ्गुलः स्यात् ॥ १७७ ॥
व्याख्या — ऊरुमूलस्य = जङ्घाप्रारम्भिकभागस्य, परिधिः = वेष्टनम्, षट्त्रिंशदङ्गुलः, मतः = कथितः, तथा ऊर्वोः = जङ्घायाः, अग्रस्य = अग्रभागस्य, परिधिः = परिवेशः, त्रयोविंशत्यङ्गुलः, स्यात् = भवेत् ॥ १७७ ॥
जंघा के प्रारंभिक भाग का विस्तार या घेरा छत्तीस अंगुल तथा उसके अग्रभाग का घेरा तेईस अंगुल का होना चाहिए ॥ १७७ ॥
ऊरुमूलस्येति । ऊरुमूलस्य परिधिः षट्त्रिंशदङ्गुलः मतः, तथा ऊर्वोः अम्रस्य परिधिः त्रयोविंशत्यङ्गुलः स्यात् ॥१७७ ॥
जङ्घामूले तु परिधिविंशत्यङ्गलसम्मितः ।
परिधिर्बाहुमूलादेरधिको लोऽङ्गलः ॥ १७८ ॥
अन्वयः – जङ्घामूले तु परिधिः विंशत्यङ्गुलसम्मितः । बाहुमूलादेः परिधिः द्व्यङ्गुलोऽङ्गुलः अधिकः वा ॥ १७८ ॥
व्याख्या— जङ्घामूले – जङ्घयोः = ऊर्व्योः, मूले = आदिभागे, परिधिः = वेष्टनम्, विंशत्यङ्गुलः = विंशत्यङ्गुलपरिमितः, सम्मितः = कथितः । बाहुमूलादेः = भुजयोरप्रभागादेः, परिधिः = विस्तारः, द्व्यङ्गुलः = अङ्गुलिद्वयपरिमितः अङ्गुलो वा = त्र्यङ्गुलो वेति स्यात् ॥ १७८ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 203
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ६१५ हिन्दी — जाँघों के प्रारंभिक भाग का घेरा बीस अंगुल का और बाँहों के आरंभिक भाग का घेरा उससे दो अंगुल अधिक अर्थात् बाईस अंगुल का तथा उनका अग्रभाग मात्र एक अंगुल अधिक अर्थात् इक्कीस अंगुल होना चाहिए ॥ १७८ ॥
जङ्घेति । जङ्घयोर्मूले परिधिः विंशत्यङ्गुलसम्मितः, तथा बाहुमूलादेः अङ्गुलः अङ्गुलत्रयपरिमित इत्यर्थः ॥१७८ ॥
कर्णनेत्रान्तरं नित्यं विज्ञेयं चतुरङ्गुलम् ।
मूलमध्याग्रान्तरं तु दशसप्तषड्गुलम् ।
नेत्रयोः कथितं तज्ज्ञैर्गणपस्य विशेषतः ॥ १७ ९
अन्वयः — कर्णनेत्रान्तरं नित्यं चतुरङ्गुलं विज्ञेयम् । मूलमध्यामान्तरं गणपस्य नेत्रयोः विशेषतः कथितम् ॥ १ ९९ ॥ व्याख्या — कर्णनेत्रयोः– श्रवणनयनयोः, अन्तरम् = मध्यभागः परिधिः अधिकद्व्यङ्गुलः ॥ तु दशसप्तषडङ्गुलं तज्ज्ञैः , नित्यम् = निरन्तरम्, चतुरङ्गुलम् = अङ्गुलचतुष्टयात्मकं, विज्ञेयम् । तथा अनयोः मूलान्तरम् = मध्यान्तरम्, अग्रान्तरन्तु, दशसप्तषडङ्गुलम् = क्रमशः दशाङ्गुलपरिमितं सप्ताङ्गुलपरिमितं तथा षडङ्गुलपरिमितम्, ज्ञेयम् । तज्ज्ञैः = तद्विशेषज्ञैः, गणपस्य = गजाननस्य, नेत्रयोः = लोचनयो:, इत्थम् = एवम्प्रकारेण, कथितम् = उक्तम् ॥ १७ ९ ॥ हिन्दी — कान और आँखों के बीच का अन्तराल सदैव चार अंगुल होना चाहिए । दोनों आँखों के मूल, मध्य तथा अग्रभाग का अन्तर क्रमशः दस, सात एवं छः अंगुल का विशेषज्ञों गणेशमूर्ति के सम्बन्ध में बतलाया है ॥ १७ ९ ॥ कर्णेति । कर्णनेत्रयोः अन्तरं मध्यभागः नित्यं सततं चतुरङ्गुलं, तथा अनयोः मूलान्तरं मध्यान्तरम् अप्रान्तरन्तु दशसप्तषडङ्गुलं क्रमेण दशाङ्गुलं सप्ताङ्गुलं षडङ्गुलञ्चेत्यर्थः, विज्ञेयम् । तज्ज्ञैः तद्विज्ञैः पण्डितैः गणपस्य गणेशस्य नेत्रयोः विशेषतः विशेषेण नेत्रयोः उत्सेधः पृथुता स्त्रीणां स्तने पञ्चाङ्गुला मता ॥ अन्वयः — स्त्रीणां स्तने उत्सेधः पृथुता च पञ्चाङ्गुला मता ॥ १८० व्याख्या — स्त्रीणाम् = देवीप्रतिमानाम्, स्तने = कुचे, पृथुता = पीनत्वम्, च, पञ्चाङ्गुला = अङ्गुलिपञ्चकम्, मता = कथिता ॥ हिन्दी – देवी की मूर्ति में स्तन की ऊँचाई एवं मोटाई चाहिए ॥ १८० ॥
इत्थं कथितम् ॥ १७ ९ ॥ १८० ॥ ॥ उत्सेधः = औन्नत्यम्, १८० ॥ पाँच अंगुल की होनी उत्सेध इति । स्त्रीणां शक्तिमूर्तीनां स्तने उत्सेधः उच्छ्रायः पृथुता स्थूलता च पञ्चाङ्गुला अङ्गुलपञ्चकपरिमिता मता ॥ १८० ॥
स्त्रीकट्यां परिधिः प्रोक्तस्त्रितालो द्व्यङ्गलाधिकः ।
स्त्रीणामवयवान् सर्वान् सप्ततालैर्विभावयेत् ॥ १८१ ॥
अन्वयः — स्त्रीणां कट्यां परिधिः द्व्यङ्गुलाधिकः त्रितालः प्रोक्तः । स्त्रीणां सर्वान् अवयवान् सप्ततालैः विभावयेत् ॥ १८१ ॥
व्याख्या — स्त्रीणाम् = देवीमूर्तीनाम्, कट्याम् = काञ्चीपदम्, परिधिः = वेष्टनम्, द्व्यङ्गु-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 204
पाठ पढ़ें पाठ छिपाएँ
६१६ शुक्रनीति: लाधिकः = अङ्गुलिद्वयाधिकपरिमितः, त्रितालः = तालत्रयात्मकः, प्रोक्तः = कथितः । स्त्रीणाम् = शक्तिमूर्तीनाम्, सर्वान् = सकलान्, अवयवान् = देहाङ्गान्, सप्ततालैः = सप्तभिः तालाख्य-प्रमाणैः, विभावयेत् = अनुचिन्तयेत् ॥ १८१ ॥
हिन्दी — नारीमूर्त्ति की कमर का घेरा दो अंगुल अधिक तीन बित्ते का होना चाहिए तथा उनके सभी अंगों का कुल मिलाकर योग सात बित्ता होना चाहिए ॥ १८१ ॥
स्त्रीकट्यामिति । स्त्रीणां शक्तिमूर्तीणां कट्यां परिधिः द्व्यङ्गुलाधिकः अङ्गुलद्वयाधिकः त्रितालः तालत्रयमितः प्रोक्तः कथितः । स्त्रीणां सर्वान् अवयवान् सप्ततालैः सप्तभिः तालाख्यप्रमाणैः विभावयेत् विचिन्तयेत् सप्ततालपरिमितान् कुर्य्यादित्यर्थः ॥१८१ ॥
सप्ततालादिमानेऽपि मुखं स्याद् द्वादशाङ्गुलम् ।
बालादीनामपि सदा दीर्घता तु पृथक् पृथक् ॥ १८२ ॥
अन्वयः — सप्ततालादिमानेऽपि मुखं द्वादशाङ्गुलं स्यात् । बालादीनामपि दीर्घता सदा पृथक् पृथक् ज्ञेया ॥१८२ ॥
व्याख्या — सप्ततालादिमानेऽपि = तालसप्तकादिपरिमितेऽपि, मुखम् = देवीमूर्तीनामाननम्, द्वादशाङ्गुलम् = द्वादशाङ्गुलपरिमितमेव, स्यात् = भवेत् । बालादीनामपि = बालादिमूर्त्तिभेदाना-मपि, सदा = सर्वदा, पृथक् पृथक् = भिन्नं भिन्नम्, दीर्घता विस्तृतिः, ज्ञेया = बोध्या ॥१८२ ॥
हिन्दी — सात बित्ते अवयवों के संयोग का प्रमाण होने के बावजूद इनके मुखों का मान बारह अंगुल ही होता है । फिर बाला प्रभृति मूर्त्तिभेदों की लम्बाई सदा भिन्न - भिन्न होती है ॥१८२ ॥
सप्तेति । सप्ततालादिमाने तालसप्तकादिपरिमाणे सत्यपि मुखं द्वादशाङ्गुलं स्यात् स्त्रीणामिति शेषः । किञ्च बालादीनां देवमूर्त्तिभेदानाम् अपि सदा पृथक् पृथक् दीर्घता ज्ञेया इति शेषः ॥ १८२ ॥
शिशोस्तु कन्धरा ह्रस्वा पृथु शीर्षं प्रकीर्त्तितम् ।
कण्ठाधो वर्द्धते यादृक् तादृक् शीर्षं न वर्द्धते ॥ १८३ ॥
अन्वयः – शिशोस्तु कन्धरा हस्वा शीर्षं पृथु प्रकीर्त्तितम् । कण्ठाधः यादृक् वर्द्धते तादृक् शीर्षं न वर्द्धते ॥ १८३ ॥
व्याख्या — शिशोः– बालदेवमूर्तेः, कन्धरा = = शिरोधरा 1, ह्रस्वा = आयामशून्या, तथा = तेनैव प्रकारेण, शीर्षम् = मस्तकम्, पृथु = स्थूलम्, प्रकीर्त्तितम् = कथितम् । यतः कण्ठाधः— कण्ठस्य = ग्रीवायाः अधः = निम्नभागः, यादृक् = यत्प्रकारकः, वर्द्धते = एधते, तादृक् = तत्प्रकारकः, शीर्षम् = मस्तकम्, न = नहि, वर्द्धते = एधते ॥ १८३ ॥
हिन्दी — शिशुमूर्त्ति की गर्दन छोटी तथा माथा बड़ा बनाना चाहिए । क्योंकि गर्दन के नीचे का हिस्सा जैसा बढ़ता है वैसा माथा नहीं बढ़ता ॥ १८३ ॥
शिशोरिति । शिशोः बालकस्य देवमूर्त्तिभेदस्य कन्धरा ग्रीवा ह्रस्वा खर्वा, तथा शीर्ष मस्तकं पृथु विशालं प्रकीर्त्तितं, यतः कण्ठाधः कण्ठस्य अधः निम्नदेशः यादृक् वर्द्धते शीर्षं तादृक् न वर्द्धते ॥ १८३ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 205
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ६१७
कण्ठाधो मुखमानेन बालः सार्द्धचतुर्गुणः ।
द्विगुणः शिश्नपर्य्यन्तो ह्यधः शेषन्तु सक्थितः ॥ १८४ ॥
अन्वयः —– बालः मुखमानेन कण्ठाधः सार्द्धचतुर्गुणः । सक्थितः शेषन्तु अधः शिश्नपर्यन्तं द्विगुणः कार्यः ॥१८४ ॥
व्याख्या- बालः = • शिशुदेवमूर्त्तिभेदः, मुखमानेन = सुखस्य = आननस्य, मानेन = परिमाणेन, कण्ठाधः —– कण्ठस्य = ग्रीवायाः, अधः - अधोभागः, सार्द्धचतुर्गुणः = अर्द्धेण सहितं चतुर्गुणितपरिमितम् । सक्थितः = ऊरुप्रदेशात्, शेषम् = अवशिष्टम्, अधः = निम्नभागः, शिश्नपर्यन्तम् = आलिङ्गम्, द्विगुणः = द्विगुणितः कार्यः ॥ १८४ ॥
हिन्दी – बालमूर्ति में मुख की अपेक्षा गर्दन के नीचे का भाग साढ़े चार गुना बड़ा होता है । उसमें लिंग तक का भाग लम्बाई में मुँह से दूना तो अवश्य ही होता है ॥ १८४ ॥
कण्ठा इति । बालः शिशुः देवमूर्त्तिभेदः मुखमानेन मुखस्य परिमाणापेक्षयेत्यर्थः, कण्ठस्य अधः निम्नदेशे सार्द्धचतुर्गुणः अर्द्धसहितचतुर्गुणप्रमाण इत्यर्थः । सक्थितः ऊरुदेशात् शेषम् अवशिष्टम् अधः निम्नभागः शिश्नपर्य्यन्तं द्विगुणः कार्य्य इति शेषः ॥ १८४ ॥
सपादद्विगुणौ हस्तौ द्विगुणौ वा मुखेन हि ।
स्थौल्ये तु नियमो नास्ति यथाशोभि प्रकल्पयेत् ॥ १८५ ॥
अन्वयः - हस्तौ मुखेन हि सपादद्विगुणौ वा द्विगुणौ कार्यौ, स्थौल्ये तु नियमः नास्ति । यथाशोभि प्रकल्पयेत् ॥ १८५ ॥
व्याख्या – हस्तौ = करौ, मुखेन = आननेन, हि = इति निश्चयेन, सपादद्विगुणौ = पादैकसहितं द्विगुणितम्, वा = अथवा, द्विगुणौ = मात्रद्विगुणितावेव, कार्यों, स्थौल्ये = पीनत्वे, तु नियमः = व्यवस्था, नास्ति = न विद्यते । यथाशोभि = सौन्दर्यानुरूपेण, प्रकल्पयेत् = निर्माणं कुर्यात् ॥ १८५ ॥
हिन्दी — जंघा से लेकर नीचे का समस्त भाग सवा दो गुना ज्यादे, मुँह की अपेक्षा दोनों हाथ सवा दो गुना अथवा दूना लम्बा होता है, किन्तु मोटाई में कोई नियम नहीं है । देखने में वह जैसे सुन्दर लगे वैसे ही बनाना चाहिए ॥ १८५ ॥
सपादेति । हस्तौ मुखेन मुखपरिमाणापेक्षयेत्यर्थः, सपादद्विगुणौ वा द्विगुणौ कार्य्यो इति शेषः । स्थौल्ये स्थूलतायान्तु नियमः नास्ति, यथाशोभि तथा प्रकल्पयेत् कुर्य्यादित्यर्थः ॥ १८५ ॥
नित्यं प्रवर्द्धते बालः पञ्चाब्दात् परतो भृशम् ।
स्यात् षोडशेऽब्दे सर्वाङ्गपूर्णा स्त्री विंशतौ पुमान् ॥ १८६ ॥
अन्वयः — बालः पञ्चाब्दात् परतः नित्यं भृशं प्रवर्द्धते । स्त्री षोडशे अब्दे सर्वाङ्गपूर्णा, पुमान् विंशतौ अब्दे ॥ १८६ ॥
व्याख्या — बालः– शिशुमूर्त्तिः, पञ्चाब्दात् = पञ्चवर्षात्, परतः = ऊर्ध्वम्, नित्यम् = सततम्, भृशम् = अतिशयेन, प्रवर्द्धते = वृद्धिं प्राप्नोति । स्त्री = नारी, षोडशे अब्दे = षोडशे वर्षे, सर्वाङ्गपूर्णा = पूर्णावयवा, पुमान् = पुरुषः, विंशतौ = विंशतिवर्षे, सर्वाङ्गपूर्णो भवति ॥ १८६ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 206
पाठ पढ़ें पाठ छिपाएँ
६१८ शुक्रनीति: हिन्दी — बालक पाँच साल तक प्रतिदिन धीरे - धीरे बढ़ता है, किन्तु पाँच वर्ष के बाद खूब तेज बढता है | स्त्री सोलह साल में तथा पुरुष बीस साल में सर्वाङ्गपूर्ण होता है ॥ १८६ ॥
नित्यमिति । बालः पञ्चाब्दात् पञ्चवत्सरात् परतः ऊर्ध्वं नित्यं भृशम् अतिशयेन प्रवर्द्धते वृद्धिं गच्छति । स्त्री षोडशे अब्दे वत्सरे सर्वाङ्गपूर्णा, पुमान् पुरुषः विंशतौ अब्दे सर्वाङ्गपूर्णः स्यात् ॥ १८६ ॥
ततोऽर्हति प्रमाणन्तु सप्ततालादिकं सदा ।
कश्चिद्वाल्येऽपि शोभाढ्यस्तारुण्ये वार्द्धके क्वचित् ॥ १८७ ॥
अन्वयः — ततः सप्ततालादिकं प्रमाणं सदा अर्हति । कश्चित् बाल्येऽपि शोभाढ्यः तारुण्ये वार्द्धके क्वचित् ॥ १८७ ॥
व्याख्या - ततः = तत्पश्चात् यौवने, सप्ततालादिकम्, प्रमाणम् = अङ्गपरिमितम्, सदा = सर्वदा, अर्हति = समर्थो भवति । कश्चित् = कोऽपि मूर्त्तिभेदः, बाल्येऽपि = शैशवेऽपि, शोभाढ्यः = शोभासम्पन्नः, तारुण्ये = तरुणावस्थायाम्, वार्द्धके = वृद्धावस्थायाम्, क्वचित्, शोभाढ्यः = शोभासम्पन्नो भवति ॥१८७ ॥
हिन्दी – युवावस्था के लिए ही सात बित्ते का प्रमाण मान्य है । कोई बाल्यवस्था में, कोई जवानी में और कोई वृद्धावस्था में शोभासम्पन्न होता है ॥ १८७ ॥
तत इति । तत: यौवने इत्यर्थः, सप्ततालादिकं प्रमाणम् अवयवपरिमाणं सदा अर्हति । कश्चित् मूर्त्तिभेदः बाल्येऽपि शैशवेऽपि शोभाढ्यः शोभनः, तारुण्ये यौवने, वार्द्धके वृद्धावस्थायाञ्च क्वचित् शोभाढ्य इति शेषः ॥ १८७ ॥
मुखाधस्त्र्यङ्गुला ग्रीवा हृदयं तु नवाङ्गुलम् ।
तथोदरं च वस्तिश्च सक्थि त्वष्टादशाङ्गुलम् ॥ १८८ ॥
त्र्यङ्गुलन्तु भवेज्जानु जङ्घा त्वष्टादशाङ्गुला गुल्फाधस्त्र्यङ्गुलं ज्ञेयं सप्ततालस्य सर्वदा ॥ १८ ९ ॥ अन्वयः — मुखाधः त्र्यङ्गुला, ग्रीवा हृदयं नवाङ्गुलं तथा उदरं वस्तिः च नवाङ्गुलं, सक्थि अष्टादशाङ्गुलम्, जानुः त्र्यङ्गुलं, जङ्घा अष्टादशाङ्गुला तथा गुल्फस्य अधः त्र्यङ्गुलम् । एतत् सप्ततालस्य प्रमाणं सर्वदा ज्ञेयम् ॥ १८८-१८९ ॥ व्याख्या — मुखस्य = आननस्य, अधः = = अधोभागे, ग्रीवा = कण्ठः, हृदयम् = वक्षःस्थलम्, नवाङ्गुलम् = अङ्गुलनवात्मकम्, तथा उदरम् = कुक्षिः, वस्तिः = मूत्राशयः, पेडू इति भाषायाम्, नवाङ्गुलमेव, सक्थि = जानूपरिभागस्तु, अष्टादशाङ्गुलम् = अष्टादशाङ्गुलपरिमितम्, ज्ञेयम् । जानु = ऊरुपर्व, त्र्यङ्गुलम् = अङ्गुलित्रयपरिमितम्, जङ्घा = ऊरुः, अष्टादशाङ्गुला एव, तथा गुल्फस्य = घुण्टकस्य, अधः = निम्नभागः, त्र्यङ्गुलम् = अङ्गुलित्रयमेव ज्ञेयम् । एतत् = सर्वम्, सप्ततालस्य = सप्ततालमितस्य प्रतिमाभेदस्य प्रमाणम्, सदा = सर्वदा, ज्ञेयम् ॥ १८८-१८९ ॥ हिन्दी — मुँह के नीचे का भाग गला तीन अंगुल का होना चाहिए । छाती, पेट और पेडू नौ अंगुल का होना चाहिए । जंघा अठारह अंगुल का, घुटना तीन अंगुल का तथा एडी पर की गाँठ के नीचे का भाग भी तीन अंगुल का ही होना चाहिए । यह माप सात बित्ते अर्थात् CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 207
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ६१ ९ साढ़े तीन हाथ वाली मूर्त्ति के अङ्ग - निर्माण के लिए सदा मान्य है ॥ १८८-१८९ ॥ सप्ततालस्य मूर्त्तिभेदस्य प्रकारमाह — मुखाध इति । त्र्यङ्गुलमिति च । मुखस्य अधः निम्नतः ग्रीवा त्र्यङ्गुला अङ्गुलत्रयमिता, हृदयं वक्षः नवाङ्गुलं नवाङ्गुलप्रमाण, तथा उदरं वस्तिः नाभ्यधोभागश्च नवाङ्गुलमिति शेषः, सक्थि ऊरुस्तु अष्टादशाङ्गुलं विज्ञेयमिति । जानु त्र्यङ्गुलं, जङ्घा अष्टादशाङ्गुला तथा गुल्फस्य अधः निम्नभागः त्र्यङ्गुलम् एतत् सप्ततालस्य सप्ततालमूर्त्तिभेदस्य प्रमाणं सर्वेदा ज्ञेयम् ॥ १८८-१८९ ॥
वेदाङ्गुला भवेद् ग्रीवा हृदयन्तु दशाङ्गुलम् ।
दशाङ्गुलं चोदरं स्याद् वस्तिश्चैव दशाङ्गुलः ॥ १ ९ ० ॥
एकविंशाङ्गुलं सक्थि जानु स्याच्चतुरङ्गुलम् ।
एकविंशाङ्गुला जङ्घा गुल्फाधश्चतुरङ्गुलम् ॥ १ ९ १ ॥
अष्टतालप्रमाणस्य मानमुक्तमिदं सदा ॥। १ ९ २ ॥
अन्वयः — प्रीवा वेदाङ्गुला हृदयं तु दशाङ्गुलं भवेत् । उदरं दशाङ्गुलं वस्तिश्चैव दशाङ्गुलं स्यात् । सक्थिः एकविंशाङ्गुलं जानु चतुरङ्गुलं स्यात् । जङ्घा एकविंशाङ्गुला तथा गुल्फस्य अधः चतुरङ्गुलं स्यात् । अष्टतालप्रमाणस्य इदं मानं सदा उक्तम् ॥ १ ९०-१९ २ ॥ व्याख्या – प्रीवा = कण्ठः, वेदाङ्गुला = चतुरङ्गुलमिता, तथा हृदयम् = उरस्तु, दशाङ्गुलम् = दशाङ्गुलपरिमितम्, भवेत् = स्यात् । उदरम् = जठरम्, दशाङ्गुलम् = दशाङ्गुलात्मकम्, वस्तिश्च = नाभेरधोभागश्च, दशाङ्गुलम् = दशाङ्गुलपरिमितम्, स्यात् = भवेत् । सक्थि = जानूपरिभागः, एकविंशाङ्गुलम् = एकाधिकविंशत्यङ्गुलपरिमितम्, तथा जानु = अष्ठीवान्, चतुरङ्गुलम् = वेदाङ्गुलम्, स्यात् = भवेत् । जङ्घा = प्रसृता टक्किका वेति, तथा गुल्फस्य = घुण्टकस्य, अधः = = निम्नप्रदेशः, चतुरङ्गुलम् = वेदाङ्गुलम्, स्यात् = भवेत् । इदम् = सर्वम्, अष्टतालप्रमाणस्य = = चतुर्हस्तपरिमितस्य, मूर्त्तिभेदस्य, मानम् = प्रमाणम्, उक्तम् = कथितम् ॥ १ ९०-१९ २ ॥ हिन्दी — दस अंगुल का गला, दस अंगुल की छाती, दस अंगुल का पेट तथा दस अंगुल का पेडू, इक्कीस अंगुल की जंघा, बारह अंगुल का घुटना, इक्कीस अंगुल का टखने से लेकर घुटने तक का भाग तथा एडी की गाँठ से नीचे का भाग चार अंगुल का — इस तरह आठ बित्ते अर्थात् चार हाथ की मूर्ति के अंगों का प्रमाण सदा होता है । १ ९०-१९ २ ॥ अष्टतालप्रमाणमाह – वेदेत्यादि । प्रीवा वेदाङ्गुला चतुरङ्गुला तथा हृदयं दशाङ्गुलं भवेत् । उदरं दशाङ्गुलं वस्तिश्च दशाङ्गुलः स्यात् । सक्थि एकविंशाङ्गुलं तथा जानु चतुरङ्गुलं स्यात् । जङ्घा एकविंशाङ्गुला तथा गुल्फस्य अधः चतुरङ्गुलं स्यात् । अष्टतालप्रमाणस्य सदा उक्तम् ॥१ ९०-१९ २ ॥ त्रयोदशाङ्गुलं ज्ञेयं मुखञ्च हृदयं तथा ॥
उदरच तथा वस्तिर्दशतालेषु सर्वदा ।
गुल्फाधश्च तथा ग्रीवा जानु पञ्चाङ्गुलं स्मृतम् ॥
षड्विंशत्यङ्गुलं सक्थि तथा जङ्घा प्रकीर्त्तिता । एकाडूलो मूर्ध्नि मणिर्दशताले प्रकल्पयेत् । मूर्त्तिभेदस्य इदं मानं ९९ ३ ॥ १ ९ ४ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 208
पाठ पढ़ें पाठ छिपाएँ
६२० शुक्रनीतिः पञ्चाशदङ्गुलौ बाहू दशताले स्मृतौ सदा ॥ १ ९ ५ ॥ अन्वयः – दशतालेषु मुखं हृदयम् उदरं तथा वस्तिश्च सर्वदा त्रयोदशाङ्गुलं ज्ञेयम् । गुल्फस्य अधः ग्रीवा तथा जानु पञ्चाङ्गुलं स्मृतम् । सक्थि तथा जङ्घा षड्विंशत्यङ्गुलं प्रकीर्त्तिता । दशा मूर्ध्नि मणिम् एकाङ्गुलं प्रकल्पयेत् तथा दशताले बाहू पञ्चाशदङ्गुलौ स्मृतौ ॥१ ९३-१९ ५ ॥ व्याख्या — दशतालेषु = पञ्चहस्तप्रमाणेषु मूर्त्तिभेदेषु, मुखम् = आननम्, हृदयम् = वक्षःस्थलम्, उदरम् = कुक्षिः, तथा वस्तिश्च = मूत्राशयश्च, सर्वदा = सततम्, त्रयोदशाङ्गुलम् = त्रयोदशाङ्गुलपरिमितम्, ज्ञेयम् = बोध्यम् । गुल्फस्य = घुण्टकस्य, अधः = निम्नभागः, ग्रीवा = कण्ठः, तथा जानु = चक्रिका, पञ्चाङ्गुलम् = पञ्चाङ्गुलपरिमितम्, स्मृतम् = कथितम् । सक्थि = जानूपरिभागः, तथा जङ्घा - ऊरुः, षड्विंशत्यङ्गुला, प्रकीर्त्तिता = कथिता । दशताले = दशतालात्मके, मूर्ध्नि = मस्तके, स्थितम्, मणिम् = रत्नम्, एकाङ्गुलम् = अङ्गुल्यैकपरिमितम्, प्रकल्पयेत् = चिन्तयेत्, तथा दशताले = दशतालात्मके मूर्ती, बाहू = भुजौ, पञ्चाङ्गुलौ = पञ्चाङ्गुलिपरिमितौ, स्मृतौ = कथितौ ॥१ ९३-१९ ५ ॥ हिन्दी - पाँच हाथ वाली मूर्ति में सदा मुँह, छाती, पेट तथा पेडू प्रत्येक तेरह अंगुल का होना चाहिए । एडी की गाँठ के नीचे का भाग गला तथा घुटना प्रत्येक पाँच अंगुल का कहा गया है । ऊरु और जँघा प्रत्येक छब्बीस अंगुल का होना चाहिए । शिर का मुकुटमणि एक अंगुल तथा दोनों बाहें अलग - अलग पन्द्रह अंगुलियों के होने चाहिए । १ ९३-१९ ५ ॥ दशतालप्रमाणमाह — त्रयोदशाङ्गुलमित्यादि । दशतालेषु मूर्त्तिभेदेषु मुखं हृदयं जठरं तथा वस्तिश्च सर्वदा त्रयोदशाङ्गुलं ज्ञेयम् । गुल्फस्य अधः, प्रीवा तथा जानु पञ्चाङ्गुलं स्मृतम् । सक्थि षड्विंशत्यङ्गुलं तथा जङ्घा षड्विंशत्यङ्गुला प्रकीर्त्तिता । दशताले गुनि शिरसि स्थितं मणिम् एकाङ्गुलं प्रकल्पयेत् । तथा दशताले बाहू पञ्चाशदङ्गुली सदा स्मृतौ ॥१ ९३-१९ ५ ॥
द्व्यङ्गुलौ द्व्यङ्गुलौ चोनौ ततो हीनप्रमाणके ।
पाटवं तु यथाशोभि सर्वमानेषु कल्पयेत् ॥ १ ९ ६ ॥
अन्वयः — ततः हीनप्रमाणके द्व्यङ्गुलौ द्व्यङ्गुलौ ऊनौ च कार्यौ । पाटवं तु सर्वमानेषु यथाशोभि कल्पयेत् ॥ १ ९ ६ ॥ व्याख्या — ततः = तेभ्यः दशतालादिभ्यः, हीनप्रमाणके = निम्ननिदर्शने, यङ्गुलौ द्व्यङ्गुलौ = देहस्य प्रत्येकावयवं चाङ्गुलिद्वयमितम्, ऊनौ = हीनौ, कार्यौ । पाटवम् = परि-काल्पनिकचातुर्यम्, सर्वमानेषु = सकलविधपरिमाणेषु, यथाशोभि = शोभानुसारम्, कल्पयेत् = निर्मापयेत् ॥ १ ९ ६ ॥ हिन्दी — दस बित्ते से कम माप वाली मूर्ति में हरेक बाँह की माप दो - दो अंगुल कम होनी चाहिए और सभी प्रकार की मापों वाली मूर्ति के अंगो की सजावट उसकी शोभा के अनुसार होनी चाहिए ॥ १ ९ ६ ॥ द्व्यङ्गुलाविति । ततः तेभ्यः दशतालादिभ्यः हीनप्रमाणके न्यूनपरिमाणे सति द्व्यङ्गुलौ द्व्यङ्गुलौ प्रत्येकाङ्गम् अङ्गुलद्वयमित्यर्थः, ऊनौ कार्य्यो इति शेषः । पाटवं पारिपाट्यं सज्जादिकमित्यर्थः सर्वमानेषु सर्वप्रकारपरिमाणेषु यथाशोभि कल्पयेत् ॥ १ ९ ६ ॥ नवतालप्रमाणे न ह्यनाधिक्यं प्रकल्पयेत् ॥ १ ९ ७ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 209
पाठ पढ़ें पाठ छिपाएँ
चतुर्थाध्यायस्य चतुर्थं प्रकरणम् ६२१ अन्वयः - नवतालप्रमाणे ऊनाधिक्यं न हि प्रकल्पयेत् ॥ १ ९ ७ ॥ व्याख्या – नवतालप्रमाणे = नवतालमिते मूर्त्ते, तु, ऊनाधिक्यम् = अल्पाधिक्यम्, न हि = नैव, प्रकल्पयेत् = रचयेत् ॥१ ९ ७ ॥ हिन्दी — और नौ बित्ते मापवाली मूर्ति में अङ्गों की माप में कमी - बेशी नहीं ही होनी चाहिए ॥ १ ९ ७ ॥ नवतालेति । नवतालप्रमाणे तु ऊनाधिक्यं न हि नैव ऊनाधिक्यं प्रकल्पयेत् कुर्य्या-दित्यर्थः ॥१ ९ ७ ॥ दशताले तु विज्ञेयौ पादौ पञ्चदशाङ्गुलौ । एकैकाङ्गुलहीनौ स्तस्ततो न्यूनप्रमाणके ।
दशतालोर्ध्वमाने तु ताले तालेऽधिकाङ्गुलम् ।
कल्पयेन्मुखतो धीमान् शिल्पवित्सु यथा तथा ॥ १ ९ ८ ॥
अन्वयः — दशताले तु पादौ पञ्चदशाङ्गुलौ विज्ञेयौ । ततः न्यूनप्रमाणके पादौ एकाङ्गुलहीनौ स्तः । दशतालोद्र्ध्वमाने तु ताले ताले अधिकाङ्गुलं कार्यम् । धीमान् शिल्पवित्सु मुखतः यथा तथा कल्पयेत् ॥ १ ९ ८ ॥ व्याख्या — दशताले = दशतालमिते मूर्त्ते, तु = किन्तु, पादौ = चरणौ, पञ्चदशाङ्गुलौ = पञ्चदशाङ्गुलमितौ, विज्ञेयौ = कार्यौ । ततः = दशतालात्, न्यूनप्रमाणके = ऊनपरिमिपादौ, एकाङ्गुल- हीनौ = एकेनाङ्गुलेन, हीनौ = उनौ स्तः = भवतः । दशतालात् = दशतालपरिमितात्, ऊर्ध्वमाने = उपरिपरिमिते, ताले ताले = प्रतिताले, अधिकाङ्गुलम् = एकाङ्गुलाधिक्यम्, निर्मातव्यम् । धीमान् = बुद्धिमान्, शिल्पवित् = मूर्तिकारः, मुखतः = आननादारभ्य, यथा = = येन प्रकारेण सुन्दरं भवेत्, तथा = तेनैव रूपेण, कल्पयेत् = रचयेत् ॥ १ ९ ८ ॥ हिन्दी - दस बित्ते माप की मूर्ति में दोनों पैर अलग - अलग पन्द्रह अंगुल माप के बनाने चाहिए । इससे कम माप की मूर्ति में दोनों पैर एक - एक अंगुल कम माप का होना चाहिए । दस बित्ते से अधिक माप की मूर्ति में प्रत्येक बित्ते पर एक - एक अङ्गुल अधिक माप अङ्गों की करनी चाहिए और बुद्धिमान् मूर्त्तिकार को मुँह से शुरू कर पैर तक के अंगों को जैसे सुन्दर बन सके बनाना चाहिए ॥ १ ९ ८ ॥ दशताले इति । दशताले तु पादौ पञ्चदशाङ्गुलौ कार्य्यो इति शेषः । ततः दशतालात् न्यूनप्रमाणके न्यूनपरिमाणे पादौ एकाङ्गुलहीनौ एकेन अङ्गुलेन हीनौ स्तः भवत इत्यर्थः । पतितम् इति । दशतालात् ऊर्ध्वमाने तु ताले ताले प्रतितालम् अधिकाङ्गुलम् एकाङ्गुलाधिकं कार्य्यमिति शेषः । धीमान् शिल्पवित् शिल्पज्ञः मुखतः मुखादारभ्य इत्यर्थः, यथा सुष्ठु भवेत् तथा कल्पयेत् ॥ १ ९ ८ ॥
दीर्घोरुजङ्घा विकटा क्रूरा स्याद्भीषणासुरी ।
पैशाची प्रतिमा ज्ञेया राक्षसी सुकृशापि वा ॥ १ ९९ ॥
अन्वयः — दीर्घोरुजङ्घा विकटा क्रूरा तथा भीषणा प्रतिमा आसुरी स्यात् । सुकृशापि प्रतिमा पैशाची वा राक्षसी ज्ञेया ॥ १ ९९ ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 210
पाठ पढ़ें पाठ छिपाएँ
६२२ शुक्रनीतिः व्याख्या – दीर्घोरुजङ्घा [ = = यस्याः मूर्तेः, ऊरुः = - सक्थि, जङ्घा = प्रसृता, विकटा = भयप्रदा, तथा_भीषणा = भयङ्करा, प्रतिमा = मूर्त्तिः, आसुरी = असुरसम्बन्धिनी प्रतिमा, स्यात् = भवेत्, तादृश्यपि सुकृशा = अतिदुर्बला, प्रतिमा = मूर्त्तिः, पैशाची = बीभत्सा, वा = अथवा, राक्षसी = दानवी, ज्ञेया = बोध्या ॥ १ ९९ ॥ हिन्दी — जिस मूर्त्ति की ऊरू एवं जाँघें लम्बी हों, वह देखने में विकट, क्रूर एवं भीषण आकारवाली हो, उसे आसुरी या उक्तलक्षण से युक्त अति दुबली मूर्ति हो, उसे राक्षसी या पैशाची मूर्ति समझनी चाहिए ॥ १ ९९ ॥ दीर्घेति । दीर्घोरुजङ्घा विकटा क्रूरा तथा भीषणा प्रतिमा आसुरी स्यात् । तादृशी अपि सुकृशा अतिक्षीणा प्रतिमा पैचाशी वा राक्षसी ज्ञेया ॥ १ ९९ ॥
न पञ्चाङ्गुलतो हीना न षड्गुलतोऽधिका ।
करस्य मध्यमा प्रोक्ता सर्वमानेषु तद्विदैः ॥ २०० ॥
अन्वयः – पञ्चाङ्गुलतः हीना न षडङ्गुलतः अधिका न । तद्विदैः सर्वमानेषु करस्य मध्यमा प्रोक्ता ॥ २०० ॥
व्याख्या – पञ्चाङ्गुलतः = पञ्चाङ्गुलपरिमितात्, हीना = ऊना,, न = नहि, षडङ्गुलतः = षडङ्गुलपरिमितात्, अधिकः = विशेषः, न = नहि । तद्विदैः—– तत् = तस्याः मूर्तेः, विज्ञैः = भिज्ञैः, सर्वमानेषु = सकलपरिमाणेषु, करस्य = हस्तस्य, मध्यमा = मध्यस्थाङ्गुलिः प्रोक्ताः कथिता ॥ २०० ॥
हिन्दी - सभी माप की मूर्ति में हाथ की बीच वाली अंगुली की माप माननी चाहिए । मूर्तिकला के विशेषज्ञों के अनुसार पाँच अंगुल से कम और छः अंगुल से ज्यादे नहीं होनी चाहिए ॥ २०० ॥
नेति । तद्विदैः तद्विज्ञैः पण्डितैः सर्वमानेषु करस्य मध्यमा पञ्चाङ्गुलतः न हीना, षडङ्गुलतश्च नाधिका प्रोक्ता कथिता ॥ २०० ॥
क्वचित् तु बालसदृशं सदैव तरुणं वपुः ।
मूर्तीनां कल्पयेच्छिल्पी न वृद्धसदृशं क्वचित् ॥ २०१ ॥
अन्वयः — शिल्पी सदैव बालसदृशं वा तरुणं वपुः कल्पयेत् । क्वचित् वृद्धसदृशं न कल्पयेत् ॥२०१ ॥
व्याख्या— शिल्पी = मूर्त्तिकारः, सदैव = सततम्, बालसदृशम् = बालस्वरूपम्, मूर्तीनाम् = देवप्रतिमानाम्, वा = अथवा, तरुणम् = युवारूपम्, वपुः = देवमूर्त्तिदेहम्, कल्पयेत् = रचयेत् । क्वचित् = कदाचित्, वृद्धसदृशम् = वार्द्धक्यरूपम्, न = = नहि, प्रकल्पयेत् = रचयेत् ॥ २०१ ॥
हिन्दी - मूर्तिकार देवप्रतिमा कहीं बालरूप में, कहीं युवा रूप में बनाये । किसी भी परिस्थिति में देवता की मूर्त्ति वृद्धावस्था की नहीं बनानी चाहिए ॥ २०१ ॥
क्वचिदिति । शिल्पी शिल्पकुशलः सदैव बालसदृशं वा तरुणं वपुः देवमूर्त्तिशरीरं कल्पयेत्, क्वचित् कदाचित् वृद्धसदृशं न कल्पयेदित्यर्थः ॥ २०१ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA