सुश्रुत संहिता चौखम्बा — पृष्ठ 181–190

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 181–190

पृष्ठ 181

सुश्रुत संहिता चौखम्बा, पृष्ठ 181 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २३ रूक्षां वर्तिं प्रणिदध्यात् । ततः कल्केनाच्छाद्य घनां कर्वोलिकां दवा वस्त्रपट्टेन बध्नीयात् । वेदनारक्षोध्नैर्धूपैर्धूपयेद् रक्षोघ्नैश्व मन्त्रै रक्षां कुर्वीत ॥। १७ ॥ ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्पपचूर्णैर्लवणनिम्बपत्र-विमिश्रैराज्ययुक्तैर्धूपयेत्, आज्यशेषेण चास्य प्राणान् समालभेत ॥१८ ॥

उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन रक्षाकर्म कुर्यात् ॥ १ ९ ॥

तदृक्ष्यामः--कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च ।

रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥ २० ॥

नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः ।

अभिद्रवन्त ये ये त्वां ब्रह्माद्या न्नन्तु तान् सदा ॥ २१ ॥

पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः ।

दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ॥ २२ ॥

पान्तु त्वां मुनयो ब्राह्मया दिव्या राजर्षयस्तथा ।

पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः ॥ २३ ॥

अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ।

सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु ॥ २४ ॥

उदानं विद्युतः पान्तु समानं स्तनयित्नवः ।

बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥ २५ ॥

कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रोऽभिरक्षतु ।

प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ २६ ॥

चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः ।

नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥ २७ ॥

( १ ) वर्त्ति = विकेशिकाम् । “ सपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम् । व्रणं विशोधयेच्च्छीघ्रं स्थिता ह्यन्तर्विकेशिका ॥ ” इति वाग्भटः । प्रणिदध्यात् = व्रणान्तः प्रवेशयेत् । ( २ ) कवलिकां = व्रणबन्धनार्थमौदुम्बरादिवत्व.लम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 182

सुश्रुत संहिता चौखम्बा, पृष्ठ 182 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ०५

रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा ।

आकाशं खानि ते पातु देहं तव वसुन्धरा ॥ २८ ॥

वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् ।

पौरुषं पुरुषश्रेष्ठो ब्रह्माऽऽत्मानं ध्रुव ध्रुव ॥ २ ९ ॥

एता देहे विशेषेण तव नित्या हि देवताः ।

एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ ३० ॥

स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् ।

स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ ।

स्वस्त्यग्निश्चैत्र ' वायुश्च स्वस्ति देवाः सहेन्द्रगाः ॥ ३१ ॥

पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव ।

ईर्तयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥ ३२ ॥

इति स्वाहा ।

एतैर्वेदात्मकैर्मन्त्रैः कृत्याव्याधिविनाशनैः ।

मयैवं कृतरक्षस्वं दीर्घमायुरवाप्नुहि ॥ ३३ ॥

ततः कृतरक्षमातुरमागारं प्रवेश्य आचारिकमादिशेत् ॥ ३४ ॥

ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्रपट्टेन, न चैनं त्व-रमाणोऽपरेद्युर्मोक्षयेत् ॥ ३५ ॥

द्वितीय दिवसपरिमोक्षणाद्विप्रथितो तीव्ररुजश्च भवति ॥ ३६ ॥

त्रश्चिरादुपसंरोहति, ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचा-रान् विदध्यात् ॥ ३७ ॥

( १ ) “ अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः खगाः ।

स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः " ॥

( २ ) आचारिकं = द्विविधमाहारविहारलक्षणम्, एवं त्वयाऽऽहारविहारौ कर्त-व्यावित्युपदिशेदित्यर्थः । ( ३ ) अपरेद्युः = द्वितीयदिने । ( ४ ) अत ऊर्ध्वं = तृतीयदिनानन्तरम् । CC - 0. Gurukul Kangri Collection, Haridwar 1-

पृष्ठ 183

सुश्रुत संहिता चौखम्बा, पृष्ठ 183 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २५ न चैनं त्वरमाणः सान्तर्दोषं रोपयेत् । स ह्यल्पेनाप्यपचारे-णाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति ॥ ३८ ॥

भवन्ति चात्र । तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद् व्रणम् ।

रूढेऽप्यजीर्ण व्यायामव्यवायादीन् विवर्जयेत् ।

हर्षं क्रोधं भयञ्चापि यावत् स्थैर्योपसम्भवात् ॥ ३ ९ ॥

हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् ।

' त्र्यहाद् द्वयहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ॥४० ॥

प्रतिपातिपुरोगेषु नेच्छेद्विधिमिमं भिषक् ।

प्रदीप्तागाच्छीघ्रं तत्र कुर्य्यात् प्रतिक्रियाम् ॥ ४१ ॥

या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः ।

घृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥४२ ॥

इति सुश्रुतसंहितायां सूत्रस्थानेऽग्रापहरणीयेो नाम पञ्चमोऽध्यायः ॥ ५ ॥

षष्टोऽध्यायः ।

अथात ऋतुर्चर्यमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

( १ ) त्र्यहात् = हेमन्तादिषु शीतत्वेन शीघ्रपाकभयाभावात् त्र्यहान्मोक्षयेदित्यर्थः । " द्व्थहात् = शरदादिषूष्णत्वेन शीघ्रपाकसम्भावनया द्वयहान्मोक्षयेदित्यर्थः । ( २ ) प्रतिपातिषु = आशुकारिषु । ( ३ ) यष्टीमधुकं = भाषायां ' मुलहठी ' ' जेठीमधु ' इति नाम्ना प्रसिद्धम् । ' मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ' इत्यमराद् हस्वेकारान्तघटितोऽप्ययम् । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः । षष्ठोऽध्यायः । ( ४ ) ऋतुषु शिशिरादिषु वर्षा ss दिषु वा षट्सु चर्या चरणं वर्तनम्, तदधिकृत्य कृतोऽध्याय ऋतुचर्यस्तम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 184

सुश्रुत संहिता चौखम्बा, पृष्ठ 184 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ६ कालो हि नाम भगवान् स्वयम्भुरनादिमध्यनिधनोऽत्रं रस. व्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते । ससूक्ष्मामपि कलां ने लीयत इति कालः । सङ्कलयति कालयति वा भूतानीति कौलः ॥ ३ ॥

तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेण निमेषका-ष्ठाकलामुहूर्त्ताहोरात्रपक्षमासर्व्वयनसंवत्सरयुगप्रविभागं करोति ॥ ४ ॥

तंत्र लघ्वक्षरोवारणमात्रोऽक्षिनिमेषः, पञ्चदशाऽक्षिनिमेषाः , काष्ठा, त्रिंशत्काष्ठाः कला, विंशतिकलो मुहूर्तः कलादशभागश्च, त्रिंशन्मुहूर्त्तमहोरात्रं, पञ्चदशाहोरात्राणि पक्षः । स च द्विविधः-क्लः कृष्णश्र्च, तौ मासः ॥ ५ ॥

तत्र माघादयो द्वादश मासाः संवत्सरः, द्विमासिकमृतुं कृत्वा षड्ऋतवो भवन्ति । ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः तेषां तपस्तपस्यौ शिशिरः, मधुमाधवौ वसन्तः शुचिशुक्रौ ग्रीष्मः, नभोनभस्यौ वर्षाः, इपोर्जी शरत्, सहःसहस्यौ हेम-न्त इति ॥ ६ ॥

( १ ) अत्र = काले, रसव्यापत्सम्पत्ती = व्यापद् विपन्नता, सम्पत्तिः सम्पन्नतेति व्यापत्सम्पत्ती; रसस्य मधुरादेर्व्यापत्सम्पत्तीति षष्ठीतत्पुरुषः । जीवितमरणे इत्यत्रापि चकाराद् अत्रशब्दमनुवर्त्य योजनीयम् । ( २ ) न लीयते = न श्लिष्टो भवति, गतिमत्त्वादित्यर्थः । ( ३ ) श्रीमद्भागवते – “ कालो बलीयान् बलिनां भगवानीश्वरोऽव्ययः । प्रजाः कालयते क्रीडन् पशुपालो यथा पशून् ॥ ” इति । ( ४ ) संवत्सर आत्मा यस्य स तस्य संवत्सरात्मनः संवत्सरस्वरूपस्य, तरय = कालस्य, इति सम्बन्धः । आदित्य इति चन्द्रस्याप्युपलक्षणम् । गतिविशेषेण = स्वोद • यास्तगमनेन । ( ५ ) पूर्वोक्तान् संवत्सरांशान् निमेषादीन् विवृणोति — तत्रेति । ( ६ ) शिशिरादिपसृतूनां विभागो रसवलनिष्पत्त्यर्थं प्रदर्शितः । तथा चोक्तं चरके संवत्सरादिविभागप्रदर्शनावसरे – “ तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्र रूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्री मे ' वृतुषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रू छान् रसान् तिक्तकषायकटुकाँश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति ” इत्यादिना CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 185

सुश्रुत संहिता चौखम्बा, पृष्ठ 185 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ अ ० ६ ] I पि ति ३ || चाः च, षां म-तेति त्रापि 1 _य = वोद • चरके तीव्र रसान् सूत्रस्थानम् । ३७ भवति चात्र । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकर-त्वादयने द्वे भवतो दक्षिणमुत्तरञ्च । तयोर्दक्षिणं वर्षाशरद्धेमन्ताः, तेषु भगवानाप्यायते सोमः, अम्ललवणमधुराच रसा बलवन्तो भवन्ति, उत्तरोत्तरञ्च सर्वप्राणिनां बलमभिवर्द्धते । उत्तरञ्च शिशि-रवसन्तग्रीष्माः, तेषु भगवानाप्यायतेऽर्कः, तिक्तकषायक-टुकाश्च रसा बलवन्तो भवन्ति, उत्तरोत्तरञ्च सर्वप्राणिनां बलम-पहीयते ॥ ७ ॥

शीतांशुः क्लेदयत्युर्थी विवस्वान् शोपयत्यपि ।

तावुभावपि संश्रित्य वायुः पालयति प्रजाः ॥ ८ ॥

अथ खल्वयने द्वे युगपत् संवत्सरो भवति । ते तुच यु-गमिति संज्ञां लभन्ते । स एष निमेषादिर्यगपर्यन्तः कालञ्चक्रवत् परिवर्तमानः कालचक्रमुच्यत इत्येके ॥ ९ ॥

इह तु वर्षाशरद्धेमन्तग्रीष्मप्रावृषः षड् ऋतवो भवन्ति दोषोप-चयप्रकोपोपशमनिमित्तम् । ते तु भाद्रपदाद्येन द्विमासिकेन व्या-ख्याताः । तद्यथा — भाद्रपदाश्वयुजौ वर्षाः, कार्तिकमार्गशीर्षौ शर-तू, पौषमाघौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्येष्ठौ श्री-ष्मः, आषाढ श्रावणौ प्रावृडिति ॥ १० ॥

तत्र, वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रसन्नाः क्षिति-( १ ) शीतोष्णवर्ष लक्षणाः = अतिशीतोष्णवर्षलक्षणास्त्रयः, मन्दशीतोष्णवर्ष लक्ष-शास्त्रय इति पहृतव: । तत्र शैत्यं वातकृतम्, औष्ण्यमादित्यकृतं वर्षश्चन्द्रकृतः । के-चित् शीतवर्षी चन्द्रकृताविति मन्यन्ते । ( २ ) चरके– “ योगत्राहः परं वायुः संयोगादुभयार्थंकृत् । दाहकृत्तेजसा युक्तः शीतकृत सोमसंश्रयात् ॥ ” इति । ( ३ ) पञ्चसंवत्सराः युगमिति संज्ञां लभन्ते । युगस्य पारिभाषिकीयं संज्ञा । " कालचक्रं तु वर्षाणां पञ्चानां सम्प्रवर्तते । युगसंज्ञा च दैवज्ञैस्तत्र सम्परिकीर्तिता ” ॥ वस्तुतः कृतादयश्चत्वारो युगविशेषा इति बोध्यम् ।

पृष्ठ 186

सुश्रुत संहिता चौखम्बा, पृष्ठ 186 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० ६ मलप्रायाः । ता उपयुज्यमाना नभसि मेघावंतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शोर्तेवाविष्टम्भिताग्नीनां विदह्यन्ते, विदाहा पित्तसञ्चयमापादयन्ति । स सञ्चयः शरदि प्रविरलमेघे विय-त्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः पैत्तिकान् व्याधीन् जनयति ॥ ११ ॥

ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रसन्नाः स्निग्धा श्रत्यर्थं गुर्व्यश्च । ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविद-ग्धाः स्नेहाच्छैत्यागौरवादुपलेपाच्च श्लेष्मसञ्चयमापादयन्ति । स सञ्चयो वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन् जनयति । ता एवौषधयो निदाघे निस्सारी रूक्षा अतिमात्रं लळ्यो भव-न्त्यापश्च, ता उपयुज्यमानाः सूर्य्यप्रतापोपशोषित देहानां देहिनां रौ-क्ष्याल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापादयन्ति । स सञ्चयः प्रा-वृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवा-तवर्षेरितो वातिकान् व्याधीन् जनयति । एवमेष दोषाणां सञ्चय-प्रकोपहेतुरुक्तः ॥ १२ ॥

( १ ) मेघावतते = मेघाच्छन्ने । ( २ ) शीतेन कुपितो वातः शीतवातस्तेन विष्टम्भितो मन्दवेगीकृतोऽग्निर्येषां ते तेषाम् । यतः शारीरेण शीतवातेन बहिर्लोमकूपावरोधनादुष्मणोऽनिर्गमनं भवति, अतो-ऽन्तरग्नेर्बलं वर्द्धते इति तात्पर्यम् । विदह्यन्ते = अम्लपाकमुपयान्ति । ( ३ ) सः = वर्षाकालोपचितः, सञ्चयः = संहतिरूपा वृद्धिः । ( ४ ) परिणतवीर्याः = प्राप्तशक्तिकाः । ( ५ ) तुषारेण सहितः सतुषारः, स चासौ पवनस्तेनोपस्तम्भितो देहो येषां ते त-थोक्तानां हिमाद्रवायुनाऽऽप्यायितशरोराणां प्राणिनामित्यर्थः । यतो हिमसंहतिवशा-त्तदानीं सञ्चय एव, न प्रकोप इति भावः । ( ६ ) निस्साराः = जलीयांशरहिताः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 187

सुश्रुत संहिता चौखम्बा, पृष्ठ 187 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६. अ ० ६ ] नौ त् T-न् -ते द-। नां च-रौ-ETETT-य-- ते तो-त-शा-31 Digitized by Arya Samaj Eoundation Chennai and eGangotri " सूत्रस्थानम् tenna तत्र वर्षा हेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्तप्रावृट्सु चं प्रकुपितानां निर्हरणं कर्तव्यम् ॥ १३ ॥

" तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां निदा-घे, वातिकानां शरदि, स्वभावत एव । त एते सञ्चयप्रकोपोपशमा व्याख्याताः ॥ १४ ॥

- तंत्र, पूर्वाह्णे वसन्तस्य लिङ्ग, मध्याह्ने ग्रीष्मस्य, अपराह्ने प्रावृ-यः, प्रदोवे वार्षिक शारदमर्धरात्रे प्रत्यूषसि हैमन्तमुपलक्षयेत् । एवमहोरात्रमपि वमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपश-मैर्जानीयात् ॥ १५ ॥

तत्र, अव्यापन्नेष्वृतुष्वव्यापन्ना श्रोषधयो भवन्त्यापश्च, ता उपयुज्यमानाः प्रीणायुर्बलवीयजस्कय्र्यो भवन्ति ॥ १६ ॥

( १ ) अत्र पुन: -- ' वर्षा हेमन्तग्रीष्मेषु ' इत्यादिपाठो नियमार्थम् । शरदादिष्वेव प्र-कुपितानां वमनादिनाऽऽकर्षणं यथा स्याद् ग्रीष्मादौ माभूदिति । ' ग्रीष्मादिषु हि हेतु-चाहुल्याद् वमनादयो विधीयमाना व्यापदं मरणं वोत्पादयन्ति ' । ( २ ) संशोधनसाध्येष्वतिपातिषु रोगेषु ग्रीष्मादिष्वपि तद्विधानज्ञापनार्थं चकारः । निर्हरणं = वमनादिनाऽऽकर्षणम् । तच्च साधारणतया त्रिमासान्तरितं कृत्वा कर्तव्यम् । उक्तं च– “ ग्रीष्मादिसञ्चितान् दोषान् त्रिमासान्तरितान् हरेत् ” इति । वाग्भटः– “ श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात् । ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत् ॥ ” इति । ( ३ ) सांवत्सरिकदोषोपचयप्रकोपोपशमनविधानस्य दिनेऽप्यतिदेशार्थं निर्दिश-ति — तत्रेति । तत्र = = श्रु अहोरात्रे | ( ४ ) दोषोपचयप्रकोपोपशमैः अहोरात्रमपि शीतोष्णवर्षलक्षणं वर्षमिव जानी--यदिति सम्बन्धः । ( ५ ) ओषधयः = चतुर्विधाहारद्रव्याणि । न: = ( ६ ) प्राणाः = अग्नीषोमादयः, आयुः = शरीरेन्द्रियसत्त्वात्ममनसां संयोगः । ओजः = हृदयाश्रितसप्तधातुपरः " हृदि तिष्ठति यच्छुद्धं रक्तमी-स्नेहः । उक्तञ्च - - ' षत्सपीतकम् । श्रोजः शरीरे सञ्जातं तन्नाशान्नाशमृच्छति ॥ " " प्रोजश्च तेजो धातूनां शुक्रान्तानां परं स्मृतम् । ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 188

सुश्रुत संहिता चौखम्बा, पृष्ठ 188 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया [ अ ० ६ खलु ' तेषां पुनर्व्यापदोऽदृष्टकारिताः, ' शीतोष्णवातवर्षाणि विपरीतान्यौषधीर्व्यापादयन्त्यापश्च ॥ १७ ॥

तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति ॥ १८ ॥

तत्र, अव्यापन्नानामोषधीनामपाञ्चोपयोगः ॥ १ ९ ॥ कदाचिदव्यापन्नेष्वप्यतुषु कृत्याऽभिशापरक्षः क्रोधाधमैरुप-ध्वस्यन्ते जनपदाः । विषौषधिपुष्पगन्धेन वायुनोपनीतेना-क्रम्यते यो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्याय-शिरोरुग्ज्वरैरुपतप्यन्ते, ग्रहनक्षत्रचरितैर्वा, गृहदारशयनासनयान-वाह्नमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा ॥ २० ॥

तत्र, स्थानपरित्यागशान्तिकर्म्मप्रायश्चित्तं मङ्गलजपहोमोपहा-रेज्याञ्जलिनमस्कारतपोनियमदद्यादान दीक्षाऽभ्युपगमदेवताब्राह्मण-( १ ) तेषाम् = ऋतूनाम्, व्यापदः = शीतोष्ण वातवर्षाणां वैपरीत्यम्, अदृष्टका-रिताः = अदृष्टेन सकलजनसाधारणाधर्मेण प्रयोजककर्त्रा कारिताः कर्तुळं प्रयोजिताः । ( २ ) स्वतन्त्रकर्तारमाह - शीतोष्णेति । ( ३ ) व्यापादयन्ति = विरुद्धतां प्रापयन्ति । ( ४ ) व्यापदापन्नानामोषधीनामपां चोपयोगादनिष्टं प्रदर्शयति - तासामिति । ( ५ ) मरकः = जनपदध्वंसकारको रोगः, महामारीति यावत् । ( ६ ) व्यापन्नर्तुभ्योऽपरैः कारणर्व्याधिं सम्भावयन्नभिधत्ते – कदाचिदिति । ( ७ ) कृत्या = आभिचारिकराक्षसीविशेषः । “ तानि कृत्याहतानीव विनश्यन्तिं समन्ततः ” इति मनुः । श्रभिशापः = ब्रह्मर्षिगुरुसिद्धादिदत्तशापः । अभिचारस्तु मन्त्रा-दिभिरेकपुरुषव्यापादकः । ( ८ ) उपध्वस्यन्ते = उपधूयन्ते । विषौषधीनां कल्पस्थानोक्त- वेत्रकादम्बवल्ली-करम्भमहाकरम्भाणां पुष्पगन्धेन । ( ९ ) ऋतुप्रकोपस्याधर्मकारित्वात्तत्र शान्त्यादिकं वक्ति – तत्रेति । ( १० ) प्रायश्चित्तं = प्राक्तनकर्मोपशमाय सविधिचान्द्रायणाद्याचरणम् । “ प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ॥ ” इति वा । मङ्गलं = प्रशस्तौषधमणिधारणात्मकम्, जपः - गायत्र्यादिजपः, विष्णुसह-स्रनामजपो वा । तदुक्तं चरके - " विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम् । स्तुवन्नामस + हस्रेण ज्वरान्सर्वानपोहति ” । ( ११ ) अभ्युपगमः = गुरुवाक्याद्यङ्गीकारः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 189

सुश्रुत संहिता चौखम्बा, पृष्ठ 189 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri

सूत्रस्थानम् ।

गुरुपरैर्भवितव्यम् । एवं साधु भवति ॥ २१ ॥

६. अ ० ६ ] लु It न-7-T-7-T-अत ऊर्ध्वमञ्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः ॥ २२ ॥

वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः ।

छन्नस्तुषारैः सविता हिमानद्वा जलाशयाः ॥ २३ ॥

दर्पिता ध्वाङ्क्षखड्गाह्वमहिषोर कुञ्जराः ।

रोघ्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये ॥ २४ ॥

शिशिरे शोतमधिकं वातवृष्ट्या कुलादिशः ।

शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः ॥ २५ ॥

सिद्धविद्याधरवधूचरणालक्तकाङ्किते ।

मलये चन्नलतापरिष्वङ्गाधिवासिते ॥ २६ ॥

वाति कामिजनानन्दजननोऽनङ्गदीपनः ।

दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः ॥ २७ ॥

दिशो वसन्ते विमलाः काननैरुपशोभिताः ।

किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः ॥ २८ ॥

कोकिलापट्पद्गणैरुपगीता मनोहराः ।

दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः ॥ २ ९ ॥

३१ तं 1-T-यो " ( १ ) अधुना अव्यापन्नर्त्तुलक्षणान्युपपादयितुमादौ हेमन्तलक्षणमाख्याति– वायुरिति । हेमन्ते उत्तरो वायुर्वाति, उत्तरदिशो जातत्वादिति भावः । ( २ ) उरभ्रः = मेषः । ( ३ ) पुन्नागः = पद्यकेसरः, नागकेसरो वा । ' पुन्नागे पुरुषस्तुङ्गः केसरो देववल्ल-भः। ' इत्यमरः । ( ४ ) प्रसन्न शिशिरर्त्तुलक्षणमाचष्टे - शिशिर इति । ( ५ ) वातवृष्ट्याकुलाः = वातेन मिश्रिता वृष्टिः ( उत्तरपदलोपः ) तया, आ-कुला व्याप्तास्तथोक्ताः । ( ६ ) अव्यापन्नवसन्तर्त्तुलक्षणमभिदधाति - सिद्धेति । ( ७ ) दक्षिणानिलसंवीता: दक्षिणश्चासाव निलो वायुस्तेन संवीता आवृता दिशः । वसन्ते मलयाचलस्थितचन्दनसौरभ्ययुक्तो दक्षिणो वातो वाति, दक्षिणदिशो जातत्वादिति भावः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 190

सुश्रुत संहिता चौखम्बा, पृष्ठ 190 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२ Digitized by Arya Samaj Foundatio सुश्रुतसंहिताया and eGangotri [ अ ०६

' ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैर्ऋतोऽसुखः ।

भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव ॥ ३० ॥

भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः ।

ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ॥ ३१ ॥

प्रावृष्यम्वरमानद्धं पश्चिमानिलर्काषितैः ।

अम्बुदैर्विद्युदुद्योतप्रस्रु तैस्तुमुलस्वनैः ॥ ३२ ॥

कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही ।

कदम्बनीपकुटजसर्जकेतकिभूषिता ॥ ३३ ॥

तंत्र वर्षासु नद्योऽम्भश्छन्नो खाततटद्रमाः ।

वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ॥ ३४ ॥

भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता ।

नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ॥ ३५ ॥

बंभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः ।

तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ॥ ३६ ॥।

पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः ।

बाणसप्ताह्वबन्धूककाशासनविराजिता ॥ ३७ ॥

" स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः ।

` विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम्॥३८ ॥

( १ ) प्रसन्नग्रीष्मर्त्तुलक्षणं प्रतिपादयति - ग्रीष्म इति । ( २ ) ग्रीष्मे निऋतिदिशो जातात्वान्नैर्ऋतो वातो वाति, स च सुखप्रदो भवतीति भावः । ( ३ ) जलाशयान्वेषितयेत्यर्थः न 1 ( ४ ) प्रसन्नप्रावृद्धृतुलक्षणं वक्ति - प्रावृषीति । ( ५ ) प्रसन्नवर्षर्तुलक्षणमाचष्टे — तत्रेति । ( ६ ) अव्यापन्नशरल्लक्षणं दर्शयति - बभ्रुरिति । ( ७ ) स्वगुणैः = ऋतूनां शीतोष्णवर्षलक्षणैः । ( ८ ) विपरीतेषु = मन्दशीतादियुक्तेष्वृतुषु । शीते उष्णम्, उष्णे शीतं, वर्षा-स्ववृष्टिरिति ऋतुवैपरीत्यं वा । ( ९ ) वैषम्यं च = > । एतेन ऋतूनां -अनुलोमविलोमाभ्यामन्यर्त्तुचिह्नमन्यस्मिन् स्वगुणातिशययोगेन षटू,, वैपरीत्ये षट्, वैषम्ये च षट् ( एवं १८ ) व्यापद उक्ता भवन्ति । CC - 0. Gurukul Kangri Collection, Haridwar