सुश्रुत संहिता चौखम्बा — पृष्ठ 181–190
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 181–190
पृष्ठ 181
पाठ पढ़ें पाठ छिपाएँ
अ ०५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २३ रूक्षां वर्तिं प्रणिदध्यात् । ततः कल्केनाच्छाद्य घनां कर्वोलिकां दवा वस्त्रपट्टेन बध्नीयात् । वेदनारक्षोध्नैर्धूपैर्धूपयेद् रक्षोघ्नैश्व मन्त्रै रक्षां कुर्वीत ॥। १७ ॥ ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्पपचूर्णैर्लवणनिम्बपत्र-विमिश्रैराज्ययुक्तैर्धूपयेत्, आज्यशेषेण चास्य प्राणान् समालभेत ॥१८ ॥
उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन रक्षाकर्म कुर्यात् ॥ १ ९ ॥
तदृक्ष्यामः--कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च ।
रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥ २० ॥
नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः ।
अभिद्रवन्त ये ये त्वां ब्रह्माद्या न्नन्तु तान् सदा ॥ २१ ॥
पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः ।
दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ॥ २२ ॥
पान्तु त्वां मुनयो ब्राह्मया दिव्या राजर्षयस्तथा ।
पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः ॥ २३ ॥
अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ।
सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु ॥ २४ ॥
उदानं विद्युतः पान्तु समानं स्तनयित्नवः ।
बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥ २५ ॥
कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रोऽभिरक्षतु ।
प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ २६ ॥
चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः ।
नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥ २७ ॥
( १ ) वर्त्ति = विकेशिकाम् । “ सपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम् । व्रणं विशोधयेच्च्छीघ्रं स्थिता ह्यन्तर्विकेशिका ॥ ” इति वाग्भटः । प्रणिदध्यात् = व्रणान्तः प्रवेशयेत् । ( २ ) कवलिकां = व्रणबन्धनार्थमौदुम्बरादिवत्व.लम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 182
पाठ पढ़ें पाठ छिपाएँ
२४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ०५
रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा ।
आकाशं खानि ते पातु देहं तव वसुन्धरा ॥ २८ ॥
वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् ।
पौरुषं पुरुषश्रेष्ठो ब्रह्माऽऽत्मानं ध्रुव ध्रुव ॥ २ ९ ॥
एता देहे विशेषेण तव नित्या हि देवताः ।
एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ ३० ॥
स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् ।
स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ ।
स्वस्त्यग्निश्चैत्र ' वायुश्च स्वस्ति देवाः सहेन्द्रगाः ॥ ३१ ॥
पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव ।
ईर्तयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥ ३२ ॥
इति स्वाहा ।
एतैर्वेदात्मकैर्मन्त्रैः कृत्याव्याधिविनाशनैः ।
मयैवं कृतरक्षस्वं दीर्घमायुरवाप्नुहि ॥ ३३ ॥
ततः कृतरक्षमातुरमागारं प्रवेश्य आचारिकमादिशेत् ॥ ३४ ॥
ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्रपट्टेन, न चैनं त्व-रमाणोऽपरेद्युर्मोक्षयेत् ॥ ३५ ॥
द्वितीय दिवसपरिमोक्षणाद्विप्रथितो तीव्ररुजश्च भवति ॥ ३६ ॥
त्रश्चिरादुपसंरोहति, ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचा-रान् विदध्यात् ॥ ३७ ॥
( १ ) “ अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः खगाः ।
स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः " ॥
( २ ) आचारिकं = द्विविधमाहारविहारलक्षणम्, एवं त्वयाऽऽहारविहारौ कर्त-व्यावित्युपदिशेदित्यर्थः । ( ३ ) अपरेद्युः = द्वितीयदिने । ( ४ ) अत ऊर्ध्वं = तृतीयदिनानन्तरम् । CC - 0. Gurukul Kangri Collection, Haridwar 1-
पृष्ठ 183
पाठ पढ़ें पाठ छिपाएँ
अ ० ६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २५ न चैनं त्वरमाणः सान्तर्दोषं रोपयेत् । स ह्यल्पेनाप्यपचारे-णाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति ॥ ३८ ॥
भवन्ति चात्र । तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद् व्रणम् ।
रूढेऽप्यजीर्ण व्यायामव्यवायादीन् विवर्जयेत् ।
हर्षं क्रोधं भयञ्चापि यावत् स्थैर्योपसम्भवात् ॥ ३ ९ ॥
हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् ।
' त्र्यहाद् द्वयहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ॥४० ॥
प्रतिपातिपुरोगेषु नेच्छेद्विधिमिमं भिषक् ।
प्रदीप्तागाच्छीघ्रं तत्र कुर्य्यात् प्रतिक्रियाम् ॥ ४१ ॥
या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः ।
घृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥४२ ॥
इति सुश्रुतसंहितायां सूत्रस्थानेऽग्रापहरणीयेो नाम पञ्चमोऽध्यायः ॥ ५ ॥
षष्टोऽध्यायः ।
अथात ऋतुर्चर्यमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
( १ ) त्र्यहात् = हेमन्तादिषु शीतत्वेन शीघ्रपाकभयाभावात् त्र्यहान्मोक्षयेदित्यर्थः । " द्व्थहात् = शरदादिषूष्णत्वेन शीघ्रपाकसम्भावनया द्वयहान्मोक्षयेदित्यर्थः । ( २ ) प्रतिपातिषु = आशुकारिषु । ( ३ ) यष्टीमधुकं = भाषायां ' मुलहठी ' ' जेठीमधु ' इति नाम्ना प्रसिद्धम् । ' मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ' इत्यमराद् हस्वेकारान्तघटितोऽप्ययम् । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां पञ्चमोऽध्यायः । षष्ठोऽध्यायः । ( ४ ) ऋतुषु शिशिरादिषु वर्षा ss दिषु वा षट्सु चर्या चरणं वर्तनम्, तदधिकृत्य कृतोऽध्याय ऋतुचर्यस्तम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 184
पाठ पढ़ें पाठ छिपाएँ
२६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ६ कालो हि नाम भगवान् स्वयम्भुरनादिमध्यनिधनोऽत्रं रस. व्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते । ससूक्ष्मामपि कलां ने लीयत इति कालः । सङ्कलयति कालयति वा भूतानीति कौलः ॥ ३ ॥
तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेण निमेषका-ष्ठाकलामुहूर्त्ताहोरात्रपक्षमासर्व्वयनसंवत्सरयुगप्रविभागं करोति ॥ ४ ॥
तंत्र लघ्वक्षरोवारणमात्रोऽक्षिनिमेषः, पञ्चदशाऽक्षिनिमेषाः , काष्ठा, त्रिंशत्काष्ठाः कला, विंशतिकलो मुहूर्तः कलादशभागश्च, त्रिंशन्मुहूर्त्तमहोरात्रं, पञ्चदशाहोरात्राणि पक्षः । स च द्विविधः-क्लः कृष्णश्र्च, तौ मासः ॥ ५ ॥
तत्र माघादयो द्वादश मासाः संवत्सरः, द्विमासिकमृतुं कृत्वा षड्ऋतवो भवन्ति । ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः तेषां तपस्तपस्यौ शिशिरः, मधुमाधवौ वसन्तः शुचिशुक्रौ ग्रीष्मः, नभोनभस्यौ वर्षाः, इपोर्जी शरत्, सहःसहस्यौ हेम-न्त इति ॥ ६ ॥
( १ ) अत्र = काले, रसव्यापत्सम्पत्ती = व्यापद् विपन्नता, सम्पत्तिः सम्पन्नतेति व्यापत्सम्पत्ती; रसस्य मधुरादेर्व्यापत्सम्पत्तीति षष्ठीतत्पुरुषः । जीवितमरणे इत्यत्रापि चकाराद् अत्रशब्दमनुवर्त्य योजनीयम् । ( २ ) न लीयते = न श्लिष्टो भवति, गतिमत्त्वादित्यर्थः । ( ३ ) श्रीमद्भागवते – “ कालो बलीयान् बलिनां भगवानीश्वरोऽव्ययः । प्रजाः कालयते क्रीडन् पशुपालो यथा पशून् ॥ ” इति । ( ४ ) संवत्सर आत्मा यस्य स तस्य संवत्सरात्मनः संवत्सरस्वरूपस्य, तरय = कालस्य, इति सम्बन्धः । आदित्य इति चन्द्रस्याप्युपलक्षणम् । गतिविशेषेण = स्वोद • यास्तगमनेन । ( ५ ) पूर्वोक्तान् संवत्सरांशान् निमेषादीन् विवृणोति — तत्रेति । ( ६ ) शिशिरादिपसृतूनां विभागो रसवलनिष्पत्त्यर्थं प्रदर्शितः । तथा चोक्तं चरके संवत्सरादिविभागप्रदर्शनावसरे – “ तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्र रूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्री मे ' वृतुषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रू छान् रसान् तिक्तकषायकटुकाँश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति ” इत्यादिना CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 185
पाठ पढ़ें पाठ छिपाएँ
६ अ ० ६ ] I पि ति ३ || चाः च, षां म-तेति त्रापि 1 _य = वोद • चरके तीव्र रसान् सूत्रस्थानम् । ३७ भवति चात्र । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकर-त्वादयने द्वे भवतो दक्षिणमुत्तरञ्च । तयोर्दक्षिणं वर्षाशरद्धेमन्ताः, तेषु भगवानाप्यायते सोमः, अम्ललवणमधुराच रसा बलवन्तो भवन्ति, उत्तरोत्तरञ्च सर्वप्राणिनां बलमभिवर्द्धते । उत्तरञ्च शिशि-रवसन्तग्रीष्माः, तेषु भगवानाप्यायतेऽर्कः, तिक्तकषायक-टुकाश्च रसा बलवन्तो भवन्ति, उत्तरोत्तरञ्च सर्वप्राणिनां बलम-पहीयते ॥ ७ ॥
शीतांशुः क्लेदयत्युर्थी विवस्वान् शोपयत्यपि ।
तावुभावपि संश्रित्य वायुः पालयति प्रजाः ॥ ८ ॥
अथ खल्वयने द्वे युगपत् संवत्सरो भवति । ते तुच यु-गमिति संज्ञां लभन्ते । स एष निमेषादिर्यगपर्यन्तः कालञ्चक्रवत् परिवर्तमानः कालचक्रमुच्यत इत्येके ॥ ९ ॥
इह तु वर्षाशरद्धेमन्तग्रीष्मप्रावृषः षड् ऋतवो भवन्ति दोषोप-चयप्रकोपोपशमनिमित्तम् । ते तु भाद्रपदाद्येन द्विमासिकेन व्या-ख्याताः । तद्यथा — भाद्रपदाश्वयुजौ वर्षाः, कार्तिकमार्गशीर्षौ शर-तू, पौषमाघौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्येष्ठौ श्री-ष्मः, आषाढ श्रावणौ प्रावृडिति ॥ १० ॥
तत्र, वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रसन्नाः क्षिति-( १ ) शीतोष्णवर्ष लक्षणाः = अतिशीतोष्णवर्षलक्षणास्त्रयः, मन्दशीतोष्णवर्ष लक्ष-शास्त्रय इति पहृतव: । तत्र शैत्यं वातकृतम्, औष्ण्यमादित्यकृतं वर्षश्चन्द्रकृतः । के-चित् शीतवर्षी चन्द्रकृताविति मन्यन्ते । ( २ ) चरके– “ योगत्राहः परं वायुः संयोगादुभयार्थंकृत् । दाहकृत्तेजसा युक्तः शीतकृत सोमसंश्रयात् ॥ ” इति । ( ३ ) पञ्चसंवत्सराः युगमिति संज्ञां लभन्ते । युगस्य पारिभाषिकीयं संज्ञा । " कालचक्रं तु वर्षाणां पञ्चानां सम्प्रवर्तते । युगसंज्ञा च दैवज्ञैस्तत्र सम्परिकीर्तिता ” ॥ वस्तुतः कृतादयश्चत्वारो युगविशेषा इति बोध्यम् ।
पृष्ठ 186
पाठ पढ़ें पाठ छिपाएँ
२८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां-[ अ ० ६ मलप्रायाः । ता उपयुज्यमाना नभसि मेघावंतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शोर्तेवाविष्टम्भिताग्नीनां विदह्यन्ते, विदाहा पित्तसञ्चयमापादयन्ति । स सञ्चयः शरदि प्रविरलमेघे विय-त्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः पैत्तिकान् व्याधीन् जनयति ॥ ११ ॥
ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रसन्नाः स्निग्धा श्रत्यर्थं गुर्व्यश्च । ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविद-ग्धाः स्नेहाच्छैत्यागौरवादुपलेपाच्च श्लेष्मसञ्चयमापादयन्ति । स सञ्चयो वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन् जनयति । ता एवौषधयो निदाघे निस्सारी रूक्षा अतिमात्रं लळ्यो भव-न्त्यापश्च, ता उपयुज्यमानाः सूर्य्यप्रतापोपशोषित देहानां देहिनां रौ-क्ष्याल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापादयन्ति । स सञ्चयः प्रा-वृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवा-तवर्षेरितो वातिकान् व्याधीन् जनयति । एवमेष दोषाणां सञ्चय-प्रकोपहेतुरुक्तः ॥ १२ ॥
( १ ) मेघावतते = मेघाच्छन्ने । ( २ ) शीतेन कुपितो वातः शीतवातस्तेन विष्टम्भितो मन्दवेगीकृतोऽग्निर्येषां ते तेषाम् । यतः शारीरेण शीतवातेन बहिर्लोमकूपावरोधनादुष्मणोऽनिर्गमनं भवति, अतो-ऽन्तरग्नेर्बलं वर्द्धते इति तात्पर्यम् । विदह्यन्ते = अम्लपाकमुपयान्ति । ( ३ ) सः = वर्षाकालोपचितः, सञ्चयः = संहतिरूपा वृद्धिः । ( ४ ) परिणतवीर्याः = प्राप्तशक्तिकाः । ( ५ ) तुषारेण सहितः सतुषारः, स चासौ पवनस्तेनोपस्तम्भितो देहो येषां ते त-थोक्तानां हिमाद्रवायुनाऽऽप्यायितशरोराणां प्राणिनामित्यर्थः । यतो हिमसंहतिवशा-त्तदानीं सञ्चय एव, न प्रकोप इति भावः । ( ६ ) निस्साराः = जलीयांशरहिताः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 187
पाठ पढ़ें पाठ छिपाएँ
६. अ ० ६ ] नौ त् T-न् -ते द-। नां च-रौ-ETETT-य-- ते तो-त-शा-31 Digitized by Arya Samaj Eoundation Chennai and eGangotri " सूत्रस्थानम् tenna तत्र वर्षा हेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्तप्रावृट्सु चं प्रकुपितानां निर्हरणं कर्तव्यम् ॥ १३ ॥
" तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां निदा-घे, वातिकानां शरदि, स्वभावत एव । त एते सञ्चयप्रकोपोपशमा व्याख्याताः ॥ १४ ॥
- तंत्र, पूर्वाह्णे वसन्तस्य लिङ्ग, मध्याह्ने ग्रीष्मस्य, अपराह्ने प्रावृ-यः, प्रदोवे वार्षिक शारदमर्धरात्रे प्रत्यूषसि हैमन्तमुपलक्षयेत् । एवमहोरात्रमपि वमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपश-मैर्जानीयात् ॥ १५ ॥
तत्र, अव्यापन्नेष्वृतुष्वव्यापन्ना श्रोषधयो भवन्त्यापश्च, ता उपयुज्यमानाः प्रीणायुर्बलवीयजस्कय्र्यो भवन्ति ॥ १६ ॥
( १ ) अत्र पुन: -- ' वर्षा हेमन्तग्रीष्मेषु ' इत्यादिपाठो नियमार्थम् । शरदादिष्वेव प्र-कुपितानां वमनादिनाऽऽकर्षणं यथा स्याद् ग्रीष्मादौ माभूदिति । ' ग्रीष्मादिषु हि हेतु-चाहुल्याद् वमनादयो विधीयमाना व्यापदं मरणं वोत्पादयन्ति ' । ( २ ) संशोधनसाध्येष्वतिपातिषु रोगेषु ग्रीष्मादिष्वपि तद्विधानज्ञापनार्थं चकारः । निर्हरणं = वमनादिनाऽऽकर्षणम् । तच्च साधारणतया त्रिमासान्तरितं कृत्वा कर्तव्यम् । उक्तं च– “ ग्रीष्मादिसञ्चितान् दोषान् त्रिमासान्तरितान् हरेत् ” इति । वाग्भटः– “ श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात् । ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत् ॥ ” इति । ( ३ ) सांवत्सरिकदोषोपचयप्रकोपोपशमनविधानस्य दिनेऽप्यतिदेशार्थं निर्दिश-ति — तत्रेति । तत्र = = श्रु अहोरात्रे | ( ४ ) दोषोपचयप्रकोपोपशमैः अहोरात्रमपि शीतोष्णवर्षलक्षणं वर्षमिव जानी--यदिति सम्बन्धः । ( ५ ) ओषधयः = चतुर्विधाहारद्रव्याणि । न: = ( ६ ) प्राणाः = अग्नीषोमादयः, आयुः = शरीरेन्द्रियसत्त्वात्ममनसां संयोगः । ओजः = हृदयाश्रितसप्तधातुपरः " हृदि तिष्ठति यच्छुद्धं रक्तमी-स्नेहः । उक्तञ्च - - ' षत्सपीतकम् । श्रोजः शरीरे सञ्जातं तन्नाशान्नाशमृच्छति ॥ " " प्रोजश्च तेजो धातूनां शुक्रान्तानां परं स्मृतम् । ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 188
पाठ पढ़ें पाठ छिपाएँ
३० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया [ अ ० ६ खलु ' तेषां पुनर्व्यापदोऽदृष्टकारिताः, ' शीतोष्णवातवर्षाणि विपरीतान्यौषधीर्व्यापादयन्त्यापश्च ॥ १७ ॥
तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति ॥ १८ ॥
तत्र, अव्यापन्नानामोषधीनामपाञ्चोपयोगः ॥ १ ९ ॥ कदाचिदव्यापन्नेष्वप्यतुषु कृत्याऽभिशापरक्षः क्रोधाधमैरुप-ध्वस्यन्ते जनपदाः । विषौषधिपुष्पगन्धेन वायुनोपनीतेना-क्रम्यते यो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्याय-शिरोरुग्ज्वरैरुपतप्यन्ते, ग्रहनक्षत्रचरितैर्वा, गृहदारशयनासनयान-वाह्नमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा ॥ २० ॥
तत्र, स्थानपरित्यागशान्तिकर्म्मप्रायश्चित्तं मङ्गलजपहोमोपहा-रेज्याञ्जलिनमस्कारतपोनियमदद्यादान दीक्षाऽभ्युपगमदेवताब्राह्मण-( १ ) तेषाम् = ऋतूनाम्, व्यापदः = शीतोष्ण वातवर्षाणां वैपरीत्यम्, अदृष्टका-रिताः = अदृष्टेन सकलजनसाधारणाधर्मेण प्रयोजककर्त्रा कारिताः कर्तुळं प्रयोजिताः । ( २ ) स्वतन्त्रकर्तारमाह - शीतोष्णेति । ( ३ ) व्यापादयन्ति = विरुद्धतां प्रापयन्ति । ( ४ ) व्यापदापन्नानामोषधीनामपां चोपयोगादनिष्टं प्रदर्शयति - तासामिति । ( ५ ) मरकः = जनपदध्वंसकारको रोगः, महामारीति यावत् । ( ६ ) व्यापन्नर्तुभ्योऽपरैः कारणर्व्याधिं सम्भावयन्नभिधत्ते – कदाचिदिति । ( ७ ) कृत्या = आभिचारिकराक्षसीविशेषः । “ तानि कृत्याहतानीव विनश्यन्तिं समन्ततः ” इति मनुः । श्रभिशापः = ब्रह्मर्षिगुरुसिद्धादिदत्तशापः । अभिचारस्तु मन्त्रा-दिभिरेकपुरुषव्यापादकः । ( ८ ) उपध्वस्यन्ते = उपधूयन्ते । विषौषधीनां कल्पस्थानोक्त- वेत्रकादम्बवल्ली-करम्भमहाकरम्भाणां पुष्पगन्धेन । ( ९ ) ऋतुप्रकोपस्याधर्मकारित्वात्तत्र शान्त्यादिकं वक्ति – तत्रेति । ( १० ) प्रायश्चित्तं = प्राक्तनकर्मोपशमाय सविधिचान्द्रायणाद्याचरणम् । “ प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ॥ ” इति वा । मङ्गलं = प्रशस्तौषधमणिधारणात्मकम्, जपः - गायत्र्यादिजपः, विष्णुसह-स्रनामजपो वा । तदुक्तं चरके - " विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम् । स्तुवन्नामस + हस्रेण ज्वरान्सर्वानपोहति ” । ( ११ ) अभ्युपगमः = गुरुवाक्याद्यङ्गीकारः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 189
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
गुरुपरैर्भवितव्यम् । एवं साधु भवति ॥ २१ ॥
६. अ ० ६ ] लु It न-7-T-7-T-अत ऊर्ध्वमञ्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः ॥ २२ ॥
वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः ।
छन्नस्तुषारैः सविता हिमानद्वा जलाशयाः ॥ २३ ॥
दर्पिता ध्वाङ्क्षखड्गाह्वमहिषोर कुञ्जराः ।
रोघ्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये ॥ २४ ॥
शिशिरे शोतमधिकं वातवृष्ट्या कुलादिशः ।
शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः ॥ २५ ॥
सिद्धविद्याधरवधूचरणालक्तकाङ्किते ।
मलये चन्नलतापरिष्वङ्गाधिवासिते ॥ २६ ॥
वाति कामिजनानन्दजननोऽनङ्गदीपनः ।
दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः ॥ २७ ॥
दिशो वसन्ते विमलाः काननैरुपशोभिताः ।
किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः ॥ २८ ॥
कोकिलापट्पद्गणैरुपगीता मनोहराः ।
दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः ॥ २ ९ ॥
३१ तं 1-T-यो " ( १ ) अधुना अव्यापन्नर्त्तुलक्षणान्युपपादयितुमादौ हेमन्तलक्षणमाख्याति– वायुरिति । हेमन्ते उत्तरो वायुर्वाति, उत्तरदिशो जातत्वादिति भावः । ( २ ) उरभ्रः = मेषः । ( ३ ) पुन्नागः = पद्यकेसरः, नागकेसरो वा । ' पुन्नागे पुरुषस्तुङ्गः केसरो देववल्ल-भः। ' इत्यमरः । ( ४ ) प्रसन्न शिशिरर्त्तुलक्षणमाचष्टे - शिशिर इति । ( ५ ) वातवृष्ट्याकुलाः = वातेन मिश्रिता वृष्टिः ( उत्तरपदलोपः ) तया, आ-कुला व्याप्तास्तथोक्ताः । ( ६ ) अव्यापन्नवसन्तर्त्तुलक्षणमभिदधाति - सिद्धेति । ( ७ ) दक्षिणानिलसंवीता: दक्षिणश्चासाव निलो वायुस्तेन संवीता आवृता दिशः । वसन्ते मलयाचलस्थितचन्दनसौरभ्ययुक्तो दक्षिणो वातो वाति, दक्षिणदिशो जातत्वादिति भावः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 190
पाठ पढ़ें पाठ छिपाएँ
३२ Digitized by Arya Samaj Foundatio सुश्रुतसंहिताया and eGangotri [ अ ०६
' ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैर्ऋतोऽसुखः ।
भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव ॥ ३० ॥
भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः ।
ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ॥ ३१ ॥
प्रावृष्यम्वरमानद्धं पश्चिमानिलर्काषितैः ।
अम्बुदैर्विद्युदुद्योतप्रस्रु तैस्तुमुलस्वनैः ॥ ३२ ॥
कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही ।
कदम्बनीपकुटजसर्जकेतकिभूषिता ॥ ३३ ॥
तंत्र वर्षासु नद्योऽम्भश्छन्नो खाततटद्रमाः ।
वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ॥ ३४ ॥
भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता ।
नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ॥ ३५ ॥
बंभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः ।
तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ॥ ३६ ॥।
पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः ।
बाणसप्ताह्वबन्धूककाशासनविराजिता ॥ ३७ ॥
" स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः ।
` विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम्॥३८ ॥
( १ ) प्रसन्नग्रीष्मर्त्तुलक्षणं प्रतिपादयति - ग्रीष्म इति । ( २ ) ग्रीष्मे निऋतिदिशो जातात्वान्नैर्ऋतो वातो वाति, स च सुखप्रदो भवतीति भावः । ( ३ ) जलाशयान्वेषितयेत्यर्थः न 1 ( ४ ) प्रसन्नप्रावृद्धृतुलक्षणं वक्ति - प्रावृषीति । ( ५ ) प्रसन्नवर्षर्तुलक्षणमाचष्टे — तत्रेति । ( ६ ) अव्यापन्नशरल्लक्षणं दर्शयति - बभ्रुरिति । ( ७ ) स्वगुणैः = ऋतूनां शीतोष्णवर्षलक्षणैः । ( ८ ) विपरीतेषु = मन्दशीतादियुक्तेष्वृतुषु । शीते उष्णम्, उष्णे शीतं, वर्षा-स्ववृष्टिरिति ऋतुवैपरीत्यं वा । ( ९ ) वैषम्यं च = > । एतेन ऋतूनां -अनुलोमविलोमाभ्यामन्यर्त्तुचिह्नमन्यस्मिन् स्वगुणातिशययोगेन षटू,, वैपरीत्ये षट्, वैषम्ये च षट् ( एवं १८ ) व्यापद उक्ता भवन्ति । CC - 0. Gurukul Kangri Collection, Haridwar