सुश्रुत संहिता चौखम्बा — पृष्ठ 171–180
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 171–180
पृष्ठ 171
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] ३ न-T-य इति । " सूत्रस्थानम् Ther १३ -CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samai Foundation Chennai and eGangotri
सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः ।
षट्चत्वारिंशद्ध्यायं सूत्रस्थानं प्रचक्षते ॥ १२ ॥।
' वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः ।
कुष्ठमेहोदरा मूढो विद्रधिः परिसर्पणम् ॥ १३ ॥
ग्रन्थिवृद्धिक्षुद्रशूकभग्नाश्च मुखरोगिकम् ।
हेतुलक्षणनिर्देशान्निदानानीति षोडश ॥ १४ ॥
' भूतचिन्ता रजः शुद्धिर्गर्भावक्रान्तिरेव च ।
व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् ॥ १५ ॥
प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च ।
सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा ॥ १६ ॥
निर्दिष्टानि दशैतानि शारीराणि महाषणा ।
विज्ञानार्थं शरीरस्य भिषजां योगिनामपि ॥ १७ ॥
द्वित्रणीय व्रणः सद्यो भग्नानां वातरोगिकम् ।
महावातिकमर्शांसि साश्मरिश्च भगन्दरः ॥ १८ ॥
कुष्ठानां महतां चापि मैहिकं पैडकं तथा ।
मधुमेहचिकित्सा च तथा चोदरिणामपि ॥ १ ९ ॥
मूढगर्भीचिकित्सा च विद्रधीनां विसर्पिणाम् ।
ग्रन्थिवृद्धयुपदंशानां तथा च क्षुद्ररोगिकम् ॥ २० ॥
शूकदोषचिकित्सा च तथा च मुखरोगिणाम् ।
शोफस्यानागतानाञ्च निषेधो मिश्रकं तथा ॥ २१ ॥
वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च ।
मेधाऽऽयुष्करणञ्चापि स्वभावव्याधिवारणम् ॥ २२ ॥
निवृत्तसन्तापकरं कीत्तितञ्च रसायनम् । ( १ ) निदानस्थानोक्तषोडशाध्यायानां नामान्यभिदधाति -वातेति । ( २ ) शारीरस्थानोक्तदशाध्यायानां नामान्याख्याति – भूतेति । ( ३ ) चिकित्सास्थानोक्तचत्वारिंशदध्यायानां नामानि परिगणितुमाह - द्वित्र-
पृष्ठ 172
पाठ पढ़ें पाठ छिपाएँ
१४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ३ स्नेहोपयौगिकः स्वेदो वमने च विरेचने ॥ २३ ॥
तयोर्व्यापिच्चिकित्सा च नेत्रवस्तिविभागिकः ॥ नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरवस्तिक: ॥ २४ ॥
निरूहक्रमसंज्ञश्च तथैवातुरसंज्ञकः ।
धूमनस्य विधिश्चान्त्यश्चत्वारिंशदिति स्मृताः ॥ २५ ॥
प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च ।
पर्यायास्तस्य निर्देशाञ्चिकित्सास्थानमुच्यते ॥ २६ ॥
' अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च ।
सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् ॥ २७ ॥
दुन्दुभेर्मूषिकाणाञ्च कीटानां कल्प एव च ।
अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् ॥ २८ ॥
अध्यायानां शतं विंशमेवमेतदुदीरितम् ।
श्श्रुतः परं म्वनाम्नैव तन्त्रमुत्तरमुच्यते ॥ २ ९ ॥
अधिकृत्य कृतं यस्मात्तन्त्र मेतदुपद्रवान् ।
औपद्रविक इत्येष तस्याप्यत्वान्निरुच्यते ॥ ३० ॥
सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु ।
संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ॥ ३१ ॥
चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः ।
पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ॥ ३२ ॥
लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु ।
क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ॥ ३३ ॥
घ्राणोत्थानाञ्च विज्ञानं तद्गदप्रतिषेधनम् ।
प्रतिश्यायनिषेधश्च शिरोगविवेचनम् ॥ ३४ ॥।
चिकित्सा तगदानाञ्च शालाक्यं तन्त्रमुच्यते ।
नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ॥ ३५ ॥
( १ ) कल्पस्थानोक्ताष्टाध्यायानां नामानि निर्दिशति – अन्नस्येति । ( २ ) उत्तरतन्त्रोक्तषट्षष्ट्यध्यायानां नामानि निर्देष्टुमाह – अत इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 173
पाठ पढ़ें पाठ छिपाएँ
३ अ ० ३ ] Digitized by Arya Sam वस्थानम् Chennai and eGangotri १५ ॥
अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् ।
पृतनायास्तथाऽन्धाया मण्डिका शीतपूतना ॥ ३६ ॥
नैगमेपचिकित्सा च ग्रहोत्पत्तिः सयोनिजा ।
कौमारतन्त्रमित्येतच्छारीरेषु च कीर्त्तितम् ॥ ३७ ॥
ज्वरातिसारशोषाणां गुल्मद्रोगिणामपि ।
- पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ॥ ३८ ॥।
तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः ।
स्वरभेदचिकित्सा च कृम्युदावर्त्तिनोः पृथक् ॥ ३ ९ ॥
विसूचिका s रोचकयोर्मूत्राघातविकृच्छ्रयोः ।
इति कायचिकित्सायाः शेषमत्र प्रकीर्त्तितम् ॥ ४० ॥
श्रमानुषनिषेधश्च तथाऽऽपस्मारिकोऽपरः ।
उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ॥ ४१ ॥
रसभेदाः स्वस्थवृत्तिर्यक्तयस्तान्त्रिकारच याः ।
दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ॥ ४२ ॥
श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः ।
वह्नर्थसङ्ग्रहाच्छेष्ठमुत्तरचापि पश्चिमम ॥ ४३ ॥
शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या ।
भूतविद्येति चत्वारि तन्त्रे तूत्तरसंज्ञिते ॥ ४४ ॥
वाजीकरश्चिकित्सासु रसायनविधिस्तथा ।
विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ॥। ४५ ॥
इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम् ।
विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ॥। ४६ ॥
एतद्ध्यवश्यमध्येयम्, अधीत्य च कर्माध्यवश्यमुपासितव्यम्, उभयज्ञो हि भिषग् राजार्हो भवति ॥ ४७ ॥
भवन्ति चात्र । यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ' । ( १ ) अपरिनिष्ठितः = अनिष्पन्नः, अशिक्षित इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 174
पाठ पढ़ें पाठ छिपाएँ
inal and eGangotri [ अ ० ३ " सुश्रुतसंहितायां --Digitized by Arya Samaj १६ स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ॥ ४८ ॥
यस्तु कर्मसु निष्णातो ' धार्याच्छास्त्रवहिष्कृतः ।
स सत्सु पूजां नाप्नोति वधं चार्हति राजतः ॥ ४ ९ ॥
उभावेतावनिपुणावसमर्थौ स्वकर्मणि ।
' अर्धवेदधरावेतावेकपक्षाविव द्विजौ ॥ ५० ॥
३ ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः ।
भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ॥ ५१ ॥
स्नेहादिष्वनभिज्ञा ये छेद्यादिषु च कर्मसु । 8 ते निहन्ति जनं लोभात् कुवैद्या नृपदोषतः १ ॥ ५२ ॥
" यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने ।
आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ॥
५३ ॥
अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानम्— अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्या-य यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा । ' ते च पदपादश्लोका भूयः क्रमेणानुसन्धेयाः । एवमेकैकशो ' घटयेदात्मना चानुपठेत् । अद्भुतमविलम्बितमविशङ्कितमननुनासिकं व्यक्ताक्षरमपीडितवर्णम-( १ ) धाष्टर्थ्यात् = प्रागल्भ्यात् । ( २ ) अर्धवेदधरौ = अर्धज्ञानधरौ, शास्त्रज्ञः कर्मज्ञो वेत्यर्थः । ज्ञानार्थं कोऽत्र वेद-शब्दः । ( ३ ) यद्यपि ' प्रोषध्यः फलपाकान्ताः ' एतन्परक श्रोषधिशब्दः, तथाऽप्यत्र चिकित्सोपयोगी समस्तद्रव्यवाचकः । चरकेऽप्येवमेवोक्तम् — “ यथा विषं यथा शस्त्रं यथा ऽग्निरशनिर्यथा । तथौषधमविज्ञातं विज्ञातममृतं यथा ॥ " इति । ( ४ ) राज्ञामयं दोषो यतोऽज्ञातकर्मणि प्रवृत्तान् वैद्यान्न निवर्तयन्तीत्यर्थः । ( ५ ) शास्त्रज्ञकर्मज्ञस्य गुणं सदृष्टान्तं प्रतिपादयति — यस्त्विति । मतिमान् = ऊहापोहकुशलः, अर्थसाधने = आरोग्यविधाने । ( ६ ) ते च = शिष्यशक्त्यनतिक्रमेणोपदिष्टाः, पदपादश्लोकाः - पदं पादं श्लोकं वा, भूयः = पुनःपुनः, अनुसन्धेयाः = अनुक्रमेण सन्धानीयाः, अर्थात् पदेन पादः, पादपदाभ्यां श्लोकः सन्धानीय इत्यर्थः । ( ७ ) एकैकशः = एकमेकं प्रतिशिष्यम्, घटयेत् - योजनां विदध्यात् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 175
पाठ पढ़ें पाठ छिपाएँ
द-त्र पा " कं ०४ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानन् । १७
चिभ्रुवौष्ठहस्तैरने भिनीतं सुसंस्कृतं नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् ।
न चान्तरेणं कश्चिद् व्रजेत् तयोरधोयानयोः ॥ ५४ ॥
भवतश्चात्र ।
शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः ।
पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ॥५५ ॥
सौष्ठवेऽर्थविज्ञाने प्रागल्भ्ये कर्मनैपुणे ।
तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ॥ ५६ ॥
इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसम्प्रदानीयो नाम तृतीयोऽध्यायः ॥३ ॥
चतुर्थोऽध्यायः ।
अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
( १ ) अनभिनीतं = नर्तक इवाचिभ्रुवौष्ठहस्तैर्व्यञ्जकं न कुर्यादित्यर्थः । उक्तः– “ पशुमण्डूकमार्जारश्वसर्पनकुला-( २ ) अन्तरागमने मनुनाऽनध्याय खुभिः । अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ ” इति । ( ३ ) पूर्वोक्तनियमाचरणेन शास्त्रान्तप्राप्तवतः शिष्यस्येतिकर्तव्यतां वक्ति— वागिति । ( ४ ) तदभ्यासे = कर्माभ्यासे, चकारात् कर्मदर्शनेऽपि । सिद्धौ - आरब्धाभि-प्रेतारोग्यसाधनात्मकसिद्धावेित्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां तृतीयोऽध्यायः । चतुर्थोऽध्यायः । ( ५ ) पठितशास्त्रस्य प्रकर्षेणार्थानुसन्धानपूर्वकं व्याख्यानं प्रभाषणम्, तदधिकृत्य कृतोऽध्यायः प्रभाषणीयस्तम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 176
पाठ पढ़ें पाठ छिपाएँ
१८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -[ अ ० ४ अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य चन्दनभार इव केवलं परिश्रमकरं भवति ॥ ३ ॥
भवति चात्र ।
यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य ।
एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ॥ ४ ।
तम्मात् सविंशमध्यायशतमनुपदपादश्लोक मनुवर्णयितव्यम-श्रोतव्यश्च । कस्मात्? सूक्ष्मा हि द्रव्यरसगुणवीर्यविपाक दो-षधातुमलाशय मर्म सिरास्नायुसन्ध्यस्थिगर्भसम्भव द्रव्यसमूहविभागा-स्तथा प्रनष्टशल्योद्धरणव्ररणविनिश्चयभग्नविकल्पाः साध्यया-व्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये सहस्रशो विशेषा ये विचिन्त्यमाना बिमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्य्यः किं पु-नरल्पबुद्धेः । तस्मादवश्यमनुपदं पादश्लोक मनुवर्णयितव्यमनुश्रोत-व्यञ्च ॥ ५ अन्यशास्त्रोपपन्नानां चार्थानामिहोपनीतानामर्थवशात्तेषां तद्वि-( १ ) अयं भावः – गुणयुक्तमपि चन्दनं तद्गुणाननवगच्छतो वाहकस्य गर्द-भस्य केवलं व्यथाकरं भवति, तद्वत्पठितमपि शास्त्रमर्थाननुसन्धाय अव्याख्यातं चेद-ध्ययनकर्तुः केवलं श्रमकरमेव; तस्मादर्थज्ञाने प्रयतनीयमिति । ( २ ) अनुपदपादश्लोकं = पदं पादं पादं श्लोकं श्लोकमित्यर्थः, अनुशब्दस्य वीप्सा-ऽर्थकत्वात् । अनुवर्णयितव्यम् = आचार्येण व्याख्यातव्यमित्यर्थः । ( ३ ) सूक्ष्मा इति हेतुपदस्य सर्वत्राभिसम्बन्धः । ( ४ ) आशयादीन् शारीरस्थाने स्वयमेव वक्ष्यति । ( ५ ) विभागाः = भेदाः । ( ६ ) विकल्पाः = भेदाः । विकल्पशब्दस्य प्रनष्टशल्योद्धरणादिभिः सह प्रत्येकं सम्बन्धः, द्वन्द्वान्ते श्रूयमाणत्वात् । नार्थम्तो ( ७ ) अनुपदपादेत्यस्य पुनरभिधानमस्य शास्त्रस्य दुरूत्वख्यापना न पौनरुक्त्यमिति बोध्यम् । ( ८ ) उपपन्नानां = निबद्धानाम् । उपनीतानाम् = श्रानीतानाम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 177
पाठ पढ़ें पाठ छिपाएँ
कं .-तो अ ० ५ ] Digitized by Arya Samper in ghennai and eGangotri द्येभ्ये एव सूर्यस्थानम् १ ९ व्याख्यानमनुश्रोतव्यम् । कस्मात्? न ह्येकस्मिन् शास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्त्तुम् ॥ ६ ॥
भवन्ति चात्र ।
एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् ।
तस्माद्बहुश्रुतः शास्त्रं विजानीयाचिकित्सकः ॥ ७ ॥
शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् ।
यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ॥ ८ ॥
श्रपवेनवमौरभ्रं सौश्रुतं पौष्कलावतम् ।
शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ॥ ९ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयो नाम चतुर्थोऽध्यायः ॥ ४ ॥
पञ्चमोऽध्यायः । G अथातोऽग्रपहरणीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
त्रिविधं कर्म - पूर्वकर्म, प्रधानकर्म, पश्चात्कर्मेति । तद्वयाधिं प्रति प्रत्युपदेक्ष्यामः ॥ ३ ॥
( १ ) तद्विद्येभ्यः = व्याकरण । दिविद्येभ्यः । ( २ ) तस्कराः = वैद्यव्याजेन रोगिभ्यो धनापहरणत्वात् प्राणहरणाच्च चौराः । इति सुश्रुतसंहितायाः सुधाऽख्यटिप्पन्यां चतुर्थोऽध्यायः । पञ्चमोऽध्यायः । ( ३ ) कर्मणः अग्रे आदौ यन्त्रादिसम्भारस्यो पहरणमुपकल्प नम ग्रोपहरणन्, तद-धिक्कृत्य कृतोऽध्यायोऽग्रोपहरणीयस्तम् । ( ४ ) “ लङ्घनादिविरेकान्तं पूर्वकर्म व्रणस्य च । पाटनं रोपणं यच्च प्रधानं कर्म तत्स्मृतम् । बलवर्णाग्निकार्यं तु पश्चात्कर्म समादिशेत् ” । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 178
पाठ पढ़ें पाठ छिपाएँ
२० Digitized by Arya Samaj Foundation Chennai and eGangotri. सुश्रुतसंहिताया-Idan pori [ अ ०५ अस्मिन् शास्त्रे शस्त्रकर्मप्राधान्याच्छस्त्रकर्मैव तावत् पूर्वमुपदे-क्ष्यामस्तत्सम्भारांश्च ॥ ४ ॥
तञ्च शस्त्रकर्माऽष्टविर्धम् । तद्यथा - छेद्यं ॥ ५ भेद्यं ॥, लेख्यं, वेध्यम्, एष्यम्, आहार्यम्, विस्राव्यं, सीव्यमिति यतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवापकल्पयितव्यानि— यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्ग जलौकालाबू जाम्बवैौष्टपिचु प्रोतसूत्रपत्रप-ट्टमधुघृतवसापयस्तैलतर्पणकषायालेपन कल्कव्यजनशीतोष्णोदककटा-हादीनि '; परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ॥ ६ ॥
ततः प्रशस्तेषु तिथिकरणमुहूर्त नक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं ( १ ) चरके तु षड्विधं शस्त्रकर्म निर्दिष्टम् - " पाटनं व्यधनं चैव छेदनं लेखनं तथा । प्रोञ्छनं सीवनं चैव षड्विधं शस्त्रकर्म तत् ॥ ” इति । एषणाहरणे शस्त्रकर्मणि केचिन्न मन्यन्ते तथाऽपि छित्त्वा भित्त्वाऽप्येषणाहरणे क्रियेते, अतोऽत्र शस्त्रकर्मणि निर्दिष्टे इति उल्हणः । १ छेद्यम् = अशेषतश्छेदनीयमर्शः प्रभृति, द्विधाकरणं भगन्दरप्रभृति वा । २ भेद्यं = विदारणीयं, विद्रध्यादि । ३ लेख्यं = लेखनीयं, रोहिण्यादि । ४ वेध्यं = स्व-' ल्पमुखैः शस्त्रैर्व्यधनोयं, सिरादि । ५ एप्यम् = एषणीयं, नाड्यादि । ६ आहार्यम् = आहरणीयं, शर्करादि । ७ विस्राव्यं = विस्रावणीयं, विद्रधिकुष्ठादि । = सीव्यं = सीवनीयम्, उत्कर्तितपक्ष्मकोपादि । छेद्याद्यष्टविधशब्दानां व्याधिवाचकत्वेऽपि अभेदोपचाराच्छस्त्रकर्मव्यपदेशः । वाग्भ-टेन एतदतिरिक्तानि उत्पाटनादीनि पन्चकर्माण्यधिकानि निर्दिष्टानि । ( २ ) छेद्याद्यष्टविधैकतमकर्मारम्भपूर्वमुपकल्पनीयानि द्रव्याण्याह — यन्त्रेति । ( ३ ) जाम्बवौष्ठं = जम्बुफल सदृशमुखाग्रकृष् णपाषाणरचिता वर्तिः, पिचुः = तूलः, ‘ पिचुस्तूलोऽथ’इत्यमरः । भाषायामस्य ' रूई ' ' कपास ' इति नाम्ना प्रसिद्धिः । प्रोतः वस्त्रम्, ' प्रोतो गुम्फितवाससोः ' इति हेमचन्द्रः । पट्टः = व्रणादिवन्धनद्रव्यम्, ' पट्टश्चतु-ष्पथे पीठे राजादेः शासनान्तरे । व्रणादिबन्धने ' इति हेमचन्द्रः । कषायः = व्रणादि-प्रक्षालनार्थमौषधक्कथितम् । ( ४ ) आदिशब्दात् कवलिका - मृत्कपाल- कलस - स्थाली - शयनासनप्रभृतीनि बो-हृव्यानि । परिकर्मिणः = सर्वकर्मणां कर्तारः परिचारका उपकल्पयितव्याः, न तु केवलं यन्त्रादीन्येवोपकल्पनीयानीति भावः । चरके विशेषः - " उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि । शौचं चेति चतुष्कोऽयं गुणः परिचरे जने ॥ ” इति । ( ५ ) ततः = • यन्त्रादिसामग्रयुपकल्पनानन्तरम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 179
पाठ पढ़ें पाठ छिपाएँ
, 7-में ॥ न T-भ-नः, तु-दे-चो-चलं गश्च अ ०५ ] २/३ 22726 ३१ I by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २० विप्रान् भिषजश्चार्चयित्वा कृतवलिमङ्गलस्वस्तिवाचनं लघुभुक्त मर्म-वन्तं प्राङ्मुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो निदध्यादापू- वैद्यो सिरास्नायुसन्ध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं यदर्शनात्, सकृदेवापहरेच्छखमाशु च । महत्स्वपि च पाकेपु द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ॥ ७ ॥
तत्रायतो विशालः समः सुविभक्तो निराश्रय इति ब्रणगुणाः ॥८ ॥
भवतश्चात्र ।
श्रतश्च विशालश्च सुविभक्तो निराश्रयः ।
प्राप्तकालकृतश्चापि ब्रणः कर्मणि शस्यते ॥ ९ ॥
' शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदद्वेपथु । 9 ( १ ) ' शस्त्रपात पीडया चलनेनान्यत्र शस्त्रावातशङ्कानिवारणार्थं यन्त्रयित्वेति ' इति चक्रः । ( २ ) मर्माणि = सप्ताधिकशत ( १०७ ) भेदवन्ति, सिराः = सप्तशत ( ७०० ( २१० ) – ) -भेदयुताः, स्नायवः = नवशत ( ९ ०० ) भेदयुक्ताः, सन्धयः = दशाधिकद्विशत संख्याकाः, भेदवन्तः, अस्थीनि = शतत्रय ( ३०० ) भेदापन्नानि, धमन्यः = चतुर्विंशति लोमानि सन्ति तेनै-परिह्रन् = परित्यजन्, अनुलोमं - लोमानुकूल्येन येनैवावर्त्तेन व्यथां चोत्पा-वानुकूल्येनेत्यर्थः । प्रतिलोमे तु लोमभिः प्रतिहतधारं शस्त्रं कुण्ठीभवति दयति । हाराणचन्द्रस्तु — ' अनुलोमं = यथाक्रमम्, क्रमस्त्वत्रानन्तरमुपदेष्टव्यशास्त्रा-पेक्षो विचारापेक्षश्च; तेन यथायोगमिति तात्पर्यार्थः । ' इति व्याख्यातवान् । निदध्यात् =
प्रवेशयेत् ।
( ३ ) कियद्दूरमस्त्रं प्रवेशयेदित्याह – आपूयेति ॥
( ४ ) सुदूरशस्त्रप्रवेशनेऽनर्थसम्भावनयाऽवधिमभिदधाति - महत्स्विति ( ५ ) समः = समपाकः, यतोऽसमपाकः किञ्चित्पक्कः शस्त्रप्रवेशनाय परिणामे न सुखदो भवति । ( ६ ) निराश्रयः = अङ्गुल्याऽवमर्दनेनोन्मूलिताशेषपूयाश्रयः, जिह्वादन्तसन्ध्याद्य-प्राप्यदेशमनाश्रितो वा । ( ७ ) शस्त्रकर्मणि वैद्यगुणान् वक्ति - शौर्यमिति । आशुक्रिया = लघुहस्तता । लघुहस्ततया व्रणिनश्चिरं कष्टं न भवति । श्रसम्मोहः = आमपक्कव्रणपरिज्ञाने प्राप्ता-नुष्ठिते चासम्मूढता । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 180
पाठ पढ़ें पाठ छिपाएँ
२२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ०५ असम्मोहश्च वैद्यस्य शस्त्रकर्म्मणि शस्यते ॥ १० ॥।
एकेन वा व्रणेनाशुध्यमाने नान्तरा ब्रणान् कुर्यात् ॥ ११ भवति चात्र । बुद्धयाऽवेक्ष्यापरान्
यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च ।
तत्र तत्र व्रणं कुर्य्याद् यथा ' दोषो न तिष्ठति ॥ १२ ॥
तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकाकुक्षिव क्षणेषु ति-र्यक् छेद् उक्तः ॥ १३ ॥
चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् ।
अर्द्धचन्द्राकृतींश्चापि गुदे मेढे च बुद्धिमान् ॥ १४ ॥
अन्यथा तु सिरौनायुच्छेदनम्, अतिमात्रं वेदना, चिराद् व्रणसंरोहो, मांसकैन्दीप्रादुर्भावश्चेति ॥ १५ ॥
मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कु व्रत ॥ १६ ॥
ततः शस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य, समन्तात् परि-पीड्याङ्गुल्या, व्रणमभिमृज्य, प्रक्षाल्य कषायेण, प्रोतेनोदक-मादाय, तिलकल्कमधुसर्पिः प्रगाढामौषधयुक्तां नातिस्निग्धां नाति-· ( १ ) दोष: = पूय: । ( २ ) दन्तदेष्टः = दन्तमूलमांसं न् " वङ्क्षन् = उरुसन्धिः ( ३ ) एतादृशच्छेद एतद्ग्रन्थानुवादिना वाग्भटेन नानूदितः ॥ ( ४ ) वाग्भटेऽप्युक्तम्– “ तिर्यक् छिन्द्याल्ललाट दन्तवेष्टकजत्रुणि क्षिकूटौष्ठकपोलगलवङ्क्षणे || अन्यत्र छेदनात्तिर्यक् सिरास्नायुविपाटनम् । कुक्षिकक्षा-( ५ ) मांसकन्दीप्रादुर्भावः = कन्दाकृतिमांसाङ्कुरोत्पत्तिः ॥ ” इति । ( ६ ) शस्त्रकर्मणः प्राग् भोजनप्रतिषेधं दर्शयति - मूहेति ।
७ ) कषायेण = शोधनकषायेणेत्यर्थः । “ शङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः ।
शोधनानि कषायाणि वर्गश्चारग्वधादिकः " ॥
( ८ ) श्रौषधयुक्तां = मिश्रकोक्ताजगन्धाऽजश्वङ्गयादित्रण संशोधनौषधोपेताम् । CC - 0. Gurukul Kangri Collection, Haridwar