सुश्रुत संहिता चौखम्बा — पृष्ठ 171–180

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 171–180

पृष्ठ 171

सुश्रुत संहिता चौखम्बा, पृष्ठ 171 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] ३ न-T-य इति । " सूत्रस्थानम् Ther १३ -CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samai Foundation Chennai and eGangotri

सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः ।

षट्चत्वारिंशद्ध्यायं सूत्रस्थानं प्रचक्षते ॥ १२ ॥।

' वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः ।

कुष्ठमेहोदरा मूढो विद्रधिः परिसर्पणम् ॥ १३ ॥

ग्रन्थिवृद्धिक्षुद्रशूकभग्नाश्च मुखरोगिकम् ।

हेतुलक्षणनिर्देशान्निदानानीति षोडश ॥ १४ ॥

' भूतचिन्ता रजः शुद्धिर्गर्भावक्रान्तिरेव च ।

व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् ॥ १५ ॥

प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च ।

सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा ॥ १६ ॥

निर्दिष्टानि दशैतानि शारीराणि महाषणा ।

विज्ञानार्थं शरीरस्य भिषजां योगिनामपि ॥ १७ ॥

द्वित्रणीय व्रणः सद्यो भग्नानां वातरोगिकम् ।

महावातिकमर्शांसि साश्मरिश्च भगन्दरः ॥ १८ ॥

कुष्ठानां महतां चापि मैहिकं पैडकं तथा ।

मधुमेहचिकित्सा च तथा चोदरिणामपि ॥ १ ९ ॥

मूढगर्भीचिकित्सा च विद्रधीनां विसर्पिणाम् ।

ग्रन्थिवृद्धयुपदंशानां तथा च क्षुद्ररोगिकम् ॥ २० ॥

शूकदोषचिकित्सा च तथा च मुखरोगिणाम् ।

शोफस्यानागतानाञ्च निषेधो मिश्रकं तथा ॥ २१ ॥

वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च ।

मेधाऽऽयुष्करणञ्चापि स्वभावव्याधिवारणम् ॥ २२ ॥

निवृत्तसन्तापकरं कीत्तितञ्च रसायनम् । ( १ ) निदानस्थानोक्तषोडशाध्यायानां नामान्यभिदधाति -वातेति । ( २ ) शारीरस्थानोक्तदशाध्यायानां नामान्याख्याति – भूतेति । ( ३ ) चिकित्सास्थानोक्तचत्वारिंशदध्यायानां नामानि परिगणितुमाह - द्वित्र-

पृष्ठ 172

सुश्रुत संहिता चौखम्बा, पृष्ठ 172 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० ३ स्नेहोपयौगिकः स्वेदो वमने च विरेचने ॥ २३ ॥

तयोर्व्यापिच्चिकित्सा च नेत्रवस्तिविभागिकः ॥ नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरवस्तिक: ॥ २४ ॥

निरूहक्रमसंज्ञश्च तथैवातुरसंज्ञकः ।

धूमनस्य विधिश्चान्त्यश्चत्वारिंशदिति स्मृताः ॥ २५ ॥

प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च ।

पर्यायास्तस्य निर्देशाञ्चिकित्सास्थानमुच्यते ॥ २६ ॥

' अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च ।

सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् ॥ २७ ॥

दुन्दुभेर्मूषिकाणाञ्च कीटानां कल्प एव च ।

अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् ॥ २८ ॥

अध्यायानां शतं विंशमेवमेतदुदीरितम् ।

श्श्रुतः परं म्वनाम्नैव तन्त्रमुत्तरमुच्यते ॥ २ ९ ॥

अधिकृत्य कृतं यस्मात्तन्त्र मेतदुपद्रवान् ।

औपद्रविक इत्येष तस्याप्यत्वान्निरुच्यते ॥ ३० ॥

सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु ।

संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ॥ ३१ ॥

चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः ।

पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ॥ ३२ ॥

लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु ।

क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ॥ ३३ ॥

घ्राणोत्थानाञ्च विज्ञानं तद्गदप्रतिषेधनम् ।

प्रतिश्यायनिषेधश्च शिरोगविवेचनम् ॥ ३४ ॥।

चिकित्सा तगदानाञ्च शालाक्यं तन्त्रमुच्यते ।

नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ॥ ३५ ॥

( १ ) कल्पस्थानोक्ताष्टाध्यायानां नामानि निर्दिशति – अन्नस्येति । ( २ ) उत्तरतन्त्रोक्तषट्षष्ट्यध्यायानां नामानि निर्देष्टुमाह – अत इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 173

सुश्रुत संहिता चौखम्बा, पृष्ठ 173 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ अ ० ३ ] Digitized by Arya Sam वस्थानम् Chennai and eGangotri १५ ॥

अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् ।

पृतनायास्तथाऽन्धाया मण्डिका शीतपूतना ॥ ३६ ॥

नैगमेपचिकित्सा च ग्रहोत्पत्तिः सयोनिजा ।

कौमारतन्त्रमित्येतच्छारीरेषु च कीर्त्तितम् ॥ ३७ ॥

ज्वरातिसारशोषाणां गुल्मद्रोगिणामपि ।

- पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ॥ ३८ ॥।

तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः ।

स्वरभेदचिकित्सा च कृम्युदावर्त्तिनोः पृथक् ॥ ३ ९ ॥

विसूचिका s रोचकयोर्मूत्राघातविकृच्छ्रयोः ।

इति कायचिकित्सायाः शेषमत्र प्रकीर्त्तितम् ॥ ४० ॥

श्रमानुषनिषेधश्च तथाऽऽपस्मारिकोऽपरः ।

उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ॥ ४१ ॥

रसभेदाः स्वस्थवृत्तिर्यक्तयस्तान्त्रिकारच याः ।

दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ॥ ४२ ॥

श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः ।

वह्नर्थसङ्ग्रहाच्छेष्ठमुत्तरचापि पश्चिमम ॥ ४३ ॥

शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या ।

भूतविद्येति चत्वारि तन्त्रे तूत्तरसंज्ञिते ॥ ४४ ॥

वाजीकरश्चिकित्सासु रसायनविधिस्तथा ।

विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ॥। ४५ ॥

इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम् ।

विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ॥। ४६ ॥

एतद्ध्यवश्यमध्येयम्, अधीत्य च कर्माध्यवश्यमुपासितव्यम्, उभयज्ञो हि भिषग् राजार्हो भवति ॥ ४७ ॥

भवन्ति चात्र । यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ' । ( १ ) अपरिनिष्ठितः = अनिष्पन्नः, अशिक्षित इत्यर्थः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 174

सुश्रुत संहिता चौखम्बा, पृष्ठ 174 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

inal and eGangotri [ अ ० ३ " सुश्रुतसंहितायां --Digitized by Arya Samaj १६ स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ॥ ४८ ॥

यस्तु कर्मसु निष्णातो ' धार्याच्छास्त्रवहिष्कृतः ।

स सत्सु पूजां नाप्नोति वधं चार्हति राजतः ॥ ४ ९ ॥

उभावेतावनिपुणावसमर्थौ स्वकर्मणि ।

' अर्धवेदधरावेतावेकपक्षाविव द्विजौ ॥ ५० ॥

३ ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः ।

भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ॥ ५१ ॥

स्नेहादिष्वनभिज्ञा ये छेद्यादिषु च कर्मसु । 8 ते निहन्ति जनं लोभात् कुवैद्या नृपदोषतः १ ॥ ५२ ॥

" यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने ।

आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ॥

५३ ॥

अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानम्— अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्या-य यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा । ' ते च पदपादश्लोका भूयः क्रमेणानुसन्धेयाः । एवमेकैकशो ' घटयेदात्मना चानुपठेत् । अद्भुतमविलम्बितमविशङ्कितमननुनासिकं व्यक्ताक्षरमपीडितवर्णम-( १ ) धाष्टर्थ्यात् = प्रागल्भ्यात् । ( २ ) अर्धवेदधरौ = अर्धज्ञानधरौ, शास्त्रज्ञः कर्मज्ञो वेत्यर्थः । ज्ञानार्थं कोऽत्र वेद-शब्दः । ( ३ ) यद्यपि ' प्रोषध्यः फलपाकान्ताः ' एतन्परक श्रोषधिशब्दः, तथाऽप्यत्र चिकित्सोपयोगी समस्तद्रव्यवाचकः । चरकेऽप्येवमेवोक्तम् — “ यथा विषं यथा शस्त्रं यथा ऽग्निरशनिर्यथा । तथौषधमविज्ञातं विज्ञातममृतं यथा ॥ " इति । ( ४ ) राज्ञामयं दोषो यतोऽज्ञातकर्मणि प्रवृत्तान् वैद्यान्न निवर्तयन्तीत्यर्थः । ( ५ ) शास्त्रज्ञकर्मज्ञस्य गुणं सदृष्टान्तं प्रतिपादयति — यस्त्विति । मतिमान् = ऊहापोहकुशलः, अर्थसाधने = आरोग्यविधाने । ( ६ ) ते च = शिष्यशक्त्यनतिक्रमेणोपदिष्टाः, पदपादश्लोकाः - पदं पादं श्लोकं वा, भूयः = पुनःपुनः, अनुसन्धेयाः = अनुक्रमेण सन्धानीयाः, अर्थात् पदेन पादः, पादपदाभ्यां श्लोकः सन्धानीय इत्यर्थः । ( ७ ) एकैकशः = एकमेकं प्रतिशिष्यम्, घटयेत् - योजनां विदध्यात् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 175

सुश्रुत संहिता चौखम्बा, पृष्ठ 175 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

द-त्र पा " कं ०४ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानन् । १७

चिभ्रुवौष्ठहस्तैरने भिनीतं सुसंस्कृतं नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् ।

न चान्तरेणं कश्चिद् व्रजेत् तयोरधोयानयोः ॥ ५४ ॥

भवतश्चात्र ।

शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः ।

पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ॥५५ ॥

सौष्ठवेऽर्थविज्ञाने प्रागल्भ्ये कर्मनैपुणे ।

तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ॥ ५६ ॥

इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसम्प्रदानीयो नाम तृतीयोऽध्यायः ॥३ ॥

चतुर्थोऽध्यायः ।

अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

( १ ) अनभिनीतं = नर्तक इवाचिभ्रुवौष्ठहस्तैर्व्यञ्जकं न कुर्यादित्यर्थः । उक्तः– “ पशुमण्डूकमार्जारश्वसर्पनकुला-( २ ) अन्तरागमने मनुनाऽनध्याय खुभिः । अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ ” इति । ( ३ ) पूर्वोक्तनियमाचरणेन शास्त्रान्तप्राप्तवतः शिष्यस्येतिकर्तव्यतां वक्ति— वागिति । ( ४ ) तदभ्यासे = कर्माभ्यासे, चकारात् कर्मदर्शनेऽपि । सिद्धौ - आरब्धाभि-प्रेतारोग्यसाधनात्मकसिद्धावेित्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां तृतीयोऽध्यायः । चतुर्थोऽध्यायः । ( ५ ) पठितशास्त्रस्य प्रकर्षेणार्थानुसन्धानपूर्वकं व्याख्यानं प्रभाषणम्, तदधिकृत्य कृतोऽध्यायः प्रभाषणीयस्तम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 176

सुश्रुत संहिता चौखम्बा, पृष्ठ 176 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां -[ अ ० ४ अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य चन्दनभार इव केवलं परिश्रमकरं भवति ॥ ३ ॥

भवति चात्र ।

यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य ।

एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ॥ ४ ।

तम्मात् सविंशमध्यायशतमनुपदपादश्लोक मनुवर्णयितव्यम-श्रोतव्यश्च । कस्मात्? सूक्ष्मा हि द्रव्यरसगुणवीर्यविपाक दो-षधातुमलाशय मर्म सिरास्नायुसन्ध्यस्थिगर्भसम्भव द्रव्यसमूहविभागा-स्तथा प्रनष्टशल्योद्धरणव्ररणविनिश्चयभग्नविकल्पाः साध्यया-व्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये सहस्रशो विशेषा ये विचिन्त्यमाना बिमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्य्यः किं पु-नरल्पबुद्धेः । तस्मादवश्यमनुपदं पादश्लोक मनुवर्णयितव्यमनुश्रोत-व्यञ्च ॥ ५ अन्यशास्त्रोपपन्नानां चार्थानामिहोपनीतानामर्थवशात्तेषां तद्वि-( १ ) अयं भावः – गुणयुक्तमपि चन्दनं तद्गुणाननवगच्छतो वाहकस्य गर्द-भस्य केवलं व्यथाकरं भवति, तद्वत्पठितमपि शास्त्रमर्थाननुसन्धाय अव्याख्यातं चेद-ध्ययनकर्तुः केवलं श्रमकरमेव; तस्मादर्थज्ञाने प्रयतनीयमिति । ( २ ) अनुपदपादश्लोकं = पदं पादं पादं श्लोकं श्लोकमित्यर्थः, अनुशब्दस्य वीप्सा-ऽर्थकत्वात् । अनुवर्णयितव्यम् = आचार्येण व्याख्यातव्यमित्यर्थः । ( ३ ) सूक्ष्मा इति हेतुपदस्य सर्वत्राभिसम्बन्धः । ( ४ ) आशयादीन् शारीरस्थाने स्वयमेव वक्ष्यति । ( ५ ) विभागाः = भेदाः । ( ६ ) विकल्पाः = भेदाः । विकल्पशब्दस्य प्रनष्टशल्योद्धरणादिभिः सह प्रत्येकं सम्बन्धः, द्वन्द्वान्ते श्रूयमाणत्वात् । नार्थम्तो ( ७ ) अनुपदपादेत्यस्य पुनरभिधानमस्य शास्त्रस्य दुरूत्वख्यापना न पौनरुक्त्यमिति बोध्यम् । ( ८ ) उपपन्नानां = निबद्धानाम् । उपनीतानाम् = श्रानीतानाम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 177

सुश्रुत संहिता चौखम्बा, पृष्ठ 177 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

कं .-तो अ ० ५ ] Digitized by Arya Samper in ghennai and eGangotri द्येभ्ये एव सूर्यस्थानम् १ ९ व्याख्यानमनुश्रोतव्यम् । कस्मात्? न ह्येकस्मिन् शास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्त्तुम् ॥ ६ ॥

भवन्ति चात्र ।

एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् ।

तस्माद्बहुश्रुतः शास्त्रं विजानीयाचिकित्सकः ॥ ७ ॥

शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् ।

यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ॥ ८ ॥

श्रपवेनवमौरभ्रं सौश्रुतं पौष्कलावतम् ।

शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ॥ ९ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयो नाम चतुर्थोऽध्यायः ॥ ४ ॥

पञ्चमोऽध्यायः । G अथातोऽग्रपहरणीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

त्रिविधं कर्म - पूर्वकर्म, प्रधानकर्म, पश्चात्कर्मेति । तद्वयाधिं प्रति प्रत्युपदेक्ष्यामः ॥ ३ ॥

( १ ) तद्विद्येभ्यः = व्याकरण । दिविद्येभ्यः । ( २ ) तस्कराः = वैद्यव्याजेन रोगिभ्यो धनापहरणत्वात् प्राणहरणाच्च चौराः । इति सुश्रुतसंहितायाः सुधाऽख्यटिप्पन्यां चतुर्थोऽध्यायः । पञ्चमोऽध्यायः । ( ३ ) कर्मणः अग्रे आदौ यन्त्रादिसम्भारस्यो पहरणमुपकल्प नम ग्रोपहरणन्, तद-धिक्कृत्य कृतोऽध्यायोऽग्रोपहरणीयस्तम् । ( ४ ) “ लङ्घनादिविरेकान्तं पूर्वकर्म व्रणस्य च । पाटनं रोपणं यच्च प्रधानं कर्म तत्स्मृतम् । बलवर्णाग्निकार्यं तु पश्चात्कर्म समादिशेत् ” । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 178

सुश्रुत संहिता चौखम्बा, पृष्ठ 178 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२० Digitized by Arya Samaj Foundation Chennai and eGangotri. सुश्रुतसंहिताया-Idan pori [ अ ०५ अस्मिन् शास्त्रे शस्त्रकर्मप्राधान्याच्छस्त्रकर्मैव तावत् पूर्वमुपदे-क्ष्यामस्तत्सम्भारांश्च ॥ ४ ॥

तञ्च शस्त्रकर्माऽष्टविर्धम् । तद्यथा - छेद्यं ॥ ५ भेद्यं ॥, लेख्यं, वेध्यम्, एष्यम्, आहार्यम्, विस्राव्यं, सीव्यमिति यतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवापकल्पयितव्यानि— यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्ग जलौकालाबू जाम्बवैौष्टपिचु प्रोतसूत्रपत्रप-ट्टमधुघृतवसापयस्तैलतर्पणकषायालेपन कल्कव्यजनशीतोष्णोदककटा-हादीनि '; परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ॥ ६ ॥

ततः प्रशस्तेषु तिथिकरणमुहूर्त नक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं ( १ ) चरके तु षड्विधं शस्त्रकर्म निर्दिष्टम् - " पाटनं व्यधनं चैव छेदनं लेखनं तथा । प्रोञ्छनं सीवनं चैव षड्विधं शस्त्रकर्म तत् ॥ ” इति । एषणाहरणे शस्त्रकर्मणि केचिन्न मन्यन्ते तथाऽपि छित्त्वा भित्त्वाऽप्येषणाहरणे क्रियेते, अतोऽत्र शस्त्रकर्मणि निर्दिष्टे इति उल्हणः । १ छेद्यम् = अशेषतश्छेदनीयमर्शः प्रभृति, द्विधाकरणं भगन्दरप्रभृति वा । २ भेद्यं = विदारणीयं, विद्रध्यादि । ३ लेख्यं = लेखनीयं, रोहिण्यादि । ४ वेध्यं = स्व-' ल्पमुखैः शस्त्रैर्व्यधनोयं, सिरादि । ५ एप्यम् = एषणीयं, नाड्यादि । ६ आहार्यम् = आहरणीयं, शर्करादि । ७ विस्राव्यं = विस्रावणीयं, विद्रधिकुष्ठादि । = सीव्यं = सीवनीयम्, उत्कर्तितपक्ष्मकोपादि । छेद्याद्यष्टविधशब्दानां व्याधिवाचकत्वेऽपि अभेदोपचाराच्छस्त्रकर्मव्यपदेशः । वाग्भ-टेन एतदतिरिक्तानि उत्पाटनादीनि पन्चकर्माण्यधिकानि निर्दिष्टानि । ( २ ) छेद्याद्यष्टविधैकतमकर्मारम्भपूर्वमुपकल्पनीयानि द्रव्याण्याह — यन्त्रेति । ( ३ ) जाम्बवौष्ठं = जम्बुफल सदृशमुखाग्रकृष् णपाषाणरचिता वर्तिः, पिचुः = तूलः, ‘ पिचुस्तूलोऽथ’इत्यमरः । भाषायामस्य ' रूई ' ' कपास ' इति नाम्ना प्रसिद्धिः । प्रोतः वस्त्रम्, ' प्रोतो गुम्फितवाससोः ' इति हेमचन्द्रः । पट्टः = व्रणादिवन्धनद्रव्यम्, ' पट्टश्चतु-ष्पथे पीठे राजादेः शासनान्तरे । व्रणादिबन्धने ' इति हेमचन्द्रः । कषायः = व्रणादि-प्रक्षालनार्थमौषधक्कथितम् । ( ४ ) आदिशब्दात् कवलिका - मृत्कपाल- कलस - स्थाली - शयनासनप्रभृतीनि बो-हृव्यानि । परिकर्मिणः = सर्वकर्मणां कर्तारः परिचारका उपकल्पयितव्याः, न तु केवलं यन्त्रादीन्येवोपकल्पनीयानीति भावः । चरके विशेषः - " उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि । शौचं चेति चतुष्कोऽयं गुणः परिचरे जने ॥ ” इति । ( ५ ) ततः = • यन्त्रादिसामग्रयुपकल्पनानन्तरम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 179

सुश्रुत संहिता चौखम्बा, पृष्ठ 179 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

, 7-में ॥ न T-भ-नः, तु-दे-चो-चलं गश्च अ ०५ ] २/३ 22726 ३१ I by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २० विप्रान् भिषजश्चार्चयित्वा कृतवलिमङ्गलस्वस्तिवाचनं लघुभुक्त मर्म-वन्तं प्राङ्मुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो निदध्यादापू- वैद्यो सिरास्नायुसन्ध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं यदर्शनात्, सकृदेवापहरेच्छखमाशु च । महत्स्वपि च पाकेपु द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ॥ ७ ॥

तत्रायतो विशालः समः सुविभक्तो निराश्रय इति ब्रणगुणाः ॥८ ॥

भवतश्चात्र ।

श्रतश्च विशालश्च सुविभक्तो निराश्रयः ।

प्राप्तकालकृतश्चापि ब्रणः कर्मणि शस्यते ॥ ९ ॥

' शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदद्वेपथु । 9 ( १ ) ' शस्त्रपात पीडया चलनेनान्यत्र शस्त्रावातशङ्कानिवारणार्थं यन्त्रयित्वेति ' इति चक्रः । ( २ ) मर्माणि = सप्ताधिकशत ( १०७ ) भेदवन्ति, सिराः = सप्तशत ( ७०० ( २१० ) – ) -भेदयुताः, स्नायवः = नवशत ( ९ ०० ) भेदयुक्ताः, सन्धयः = दशाधिकद्विशत संख्याकाः, भेदवन्तः, अस्थीनि = शतत्रय ( ३०० ) भेदापन्नानि, धमन्यः = चतुर्विंशति लोमानि सन्ति तेनै-परिह्रन् = परित्यजन्, अनुलोमं - लोमानुकूल्येन येनैवावर्त्तेन व्यथां चोत्पा-वानुकूल्येनेत्यर्थः । प्रतिलोमे तु लोमभिः प्रतिहतधारं शस्त्रं कुण्ठीभवति दयति । हाराणचन्द्रस्तु — ' अनुलोमं = यथाक्रमम्, क्रमस्त्वत्रानन्तरमुपदेष्टव्यशास्त्रा-पेक्षो विचारापेक्षश्च; तेन यथायोगमिति तात्पर्यार्थः । ' इति व्याख्यातवान् । निदध्यात् =

प्रवेशयेत् ।

( ३ ) कियद्दूरमस्त्रं प्रवेशयेदित्याह – आपूयेति ॥

( ४ ) सुदूरशस्त्रप्रवेशनेऽनर्थसम्भावनयाऽवधिमभिदधाति - महत्स्विति ( ५ ) समः = समपाकः, यतोऽसमपाकः किञ्चित्पक्कः शस्त्रप्रवेशनाय परिणामे न सुखदो भवति । ( ६ ) निराश्रयः = अङ्गुल्याऽवमर्दनेनोन्मूलिताशेषपूयाश्रयः, जिह्वादन्तसन्ध्याद्य-प्राप्यदेशमनाश्रितो वा । ( ७ ) शस्त्रकर्मणि वैद्यगुणान् वक्ति - शौर्यमिति । आशुक्रिया = लघुहस्तता । लघुहस्ततया व्रणिनश्चिरं कष्टं न भवति । श्रसम्मोहः = आमपक्कव्रणपरिज्ञाने प्राप्ता-नुष्ठिते चासम्मूढता । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 180

सुश्रुत संहिता चौखम्बा, पृष्ठ 180 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ०५ असम्मोहश्च वैद्यस्य शस्त्रकर्म्मणि शस्यते ॥ १० ॥।

एकेन वा व्रणेनाशुध्यमाने नान्तरा ब्रणान् कुर्यात् ॥ ११ भवति चात्र । बुद्धयाऽवेक्ष्यापरान्

यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च ।

तत्र तत्र व्रणं कुर्य्याद् यथा ' दोषो न तिष्ठति ॥ १२ ॥

तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकाकुक्षिव क्षणेषु ति-र्यक् छेद् उक्तः ॥ १३ ॥

चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् ।

अर्द्धचन्द्राकृतींश्चापि गुदे मेढे च बुद्धिमान् ॥ १४ ॥

अन्यथा तु सिरौनायुच्छेदनम्, अतिमात्रं वेदना, चिराद् व्रणसंरोहो, मांसकैन्दीप्रादुर्भावश्चेति ॥ १५ ॥

मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कु व्रत ॥ १६ ॥

ततः शस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य, समन्तात् परि-पीड्याङ्गुल्या, व्रणमभिमृज्य, प्रक्षाल्य कषायेण, प्रोतेनोदक-मादाय, तिलकल्कमधुसर्पिः प्रगाढामौषधयुक्तां नातिस्निग्धां नाति-· ( १ ) दोष: = पूय: । ( २ ) दन्तदेष्टः = दन्तमूलमांसं न् " वङ्क्षन् = उरुसन्धिः ( ३ ) एतादृशच्छेद एतद्ग्रन्थानुवादिना वाग्भटेन नानूदितः ॥ ( ४ ) वाग्भटेऽप्युक्तम्– “ तिर्यक् छिन्द्याल्ललाट दन्तवेष्टकजत्रुणि क्षिकूटौष्ठकपोलगलवङ्क्षणे || अन्यत्र छेदनात्तिर्यक् सिरास्नायुविपाटनम् । कुक्षिकक्षा-( ५ ) मांसकन्दीप्रादुर्भावः = कन्दाकृतिमांसाङ्कुरोत्पत्तिः ॥ ” इति । ( ६ ) शस्त्रकर्मणः प्राग् भोजनप्रतिषेधं दर्शयति - मूहेति ।

७ ) कषायेण = शोधनकषायेणेत्यर्थः । “ शङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः ।

शोधनानि कषायाणि वर्गश्चारग्वधादिकः " ॥

( ८ ) श्रौषधयुक्तां = मिश्रकोक्ताजगन्धाऽजश्वङ्गयादित्रण संशोधनौषधोपेताम् । CC - 0. Gurukul Kangri Collection, Haridwar