सुश्रुत संहिता चौखम्बा — पृष्ठ 261–270
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 261–270
पृष्ठ 261
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १०३ गुहामतिगुहां वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् ॥ २ ९ ॥
व्यज्येत बालव्यजनैर्ब्रणं न च विघट्टयेत् ।
न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ॥ ३० ॥
अनेन विधिना युक्तमादावेव निशाचराः ।
वनं केशरिणाऽऽक्रान्तं वर्जयन्ति मृगा इव ॥ ३१ ॥
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् ।
भुञ्जानो जाङ्गलैर्मासैः शीघ्रं व्रणमपोहति ॥ ३२ ॥
तण्डुलीयकजीवन्तीसुनिपण कवास्तुकैः ।
बालमूलकवार्त्ता कपटोलैः कारवेल्लकैः ॥ ३३ ॥
सदाडिमैः सामलकैर्धृतभृष्टैः ससैन्धवैः ।
अन्यैरेवं गुणैर्वाऽपि मुद्रादीनां रसेन वा ॥ ३४ ॥
शक्तून् विलेपीं कुल्माषं जलञ्चापि शृतं पिबेत् ।
दिवा न निद्रावशगो निवातगृहगोचरः ।
व्रणी वैद्यवशे तिष्ठन् शीघ्रं व्रणमपोहति ॥ ३५ ॥
व्रणे श्वयथुरायासात् स च रागश्च जागरात् ।
तौ च रुक् च दिवास्वापात् ताश्च मृत्युश्च मैथुनात् ॥ ३६ ॥
एवंवृत्तसमाचारो ब्रणी सम्पद्यते सुखी ।
आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ॥ ३७ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने त्रणितोपासनीयो नामैकोनविंशोऽध्यायः ॥१ ९ ॥
१ द्रवादुत्तरो द्रवहीन इत्यर्थः, न तु द्रवप्रधानः । किं वा द्रवमुत्तरं श्रेष्ठमान्तरिक्षादि तच्चाल्पमेव वचनान्तराज्ज्ञेयमिति चक्रः । वचनं च— “ व्रणोदरास्थापनपीडितानां, हिणां छर्द्यतिसारिणां च । द्रवं न दद्यादथवाऽपि कोष्णं प्रमे-इति भोजोक्तम् । २ सुनिषण्णकः = सिरबालिका स्वल्पं हितं भेषजसंस्कृतं च ॥ ” पिवेदित्यर्थः । विलेपी = स्वल्पद्रवा बहुसिक्था, कुल्माषः । ३ सात्म्यापेक्षया यवादिशक्तून् \ तदुक्तम्– “ अर्धस्विन्नाश्च गोधूमा अन्ये च चणकादयः = अर्धस्विन्नो गोधूमादिः, इति सुश्रुतसंहितायाः सुधाऽऽख्य टिप्पन्यामेकोनविंशोऽध्यायः । कुल्माषा इति कथ्यन्ते । ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 262
पाठ पढ़ें पाठ छिपाएँ
१०४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां—
विंशतितमोऽध्यायः ।
अथातो हितहितीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
[ अ ० २० यद्वयोः पथ्यं तत् पित्तस्यापथ्यमित्यनेन हेतुना न किञ्चिद् द्रव्यमेकौन्तेन हितमहितं वाऽस्तीति केचिदाचार्या ब्रुवते । तँ सम्यक् । इह खलु यस्माद् द्रव्याणि स्वभावतः संयोगतश्चैकान्तहि-तान्येकान्ताहितानि हिताहितानि च भवन्ति ॥ ३ ॥
तत्र, एकान्तहितानि जातिसात्म्यात् सलिलघृत दुग्धौदनप्रभृ-तीनि ।, एकान्ताहितानि तु दहनपचनमारणादिषु प्रवृत्तान्यग्निक्षारवि-षादीनि । संयोगादपराणि विषतुल्यानि भवन्ति । हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥ ४ ॥
६ अतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते । तद्यथा— रक्तशालिषष्टिककङ्गुक मुकुन्दकपाण्डुकपीतकप्रमोदककालकास-पुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवार कोद्रवोद्दालकश्यामा-कगोधूमवेणुयवादयः । एणहरिणकुरङ्गमृगमातृकाश्वदं ट्राकरोल-क्रकरकपोतलावतित्तिरिकपिञ्जलवर्तीरवर्त्तिकादीनां मांसानि, मुद्द्रव-नमुद्गमकुष्ठकलायमसूरमङ्गल्य चरण कह रेण्वाढकीसतीनाः । चिल्लिवा-स्तुकसुनिषण्णकजीवन्तीतण्डुलीयक मण्डूकपर्ण्यः । गव्यं घृतं सैन्ध-वदाडिमामलकमित्येष वर्ग: सर्वप्राणिनां सामान्यतः पथ्यतमः ॥५ ॥
तथा ब्रह्मचर्य्यनिवातशयनोष्णोदक स्नाननिशास्वप्नव्यायामाश्चै-_कान्ततः पथ्यतमाः ॥ ६ ॥
एकान्तहितान्येकान्ताहितानि च प्रागुपदिष्टानि । हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥ ७ ॥
विंशतितमोऽध्यायः । १ हिताहिंतानि शरीरस्वस्थास्वस्थकराणि द्रव्याणि विद्यन्ते यस्मिन् स हिताहितीय-स्तम् । २ आदौ हिताहितविषये परमतं दर्शयति - यद्वायोरिति । ३ एकान्तेन = सर्वतोभावेन । ४ परमतं खण्डयति - तत्त्विति । ५ संयोगः = द्वित्राणां द्रव्या-णां सम्मेलनम्; यथा सममधुघृतादिकम् । ६ करालः == कस्तूरीमृगः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 263
पाठ पढ़ें पाठ छिपाएँ
अ ० २०1 Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १०५ संयोगतस्त्वपराणि विपतुल्यानि भवन्ति । तद्यथा - वल्लीफल-कवककरीराम्लफललवणकुलत्थपिण्याकदद्धितैलविरोहिपिष्टशुष्क-शाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैक-ध्यमश्नीयात् पयसा ॥ ८ ।
रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान् ।
अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् ॥ ९ ॥
अवस्थाऽन्तरबाहुल्याद्रोगादीनां व्यवस्थितम् ।
द्रव्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे ॥ १० ॥
योरन्यतरादाने वदन्ति विषदुग्धयोः ।
दुग्धस्यैकान्तहिततां विपमेकान्ततोऽहितम् ॥ ११ ॥
एवं युक्तरसेष्वेषु द्रव्येषु सलिलादिषु ।
एकान्तहितां विद्धि वत्स सुश्रुत! नान्यथा ॥ १२ ॥
अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः - नवविरूढधान्यै-सामधुपयोगुडमाषैर्वा ग्राम्यानू गौदकपिशितादीनि नाभ्यवहरेत् । न पयोमधुभ्यां रोहिणीशाकं जातुकशाकं वाऽश्नीयात् । बलाकां वारुणीकुल्माषाभ्याम् । काकमाचीं पिप्पलीमरिचाभ्यां नाडीभ-ङ्गशाककुक्कुटदधीनि च नैकध्यम् । मधु चोष्णोदकानुपानं १ संयोगतो विषतुल्यानि निर्दिशति - तद्यथेति । वल्लो लता तज्जं फलं कूष्माण्डादि । २ नैकध्यम् = एकस्मिन् समये पयसा सह नाश्नीयादित्यर्थः । ३ रोगादीनवेक्ष्य क्वचिद् विरुद्धस्यापि प्रयोगं कर्तुमुपदिशति - रोगमिति । ४ आदिशब्दात् प्रकृतिवयः-प्रभृतीनांग्रहणम् । ५ रोगवृत्तेः = रोगिणो विरुद्धपदार्थमपि प्रयोजयेदित्यर्थः । ६ एकान्तहिताहितत्वेन स्वस्थावस्थारक्षणे एव व्यवस्थामाह — अवस्थेति । अयं भावः — ऊहापोहकुशलैर्बुद्धिमद्भिर्वैद्यवरैः सम्यग् विचार्य प्रयुक्तान्येकान्ताहितानि द्रव्या-ण्यपि रुग्णावस्थायां हितकराणि भवन्तीति द्रव्याणामेकान्तहिताहितप्रभेदेन व्यवस्थां ते नाङ्गीकुर्वन्ति । चरके– “ योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् । भेषजं वाऽपि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम् ॥ ” इति । ७द्वयोः – स्वस्थरोगिणोः । संयोगादहितानि दर्शयति — अत इति। ९ सर्वोष्णपदार्थैः सह मधुपानमहितकरं न तु केवलमुष्णोदकैः साकम् । तथा च हारीतः– “ नानापुष्पप्रकाराणां रससारात्मकं मधु । तच्छ्रुत्यात्सौकुमार्याच्च सर्वैरुष्णै-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 264
पाठ पढ़ें पाठ छिपाएँ
१०६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० २० पित्तेन चाममांसानि । सुराकृशरापायसांश्च नैकध्यम् । सौवीरकेण सह तिलशष्कुलीम् । मत्स्यैः सहेक्षुविकारान् । गुडेन काकमाचीं, मधुना मूलकं, गुडेन वाराहं मधुना च सह विरुद्धम् । क्षीरेण मूल-कमाम्रजाम्बवश्वाविच्छूकरगोधाश्च । सर्वांश्च मत्स्यान् पयसा विशेषेण चिलिचिमम् । कदलीफलं तालफलेन पयसा दध्ना तक्रेण
वा । लकुचफलं पयसा दध्ना माषसूपेन वा । प्राक् पयसः पयसो-ऽन्ते वा ॥ १३ ॥
अतः कर्म्मविरुद्धान् वक्ष्यामः - कपोतान् सर्पपतैलभृष्टान् नाद्यात् । कपिञ्जलमयूर लावतित्तिरिगोधाश्चैरण्डदा ' ग्निसिद्धा एर-ण्डतैलसिद्धा वा नाद्यात् । कांस्यभाजने दशरात्रपर्युषितं सर्पिः, मधु चोष्णैरुष्णे वा, मत्स्यपरिपचने शृङ्गवेरपरिपचने वा सिद्धां काक-माचीम् । तिलकल्कसिद्धमुपदिकौशाकम् । नारिकेलेन वराहव-सापरिभृष्टां बलाकाम् । भासमङ्गारशूल्यं नाश्नीयादिति ॥ १४ ॥
अँतो मानविरुद्धान् वक्ष्यामः - मध्वम्बुनी मधुसर्पिषी मानत-स्तुल्ये नाश्नीयात् । स्नेहौ मधुस्नेहौ जलस्नेहौ वा । विशेषादान्तरी-क्षोदकानुपानौ ॥ १५ ॥
अर्तं ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानि वक्ष्यामः – तत्र मधुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च । मधुर-कटुकौ च सर्वतः । मधुरतिक्तौ रसविपाकाभ्यां मधुरकषायौ चा-विंरुध्यते ॥ ” इति । प्रयसा सह मत्स्यभक्षण हेतुमाह चरके - " न मत्स्यान् पयसा भ्यवहरेदुभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्य- सहा-त्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च । ” इति । १ कर्मविरुद्धान् दर्शयति - अतः कर्मेति । कर्म - संस्कारः; तथा च चरकः- “ संस्कारो हि गुणान्तरा-धानमुच्यते । ते गुणाश्च तोयाग्निंसन्निकर्षशौचमन्थनदेशकालवासनभावनादिभिः काल-प्रकर्षभाजनादिभिश्च धीयन्ते । ” इति २ उपोदिका = भाषायां ' पोई ' इति ख्याता। ३ यच्छूलेन विदूध्वाऽङ्गारेषु पच्यते तदङ्गारशूल्यम् । ४ स्वभावापथ्यसंयोगकालसंस्का-रमानैः पञ्चप्रकाराणि विरुद्धानि दर्शयति - अतो मानेति । ५ “ सर्पिस्तैलं वसा मज्जा स्नेहो दृष्टश्चतुर्विधः " इति । ६ वीर्यतो विपाकतश्च विरुद्धानि रसद्वन्द्वानि CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 265
पाठ पढ़ें पाठ छिपाएँ
अ ० २० ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १०७ म्ललवणौ रसतः । अम्लकटुकौ रसविपाकाभ्याम्, अम्लतिक्ताव-स्लकषायौ च सर्वतः । लवणकटुकौ रसविपाकाभ्यां, लवणतिक्तौ लव एक पायौ च सर्वतः । कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च, तिक्तकषायौ रसतः ॥ १६ ॥
तरतेमयोगयुक्तांश्च भवानतिरुक्षानतिग्निग्धानत्युष्णान तिशी-तानित्येवमादीन् विवर्जयेत् ॥ १७ ॥
भवन्ति चात्र ।
विरुद्धान्येवमादीनि वीर्यतो यानि कौनि च ।
तान्ये कान्ता हितान्येव शेषं विद्याद्धिताहितम् ॥ १८ ॥
व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति ।
विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः ॥ १ ९ ॥
यत्किञ्चिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत् ।
रसादिष्वयथार्थं वा तद्विकाराय कल्पते ॥ २० ॥
विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् । I वमनं शमनं वाऽपि पूर्वं वा हितसेवनम् ॥ २१ ॥
सार्म्यतोऽल्पतया वाऽपि दीप्तास्तरुणस्य च । निर्दिशति — अत ऊर्ध्वमिति । १ सर्वतः = रसवीर्यविपाकतः । २ प्रतियोगयु-क्तानां स्निग्धादीनामहितत्वं कथयति - तरतमेति । ३ एवमादीनीत्युक्ते पुनर्यानि कानीति कथनात्– “ यच्चापि देशकालाग्निसात्म्यासात्म्यानिलादिभिः । संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि । परिहारोपचाराभ्यां पाकात्संयोगतोऽपि च । विरुद्धं तच्च न हितं हृत्सम्पद्विधिभिश्च यत् ॥ ” इति चरकोक्ताशेषविरुद्धान्युपसङ्ग्रहीतव्यानि । ४ “ घाण्ढयान्धवीसर्पंदकोदराणां विस्फोटकोन्मादभगन्दराणाम् । मूर्च्छामदाध्मा-नगलामयानां पाण्ड्वामयस्यामविषस्य चैव ॥ किलासकुष्ठग्रहणीगदानां शोषास्रपित्त-ज्वरपीनसानाम् । सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति कोक्तं व्याधिभित्यर्थः हेतुम् ॥ ” इति चर-॥ ५ श्रनात्मवान् = अजितेन्द्रियः, जिह्वालोलुप इति यावत् । ६ अहितल क्षणमाह - यदिति । ७ विरुद्धाशनजन्यरोगाणां चिकित्सामाह – विरुद्धेति ८ सुवर्णलोहादिविरो-धिरोगहरं पूर्वमेव सेवेत । तदुक्तम् — “ न सज्जते हेमपात्रे विषं । पद्मदलेऽम्बुवत् । ' इति ९ विरुद्धाशनमपि केषाञ्चिदहिताय न भवतीत्याह – सात्म्यत इति ॥ सात्म्यतः = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 266
पाठ पढ़ें पाठ छिपाएँ
१०८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० २० स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥ २२ ॥
अथ वातगुणान् वक्ष्यामः-पूर्वः ' समधुरः स्निग्धो लवणश्चैव मारुतः ।
गुरुर्विदाहजननो रक्तपित्ताभिवर्द्धनः ॥ २३ ॥
क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च ये ।
तेषामेव विशेषेण सदा रोगविवर्द्धनः ॥ २४ ॥
वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम् ।
तेषामेव विशेषेण ब्रणक्लेदविवर्द्धनः ॥ २५ ॥
मधुराविदाही च कषायानुरसो लघुः ।
दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः ॥ २६ ॥।
रक्तपित्तप्रशमनो न च वातप्रकोपणः ।
विशँदो रूक्षपरुषः खरः स्नेहबलापहः ॥ २७ ॥
पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः ।
सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् ॥ २८ ॥
उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च ।
कषायानुरसः शीतो दोषाणां चाप्रकोपणः ॥ २ ९ ॥
तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः ।
क्षीणक्षयविषार्त्तानां विशेषेण तु पूजितः ॥ ३० ॥
इति सुश्रुतसंहितायां सूत्रस्थाने हिताहितीयो नाम विंशोऽध्यायः ॥२० ॥
अभ्याससात्म्यतया । अल्पतया = हीनशक्तितया । १ स्निग्धव्यायामाभ्यां बलिन-स्तेषां स्निग्धद्रव्याहारव्यायामकारित्वेन बलवतामित्यर्थः । “ व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् । विदग्धमविदग्धं वा निर्दोषं परिपच्यते ” ॥ २ पूर्व वायुगुणान्निर्दिशति - पूर्वं इति । ३ दक्षिणदिग्योगेन वायुगुणान्निर्दिशति - मधुर इति । ४ पश्चिमदिग्योगेन वायुगुणान् दर्शयति - विशद इति । ५ उत्तरदिग्योगेन वायु-. गुणानाख्याति — उत्तर इति । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां विंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 267
पाठ पढ़ें पाठ छिपाएँ
अ ० २१ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।
एकविंशतितमोऽध्यायः ।
/ अथातो ब्रणप्रश्नमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
१० ९ वातपित्तश्लेष्माण एव देहसम्भवहेतवः । तैरेवाव्यापन्नैर-घोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्ति-सृभिरतश्च त्रिस्थूर्ण माहुरेके । त एव च व्यापन्नाः प्रलयहेतवः । तदेभिरेव शोणितचतुर्थैः सम्भवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ॥ ३ ॥
भवति चात्र ।
नर्ते देहः कफादस्ति न पित्तान्न च मारुतात् ।
शोणितादपि वा नित्यं देह एतैस्तु धार्यते ॥ ४ ॥
तंत्र ' वा ' गतिगन्धनयोरिति धातुः, ' तप ' सन्तापे, ' श्लिष ' आलिङ्गने, एतेषां कृद्विहितैः प्रत्ययैवतः पित्तं श्लेष्मेति च रूपाणि भवन्ति ॥ ५ ॥
दोषैस्थानान्यत ऊर्ध्व वक्ष्यामः- तत्र समासेन वातः श्रोणि-गुद संश्रयः; तदुपर्यधो नाभेः पक्काशयः, पक्कामाशयमध्यं पित्तस्य, एकविंशतितमोऽध्यायः । १ व्रणाः व्रणकारणत्वाद् वातादिदोषास्तद्विषयकः प्रश्नो यस्मिन् स व्रणप्रश्न-स्तम् । प्रश्नः = अविज्ञातप्रवचनम् । २ वातपित्तकफा एव शरीरसम्भवस्थितिप्रल-यहेतव इति प्रतिपादयति वातेति । ३ तिष्ठन्तीति स्थूणास्तिस्रः स्थूणा यस्य तत्त्रिस्थूणम्; “ ऊर्ध्वमूलमध: शाखं त्रिस्थूणं पञ्चदैवतम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वै वेद स वेदवित् ॥ ” ४ वातादीनां निरुक्तिमाह – तत्र वेति । सन्तापार्थका तपधातो-रिचि तकारस्येत्वे वर्णविपर्यये तस्य च ते कृते, किं वा अपि दीयते स्म ' दो अवखण्डने ’ क्तः ‘ अच उपसर्गात्तः ’ वष्टिभागुरिरिति अकारलोपे पित्तम् । श्रालिङ्गनार्थकात् लिष् धातो: ‘ सर्वधातुभ्यो मनिन् ’ इत्युणादिसूत्रेण मनिन्प्रत्यये गुणे च श्लेष्मा । ५ सङ्क्षे-पेण वातपित्तकफानां प्रधानानि स्थानानि दर्शयति - दोषेति । विस्तरेण तु वातस्य नाभिमध्यहृदयकण्ठसर्वाङ्गसन्धयः, पित्तस्य यकृत्प्लीहाहृदयदृष्टित्वगिन्द्रियाणि, कफ-स्य श्रोणिगुदे उरश्शिरःकण्ठसन्धय इति बोध्यानि । ६ श्रोणिगुदसंश्रयः — श्रोणिश्च गुदं च , ते संश्रयो यस्यासौ तथोक्तः कटिवायुस्थानो वायुरित्यर्थः । ७ “ पक्वाशय-, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 268
पाठ पढ़ें पाठ छिपाएँ
११० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— आमाशयः श्लेष्मणः ॥ ६ ॥
[ अ ० २१ अतः परं पञ्चधा विभज्यन्ते । तत्र वातस्य वातव्याधौ वक्ष्या-मः । पित्त॑स्य यकृत्प्लीहानौ हृदयं दृष्टिस्त्वक् पूर्वोक्तं च । श्लेष्मणस्तूर: -शिरःकण्ठसन्धय इति पूर्वोक्तञ्च । एतानि खलु दोषाणां स्थानान्य-व्यापन्नानाम् ॥ ७ ॥
विसर्गादानविक्षेपैः सोमसूर्य्यानिला यथा ।
धारयन्ति जगद्देहं कफपित्तानिलास्तथा ॥ ८ ॥
स्त्वधो नाभेरूर्ध्वमामाशयः स्मृतः ” । १. “ नाभिस्तनान्तरं जन्तोराहुरामाशयं बुधाः । आमाशयादधः पक्वाशयादूर्ध्वं तु पाकला ” ॥ २ चरके - " पुरीपाधानं कटिः सक्थि-नो पादावस्थीनि च वातस्थानानि " । ३ " स्वेदो रसो लसिका रुधिरमामाशयश्च पित्त-स्थानानि ” । यकृत् = दक्षिणकुक्षेरधः स्थशरीरावयवविशेषः कालखण्डाभिधरअकपित्ता-धारम् । प्लीहा = वामपार्श्वाश्रयं मांसखण्डम्; " तद्वामपार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र । ” इति । हृदयं = कमलमुकुलाकारमधोमुखम्; " पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् । जाग्रतस्तद् विकसति स्वपतश्च निमीलति ॥ ” इति । दृष्टि: -कृष्णतारकान्तर्वर्तिनी मसूरदलमात्रा । ४ " उरः शिरोग्रीवापर्वण्यामाशयो मेदश्च श्लेष्मस्थानानि " । ५ विसृजति जनयत्याप्यमंशमिति विसर्गः, आददाति क्षपयति पृथिव्याः सौम्यां-शमित्यादानम्, शीतोष्णवर्षादीनां यथायोगं प्रेरणं विक्षेपस्तैर्विसर्गादानविक्षेपैः कर्मभिः क्रमेण चन्द्रादित्यवाता यथा जगद्धारयन्ति; तथा कफपित्तवाता अपि पूर्वोक्तैर्विसर्गादि-कर्मत्रयैर्देहं धारयन्तीति भावः । श्रत्र चरकोक्तमनुसन्धातव्यम् - " तत्र वायोरात्मैवात्मा, पित्तमाग्नेयं, श्लेश्मा सौम्य " इति । सोम एव शरीरे श्लेष्मान्तर्गतः । अग्निरेव शरीरे त्तान्तर्गतः । तथा च चरके जगति सोमस्य कार्यम् - " सोमः शिशिराभिर्भाभिरापूयन् पि-दाप्यायति शश्वत् । ” शरीरे सौम्यस्य श्लेष्मणः कार्यन्तु — “ सन्धिसंश्लेषणस्नेहनरोपण- जग-पूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ” । सूर्यस्य कार्यम्– “ रविर्भाभिराददानो जगतः स्नेहम् । ” शरीर आग्नेयस्य पित्तस्य कार्यम्— जगति “ रागपक्त्योजस्तेजोमेधोष्मकृत्पित्तं पञ्चधा प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति । " जंगति कार्यम्– “ धरणी धारणं, ज्वलनो ज्वालनं, सृष्टिश्च मेघानाम्, अपां वायो-प्रवर्तनं स्रोतसां, पुष्पफलानां चाभिनिर्वर्तनम्, उद्भेदनं चौद्भिदानाम् । ” शरीरे विसर्गः, देवताकस्य वातस्य कार्यन्तु – “ समीरणोऽग्नैः, दोषसंशोषणः क्षेप्ता बहिर्मलानाम् वायु- । विण्मूत्रपित्तादिमलाशयानां विक्षेपसंहारकरः । ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 269
पाठ पढ़ें पाठ छिपाएँ
अ ० २१ ] Digitized by Arya Samaj Foundation, Chennai and eGangotri सूत्रस्थानम् । १११ तत्रं जिज्ञास्यं, किं पित्तव्यतिरेकादन्योऽग्निः? आहोस्वित् अत्रोच्यते न खलु पित्तव्यतिरेकादन्योऽ-पित्तमेवाग्निरिति? । सिरुपलभ्यते आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्त्तमानेष्व- तत्समान-ग्निवदुपचारः क्रियतेऽन्तरग्निरिति । क्षीणे ह्यग्निगुणे पश्यामो न खलु दव्योपयोगादतिवृद्धे शीतक्रियोपयोगादागमाच्च पित्तव्यतिरेकादन्योऽग्निरिति ॥ ९ ॥
तचादृष्टहेतुकेन विशेषेण पक्कामाशयमध्यस्थं पित्तं चतुविधम-नपानं पचति विवेचयति च दोपरसमूत्रपुरीषाणि; तत्रस्थमेव चा-त्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति, तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा; यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा, स रसस्य रागकृदुक्तः; यत् पित्तं हृदयसंस्थितं तस्मिन् सार्धंकोऽग्निरिति संज्ञा, सोऽभिप्रार्थि-तमनोरथसाधनकृदुक्तः; यद्द्द्दृष्ट्यां पितं तस्मिन्नालोचकोऽग्निरिति संज्ञा, स रूपग्रहणाधिकृतः; यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽ-ग्निरिति संज्ञा, सोऽभ्यङ्गपरिषेकावगाहावलेपनादीनां क्रियाद्रव्याणां पक्ता, छायानां च प्रकाशकः ॥ १० ॥
१ अग्निपित्तयोर्भेदं विचारयति - तत्रेति । २ अग्नेर्गुणो यस्य तत्तस्मिन्नग्नि-गुणे पित्ते; तत्समानद्रव्योपयोगात् = अग्निसमोष्णतीक्ष्णद्रव्योपयोगात् । ३ अत्र डल्ह-णः - इहाग्निपित्तयोरभेदकथनं कृतं, तद्रसवीर्यादिगुणोपाधियुक्तस्य पित्तस्य चिकित्साद्वा-रेणाग्नेश्चिकित्सा कार्येति दर्शनार्थम्; अन्यथा रसादिगुणोपाधिरहितस्य वह्नेश्चिकित्सा-कर्तुन पार्यत इति । वस्तुतस्तु “ क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः । पित्तं च केशान् पचति पलितं तेन जायते ॥ " इत्यादि बहुभिर्भेदप्रतिपादकवाक्यैः पित्ताग्न्योर्भेद एव । ४ पञ्चविधपित्तं प्रतिपादयति - तच्चेति । ५ " अशितपीतलीढखादितम् ” इति चरकोक्तं चतुर्विधमित्यर्थः । पित्तस्य सङ्क्षेपतः कार्यमुक्तं चरके – “ दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् । प्रभा प्रसादो मेधा च पित्तकर्माविकारजम् ॥ ” इति । ६ विवेच-यति = पृथक्करोति साधनकर्तेत्यर्थः ॥ ७ साधकः = धर्मार्थकाममोक्षलक्षणपुरुषार्थस्य " छायानां = पाञ्चभौतिकानां नीलादिवर्णानाम् । चरकः– “ छाया वर्णप्रभाऽऽश्रया ” इति । चकारात्पाञ्चभौतिकानां प्रभाणां च प्रकाशकः । छायाप्रभयोर्भेदस्तु— “ आसन्ना लक्ष्य छाया प्रभा दूरात्प्रकाशते । वर्णमाक्रामति च्छाया प्रभा वर्णप्रकाशिनी ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 270
पाठ पढ़ें पाठ छिपाएँ
११२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां—
पिंत्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च ।
उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ॥ ११ ॥
[ अ ० २१ अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः – तत्र, आमा-शयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजश्चन्द्र इव आदित्यस्य; स चतुर्विधस्याहारस्याधारः । स च तत्रैौदकैर्गु-गैराहारः प्रक्लिन्नो भिन्नसङ्घातः सुखजरश्च भवति ॥ १२ ॥
माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च ।
आमाशये सम्भवति श्लेष्मा मधुरशीतलः ॥ १३ ॥
सं तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणाऽनुग्रहं करोति । उरःस्थस्त्रिकसन्धारणमात्मवीर्येणा-न्नरससहितेन हृदयावलम्बनं करोति । जिह्वामूलकण्ठस्थो जिले-न्द्रियस्य सौम्यत्वात् सम्यक् रसज्ञाने वर्त्तते । " शिरःस्थः स्नेहसन्त-र्पणाधिकृतत्वाद् “ इन्द्रियाणामात्मवीर्येणानुग्रहं करोति । " सन्धि-स्थस्तु श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति ॥ १४ ॥
३ श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव . १३ इति बोद्धयः । १ पित्तस्य चिकित्सोपयोगिस्वलक्षणं निर्दिशति - पित्तमिति स्थायां नीलम्; निरामावस्थायां पीतम् । ३ श्लेष्मस्थानान्याह । २ सामाव-प्रत्यनीकत्वात् = पित्तप्रतिकूलत्वात् । ५ चर्वणद्वाराभिन्नसङ्घातः –; अत इति । ४ परिणामं गच्छति । ६ आहारस्येति शेषः । ७ इलेष्मकर्माण्याह — सुखजरः = सुखेन तत्रस्थः = आमाशयस्थः क्लेदकाख्यः श्लेष्मा । " क्लेदकः सोऽन्नसङ्घातक्लेदनात् स तत्रस्थ इति । ८ उरःस्थः = अवलम्बकाख्यः श्लेष्मा, तदुक्तं वाग्भटे - " ” । रोत्यवलम्बनम् । ततोऽवलम्बकः श्लेष्मा " इति कफधाम्नां च शेषाणां यत्क-चक्रस्तु —— त्रिकमिह पृष्ठास्थिबाहुद्वयसन्धानस्थानम् । शिरोबाहुद्वयसन्धानस्थानं । ' इत्युक्तवान् त्रिकम् । कण्ठे तिष्ठतीति जिह्वामूलकण्ठस्थः बोधकसंज्ञकः श्लेष्मा; । ९ जिह्वाया मूले नास्थायी ” । १० शिरःस्थः = तर्पकाख्यः इलेष्मा; “ शिरःसंस्थोऽक्षतर्पणात् " रसबोधनात् । बोधको रस-११ इन्द्रियाणां = श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम् ॥ तर्पकः ” । श्लेष्मा; “ सन्धि संश्लेषाच्छ्लेषकः १२ सन्धिस्थः = श्लेषकसन्ज्ञकः सन्धिषु स्थितः ” । १३ श्लेष्मणश्चिकित्सोप-‘ योगिस्वलक्षणमाह - श्लेष्मेति । १४ चकारान्मृदुस्थिरादिगुणाः समुच्चीयन्ते । CC - 0. Gurukul Kangri Collection, Haridwar