सुश्रुत संहिता चौखम्बा — पृष्ठ 261–270

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 261–270

पृष्ठ 261

सुश्रुत संहिता चौखम्बा, पृष्ठ 261 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ९ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १०३ गुहामतिगुहां वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् ॥ २ ९ ॥

व्यज्येत बालव्यजनैर्ब्रणं न च विघट्टयेत् ।

न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ॥ ३० ॥

अनेन विधिना युक्तमादावेव निशाचराः ।

वनं केशरिणाऽऽक्रान्तं वर्जयन्ति मृगा इव ॥ ३१ ॥

जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् ।

भुञ्जानो जाङ्गलैर्मासैः शीघ्रं व्रणमपोहति ॥ ३२ ॥

तण्डुलीयकजीवन्तीसुनिपण कवास्तुकैः ।

बालमूलकवार्त्ता कपटोलैः कारवेल्लकैः ॥ ३३ ॥

सदाडिमैः सामलकैर्धृतभृष्टैः ससैन्धवैः ।

अन्यैरेवं गुणैर्वाऽपि मुद्रादीनां रसेन वा ॥ ३४ ॥

शक्तून् विलेपीं कुल्माषं जलञ्चापि शृतं पिबेत् ।

दिवा न निद्रावशगो निवातगृहगोचरः ।

व्रणी वैद्यवशे तिष्ठन् शीघ्रं व्रणमपोहति ॥ ३५ ॥

व्रणे श्वयथुरायासात् स च रागश्च जागरात् ।

तौ च रुक् च दिवास्वापात् ताश्च मृत्युश्च मैथुनात् ॥ ३६ ॥

एवंवृत्तसमाचारो ब्रणी सम्पद्यते सुखी ।

आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ॥ ३७ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने त्रणितोपासनीयो नामैकोनविंशोऽध्यायः ॥१ ९ ॥

१ द्रवादुत्तरो द्रवहीन इत्यर्थः, न तु द्रवप्रधानः । किं वा द्रवमुत्तरं श्रेष्ठमान्तरिक्षादि तच्चाल्पमेव वचनान्तराज्ज्ञेयमिति चक्रः । वचनं च— “ व्रणोदरास्थापनपीडितानां, हिणां छर्द्यतिसारिणां च । द्रवं न दद्यादथवाऽपि कोष्णं प्रमे-इति भोजोक्तम् । २ सुनिषण्णकः = सिरबालिका स्वल्पं हितं भेषजसंस्कृतं च ॥ ” पिवेदित्यर्थः । विलेपी = स्वल्पद्रवा बहुसिक्था, कुल्माषः । ३ सात्म्यापेक्षया यवादिशक्तून् \ तदुक्तम्– “ अर्धस्विन्नाश्च गोधूमा अन्ये च चणकादयः = अर्धस्विन्नो गोधूमादिः, इति सुश्रुतसंहितायाः सुधाऽऽख्य टिप्पन्यामेकोनविंशोऽध्यायः । कुल्माषा इति कथ्यन्ते । ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 262

सुश्रुत संहिता चौखम्बा, पृष्ठ 262 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां—

विंशतितमोऽध्यायः ।

अथातो हितहितीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

[ अ ० २० यद्वयोः पथ्यं तत् पित्तस्यापथ्यमित्यनेन हेतुना न किञ्चिद् द्रव्यमेकौन्तेन हितमहितं वाऽस्तीति केचिदाचार्या ब्रुवते । तँ सम्यक् । इह खलु यस्माद् द्रव्याणि स्वभावतः संयोगतश्चैकान्तहि-तान्येकान्ताहितानि हिताहितानि च भवन्ति ॥ ३ ॥

तत्र, एकान्तहितानि जातिसात्म्यात् सलिलघृत दुग्धौदनप्रभृ-तीनि ।, एकान्ताहितानि तु दहनपचनमारणादिषु प्रवृत्तान्यग्निक्षारवि-षादीनि । संयोगादपराणि विषतुल्यानि भवन्ति । हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥ ४ ॥

६ अतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते । तद्यथा— रक्तशालिषष्टिककङ्गुक मुकुन्दकपाण्डुकपीतकप्रमोदककालकास-पुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवार कोद्रवोद्दालकश्यामा-कगोधूमवेणुयवादयः । एणहरिणकुरङ्गमृगमातृकाश्वदं ट्राकरोल-क्रकरकपोतलावतित्तिरिकपिञ्जलवर्तीरवर्त्तिकादीनां मांसानि, मुद्द्रव-नमुद्गमकुष्ठकलायमसूरमङ्गल्य चरण कह रेण्वाढकीसतीनाः । चिल्लिवा-स्तुकसुनिषण्णकजीवन्तीतण्डुलीयक मण्डूकपर्ण्यः । गव्यं घृतं सैन्ध-वदाडिमामलकमित्येष वर्ग: सर्वप्राणिनां सामान्यतः पथ्यतमः ॥५ ॥

तथा ब्रह्मचर्य्यनिवातशयनोष्णोदक स्नाननिशास्वप्नव्यायामाश्चै-_कान्ततः पथ्यतमाः ॥ ६ ॥

एकान्तहितान्येकान्ताहितानि च प्रागुपदिष्टानि । हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥ ७ ॥

विंशतितमोऽध्यायः । १ हिताहिंतानि शरीरस्वस्थास्वस्थकराणि द्रव्याणि विद्यन्ते यस्मिन् स हिताहितीय-स्तम् । २ आदौ हिताहितविषये परमतं दर्शयति - यद्वायोरिति । ३ एकान्तेन = सर्वतोभावेन । ४ परमतं खण्डयति - तत्त्विति । ५ संयोगः = द्वित्राणां द्रव्या-णां सम्मेलनम्; यथा सममधुघृतादिकम् । ६ करालः == कस्तूरीमृगः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 263

सुश्रुत संहिता चौखम्बा, पृष्ठ 263 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २०1 Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १०५ संयोगतस्त्वपराणि विपतुल्यानि भवन्ति । तद्यथा - वल्लीफल-कवककरीराम्लफललवणकुलत्थपिण्याकदद्धितैलविरोहिपिष्टशुष्क-शाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैक-ध्यमश्नीयात् पयसा ॥ ८ ।

रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान् ।

अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् ॥ ९ ॥

अवस्थाऽन्तरबाहुल्याद्रोगादीनां व्यवस्थितम् ।

द्रव्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे ॥ १० ॥

योरन्यतरादाने वदन्ति विषदुग्धयोः ।

दुग्धस्यैकान्तहिततां विपमेकान्ततोऽहितम् ॥ ११ ॥

एवं युक्तरसेष्वेषु द्रव्येषु सलिलादिषु ।

एकान्तहितां विद्धि वत्स सुश्रुत! नान्यथा ॥ १२ ॥

अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः - नवविरूढधान्यै-सामधुपयोगुडमाषैर्वा ग्राम्यानू गौदकपिशितादीनि नाभ्यवहरेत् । न पयोमधुभ्यां रोहिणीशाकं जातुकशाकं वाऽश्नीयात् । बलाकां वारुणीकुल्माषाभ्याम् । काकमाचीं पिप्पलीमरिचाभ्यां नाडीभ-ङ्गशाककुक्कुटदधीनि च नैकध्यम् । मधु चोष्णोदकानुपानं १ संयोगतो विषतुल्यानि निर्दिशति - तद्यथेति । वल्लो लता तज्जं फलं कूष्माण्डादि । २ नैकध्यम् = एकस्मिन् समये पयसा सह नाश्नीयादित्यर्थः । ३ रोगादीनवेक्ष्य क्वचिद् विरुद्धस्यापि प्रयोगं कर्तुमुपदिशति - रोगमिति । ४ आदिशब्दात् प्रकृतिवयः-प्रभृतीनांग्रहणम् । ५ रोगवृत्तेः = रोगिणो विरुद्धपदार्थमपि प्रयोजयेदित्यर्थः । ६ एकान्तहिताहितत्वेन स्वस्थावस्थारक्षणे एव व्यवस्थामाह — अवस्थेति । अयं भावः — ऊहापोहकुशलैर्बुद्धिमद्भिर्वैद्यवरैः सम्यग् विचार्य प्रयुक्तान्येकान्ताहितानि द्रव्या-ण्यपि रुग्णावस्थायां हितकराणि भवन्तीति द्रव्याणामेकान्तहिताहितप्रभेदेन व्यवस्थां ते नाङ्गीकुर्वन्ति । चरके– “ योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् । भेषजं वाऽपि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम् ॥ ” इति । ७द्वयोः – स्वस्थरोगिणोः । संयोगादहितानि दर्शयति — अत इति। ९ सर्वोष्णपदार्थैः सह मधुपानमहितकरं न तु केवलमुष्णोदकैः साकम् । तथा च हारीतः– “ नानापुष्पप्रकाराणां रससारात्मकं मधु । तच्छ्रुत्यात्सौकुमार्याच्च सर्वैरुष्णै-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 264

सुश्रुत संहिता चौखम्बा, पृष्ठ 264 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०६ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० २० पित्तेन चाममांसानि । सुराकृशरापायसांश्च नैकध्यम् । सौवीरकेण सह तिलशष्कुलीम् । मत्स्यैः सहेक्षुविकारान् । गुडेन काकमाचीं, मधुना मूलकं, गुडेन वाराहं मधुना च सह विरुद्धम् । क्षीरेण मूल-कमाम्रजाम्बवश्वाविच्छूकरगोधाश्च । सर्वांश्च मत्स्यान् पयसा विशेषेण चिलिचिमम् । कदलीफलं तालफलेन पयसा दध्ना तक्रेण

वा । लकुचफलं पयसा दध्ना माषसूपेन वा । प्राक् पयसः पयसो-ऽन्ते वा ॥ १३ ॥

अतः कर्म्मविरुद्धान् वक्ष्यामः - कपोतान् सर्पपतैलभृष्टान् नाद्यात् । कपिञ्जलमयूर लावतित्तिरिगोधाश्चैरण्डदा ' ग्निसिद्धा एर-ण्डतैलसिद्धा वा नाद्यात् । कांस्यभाजने दशरात्रपर्युषितं सर्पिः, मधु चोष्णैरुष्णे वा, मत्स्यपरिपचने शृङ्गवेरपरिपचने वा सिद्धां काक-माचीम् । तिलकल्कसिद्धमुपदिकौशाकम् । नारिकेलेन वराहव-सापरिभृष्टां बलाकाम् । भासमङ्गारशूल्यं नाश्नीयादिति ॥ १४ ॥

अँतो मानविरुद्धान् वक्ष्यामः - मध्वम्बुनी मधुसर्पिषी मानत-स्तुल्ये नाश्नीयात् । स्नेहौ मधुस्नेहौ जलस्नेहौ वा । विशेषादान्तरी-क्षोदकानुपानौ ॥ १५ ॥

अर्तं ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानि वक्ष्यामः – तत्र मधुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च । मधुर-कटुकौ च सर्वतः । मधुरतिक्तौ रसविपाकाभ्यां मधुरकषायौ चा-विंरुध्यते ॥ ” इति । प्रयसा सह मत्स्यभक्षण हेतुमाह चरके - " न मत्स्यान् पयसा भ्यवहरेदुभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्य- सहा-त्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च । ” इति । १ कर्मविरुद्धान् दर्शयति - अतः कर्मेति । कर्म - संस्कारः; तथा च चरकः- “ संस्कारो हि गुणान्तरा-धानमुच्यते । ते गुणाश्च तोयाग्निंसन्निकर्षशौचमन्थनदेशकालवासनभावनादिभिः काल-प्रकर्षभाजनादिभिश्च धीयन्ते । ” इति २ उपोदिका = भाषायां ' पोई ' इति ख्याता। ३ यच्छूलेन विदूध्वाऽङ्गारेषु पच्यते तदङ्गारशूल्यम् । ४ स्वभावापथ्यसंयोगकालसंस्का-रमानैः पञ्चप्रकाराणि विरुद्धानि दर्शयति - अतो मानेति । ५ “ सर्पिस्तैलं वसा मज्जा स्नेहो दृष्टश्चतुर्विधः " इति । ६ वीर्यतो विपाकतश्च विरुद्धानि रसद्वन्द्वानि CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 265

सुश्रुत संहिता चौखम्बा, पृष्ठ 265 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २० ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । १०७ म्ललवणौ रसतः । अम्लकटुकौ रसविपाकाभ्याम्, अम्लतिक्ताव-स्लकषायौ च सर्वतः । लवणकटुकौ रसविपाकाभ्यां, लवणतिक्तौ लव एक पायौ च सर्वतः । कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च, तिक्तकषायौ रसतः ॥ १६ ॥

तरतेमयोगयुक्तांश्च भवानतिरुक्षानतिग्निग्धानत्युष्णान तिशी-तानित्येवमादीन् विवर्जयेत् ॥ १७ ॥

भवन्ति चात्र ।

विरुद्धान्येवमादीनि वीर्यतो यानि कौनि च ।

तान्ये कान्ता हितान्येव शेषं विद्याद्धिताहितम् ॥ १८ ॥

व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति ।

विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः ॥ १ ९ ॥

यत्किञ्चिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत् ।

रसादिष्वयथार्थं वा तद्विकाराय कल्पते ॥ २० ॥

विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् । I वमनं शमनं वाऽपि पूर्वं वा हितसेवनम् ॥ २१ ॥

सार्म्यतोऽल्पतया वाऽपि दीप्तास्तरुणस्य च । निर्दिशति — अत ऊर्ध्वमिति । १ सर्वतः = रसवीर्यविपाकतः । २ प्रतियोगयु-क्तानां स्निग्धादीनामहितत्वं कथयति - तरतमेति । ३ एवमादीनीत्युक्ते पुनर्यानि कानीति कथनात्– “ यच्चापि देशकालाग्निसात्म्यासात्म्यानिलादिभिः । संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि । परिहारोपचाराभ्यां पाकात्संयोगतोऽपि च । विरुद्धं तच्च न हितं हृत्सम्पद्विधिभिश्च यत् ॥ ” इति चरकोक्ताशेषविरुद्धान्युपसङ्ग्रहीतव्यानि । ४ “ घाण्ढयान्धवीसर्पंदकोदराणां विस्फोटकोन्मादभगन्दराणाम् । मूर्च्छामदाध्मा-नगलामयानां पाण्ड्वामयस्यामविषस्य चैव ॥ किलासकुष्ठग्रहणीगदानां शोषास्रपित्त-ज्वरपीनसानाम् । सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति कोक्तं व्याधिभित्यर्थः हेतुम् ॥ ” इति चर-॥ ५ श्रनात्मवान् = अजितेन्द्रियः, जिह्वालोलुप इति यावत् । ६ अहितल क्षणमाह - यदिति । ७ विरुद्धाशनजन्यरोगाणां चिकित्सामाह – विरुद्धेति ८ सुवर्णलोहादिविरो-धिरोगहरं पूर्वमेव सेवेत । तदुक्तम् — “ न सज्जते हेमपात्रे विषं । पद्मदलेऽम्बुवत् । ' इति ९ विरुद्धाशनमपि केषाञ्चिदहिताय न भवतीत्याह – सात्म्यत इति ॥ सात्म्यतः = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 266

सुश्रुत संहिता चौखम्बा, पृष्ठ 266 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०८ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— [ अ ० २० स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥ २२ ॥

अथ वातगुणान् वक्ष्यामः-पूर्वः ' समधुरः स्निग्धो लवणश्चैव मारुतः ।

गुरुर्विदाहजननो रक्तपित्ताभिवर्द्धनः ॥ २३ ॥

क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च ये ।

तेषामेव विशेषेण सदा रोगविवर्द्धनः ॥ २४ ॥

वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम् ।

तेषामेव विशेषेण ब्रणक्लेदविवर्द्धनः ॥ २५ ॥

मधुराविदाही च कषायानुरसो लघुः ।

दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः ॥ २६ ॥।

रक्तपित्तप्रशमनो न च वातप्रकोपणः ।

विशँदो रूक्षपरुषः खरः स्नेहबलापहः ॥ २७ ॥

पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः ।

सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् ॥ २८ ॥

उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च ।

कषायानुरसः शीतो दोषाणां चाप्रकोपणः ॥ २ ९ ॥

तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः ।

क्षीणक्षयविषार्त्तानां विशेषेण तु पूजितः ॥ ३० ॥

इति सुश्रुतसंहितायां सूत्रस्थाने हिताहितीयो नाम विंशोऽध्यायः ॥२० ॥

अभ्याससात्म्यतया । अल्पतया = हीनशक्तितया । १ स्निग्धव्यायामाभ्यां बलिन-स्तेषां स्निग्धद्रव्याहारव्यायामकारित्वेन बलवतामित्यर्थः । “ व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् । विदग्धमविदग्धं वा निर्दोषं परिपच्यते ” ॥ २ पूर्व वायुगुणान्निर्दिशति - पूर्वं इति । ३ दक्षिणदिग्योगेन वायुगुणान्निर्दिशति - मधुर इति । ४ पश्चिमदिग्योगेन वायुगुणान् दर्शयति - विशद इति । ५ उत्तरदिग्योगेन वायु-. गुणानाख्याति — उत्तर इति । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां विंशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 267

सुश्रुत संहिता चौखम्बा, पृष्ठ 267 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २१ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् ।

एकविंशतितमोऽध्यायः ।

/ अथातो ब्रणप्रश्नमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

१० ९ वातपित्तश्लेष्माण एव देहसम्भवहेतवः । तैरेवाव्यापन्नैर-घोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्ति-सृभिरतश्च त्रिस्थूर्ण माहुरेके । त एव च व्यापन्नाः प्रलयहेतवः । तदेभिरेव शोणितचतुर्थैः सम्भवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ॥ ३ ॥

भवति चात्र ।

नर्ते देहः कफादस्ति न पित्तान्न च मारुतात् ।

शोणितादपि वा नित्यं देह एतैस्तु धार्यते ॥ ४ ॥

तंत्र ' वा ' गतिगन्धनयोरिति धातुः, ' तप ' सन्तापे, ' श्लिष ' आलिङ्गने, एतेषां कृद्विहितैः प्रत्ययैवतः पित्तं श्लेष्मेति च रूपाणि भवन्ति ॥ ५ ॥

दोषैस्थानान्यत ऊर्ध्व वक्ष्यामः- तत्र समासेन वातः श्रोणि-गुद संश्रयः; तदुपर्यधो नाभेः पक्काशयः, पक्कामाशयमध्यं पित्तस्य, एकविंशतितमोऽध्यायः । १ व्रणाः व्रणकारणत्वाद् वातादिदोषास्तद्विषयकः प्रश्नो यस्मिन् स व्रणप्रश्न-स्तम् । प्रश्नः = अविज्ञातप्रवचनम् । २ वातपित्तकफा एव शरीरसम्भवस्थितिप्रल-यहेतव इति प्रतिपादयति वातेति । ३ तिष्ठन्तीति स्थूणास्तिस्रः स्थूणा यस्य तत्त्रिस्थूणम्; “ ऊर्ध्वमूलमध: शाखं त्रिस्थूणं पञ्चदैवतम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वै वेद स वेदवित् ॥ ” ४ वातादीनां निरुक्तिमाह – तत्र वेति । सन्तापार्थका तपधातो-रिचि तकारस्येत्वे वर्णविपर्यये तस्य च ते कृते, किं वा अपि दीयते स्म ' दो अवखण्डने ’ क्तः ‘ अच उपसर्गात्तः ’ वष्टिभागुरिरिति अकारलोपे पित्तम् । श्रालिङ्गनार्थकात् लिष् धातो: ‘ सर्वधातुभ्यो मनिन् ’ इत्युणादिसूत्रेण मनिन्प्रत्यये गुणे च श्लेष्मा । ५ सङ्क्षे-पेण वातपित्तकफानां प्रधानानि स्थानानि दर्शयति - दोषेति । विस्तरेण तु वातस्य नाभिमध्यहृदयकण्ठसर्वाङ्गसन्धयः, पित्तस्य यकृत्प्लीहाहृदयदृष्टित्वगिन्द्रियाणि, कफ-स्य श्रोणिगुदे उरश्शिरःकण्ठसन्धय इति बोध्यानि । ६ श्रोणिगुदसंश्रयः — श्रोणिश्च गुदं च , ते संश्रयो यस्यासौ तथोक्तः कटिवायुस्थानो वायुरित्यर्थः । ७ “ पक्वाशय-, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 268

सुश्रुत संहिता चौखम्बा, पृष्ठ 268 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११० Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां— आमाशयः श्लेष्मणः ॥ ६ ॥

[ अ ० २१ अतः परं पञ्चधा विभज्यन्ते । तत्र वातस्य वातव्याधौ वक्ष्या-मः । पित्त॑स्य यकृत्प्लीहानौ हृदयं दृष्टिस्त्वक् पूर्वोक्तं च । श्लेष्मणस्तूर: -शिरःकण्ठसन्धय इति पूर्वोक्तञ्च । एतानि खलु दोषाणां स्थानान्य-व्यापन्नानाम् ॥ ७ ॥

विसर्गादानविक्षेपैः सोमसूर्य्यानिला यथा ।

धारयन्ति जगद्देहं कफपित्तानिलास्तथा ॥ ८ ॥

स्त्वधो नाभेरूर्ध्वमामाशयः स्मृतः ” । १. “ नाभिस्तनान्तरं जन्तोराहुरामाशयं बुधाः । आमाशयादधः पक्वाशयादूर्ध्वं तु पाकला ” ॥ २ चरके - " पुरीपाधानं कटिः सक्थि-नो पादावस्थीनि च वातस्थानानि " । ३ " स्वेदो रसो लसिका रुधिरमामाशयश्च पित्त-स्थानानि ” । यकृत् = दक्षिणकुक्षेरधः स्थशरीरावयवविशेषः कालखण्डाभिधरअकपित्ता-धारम् । प्लीहा = वामपार्श्वाश्रयं मांसखण्डम्; " तद्वामपार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र । ” इति । हृदयं = कमलमुकुलाकारमधोमुखम्; " पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् । जाग्रतस्तद् विकसति स्वपतश्च निमीलति ॥ ” इति । दृष्टि: -कृष्णतारकान्तर्वर्तिनी मसूरदलमात्रा । ४ " उरः शिरोग्रीवापर्वण्यामाशयो मेदश्च श्लेष्मस्थानानि " । ५ विसृजति जनयत्याप्यमंशमिति विसर्गः, आददाति क्षपयति पृथिव्याः सौम्यां-शमित्यादानम्, शीतोष्णवर्षादीनां यथायोगं प्रेरणं विक्षेपस्तैर्विसर्गादानविक्षेपैः कर्मभिः क्रमेण चन्द्रादित्यवाता यथा जगद्धारयन्ति; तथा कफपित्तवाता अपि पूर्वोक्तैर्विसर्गादि-कर्मत्रयैर्देहं धारयन्तीति भावः । श्रत्र चरकोक्तमनुसन्धातव्यम् - " तत्र वायोरात्मैवात्मा, पित्तमाग्नेयं, श्लेश्मा सौम्य " इति । सोम एव शरीरे श्लेष्मान्तर्गतः । अग्निरेव शरीरे त्तान्तर्गतः । तथा च चरके जगति सोमस्य कार्यम् - " सोमः शिशिराभिर्भाभिरापूयन् पि-दाप्यायति शश्वत् । ” शरीरे सौम्यस्य श्लेष्मणः कार्यन्तु — “ सन्धिसंश्लेषणस्नेहनरोपण- जग-पूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ” । सूर्यस्य कार्यम्– “ रविर्भाभिराददानो जगतः स्नेहम् । ” शरीर आग्नेयस्य पित्तस्य कार्यम्— जगति “ रागपक्त्योजस्तेजोमेधोष्मकृत्पित्तं पञ्चधा प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति । " जंगति कार्यम्– “ धरणी धारणं, ज्वलनो ज्वालनं, सृष्टिश्च मेघानाम्, अपां वायो-प्रवर्तनं स्रोतसां, पुष्पफलानां चाभिनिर्वर्तनम्, उद्भेदनं चौद्भिदानाम् । ” शरीरे विसर्गः, देवताकस्य वातस्य कार्यन्तु – “ समीरणोऽग्नैः, दोषसंशोषणः क्षेप्ता बहिर्मलानाम् वायु- । विण्मूत्रपित्तादिमलाशयानां विक्षेपसंहारकरः । ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 269

सुश्रुत संहिता चौखम्बा, पृष्ठ 269 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २१ ] Digitized by Arya Samaj Foundation, Chennai and eGangotri सूत्रस्थानम् । १११ तत्रं जिज्ञास्यं, किं पित्तव्यतिरेकादन्योऽग्निः? आहोस्वित् अत्रोच्यते न खलु पित्तव्यतिरेकादन्योऽ-पित्तमेवाग्निरिति? । सिरुपलभ्यते आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्त्तमानेष्व- तत्समान-ग्निवदुपचारः क्रियतेऽन्तरग्निरिति । क्षीणे ह्यग्निगुणे पश्यामो न खलु दव्योपयोगादतिवृद्धे शीतक्रियोपयोगादागमाच्च पित्तव्यतिरेकादन्योऽग्निरिति ॥ ९ ॥

तचादृष्टहेतुकेन विशेषेण पक्कामाशयमध्यस्थं पित्तं चतुविधम-नपानं पचति विवेचयति च दोपरसमूत्रपुरीषाणि; तत्रस्थमेव चा-त्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति, तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा; यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा, स रसस्य रागकृदुक्तः; यत् पित्तं हृदयसंस्थितं तस्मिन् सार्धंकोऽग्निरिति संज्ञा, सोऽभिप्रार्थि-तमनोरथसाधनकृदुक्तः; यद्द्द्दृष्ट्यां पितं तस्मिन्नालोचकोऽग्निरिति संज्ञा, स रूपग्रहणाधिकृतः; यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽ-ग्निरिति संज्ञा, सोऽभ्यङ्गपरिषेकावगाहावलेपनादीनां क्रियाद्रव्याणां पक्ता, छायानां च प्रकाशकः ॥ १० ॥

१ अग्निपित्तयोर्भेदं विचारयति - तत्रेति । २ अग्नेर्गुणो यस्य तत्तस्मिन्नग्नि-गुणे पित्ते; तत्समानद्रव्योपयोगात् = अग्निसमोष्णतीक्ष्णद्रव्योपयोगात् । ३ अत्र डल्ह-णः - इहाग्निपित्तयोरभेदकथनं कृतं, तद्रसवीर्यादिगुणोपाधियुक्तस्य पित्तस्य चिकित्साद्वा-रेणाग्नेश्चिकित्सा कार्येति दर्शनार्थम्; अन्यथा रसादिगुणोपाधिरहितस्य वह्नेश्चिकित्सा-कर्तुन पार्यत इति । वस्तुतस्तु “ क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः । पित्तं च केशान् पचति पलितं तेन जायते ॥ " इत्यादि बहुभिर्भेदप्रतिपादकवाक्यैः पित्ताग्न्योर्भेद एव । ४ पञ्चविधपित्तं प्रतिपादयति - तच्चेति । ५ " अशितपीतलीढखादितम् ” इति चरकोक्तं चतुर्विधमित्यर्थः । पित्तस्य सङ्क्षेपतः कार्यमुक्तं चरके – “ दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् । प्रभा प्रसादो मेधा च पित्तकर्माविकारजम् ॥ ” इति । ६ विवेच-यति = पृथक्करोति साधनकर्तेत्यर्थः ॥ ७ साधकः = धर्मार्थकाममोक्षलक्षणपुरुषार्थस्य " छायानां = पाञ्चभौतिकानां नीलादिवर्णानाम् । चरकः– “ छाया वर्णप्रभाऽऽश्रया ” इति । चकारात्पाञ्चभौतिकानां प्रभाणां च प्रकाशकः । छायाप्रभयोर्भेदस्तु— “ आसन्ना लक्ष्य छाया प्रभा दूरात्प्रकाशते । वर्णमाक्रामति च्छाया प्रभा वर्णप्रकाशिनी ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 270

सुश्रुत संहिता चौखम्बा, पृष्ठ 270 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहितायां—

पिंत्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च ।

उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ॥ ११ ॥

[ अ ० २१ अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः – तत्र, आमा-शयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजश्चन्द्र इव आदित्यस्य; स चतुर्विधस्याहारस्याधारः । स च तत्रैौदकैर्गु-गैराहारः प्रक्लिन्नो भिन्नसङ्घातः सुखजरश्च भवति ॥ १२ ॥

माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च ।

आमाशये सम्भवति श्लेष्मा मधुरशीतलः ॥ १३ ॥

सं तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणाऽनुग्रहं करोति । उरःस्थस्त्रिकसन्धारणमात्मवीर्येणा-न्नरससहितेन हृदयावलम्बनं करोति । जिह्वामूलकण्ठस्थो जिले-न्द्रियस्य सौम्यत्वात् सम्यक् रसज्ञाने वर्त्तते । " शिरःस्थः स्नेहसन्त-र्पणाधिकृतत्वाद् “ इन्द्रियाणामात्मवीर्येणानुग्रहं करोति । " सन्धि-स्थस्तु श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति ॥ १४ ॥

३ श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव . १३ इति बोद्धयः । १ पित्तस्य चिकित्सोपयोगिस्वलक्षणं निर्दिशति - पित्तमिति स्थायां नीलम्; निरामावस्थायां पीतम् । ३ श्लेष्मस्थानान्याह । २ सामाव-प्रत्यनीकत्वात् = पित्तप्रतिकूलत्वात् । ५ चर्वणद्वाराभिन्नसङ्घातः –; अत इति । ४ परिणामं गच्छति । ६ आहारस्येति शेषः । ७ इलेष्मकर्माण्याह — सुखजरः = सुखेन तत्रस्थः = आमाशयस्थः क्लेदकाख्यः श्लेष्मा । " क्लेदकः सोऽन्नसङ्घातक्लेदनात् स तत्रस्थ इति । ८ उरःस्थः = अवलम्बकाख्यः श्लेष्मा, तदुक्तं वाग्भटे - " ” । रोत्यवलम्बनम् । ततोऽवलम्बकः श्लेष्मा " इति कफधाम्नां च शेषाणां यत्क-चक्रस्तु —— त्रिकमिह पृष्ठास्थिबाहुद्वयसन्धानस्थानम् । शिरोबाहुद्वयसन्धानस्थानं । ' इत्युक्तवान् त्रिकम् । कण्ठे तिष्ठतीति जिह्वामूलकण्ठस्थः बोधकसंज्ञकः श्लेष्मा; । ९ जिह्वाया मूले नास्थायी ” । १० शिरःस्थः = तर्पकाख्यः इलेष्मा; “ शिरःसंस्थोऽक्षतर्पणात् " रसबोधनात् । बोधको रस-११ इन्द्रियाणां = श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम् ॥ तर्पकः ” । श्लेष्मा; “ सन्धि संश्लेषाच्छ्लेषकः १२ सन्धिस्थः = श्लेषकसन्ज्ञकः सन्धिषु स्थितः ” । १३ श्लेष्मणश्चिकित्सोप-‘ योगिस्वलक्षणमाह - श्लेष्मेति । १४ चकारान्मृदुस्थिरादिगुणाः समुच्चीयन्ते । CC - 0. Gurukul Kangri Collection, Haridwar