सुश्रुत संहिता चौखम्बा — पृष्ठ 341–350
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 341–350
पृष्ठ 341
पाठ पढ़ें पाठ छिपाएँ
11 अ ० ३५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
यान्यबाधकराणि भवन्ति ॥ ३ ९ ॥
प्रभृतीनि प्रकृतिविरुद्धान्यपि १८३
यो रसः कल्पते यस्य सुखायैव निषेवितः ।
व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ॥ ४० ॥
प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः ॥ ४१ ॥
देशस्त्वानूपो जाङ्गलः साधारण इति । तत्र, बहूदकनिम्नो-तनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोप-चितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानूपः । श्राकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्ष प्रस्रवणोदप नोदकप्राय उष्ण-दारुणवातः प्रविरलाल्पशैलः स्थिर कृशशरीरमनुष्यप्रायो वातपि-त्तरोगभूयिष्ठश्च जाङ्गलः । उभयदेशलक्षणः साधारण इति ॥ ४२ ॥
भवन्ति चात्र |
समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः ।
दोषाणां समता जन्तोस्तस्मात्साधारणो मतः ॥ ४३ ॥
न तथा बलवन्तः स्युर्जलैजा वा स्थलाहृताः ।
स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः ॥ ४४ ॥
उचिते वर्तमानस्य नास्ति देशकृतं भयम् ।
आहारस्वप्नचेष्टाऽऽदौ तद्देशस्य गुणे सति ॥ ४५ ॥।
स्वप्नसात्म्यम् – “ निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा । न तेषां स्वपतां दोषो जाग्रतां वाऽपि जायते ॥ ” इति । १ उपरिष्टात् = शारीरस्थानस्य चतुर्थेऽध्याये प्रकृतिं, सूत्रस्थानस्य भूमिप्रविभागीयादौ भेषजम् । २ देश परीक्षामाचष्टे - देश इति । ३ आकाशसमः = निम्नोन्नतत्वरहितत्वेन समभूमिभागः । ४ अल्प वर्षायाः प्रस्रवणानां निर्झराणामुदपानानां कूपानामुदकं प्रायेण यत्र स तथोक्तः । ५ स्व-देशे निचिताः सञ्चिता दोषा अन्यस्मिन् विरुद्धगुणदेशे कोपमागतास्तथा न बलवन्तः स्युः, यथा जलजाः कूर्मादयः स्थलाहृताः; वाशब्दात् स्थलजाश्च गवादयो जलाहृताः सन्तो न वलवन्तः स्युः । उक्तं च- " नकः स्वस्थानमासाद्य गजेन्द्रमः कर्षति । स एव प्रच्युतः स्थानाच्छुनाऽपि परिभूयते " || ढल्हणस्तु – जलजा आनूपदेशजाताः श्रीपदादयः स्थलाहृता श्लोक पूर्वार्द्ध जाङ्गलदेशं नीता इति व्याख्यातवान् । एतन्मते व्याधिसुचिकित्स्यतापरकं, श्लोकोत्तरार्द्धं दोषचयादि सुचिकित्स्यतापरकं च बोद्धयम् । CC - 0, Gurukul Kangri Collection, Haridwar
पृष्ठ 342
पाठ पढ़ें पाठ छिपाएँ
१८४ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया--देशप्रकृतिसात्म्य तविपरीतोऽचिरोत्थितः । [ अ ० ३६ सम्पत्तौ भिषगादीनां बलसत्त्वायुषां तथा ॥ ४६ ॥
केवलः समदेहाग्नेः सुखसाध्यतमो गदः ।
अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो व्यामिश्रलक्षणः ॥ ४७ ॥
क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् ।
पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः ॥ ४८ ॥
गुणालाभेऽपि सपदि यदि सैव क्रिया हिता ।
कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ॥ ४ ९ ॥
य एवमेनं विधिमेकरूपं विभत्ति कालादिवशेन धीमान् ।
स मृत्युपाशान् जगतो गदौघान् छिनत्ति भैषज्य परश्ववेन ॥ ५० ॥
इति सुश्रुतसंहितायां सूत्रस्थाने आतुरोपक्रमणीयो नाम पञ्चत्रिंशोऽध्यायः ॥३५ ॥
पदत्रिंशत्तमोऽध्यायः ।
अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्यामः ॥ १
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥ ॥
श्वभ्रंशर्कराऽश्मविषमवल्मीकश्मशानावातनदेवतायतनसिकता-१ सुखसाध्यादीनां लक्षणमभिदधाति - देशेति । जाङ्गलदेशे कफरोगोत्पत्ति-रिति देशविपरीतः । पित्तप्रकृतेः कफरोगोत्पत्तिरिति प्रकृतिविपरीतः रोगोत्पत्तिरिति सात्म्यविपरीतः । शरदि वातिकव्याधेः, हेमन्ते । कटुसात्म्यस्य कफ-श्लैष्मिकव्याधेश्चोत्पत्तिरिति ऋतुविपरीतः । २ केवलः == उपद्रवादिरहितत्वेन पैत्तिकव्याधेः, ग्रीष्मे दोषजनितः । ३ युगपद् द्वयोः एक-प्रयोगः सङ्करः । ४ भैषज्य परश्वधेन = औषधरूप-कुठारेणेत्यर्थः । एतदध्यायानन्तरं केचिन्मिश्रकाध्यायं पठन्तीतिबोध्यम् । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां पञ्चत्रिंशत्तमोऽध्यायः । षट्त्रिंशत्तमोऽध्यायः । ५ भूमेः प्रकृष्टः सामान्यतो विशेषतश्च विभागस्तमधिकृत्य विभागीयस्तम् । ६ औषधाहरणयोग्यां भूमिमभिदधाति – श्वभ्रेति कृतोऽध्यायो भूमिप्र-। ७ आधा-CC - 0. Gurukul Kangri Collection, Haridwar श्र भि सि तर री स्थ ल भ म I
पृष्ठ 343
पाठ पढ़ें पाठ छिपाएँ
६ अ ० ३६ ] Digitized by Arya Sama Foundation Chennai and eGangotri सूत्रस्थानम् स्निग्धां प्ररोहवतीं मृद्वीं परीक्षेत । भिरनुपहतामनूषरामभङ्गुरामदूरोदकां स्थिरी समां कृष्णां गौरीं लोहितां वा भूमिमौषधार्थं म्बाधमागैरनुप-तस्यां जातमपि कृमिविपशस्त्रात पपवनद्हनतोयस चौषधमाददीतेत्येष भूमिप-हतमेकरसं पुष्टं पृथ्ववगाढमूलमुदीच्या ३ ॥ रीक्षाविशेषः सामान्यः ॥ वा विशेषतस्तु तत्र, अश्मवती स्थिरा गुर्वी श्यामा शीतला ss कृष्णा सन्नोदका स्थलवृक्षशस्यप्राया स्वर्गुणभूयिष्ठा । स्निग्धा । नानावर्णा स्निग्धशस्यतृणकोमलवृक्षप्राया शुक्लाम्बुगुणभूयिष्ठा । रूक्षा लध्वश्मवती प्रविरलाल्पपाण्डुवृत्तप्ररोहा अग्निगुणभूयिष्ठा । भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृतप्राया अनिलगुणभूयिष्ठा महापर्वतवृक्ष-॥ मृद्वी समा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा प्राया श्यामा चाकाशगुणभूयिष्ठा ॥ ४ ॥
अत्र केचिदाहुराचार्याः - प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रोष्मेषु यथासंख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति । तत्तु न सम्यक्, सौम्याग्नेयत्वाज्जगतः । सौम्यान्यौषधानि सौम्येष्वृतुषु गृहीतानि । सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुर स्निग्धशीतानि जायन्ते एतेन शेषं व्याख्यातम् ॥ ५ ॥
तत्रं पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्रव्या-ण्याददीत, अग्न्याकाशमारुतगुणभूयिष्ठायां वमनद्रव्याणि । उभ-यगुणभूयिष्ठायामुभयतोभागानि । आकाशगुणभूयिष्ठायां संशम-नानि । एवं बलवत्तराणि भवन्ति ॥ ६ ॥
तनं = प्राणित्रधस्थानम् । १ अभङ्गुराम् = = 'असन्निहितनद्यादिकत्वेनाभञ्जनशीलाम् । २ प्ररोहवतीं = प्रचुरतरबीजाङ्कुरप्ररोहशीलाम् । ३ पञ्चमहाभूतविशेषेण भूमेर्विशिष्ट-गुणं दर्शयति -- विशेषतस्त्विति । ४ स्वेषां गुणानां स्थूलत्वादीनां भूयिष्ठमाधि-क्यमत्रेति स्वगुणभूयिष्ठा, पृथ्वीगुणभूयिष्ठेत्यर्थः । ५ केषु ऋतुष्वौषधान्याददीतेति जातानि ग्रा-प्रतिपादयति — अत्रेत्यादिना । ६ विरेचनादिद्रव्याणि कीदृश्यां भूमौ ह्याणीति दर्शयति – तन्नेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 344
पाठ पढ़ें पाठ छिपाएँ
mai and eGangotri १८६ Digitized by Arya Samaj [ अ ० ३६ सर्वाण्येवं चाभिनवान्यन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः
सर्वाण्येव सक्षीरौणि वीर्य्यवन्ति तेषामसम्पत्तावनतिक्रान्तसंव- ।
त्सराण्याददीतेति ॥ ७ ॥
भवन्ति चात्र ।
गोपालास्तापसा व्याधा ये चान्ये वनचारिणः ।
मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ॥ ८ ॥
सर्वांवयवसाध्येषु पलाशलवणादिषु । व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते गंन्धवर्णरसोपेता षड्विधा भूमिरिष्यते । ॥ ९ ॥
तस्माद् भूमिस्वभावेन बोजिनः षड्रसायुताः अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः ॥। १० ॥ रस एव से चाव्यक्तो व्यक्तो भूमिरसाद्भवेत् सर्वलक्षणसम्पन्ना भूमिः साधारणा ॥ ११ ॥
द्रव्याणि यत्र तत्रैव तद्गुणानि विशेषतः
स्मृता ।
विगन्धेनापरामृष्टमविपन्नं रसादिभिः ॥ १२ ॥
। १ अभिनवान्येवौष यानि गुणवत्तराणि यानि यान्यौषधान्यवश्यमभिनवानि ग्राह्याणि भवन्तीति प्रतिपादयति — सर्वाण्येवेति । पटोलकेतकबलाकूष्माण्डकेन्दीवरी तान्याह श्रीभावमिश्र: - " वासानिम्ब-ऐन्द्रीनागवलाकुरण्टकपुरो क्षत्रामृता वर्षाभूकुटजाश्च सर्वदा कन्दसहिताः सा पूतिगन्धामृताः । योज्या बुधैः ॥ ” इति । २ सक्षीराणि सार्द्रा एव तु न क्वचिद् द्विगुणिताः कार्येषु = सरसानीत्यर्थः । ३ तेषां = सक्षीराणाम्, असम्पत्तौ तेषां = मधुघृतादीनाम्, असम्पत्तौ = श्रप्राप्तौ, निबन्धसङ्ग्रहव्याख्याऽनुसारतः-न अतिक्रान्तः संवत्सरो येषां तानि = अत्यन्तपुराणानामप्राप्तौ, अनतिक्रान्तसंवत्सराणि याश्च गुडस्यापि विशेषतः । एकसंवत्सरे एव ग्राह्याणि । भावप्रकाशे— “ मधुनः शर्करा-भेषजानि ज्ञातव्यानि तानि निर्दिशति वृत्ते पुराणत्वं स्मृतो बुधैः ॥ ” इति । ४ येभ्यो गोपालाः - गोपाला इति । गोमहिष्याजादिपालका । ५ भेषजानां नामतो रूपतश्च कोऽप्याह— “ श्रोषधीर्नामरूपाभ्यां स्फुटतरावबोधो भेषजव्यक्तिरुच्यते । चर-सौम्येष्वृतुष्वाददीतेत्युक्तं व्यभिचारयति जानन्ति ह्यजपा वनेः ” इति । ६ सौम्यान्यौषधानि गुणविशेषं दर्शयति - गन्धेति - सर्वेत्यादिना । ७ भूमिविशेषेण द्रव्य-। ८ अविपन्नम् = अविकृतम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 345
पाठ पढ़ें पाठ छिपाएँ
श्र ० ३७ ] Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
नवं द्रव्यं पुराणं वा ग्राह्यमेव विनिर्दिशेत् ॥ १३ ॥
विडङ्गं पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम् ।
शेषमन्यत्त्वभिनवं गृह्णीयादोपवर्जितम् ॥ १४ ॥
जङ्गमानां वयःस्थानां रक्तरोमनखादिकम् ।
क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् ॥ १५ ॥
प्लो त मृद्भाण्ड फल कशङ्कविन्यस्तभेषजम् ।
प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते ॥ १६ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने भूमिप्रविभागीयो नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥
सप्तत्रिंशत्तमोऽध्यायः ।
अथातो मिश्रकमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
मार्तुगुङ्गाग्निमन्थौ च भद्रदारुमहौषधम् । १८७ १ दोषवर्जितं = क्रिमिविषशस्त्राद्युपघातादिदोषवर्जितमित्यर्थः । २ ‘ वयःस्थस्तरुणो ' युवा ' इत्यमरः । ३ प्रायेण भेषजद्रव्याणां विगन्धत्वादयो भावा विन्यासदोषा-दागारदोषाच्चोपजायन्ते तदर्थमुपदिशति - प्लोतेत्यादिना । प्लोतं = वत्रखण्डम्, फलकं = काष्ठपट्टम्, शङ्कुः = शाखापत्रादिरहितवंशादिप्रकाण्डः । ४ पूर्वस्यामुत्तरस्यां वा दिशीत्यर्थः । स्थापनप्रकरमाह चरकादौ – “ पूर्वोत्तरद्वा-रेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्म वत्स्वग्निसलिलोपस्वेदधूमरजोमूषिक-चतुष्पदामनभिगमनीयानि स्त्रवच्छानि शिक्येष्वासज्य स्थापयेत् । ” इति । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां षट्त्रिंशत्तमोऽध्यायः । सप्तत्रिंशत्तमोऽध्यायः । ५ षष्ठयुपक्रमाणां मध्ये विस्तापनपाचनाद्यष्टानां प्रधानानां मिश्रं संयुतमालेप-नादिद्रव्यजातमाचष्टे मिश्रकस्तम् । स्वार्थे कप्रत्ययः ६ क्रवेग वातादिदोषशोफप्र-। त्यनीकं विम्लापनयोगं ' इति दर्शयति- मातुलुङ्गेत्यादिना । मातुलुङ्गं - ' विजौरा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 346
पाठ पढ़ें पाठ छिपाएँ
१८८ Digitized by Arya Samaj Foundation Chennai and eGangotri " सुश्रुतसंहितार्थी अ [ अ ० ३७ अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ॥ ३ ॥
दूर्वा च नलमूलञ्च मधुकं चन्दनं तथा ।
शीतैलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ॥ ४ ॥
आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः ।
विधिर्विषन्नो विषजे पित्तन्नोऽपि हितस्तथा ॥ ५ ॥
अजगन्धाऽश्वगन्धा च कौला सरलया सह ।
एकैषिकाऽजशृङ्गी च प्रलेपः श्लेष्मशोफहृत् ॥ ६ ॥
एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च ।
अनन्ता चेति लेपोऽयं सन्निपातकशोफहृत् ॥ ७ ॥
स्निग्धाम्ललवणो वाते कोष्णः शीतः पयोयुतः ।
पित्ते, चोष्णः कफे क्षारमूत्रादयस्तत्प्रशान्तये ॥ ८ ॥
शणमूलकशिग्रूणां फलानि तिलसर्षपाः ।
शक्तवः किण्वमेतसी द्रव्याण्युष्णानि पाचनम् ॥ ९ ॥
र्चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः । कपोतगृध्रकङ्काणां पुरीषाणि च दारणम् । ११ क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ॥ १० ॥
द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् ।
यवगोधूममाषाणां चूर्णानि च समासतः ॥ ११ ॥
ख्यातम्, अग्निमन्थः = ' अरनी ' ' गणियारी ' इति प्रसिद्धः । = १ अहिंस्रा = कण्टकपालीवृक्षः महौषधं शुण्ठी । । २ चन्दनं = रक्तचन्दनम्, शार्ङ्गधरः– “ कषायलेपयोः प्रायो युज्यते रक्तचन्दनम्” । ३ शीतला गाः = वक्ष्यमाणाः काकोल्याद्युत्पलादि-न्यग्रोधादयः । ४ काला = अहिंस्रा | ५ पथ्या = ' हरट ' इति नाम्ना प्रसिद्धा, पिण्डीतकानि = शुक्लकृष्णपीतभेदात्त्रिविधं ख्यातम् । ६ दोषभेदेन लेपस्य संस्कारविशेषं मदनफलम्, ' मयनफल ' इति नाम्ना नानि दर्शयति - शणेति । फलानि ६ पाच-= 1 ८ उष्णानि = कुष्ठादीनि । निर्दिशति – स्निग्धेति । ९ दारणं निर्दिशति — चिरबिल्व इति । वृद्धकरञ्जः कलिकारिका भल्लातकं वा, हयमारः - करवीरः - चिरबिल्वः, अग्निकः = जपलाशादीनि । ११ पीडनं निर्दिशति - द्रव्याणामिति । १० क्षारद्रव्याणि । पिच्छिलानां = मुष्कककुट-= शाल्म • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 347
पाठ पढ़ें पाठ छिपाएँ
9 अ ० ३७ ] Digitized by Ary सूत्र लक्ष alion Chennai and eGangotri १८ ९
शङ्खिन्यङ्कोठसुमनः करवीरसुवर्चलाः ।
शोधनानि कषायाणि वर्गश्चारग्वधादिकः ॥ १२ ॥
अजैगन्धाऽजशृङ्गो च गवाक्षी लाङ्गलाह्वया ।
पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥ १३ ॥
कटुत्रिकं यवक्षारो लवणानि मनःशिला ।
कासीसं त्रिवृतादन्ती हरितालं सुराष्ट्रजा ॥ १४ ॥
संशोधनीनां वर्त्तीनां द्रव्याण्येतानि निर्दिशेत् ।
एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् ॥ १५ ॥
कासीसकटुरोहिण्योतीकन्दहरिद्रयोः ।
पूर्वोद्दिष्टेषु ' चाङ्गेषु कुर्यात्तैलघृतानि वै ॥ १६ ॥
अर्कोत्तमां स्नुहीतीरं पिट्टा क्षारोत्तमानपि ।
जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् ॥ १७ ॥
पूर्वोद्दिष्टानि चान्यानि कुर्य्यात् संशोधनं घृतम् ।
मयूरको राजवृक्षो निम्बः कोशातकी तिलाः ॥ १८ ॥
बृहती कण्टकारी च हरितालं मनःशिला ।
शोधनानि च योज्यानि तैले द्रव्याणि शोधने ॥ १ ९ ॥
कासीसे सैन्धवे किण्वे वचायां रजनीद्वये । लिश्लेष्मातकनागवलाप्रभृतीनाम् । १ शोधनकषायं दर्शयति - शङ्खिनीति । शङ्खि-नी = यवतिक्ता । २ सुवर्चलाः = सूर्यावर्तः, ' सूर्यमुखी ' इति लोके । ३ कषायमुक्त्वा वर्तिभेषजद्रव्याणि निर्दिशति – अजेति । गवाक्षी - इन्द्रवारुणी, लाङ्गलाह्वया = कलिकारिका, पूतीकः = बृहत्करञ्जः, सुराष्ट्रजा = तद्देशतुम्बुरुमृत्तिका । ४ वर्तिभु-क्त्वा कल्कमभिदधाति — एतैरिति । एतैः = पूर्वोक्तैरजगन्धादिसुराष्ट्रजाऽन्तैः । ५ पूर्वोद्दिष्टेषु = संशोधनार्थमुपदिष्टेषु, ' यत्राधिकरणेनोक्तिणे स्यात्स्नेहसंविधौ । तत्रैव कल्कनिर्व्यूहाविष्येते ' इत्यादिस्मरणात्र पूर्वोद्दिष्टेष्वित्यधिकरणनिर्दे शात् क्वाथक-ल्कयोः परिग्रहः कर्तव्यः । ६ कल्कमुक्त्वा शोधन वृतमाह - अर्केति । अर्कमूलमित्यर्थः, उत्तमा = त्रिफला, स्नुही क्षीरं = सेहुण्डदुग्धम् । .७ शोधन तैलमभिधत्ते — मयूरक इति । मयूरकः = अपामार्गः, राजवृक्षः = किरमातकः, ' अमलतास ' इति लोके । बृहती = शो-दृहत्कण्टकारी, कण्टकारी = लबुकण्टकारी, शोधनानि = शोधनवर्तिनिर्दिष्टानि । = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 348
पाठ पढ़ें पाठ छिपाएँ
१ ९ ० सोलसारादिसारेषु पटोलत्रिफलासु च । CC - 0. Gurukul Kangri Collection, Haridwar अ तगर कण मित्य स्वा निि कुंक शिव Digitized by Arya नुक्षुतसंहिताय hennai and eGangotri [ अ ० ३७ शोधनाङ्गेषु चान्येषु चूर्ण कुर्वीत शोधनम् ॥ २० ॥
रसक्रिया विधातव्या शोधनी शोधनेषु च ॥ २१ ॥
श्रीवैष्टके सर्जरसे सरले देवदारुणी ।
सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् ॥ २२ ॥
कषौयाणा मनुष्णानां वृक्षाणां त्वक्षु साधितम् ।
शृतं शीतं कषायं वा रोपणार्थेषु शस्यते ॥ २३ ॥
सोमामृताऽश्वगन्धासु काकोल्यादौ गणे तथा ।
' क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः ॥ २४ ॥
समङ्गा सोमसरला सोमवल्कः सचन्दनः ।
काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे ॥ २५ ॥
पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता ।
काकोल्यादिश्च योज्यः स्यात् भिषजा रोपणे घृते ॥ २६ ॥
कार्लानुसार्य्यागुरुणी हरिद्रे देवदारु च ।
प्रियङ्गवश्च रोधञ्च तैले योज्यानि रोपणे ॥ २७ ॥
धनचूर्णानि निर्दिशति – कासीस इति । १ शोधनीं रसक्रियां प्रतिपादयति-सालसारादीति | रसक्रिया = फाणिताकृतिः, तत्कल्पना च - भेषजापेक्षयाऽष्टगुणं षोडशगुणं वा जलं दत्त्वाऽष्टभागावशेषः षोडशभागावशेषो वा क्वाथः कार्यः कषायं पुनस्तावत्पचेद्यावत्फाणिताकृतिः । तत: पूतं स्यात् । २ अष्टमं व्रणधूपनं ब्रवीति - श्रोवेष्टक इति । श्रीवेष्टकः - ' गुग्गुल ' इति लोके । सर्जरसः = लोके ' राल ' इति ३ धूपनवर्जे रोपणमपि कषायादिसप्तविधभेदेन दर्शयति - कषायाणामिति प्रसिद्धः! ४ शीतकषायः = “ द्रव्यादापोत्थितात्तोये तत्पुननिशि संस्थितात् ॥ र्याति स शीतः समुदाहृतः ॥ ” इति । कषायो योऽभिनि-५ क्षीरिणो वृक्षाः– “ अश्वत्थोदु म्वरप्लक्षवटपिप्पलसंज्ञिताः । पञ्चैते वृक्षाः समाख्याता विचक्षणैः ॥ ” इति । ६ रोपणकल्कद्वयं क्षीरिणो समङ्गा = लोके ‘ लज्जालु ' इति ख्याता । सोमवल्कः - कट्फलम् निर्दिशति - समङ्गेति । ‘ श्वेतखदिर ' इति लोके । ७ रोपणघृतमुपदिशति – पृथगिति ।, अमरोक्त्या, कदरः, कच्छूः, लोके ' कवांछ ' इति । C आत्मगुप्ता = कपि-रोपणतैलं निर्दिशति - कालेति । कालानुसार्य =
पृष्ठ 349
पाठ पढ़ें पाठ छिपाएँ
अ ० ३७ ] Digitized by Ardhtion Chennai and eGangotri १ ९ १
कङ्गुका त्रिफला रोधं कासीसं श्रवणाया ।
धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते ॥ २८ ॥
प्रियङ्का सर्जरसः पुष्पकासीसमेव च ।
त्वकचूर्णं धववजं चैव रोपणार्थं प्रशस्यते ॥ २ ९ ॥
त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च ।
रसक्रियां रोपणार्थे विदधीत यथाक्रमम् ॥ ३० ॥
अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला ।
उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ॥ ३१ ॥
कौसीसं सैन्धवं किण्वं कुरुविन्दो मनःशिला ।
कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ॥ ३२ ॥
फले शैरी पकार धातुचूर्णानि यानि च ।
व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ॥ ३३ ॥
समस्तं वर्गमर्द्ध वा यथालाभमथापि वा ।
प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ॥ ३४ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने मिश्रकाध्यायो नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥
तगरम् । १ व्रणरोपणचूर्णमाख्याति — कङ्गुकेति । श्रवणाह्वया = मुण्डितिका, अश्व-कर्णः = लोके ' सखुआ । ' इति नाम्ना ख्यातः । २ " कासीसं धातुकासीसं पांशुकासीस-मित्यपि । तदेव किञ्चित्पीतं तु पुष्पकासीसमुच्यते ” । ३ रोपणीं रसक्रियामाह— त्वक्ष्विति । ४ उत्सादनद्रव्याण्याह- अपामार्ग इति । ५ अवसादनद्रव्याणि निर्दिशति - कासीसमिति । कुरुविन्दो लोहितरत्नं पद्मरागः, कुक्कुटाण्डकपालानि = कुक्कुटाण्डकर्पराणि /, सुमनोमुकुलानि = मालतीकलिका, धातुचूर्णानि = हरितालमनः– शिला तुत्थककासीसप्रभृतीनि, उत्सन्नमांसेषु = अतिवृद्धमांसाङ्कुरेपु, अवसादने = अव-चूर्णने । ६ शोधनरोपणद्रव्याणां समस्तानामलाभ कल्पान्तरं दर्शयति - समस्त-मिति। ७ विम्लापनादिकर्म स्वित्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां सप्तत्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 350
पाठ पढ़ें पाठ छिपाएँ
१ ९ २ Digitized by Arya San सुश्रुतसंहितायां mai and eGangotri अष्टत्रिंशत्तमोऽध्यायः । [ अ ० ३८ अथातो द्रव्यसङ्ग्रहणीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
समासेन सप्तत्रिंशद् द्रव्यगणा भवन्ति ॥ ३ ॥
( १ ) तद्यथा - — विदारिगन्धा विदारी विश्वदेवा सहदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवक भको महासहा क्षुद्रसहा बृहत्यौ पुनर्नवैरण्डो हंसपादी वृश्चिकाल्यूषभी चेति ॥ ४ ॥
विदारिगन्धाऽऽदियं गणः पित्तानिलापहः ।
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः ॥ ५ ॥
( २ ) औरग्वधमदनगोपघण्टाकण्टकी कुटजपाठापाटलामूर्वेन्द्र-यवसप्तपर्णनिम्बकुरुण्टकदासी- कुरुण्टकगुडूची चित्रकशौटाकर-ञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ॥ ६ ॥
आरग्वधादिरित्येष गणः श्लेष्मविषापहः ।
मेहकुष्ठज्वरवमीकण्डून्नो व्रणशोधनः ॥ ७ ॥
B अष्टत्रिंशत्तमोऽध्यायः । -१ द्रव्याणां सङ्ग्रहः ‘ समाहृतिस्तु सङ्ग्रहः ' इति कोशप्रामाण्यात् सङ्क्षेपेण प्रतिपादनं, तमधिकृत्य कृतोऽध्यायो द्रव्य सङ्ग्रहणीयस्तम् । २ विदारिगन्धा = शाल. पण, विश्वदेवा = नागवला, सहदेवा = पीतपुष्पा बला, श्वदंष्ट्रा = गोक्षुरकः, सारिवा = जम्बूपत्राकारा लता, यस्याः पत्र त्रोटनेन दुग्धं निःसरति । कृष्णसारिवा = = श्यामलता, पूर्वोक्तसारिवाभेदः, जीवकर्षभकौ = श्रष्टवर्गोक्तौ, अनयोः प्रतिनिधिभूते गुडूचीवंशलोचने, तदुक्तम्– “ जीवकर्षभकाभावे गुडूचीवंशलोचने ” । आवप्रकाशमते द्वयोः प्रतिनिधिभूता विदारी । महासहा - मापपणीं, क्षुद्रसहा = मुद्गपर्णी, हंसपादी हंसपदाकारपत्रा पीतपुष्पा जलयुक्तदेशजाता ' हंसपदी ' इति लोके प्रसिद्धेति डल्हणः । वृश्चिकाली = ईषद्रोमशा श्वेतपुष्पगुच्छा दक्षिणावर्तवेल्ली मेषश्वङ्गीभेद: ‘ बरहंटा ' इति लोके । ऋषभी = कपिकच्छूः । ३ श्रारग्वधः = लोके ' अमलतास ' इति ख्यातः, गोप घोग्टा = कर्कोटी, क्षुद्रवदरीभेद इत्यन्ये, पूगभेद इत्यपरे । ४ कुरण्टकदासीकुर-ण्ठकौ क्रमशः पीतनीलपुष्पभेदाल्लोके ' पियावांसा ' इति ख्यातौ ५ शार्ङ्गष्टध = CC - 0. Gurukul Kangri Collection, Haridwar