सुश्रुत संहिता चौखम्बा — पृष्ठ 331–340

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 331–340

पृष्ठ 331

सुश्रुत संहिता चौखम्बा, पृष्ठ 331 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३४ ] ३४ ३ ॥ या-स्तु था-इत्र ल-त-स्तिष्ठेयुः । ' इति । सूत्रस्थानम् । १७३ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri

दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ।

रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ ॥ ७ ॥

ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत ।

र्पुरोहितमते तस्माद्वर्तेत भिषगात्मवान् ॥ ८ ॥

सः सर्ववर्णानां प्रणाशो धर्मकर्म्मणाम् ।

प्रजानामपि चोच्छित्तिर्नृपव्र्व्यं सनहेतुतः ॥ ९ ॥

पुरुषाणां नृपाणाञ्च केवलं तुल्यमूर्त्तिता ।

आज्ञा त्यागः क्षमा धैर्य्यं विक्रमश्चाप्यमानुषः ॥ २० ॥

तस्माद्देवमिवाभीक्ष्णं वाङ्मनः कर्मभिः शुभैः ।

चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः ॥ ११ ॥

स्कन्धावारे च महति राजगेहादनन्तरम् ।

भवेत् सन्निहितो नित्यं सर्वोपकरणान्वितः ॥ १२ ॥

तत्रस्थमेनं ध्वजवद्यशः ख्यातिसमुच्छ्रितम् ।

उपसर्पन्त्यमोहेन विषशल्यामयार्दिताः ॥ १३ ॥

स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्ववहिष्कृतः ।

वैद्यो " ध्वज इवाभाति नृपतद्विद्यपूजितः ॥ १४ ॥

वैद्यो " व्याध्युपसृष्टश्च भेषजं परिचारकः । १ यथासंख्येन रसविशारदो वैद्यः, मन्त्रविशारदः पुरोहितः । २ यत्तौ = यत्न-परौ । यत्नादिति पाठान्तरम् । ३ वैद्यात्पुरोधसः प्राधान्यं दर्शयति — ब्रह्मेति । ४ अथर्ववेदविदः पुरोधसो देवार्चनाद्युपायमङ्गीकृत्यैव बुद्धिमता भिषजा युक्तिव्यपाश्रयचि-कित्सा विधातव्येति वर्णानामवेद्यावेदनेन भावः । ५ सङ्करः = एकत्वम् । ' व्यभिचारेण च । स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः ॥ ' इति मनुः । ६ व्यसनहेतुतः = राज्ञो रोगादिरूपव्यसनकारणादित्यर्थः । ७ तस्माद् वैद्यो-देवमिव नृपतिं चिन्तयेदिति सम्बन्धः । ८ - युद्धार्थमुद्युक्तानां सैन्यानामावारः सन्नि-बेशस्तस्मिन् स्कन्धावारे, कटक इत्यर्थः । ९ सर्वोपकरणान्वितः = यन्त्रशस्त्रक्षारौषधा-चुषेत:। १० कौटिलीयार्थशास्त्रे चिकित्साकर्मज्ञानां स्त्रीणामप्यवस्थितिरुक्ता – ‘ चिकि-सिकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः स्त्रियश्चान्न नरक्षिण्यः पुरुषाणामुद्धर्षणीयाः पृष्ठत-११ चिकित्सायाश्चतुरः पादानाह – वैद्य इति । व्याध्युपसृष्टः = रोगी ।

पृष्ठ 332

सुश्रुत संहिता चौखम्बा, पृष्ठ 332 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहिताया-१७४ CC - 0. Gurukul Kangri Collection, Haridwar [ अ ० ३४ अ प युत व्य ध्य क्रि ल स Digitized by Arya Samaj Foundation Chennai and eGangotri एते पादाश्चिकित्सायाः कर्म्मसाधनहेतवः ॥ १५ ॥

गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् ।

व्याधिमल्पेन कालेन महान्तमपि साधयेत् ॥ १६ ॥

वैर्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः ॥

उद्गातृहोतृत्रह्माणो यथाऽध्वर्यु विनाऽध्वरे ॥ १७ ॥

वैद्यस्तु गुणवानेकस्तारयेदातुरान् सदा ।

प्लवं प्रतितरैर्होनं कर्णधार इवाम्भसि ॥ १८ ॥

" त्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयङ्कृती ।

लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥ १ ९ ॥

प्रत्युत्प मतिर्धीमान् व्यवसायी विशारदः ।

सत्यधर्म्मपरो यश्च सं भिषक् पाद उच्यते ॥ २० ॥

औयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि ।

आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते ॥ २१ ॥

प्रशंस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् ।

युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् ॥ २२ ॥

दोषघ्नमग्लानिकरमविकारि विपर्य्यये ।

समीक्ष्य दत्तं काले च भेषजं पाद उच्यते ॥ २३ ॥

स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे । १ तेषु पादेषु वैद्यस्य प्राधान्यं निदर्शयति - वैद्यहीना इति । यथा यज्ञेऽध्वर्युं विना उद्गातृहोतृ ब्रह्माणो निष्फलास्तथा वैद्यरहितास्त्रयः पादा अपार्थका निष्फलाः । उद्गाता = सामवेदवित्, होता - ऋग्वेदवित्, ब्रह्मा = त्रयीविद् यज्ञसंसिद्धेर्वाचकः, अध्वर्युः = यजुर्वेदवित् सर्वकर्मोपदेष्टा, अत एव तस्य प्राधान्यम् । २ पादत्रयव्यतिरेकेऽपि वैद्यक्रियायाः साफल्यं निदर्शयति —– वैद्यस्त्विति । ३ प्रतिस्रोतस्यपि नौकादण्डादिकं निःक्षिप्य नौगुणमाकृष्य वा तरन्तीति वा प्रतितरा-स्तैः प्रतितरैः पोतवाहैः, अन्तःप्रविष्टजलोत्क्षेपकैः पुरुषैर्वा । ४ वैद्यगुणानभिधत्ते — तत्त्वेति । ५ व्यवसायी = विषमावस्थास्वपि चिकित्सां कुर्वन् यो न मुह्यति । ६ व्याधितगुणानभिदधाति - आयुष्मानिति । ७ भेषज-गुणानाचष्टे - प्रशस्तेति 1 ८ युक्तमात्रं = हीनातिमात्रोपयोगरहितम्, उपयुक्तमा-त्रया प्रदत्तमित्यर्थः । ९ परिचारकगुणान् वक्ति - स्निग्ध इति । स्निग्धः = प्रीति-

पृष्ठ 333

सुश्रुत संहिता चौखम्बा, पृष्ठ 333 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३५ ] ४ ः । क ॥ -रा-वज.. मा-ति-सूत्रस्थानम् । १७५ पञ्चत्रिंशत्तमोऽध्यायः । पञ्चत्रिंशत्तमोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri वैद्यवाक्यकृद्भ्रान्तः पादः परिचरः स्मृतः ॥ २४ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने युक्तेसेनोयो नाम चतुस्त्रिशत्तमोऽध्यायः ॥३४ ॥

अथात आतुरोपक्रमणीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

आतुरमुपक्रममाणेन भिषजाऽऽयुरादावेव परीक्षितव्यम् । स-त्यायुषि व्याध्यृत्वग्निवयोदे हवलसत्त्वसात्म्य प्रकृतिभेषज देशान् परी-क्षेत ॥ ३ ॥

तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशन वदनस्कन्धललाटं दीर्घा-ङ्गुलिपर्वो छ्वासप्रेक्षणबाहुं विस्तीर्ण स्तनान्तरोरस्कं हस्वजङ्घा-मैदूग्रीवं गम्भीरसत्त्वस्वरनाभिमनुच्चैर्बद्धस्तनान्तरोरस्कं ह्रस्वजङ्घा-मेग्रीवं गम्भीरसत्त्वस्वरनाभिमनुचैर्वद्धस्तनमुपचितमहारोमशकण पश्चान्मस्तिष्कं स्नातानुलिप्तं मूर्द्धानुपूर्व्या विशुष्यमाणशरीरं पञ्चाच्च युक्तः, श्रजुगुप्सुः = अनिन्दकः, यतो निन्दकः परिचारक प्रातुरविषादमापादयति । व्याधितस्य संवाहनस्वापनादिभी रक्षणे युक्तः निपुणः । इति सुश्रुतसंहितायाः सुधाऽख्यटिप्पन्यां चतुस्त्रिंशत्तमोऽध्यायः । १ चिकित्साऽर्थं यादृश आतुर उपक्रम्यो भवति, तादृशोपक्रमणमधिकृत्य कृतोऽ-ध्याय श्रातुरोपक्रमणीयस्तम् । २ उपक्रममाणेन = चिकित्साऽऽरम्भं करिष्यमाणे-नेति भावः। ३ अत एव योगरत्नाकरे – “ औषधं मङ्गलं मन्त्रो ह्यन्याश्च विविधाः क्रियाः । यस्यायुस्तस्य सिद्धयन्ति न सिद्धन्ति गतायुषि ॥ ” इति । ४ दीर्घायुष लक्षणान्याह – तत्रेत्यादिना । महच्छब्दस्य पाण्यादिललाटान्तैः प्रत्येकमभिसम्बन्धः । महत्त्वं च वक्ष्यमाणप्रमाणतः किञ्चिदाधिक्यम् । एवमग्रे दैर्व्यादिकं वेदितव्यम् । ५ उपचितौ मांसलौ महान्तौ विस्तीर्णो रोमशौ च कर्णौ यस्य तमुपचितमहारोमशक-सम् । शिरः पश्चाद्भागे श्रौन्नत्या विस्तृतया चानुमितं प्रचुरतरं मस्तिष्कं यस्य तम्, अथवा पश्चाद्ग्रीवाभागे मस्तिष्को रोमावर्ती विद्यते यस्य तं पश्चान्मस्तिष्कम् । आदौ स्नात्ः पश्चादनुलिप्तस्तम्। मूर्धानुपूर्व्या अर्थाद्यस्य प्रथमं मस्तकादिशरीरं शुष्यति

पृष्ठ 334

सुश्रुत संहिता चौखम्बा, पृष्ठ 334 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri [ =अ ० ३५ १७६ विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति । तमेकान्ते नोपक्रमेत् । एभिर्लक्षणैर्विपरीतैरल्पायुः, मिश्रमध्यमायुरिति ॥ ४ ॥

भवन्ति चात्र ।

गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः ।

• उत्तरोत्तर क्षेत्रो यः स दीर्घायुरुच्यते ॥ ५ ॥

गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते ।

शरीरज्ञानविज्ञानैः स दोर्घायुः समासतः ॥ ६ ॥

मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः ॥ ७ ॥

द्वे वा तिस्रोऽधिका वापि पादौ कर्णौ च मांसलौ ।

नासाग्रमूर्ध्वञ्च भवेदूर्ध्वं लेखाश्च पृष्ठतः ॥ ८ ॥

यस्य स्युस्तस्य परममायुर्भवति सप्ततिः ।

जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ॥ ९ ॥

स्वानि यस्य पर्वाणि सुमहच्चापि मेहतम् ।

तथोरस्यवलीढानि न च स्यात्ष्टष्ठमायतम् ॥ १० ॥

ऊध्व च श्रवरणौ स्थानान्नासा चोच्चा शरीरिणः ।

हसतो जल्पतो वाऽपि दन्तमांसं प्रदृश्यते ।

प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिम् ॥ ११ ॥

अर्थं पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः । तत्राङ्गान्यन्तराधिसक स्थिबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति । पश्चाद्धृदयम् । १ एकान्तेन = असन्दिग्धमनसेत्यर्थः । २ गूढा मांसादिना संवृताः सन्धिसिरास्नायवो यस्य सः । ३ उत्तरोत्तरसुक्षेत्रः = उत्तरोत्तरमापादशिरश्शोभन • शरीर इत्यर्थः । ४ यः शरीरज्ञानविज्ञानैः शनैः समुपचायते वृद्धिं प्राप्नोतीति सम्ब न्धः । शनैः– क्रमशः, अन्यथ।वर्द्धनेऽल्यायुः । तदुक्तम् – “ व्यञ्जनादिशुभा विद्या मेदो मेधादयो यशः । अल्पे वयसि यस्यैतन्न स जीवेत्कदाचन ॥ ” इति । ५ मध्यमायुषो लक्षणानि निर्दिशति - मध्यमस्येति । ६ अल्पायुे लक्षणानि वक्ति - जघन्यस्येति । ७ आयुषो ज्ञानार्थमङ्गप्रत्यङ्गप्रमाणमुपदर्शयति - अथेत्यादिना अन्तरं सध्या दीनामवकाश श्रधीयतेऽत्रेत्यन्तराधिः शरीरमध्यभागः । सक्थिकटिसन्धिमारभ्य । पादा CC - 0. Gurukul Kangri Collection, Haridwar S

पृष्ठ 335

सुश्रुत संहिता चौखम्बा, पृष्ठ 335 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

7-T: न. ब-घो T-अ ० ३५ ] Digitized by Arya खून dation Chennai and eGangotri १७७ तत्रे, स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्यङ्गुलायते । प्रदेशिन्यास्तु मध्यमा-नामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः । चतुरङ्गुलायते पाणिः पञ्चा-विस्तृते प्रपदपादतले । पञ्चचतुरङ्गुलायतविस्तृता । चतु-दशाङ्गुलायतः पादः । चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घा-जानुमध्यानि । अष्टादशाङ्गुला जङ्ङ्घा; जानूपरिष्टाच्च द्वात्रिंशदङ्गुल-मेवं पञ्चाशत् । जङ्घायामसमावूरू । द्व्यङ्गुलानि वृषणचिबुकद-शननासापुटभागकर्णमूलनयनान्तराणि । चतुरङ्गुलानि मेहनवद-नान्तरनासाकर्ण ललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि । द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयश्री वास्तनान्तरमुखायाममणिबन्धप्रकोष्ठ -स्थौल्यानि । इन्द्रवस्तिपरिणाहां सपीठकूर्परान्तरायामः षोडशा-ङ्गुलः । चतुर्विंशत्यङ्गुलो हस्तः । द्वात्रिंशदङ्गुलपरिमाणौ भुजौ । द्वा-त्रिंशत्परिणाहावूरू । मणिबन्धकूर्परान्तरं षोडशाङ्गुलम् । तलं षट्-चतुरङ्गलायामविस्तारम् । श्रङ्गुष्ठमूलप्रदेशिनीश्रवरणापाङ्गान्तरमध्य-माङ्गुल्यौ पञ्चाङ्गुले । श्रर्द्धपञ्चाङ्गुले प्रदेशिन्यनामिके । सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ । चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवम् । त्रिभागाङ्गु-लिविस्तारा नासापुटमय्र्यादा । नयनत्रिभागपरिणाहा तारका । नव-मस्तारकांशो दृष्टिः । केशान्तमस्तकान्तरमेकादशाङ्गुलम् । मस्तका -दबंटुकेशान्तो दशाङ्गुलः । कर्णाट्वन्तरं चतुर्दशाङ्गुलम् । पुरुषोर: -प्रमाणविस्तीर्णा स्त्रीश्रोणिः । अष्टादशाङ्गुलविस्तीर्णमुरः । तत्प्रमाणा पुरुषस्य कटी । सविंशमँङ्गुलशतं पुरुषायाम इति ॥ १२ ॥

ङ्गुलीर्यावत् । १ पादाङ्गुष्ठादारभ्य मस्तकपर्यन्तं क्रमशो मानं प्रदर्शयन्नाह — तत्रेति । तत्र = तेषां प्रत्यङ्गानां मध्ये | २ मुखं च - " ओष्ठौ च दन्तमूलानि दन्तजिह्वे च तालु च । गलश्चौष्ठादिसकलं सप्ताङ्गं मुखमुच्यते ॥ ” इति । ३ " पाणि प्रतिजङ्घा-मध्ये इन्द्रबस्तिर्नाम ” इति शारीरे वक्ष्यमाणलक्षणो देश इन्द्रबस्तिः । ४ तारका = नवमांशो दृष्टिमण्डलमित्यर्थः । ५ केशानामन्तो मर्यादाऽत्रेति व्युत्पत्त्या केशसीमायां प्रवृत्तोऽपि केशान्तशब्दः सामान्यशब्दस्य विशेषवृत्तित्वादिह शङ्खयोरुपर्येव बोध्यः । ६ अवटुः = ग्रीवापश्चाद्भागस्थः, कृकाटिका वा । ७ विंशत्या अङ्गुलैः सह शतं सर्विंशमङ्गुलशतं, पुरुषायामः पादाग्रावस्थितस्यो-१२ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 336

सुश्रुत संहिता चौखम्बा, पृष्ठ 336 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां -१७८ भवन्ति चात्र । पाणिः— जङ्घा -५ पञ्चाङ्गुलायामा । २४ चतुर्विंशत्यङ्गुला । ४ चतुरङ्गुलम् । २४ चतुर्विंशत्यङ्गुलः । जानु -ऊरु: -मेहननाभ्योरन्तरं— १२ द्वादशाङ्गुलम् । नाभिहृदयान्तरं— १२ द्वादश । ङ्गुलम् । ग्रीवाहृदयान्तरं— १२ द्वादशाङ्गुलम् । ग्रीवा-४ चतुरङ्गुलायामा । मुखं– १२ द्वादशाङ्गुलायामम् । १२० 1 CC - 0. Gurukul Kangri Collection, Haridwar [ अ ०३५ I ब मा अ न त्व स य त म Digitized by Arya Samaj Foundation Chennai and eGangotri

पञ्चविंशे ततो वर्षे पुमान् नारी तु पोडशे ।

समत्वागतवीय्यौ तौ जानीयात् कुशलो भिपकू ॥ १३ ॥

देहः स्वैरङ्गुलैरेष यथावदनुकीर्त्तितः ।

युक्तैः प्रमाणेनानेन पुमान् वा यदि वाऽङ्गना ॥ १४ ॥

दीर्घमायुरवाप्नोति वित्तश्च महदृच्छति ।

मध्यमं मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् ॥ १५ ॥

अथ सारान् वक्ष्यामः — स्मृतिभक्तिप्रज्ञाशौय्र्यशौचोपेतं कल्या-णाभिनिवेशं सत्त्वसारं विद्यात् । स्निग्धसंहतश्वेतास्थिदन्तनखं र्ध्ववाहोः पुरुषस्य दैर्घ्यम् । एवं च - " केवलं पुनः शरीरमङ्गुलिपर्वाणि चतुरशीतिः, तदा-यामविस्तारसमं समुच्यते । " इति चरकोक्तचतुरशीत्यङ्गुलपुरुषायामेन सह नास्य विरोधः । अत्र चक्रोवत्यनुसारेण सर्विंशमङ्गुलशतं पुरुषायाममानं सरलतया संख्याऽऽदिवो -धनार्थमधः प्रदर्श्यते— केशान्तचूढास्थानरूपमस्तकान्तरम् - ११एकादशाङ्गुलम् । १ स्त्रीश्रोणिपुरुषोरःप्रभृतीनां यौवने एव यथोक्तप्रमाणता पञ्चेति भवतीति दर्शयति— । २ समत्वं परिपूर्णंत्वमागतं वीर्यं शक्तिर्ययोस्तौ समत्वागतवीयौँ विंशे वर्षे पुरुषः समत्वागतवीर्यः, षोडशे वर्षे नारी च समत्वागतवीर्या । पञ्च-तथा च तन्त्रान्तरम्– “ वर्षेऽथ पञ्चविंशे नरः समन्वितबलः भवतीत्यर्थः । नोन्मानं जीवितभागे चतुर्थे षोडशे नारी । श्रर्हति मा-वा ॥ ” इति । ३ उक्तप्रमाणप्रयोजनं दर्शयति -इति । ४ कल्याणाभिनिवेशं = शुभकार्येषु युक्त यत्नशीलम् ।

पृष्ठ 337

सुश्रुत संहिता चौखम्बा, पृष्ठ 337 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३५ ] Digitized by Ary ङ्कारस्थ ation Chennai and eGangotri १७ ९ शुक्रेण । अकृशमुत्तमवलं स्निग्धगम्भीरस्वरं सौभा-बहुकामजं श्योपपन्नं महानेत्रञ्च मज्ज्ञा । महाशिरःस्कन्धं दृढदन्तहन्वस्थिनख-मस्थिभिः । स्निग्धमूत्रस्वेदस्वरं बृहच्छरीरमायासासहिष्णुं मेदसा | अच्छिद्रगात्रं गूढास्थिसन्धि मांसोपचितञ्च मांसेन । स्निग्धैतान्र-नखनयनतालुजिहौष्ठपाणिपादृतलं रक्तेन । सुप्रसन्नमृदुत्वयोमाणं

यक्सारं विद्यादिति येषां । पूर्वं पूर्व प्रधानमायुः सौभाग्ययोरिति ॥ १६ ॥

विशेषतोऽङ्गप्रत्यङ्गःप्रमाणादथ सारतः ।

परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु ॥ १७ ॥

व्याधिविशेषास्तु प्रागभिहिताः । सर्व एवैते त्रिविधाः - साध्या, याप्याः, प्रत्याख्येयाश्च । तत्रैतान् भूयस्त्रिधा परीक्षेत - किमसावौपस-र्गिकः, प्राक्केवलः, अन्यलक्षण इति । तत्र, सर्गिकयः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्रव-संज्ञः । प्राक्केवलो यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपोऽनुपद्रवश्च । अन्यलक्षणो यो भविष्यद्वयाधिख्यापकः, स पूर्वरूपसंज्ञः । तत्र, सोपद्रवमन्योन्याविरोधेनोपक्रमेत, बलवन्तमुपद्रवं वा । प्राक्केवलं

यथास्वं प्रतिकुर्वीत । अन्यलक्षणे त्वादिव्याधौ प्रयतेत ॥ १८ ॥

भवति चात्र ।

नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ।

अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ॥ १ ९ ॥

प्रौगभिहिता ऋतवः ॥ २० ॥

१ बहुलकामप्रजं = बहुलकामं बहुप्रजमित्यर्थः । २ अच्छिद्रगात्रम् = अनिन्दि-तशरीरम् । ३ स्निग्धताम्रशब्दयोर्नखादिपाणितलान्तैः सह प्रत्येकं सम्बन्धः । ४ उपद्रवसंज्ञ औपसर्गिकः प्रसिद्धः । चरकोऽप्याह- " उपद्रवस्तु खलु रोगोत्तरका-लजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा पश्चाज्जायत इत्युपद्रवः । ” इति । ५ तन्मूल-मूलक इति पाठे तस्य पूर्वोत्पन्नस्य व्याधेर्मूलं मूलमस्य स इति बोध्यः । ६ य उत्पन्नो व्याधिः प्रागेव जन्मत एत्रापूर्वरूपः पूर्वरूपेतरः, अनुपद्रव उपद्रवेतरश्च स प्राक्केवलः । ७ ' अन्यलक्षण' इत्यत्र अन्ये उत्पित्सवो व्याधयो लक्ष्यन्तेऽनेनेति करणे ल्युट् । ८ अ-नुक्तमपि व्याधिं दोषाणां लिङ्गैरुपाचरेदिति = ऋतुचर्याध्याये । सम्बन्धः । ९ प्राक् CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 338

सुश्रुत संहिता चौखम्बा, पृष्ठ 338 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८० Digitized by Arya s नुश्रुतसंहितायां... Chennai and eGangotri [ अ ० ३५

शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम् ।

कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् ॥ २१ ॥

प्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया ।

क्रिया हीनाऽतिरिक्ता वा साध्येष्वपि न सिध्यति ॥ २२ ॥

या ' ह्युदीर्णं शमयति नान्यं व्याधिं करोति च ।

सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् ॥ २३ ॥

प्रौगभिहितोऽग्निरन्नस्य पाचकः । स चतुर्विधो भवति - दोषौन-भिपन्न एकः । विक्रियामापन्नस्त्रिविधो भवति - विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति । तत्र, यो यथाकालमुपयुक्तमन्नं सम्यक् पचति स समः, समैर्दोषैः । यः कदा-चित् सम्यक् पचति, कदाचिदाध्मानशूलोदावर्तातिसारजठरगौर-वान्त्रकूजनप्रवाहणानि कृत्वा स विषमः । यः प्रभूतमप्युपयुक्तम-न्नमाशु पचति स तीक्ष्णः स एवाभिवर्द्धमानोऽत्यग्निरित्या भाष्यते । स मुहुर्मुहुः प्रभूतमप्युपयुक्तमन्नमाशुतरं पचति, पाकान्ते च गलता-ल्वोष्ठशोषदाहसन्तापान् जनयति । यस्त्वल्पमप्युपयुक्तमुद्रशिरोगौर-वकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति । स मन्दः ॥ २४ ॥

विषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् तर्त्र, समे परिरक्षणं कुर्वीत । विषमे स्निग्धाम्ललवणैः ॥ २५ क्रिया- ॥ विशेषैः प्रतिकुर्वीत । तीक्ष्णे मधुर स्निग्धशीतैर्विरेकैश्च । एवमेवात्य-ग्नौ, विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिः । मन्दे यैर्वमनैश्च ॥ २६ ॥ कंटुतिक्तकषा-१ प्राप्ताम् = उचितामित्यर्थः । २ न हापयेत् = नोलङ्घयेत् = उत्क-टम् । ४ प्राक् = व्रणप्रश्ने पक्कामाशयमध्यस्थं पित्तमित्यादिनाऽभिहितः

। ३ उदीर्णम्ः भिपन्नः = दोषरहित इत्यर्थः । ६ कूजनं = । ५ दोषान-काग्निः; वृन्दमाधवे— “ वर्धमानो भवेत्तीक्ष्णो गुढगुढायनशब्दः । ७ अत्यग्निः = भस्म-८ त्रिषमाद्यग्नीनां वातादिप्रकोपकत्वमाह – विषम भस्मकाख्यो इति । ९ समाग्न्यादीनां महानलः ” इति । चिकि-CC - 0. Gurukul Kangri Collection, Haridwar @ स

पृष्ठ 339

सुश्रुत संहिता चौखम्बा, पृष्ठ 339 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३५ ] Digitized by Arya Samaj Foundation Chennai and eGangotri

सूत्रस्थानम् ।

/ जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः । ॥

सौक्ष्म्याद्रसानाददानो ' विवेक्तुं नैव शक्यते । ॥ २७ प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः १८१ मायते पाच्यते चापि स्वे स्वे स्थाने व्यवस्थितैः ॥ २८ ॥

वस्तु त्रिविधं - बाल्यं, मध्यं, वृद्धमिति । तत्रोनपोडशवर्षा इति । तेषु बालाः । तेऽपि त्रिविधाः- क्षीरपाः, क्षीरान्नादा, अन्नादा , परतोऽन्नादा संवत्सरपराः क्षीरपाः, द्विसंवत्सरपराः क्षीरान्नादाः इति । षोडशसप्तत्योरन्तरे मध्यं वयः । तस्य विकल्पो वृद्धियौवनं, सम्पूर्णता हानिरिति । तत्र, याविंशतेर्वृद्धिः श्रात्रिंशतो यौवनम् ऊर्ध्वमी-आचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्य्यसम्पूर्णता, श्रत पतपरिहाणिर्यावत् सप्ततिरिति । सप्ततेरूर्ध्वं क्षीयमाणधात्विन्द्रि-यबलवीर्योत्साह महन्यहनि वैलीपलितखालित्यजुष्टं कासश्वासप्रभृ-तिभिरुपद्रवैरभिभूयमानं सर्वक्रियास्वसमर्थं जीर्णांगारमिवाभिर्वृष्ट-मवसीदन्तं वृद्धमाचक्षते ॥ २ ९ ॥ तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोतर भेषजमात्रा विशेषा भव-न्ति, ऋते च परिहाणेः । तत्राद्यापेक्षया प्रतिकुर्वीत ॥ ३० ॥

त्सां निर्दिशति — तत्रेत्यादिना । १ विवेक्तुं = विशेषतो निर्णेतुम् । २ प्राणापा-नसमानैस्त्रिभिरित्यर्थः । = फूत्कारेणेव प्रज्ज्वाल्यते । ४ कालप्रमाण-३ ध्मायते विशेषापेक्षिणी हि शरीरावस्था वयोऽभिधीयते । ५ संवत्सरपराः = संवत्सरेण परि-च्छिन्नसीमानः । ‘ परः स्यादुत्तरे सीमापरिच्छिन्ने ' इति कोशः । ६ चरकस्त्वा-त्रिंशतो वृद्धिमाह– “ विवर्द्धमानधातुगुणमात्रिंशद्वर्षमुपदिष्टम् ” इति । अत्र वृद्धिर्वि-शेषतोऽस्थ्नो बोध्यः । मांसादिवृद्धिस्तु निर्दिष्टवर्षानन्तरमपि भवितुमर्हति । ७ वली- = स्वक्सङ्कोचः, पलितं = केशशौवल्यम्, खालित्यं = खल्वाटत्वम् । ८ अभिवृष्टं = वृष्टिभिराक्लिन्नम्, अवसीदन्तं = पतन्तम् । ९ उत्तरोत्तराः = क्रमशो वर्द्धिता भेषजमात्राविशेषाः । यथा- “ प्रथमे मासि जातस्य शिशोर्भेषजर क्तिका । अवलेह्या मधुक्षीरसिताघृतैः ॥ एकैकां वर्द्धयेत्ता-तु कर्तव्या वद्यावत्संवत्सरो भवेत् । तदूर्ध्वं मासवृद्धिः स्याद्यावत् षोडशकाब्दिकः ॥ षोडशाब्दा-ततस्तूर्ध्वं यावदासप्ततेरिति 1 । एवमेव विभागोऽयं तदूर्ध्व बालवत् क्रिया ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 340

सुश्रुत संहिता चौखम्बा, पृष्ठ 340 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri १८२ [ अ ० ३५ I भवन्ति चात्र ।

बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु ।

भूयिष्ठं वर्द्धते वायुर्बुद्धे तद्वीक्ष्य योजयेत् ॥ ३१ ॥

अनिक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत् ।

तत्साध्येषु विकारेषु मृद्वीं कुर्य्यात् क्रियां शनैः ॥ ३२ ॥

देहः स्थूलः, कृरा मध्य इति प्रोगुपदिष्टः ॥ ३३ ॥

कैशैयेद् बृंहयेच्चापि सदा स्थूलकृशौ नरौ ।

रक्षणञ्चैव मध्यस्य कुर्वीत सततं भिषक् ॥

वलमभिहितगुणं, दौर्बल्यक्च स्वभावदोषजरादिभिरवेक्षित- ३४ ॥ व्यम् । यस्माद्बलवतः सर्वक्रियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकर-णानाम् ॥ ३५ ॥

केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला तस्मात् स्थिरत्वव्यायामैर्बलं वैद्यः नराः । सँत्त्वं तु व्यसनाभ्युदयक्रियाऽऽदिस्थानेष्वविक्तवकरम् प्रतर्कयेत् ॥ ३६ ॥।

सत्त्ववान् सहते सव संस्तभ्यात्मानमात्मना ॥ ३७ ॥

राजसः स्तभ्यमानोऽन्यैः सहते नैवतामसः ॥ ३८ ॥

सांत्म्यानि तु देशकालजात्यृतुरोगव्याया मोदक ' त्रिश्वामित्रः– “ विढङ्गफलमात्रं तु जातमात्रस्य दिवास्वनरस-प्रवर्धितम् ॥ कोज्ञास्थिमात्र क्षीरादेर्दद्याद् भेषजम् । एतेनैव प्रमाणेन मासि मासि डुम्बरोपमम् ॥ ” इति । परिहाणेः भैषज्यकोविदः ॥ क्षीरान्नादे कोलमात्रमन्नादे वस्थेति यावत्; तद्विनेत्यर्थः । = श्रद्यापेक्षया पर्यतिशयेन धात्वेन्द्रियादीनां हानिरपचयः, वृद्धा-जमात्रेत्यर्थः । - बाल्यापेक्षया, षोडशवर्षवद् भेष-१ अग्निक्षारविरेकसाध्येषु व्याधिपु संश्रयोऽग्निः, आवापप्रतिवापहोनो मृद्वी क्रिया । यथा अजाशकृदादिमृदुद्रव्य-२ प्राक् = दोषादिविज्ञानीये । मृदुक्षारः, चतुरङ्गुलादिमृदुद्रव्याश्रयो विरेकः दिति ३ स्थूलादीनां कर्शनादिचिकित्सामुपदिशति ॥ ४ वलपरीक्षां विचारयति — कर्श-शोणितशुक्रस्वभावादिभिर्ज्ञातव्यमित्यर्थः - । बलमिति । ५ अवेक्षितव्यं = मातृपितृ-७ सात्म्यपरीक्षामाख्याति - सात्म्यानीति ६ सत्त्वपरीक्षामुपदिशति — सत्त्वमिति । सात्भ्यम् । चरकः– “ सात्म्यं नाम तत्, यत्सातत्येनोपसेव्यमानमुपशेते । यद्यस्य सेवितं सुखाय सम्पद्यते तत्तस्य ” इति । ८ दिवा-CC - 0. Gurukul Kangri Collection, Haridwar