सुश्रुत संहिता चौखम्बा — पृष्ठ 361–370
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 361–370
पृष्ठ 361
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] I ७ ॥ ॥5 Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् भवन्ति चात्र ।
" रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः ।
तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावनं मृदु ॥ ११ ॥
चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् ।
अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् ॥ १२ ॥
स्वयं प्रवृत्तदोषस्य मृदुकोष्टस्य शोधनम् ।
भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् ॥ १३ ॥
व्याध्यादिषु तु मध्येषु काथस्याञ्जलिरिष्यते ।
विडा पदक चूर्ण देयः कल्कोऽर्क्षसम्मितः ॥ १४ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नाम एकोनचत्वारिंशोऽध्यायः ॥ ३ ९ ॥ । चत्वारिंशत्तमोऽध्यायः । २०३ अथातो द्रव्यरसगुणवीर्यविपाक विज्ञानीयमध्यायं व्याख्या-स्यामः ॥ ५ ॥
११ दुर्बलस्य वलवच्छोधनं निषेधते — रोग इति । १ प्रच्यावनं = विरेचनमि-त्यर्थः । २ अवस्थाविशेषेण दुर्बलेऽपि शोधनमुपदिशति – चल इति । ३ व्याध्य-• ग्निपुरुषेषु मध्यमवलेष्वौषधमात्रां निर्दिशति — व्याध्यादिष्विति । ४ श्रञ्जलिः = चत्वारि पलानि, षोडशतोलकानीत्यर्थः । ५ विडालपदकं = कर्षमितम्, एकतोलक-मित्यर्थः। ६ अक्षसम्मितः = कर्षसम्मित इत्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्या मे कोनचत्वारिंशोऽध्यायः । चत्वारिंशत्तमोऽध्यायः । ७ द्रव्यरसगुणवीर्यविपाकानां विज्ञानं विशिष्टं ज्ञानं, तदधिकृत्य कृतोऽध्यायो द्रव्यरसगुणवीर्यविपाकविज्ञानीयस्तम् । द्रव्यम् = औषधम्, रसः = मधुरादिः शीतोष्णस्निग्धरूक्षमन्दतीक्ष्णगुरुलघुपिच्छिलविशदश्लक्ष्णपरुषकठिनमृदुद्र ववसान्द्रस्थि- , गुणाः = रसरस्थूलसूक्ष्मा विंशतिः, वीर्यं – “ भूतप्रभावातिशयो द्रव्ये पाके रसे स्थितः । चिन्त्या-चिन्त्य किया हेतु धन्वन्तरेमृतम् ” ॥ यद् द्रव्यं परिणामकाले स्वाभाविकं । रसं परि-त्यज्य रसान्तरं भजते तत्र ' विपाक ' इतिसंज्ञेति डल्हणः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 362
पाठ पढ़ें पाठ छिपाएँ
Sa २०४ Digitized by Arya S पुतसंहितायां -ennai and eGangotri अ ० ४० यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
केचिदाचार्यां ब्रुवते - द्रव्यं प्रधानम् । कस्मात्? व्यवस्थितत्वात्, इह् खलु द्रव्यं व्यवस्थितं न रसादय; यथा - आमे फले ये रसाद. यस्ते पक्के न सन्ति । नित्यैत्वाच्च, नित्यं हि द्रव्यमनित्या गुणाः; यथा - कँल्कादिप्रविभागः, स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति । स्वजौत्यवस्थानाच्च यथा हि पार्थिवं द्रव्यमन्यभवं न गच्छत्येवं शेषाणि । पञ्चेन्द्रियग्रहणाच्च, पञ्चभिरिन्द्रियैर्गृह्यते द्रव्यं न रसादयः । आश्रयत्वाच्च, द्रव्यमाश्रिता रसायो भवन्ति । आर. म्भसामर्थ्याच्च, द्रव्याश्रित आरम्भ:, यथा- विदारिगन्धादिमाहृत्य सङ्क्षुद्य विपचेदित्येवमादिषु न रसादिष्वारम्भः । शास्त्रप्रामाण्याच्च, शास्त्रे हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा - मातुलुङ्गाग्निमन्थौ चेत्यादौ न रसादय उपदिश्यन्ते । क्रमापेक्षितत्वाच्च रसादीनां, रसा-दयो हि द्रव्यक्रममपेक्षन्ते, यथा - तरुण तरुणाः सम्पूर्ण सम्पूर्णा इति । एकदेशसाध्यत्वाच्च द्रव्याणामेकदेशेनापि व्याधयः साध्यन्ते, यथा — महावृक्षक्षीरेणेति । तस्माद् द्रव्यं प्रधानम् । द्रव्यलक्षणन्तु “ क्रियागुणवत् समवायिकारणम् ' इति ॥ ३ ॥
" नेत्याहुरन्ये । रसास्तु प्रधानम्, कस्मात्? आगमात्, आगमो १ तत्र प्रथमं सयुक्तिकं द्रव्यप्राधान्यं प्रतिपादयति – केचिदिति । २ व्यव स्थितत्वात् = स्वस्वगुणाभावेऽप्यवस्थानादित्यर्थः । ३ कालपरिणामेन रसाद्यन्यथा-भावेऽपि तद्रूपतयाऽवस्थितत्वान्नित्यत्वमितितात्पर्यम् । ४ कल्कादिरूपेण प्रविभक्तो द्रव्यसमूहः कल्कादिप्रविभागः । श्रादिशब्दात् स्वरसश्रुतशीतफाण्टानां परिग्रहः ५ स्वस्यां पार्थिवादिजाताववस्थितत्वादित्यर्थः ॥ ६ अन्यभावम् = आप्यादिजातिम्, शेषाणि = अवशिष्टान्याप्यादीनि । ७ द्रव्ये गृहीते तदाश्रया गुणा गृहीता भवन्ति, गुणाः = शब्दस्पर्शरूपरसगन्धाः । द्रव्ये शब्दोऽप्यस्ति, यथा पार्थिवादिद्रव्ये करकराऽऽदिशब्दः शब्दो “ भूमौ करकरा जले चुलुचुलुध्वनिः ” इत्याद्यनुसन्धेयम् ॥ ८ आश्रयत्वात् = समवायसम्बन्धेन रसा-दीनामधिष्ठानत्वात् । ९ आरम्भसामर्थ्यात् = श्राहरणकुट्टनादिकर्मार्हत्वात् । १० क्रियाश्च गुणाश्च सन्त्यस्मिन्निति क्रियागुणवत् । यत्समवेतं कार्यमुत्पद्यते । यथा - तन्तवः पटरय, घटस्य च मृत्कपालादिः । ११ रसप्राधान्ये एकीयमतं तत्समवायिकारणम् दर्शयति— CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 363
पाठ पढ़ें पाठ छिपाएँ
अ ० ४० ] द-न्य , तु T-, 1 व यति -सूत्रस्थानम् । २०५ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri हि शास्त्रमुच्यते; शास्त्रे हि रसा अधिकृत:, यथा - रसायत्त आंहार इति, तस्मिंश्च प्राणाः । उपदेशाच्च, उपदिश्यन्ते हि रसाः, यश - मधुरा-स्ललवणा वातं शमयन्ति । अनुमानाच्च, रसेन ह्यनुमीयते द्रव्यं, यथा - मधुरमिति । ऋषिवचनाच्च, ऋषिवचनं वेदो यथा - किञ्चिदि-ज्यार्थं मधुरमाहरेदिति । तस्माद्रसाः प्रधानम् । रसेषु गुणसंज्ञा । रसलक्षणमन्यंत्रोपदेक्ष्यामः ॥ ४ ॥
नेत्याहुरन्ये । वीर्य्यं प्रधानमिति । कस्मात्? तद्वशेनौषधकर्मनि-पत्तेः । इहौषधकर्माण्यूर्ध्वाधोभागोभय भाग संशोधनसंशमनसङ्ग्रा-हकाग्निदीपनपोडनलेखन बृंहण रसायनवाजीकरणश्वयथुकरविलय-नदहनदारणमादनप्राणन्नविपप्रशमनानि वीर्य्यप्राधान्याद्भवन्ति । तच्च वीर्य्यं द्विविधमुष्णं शीतं च, अग्नीषोमीयत्वाज्जगतः । केचिदष्ट-विधमाहुः - शीतमुष्णं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति एतानि वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति । यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति, उष्णवो-नेत्याहुरिति । न द्रव्यं प्रधानमित्यर्थः । १ अधिकृताः = प्राधान्येनोपदिष्टा इत्यर्थः । २ मधुरं मधुररसप्रधानं द्रव्यमित्यर्थः । अत्र रसप्राधान्येन द्रव्यव्यपदेशाद्रसाः प्रधा-नमितिसारम् । ३ रसेषु = लुप्तादिनिर्देशाद् रसादिष्वित्यर्थः । ४ अन्यत्र रसविज्ञानीयेऽध्याये । ५ वीर्यप्राधान्ये एकीयमतं । निर्दिशति — नेत्याहुरिति । न - रसाः प्रधानमित्यर्थः । ६ वीर्यम् – “ शक्तिमात्रं तु वीर्य स्यादिति केचिद् बुधा विदुः । तन्मते द्रव्य-रसयोः पाकस्य च गुणस्य च ॥ मृद्वादेः स्वक्रियोत्पादे शक्तिवर्यमिति स्थितिः । मृद्वा-दयो गुणा ह्यष्टौ वीर्याणीत्यूचिरे परे ॥ यस्मात्सर्वगुणोत्कृष्टाः शक्त्युत्कर्षयुता अमी । व्यवहारोपयुक्ताश्च नेदृशास्त्वपरे गुणाः । तस्मान्न ते वीर्यंसंज्ञा इति शास्त्रविदां मतम् । अन्ये शीतोष्णभेदेन वीर्यं द्विविधमूचिरे ॥ अग्नीषोममयं विश्वं यत एतच्चरा-चरम् । ॥ ” इति । “ …………… वीर्यं तु क्रियते येन या क्रिया । नावीर्यं कुरुते किञ्चित्सर्वा वीर्यकृता क्रिया ॥ ” इति चरकोक्त्या रसादीनां वीर्यत्वं धर्मधर्मिणोरभेदात्समर्थनीयम् । येनेति करणे तृतीया । तेन कर्तुर्द्रव्यस्य वीर्यत्वं नाशङ्कनीयम् । ७ औषधकर्माणि दर्श--इहेति 1 ८ लेखनं = पत्तलीकरणम् । ९ दारादिना दहनं, गृध्रपुरीषादिना दारणं, मदिराऽऽदिना मत्तताकरणं मादनम् ।
पृष्ठ 364
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहिताय jpai Digitized by Arya Samaj २०६ and eGangotri [ अ ० ४० र्यत्वात्, तथा कुलत्थः कषायः, कटुकः पलाण्डुः, स्नेहभावाच्च । मधुरश्चेक्षुरसो वातं वर्द्धयति, शीतवीर्यत्वात् । कटुका पिप्पली पित्तं शमयति, मृदुशीतवीर्यत्वात्, अम्लमामलकं लवणं सैन्धवञ्च । तिक्ता काकमाची पित्तं वर्द्धयति, उष्णवीर्यत्वात्, मधुरा मत्स्याश्चा कटुकं मूलकं श्लेष्माणं वर्द्धयति, स्निग्धवीर्यत्वात् । अलं श्लेष्मारणं शमयति, रूक्षवीर्यत्वात्, मधुरं क्षौद्रञ्च 1 । तदेतन्निदर्शन-मात्रमुक्तम् ॥ ५ ॥
भवन्ति चात्र ।
ये रसा वातशेंमना भवन्ति यदि तेषु वै ।
रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ॥ ६ ॥
ये रसाः पित्तशमना भवन्ति यदि तेषु वै ।
तैक्ष्णचौष्णच लघुताश्चैव न ते तत्कर्मकारिणः ॥ ७ ॥
ये रसाः श्लेष्मैशमना भवन्ति यदि तेषु वै ।
स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ॥ ८ ॥
तस्माद्वीर्यं प्रधानमिति ॥ ९ ॥
नेत्याहरन्ये । विपाकः प्रधानमिति । कस्मात्? समिध्या-विपाकत्वात् । इह सर्वद्रव्याण्यभ्यवहृतानि सम्यं मिथ्या विपक्कानि गुणं दोषं वा जनयन्ति । तत्रहुरन्ये - प्रतिरसं पाक इति । केचित्रिविधमिच्छन्ति-१ वातशमनाः = मधुराम्ललवणाः । २ पित्तशमनाः = मधुरतिक्तकषायाः ष्मशमनाः = कटुतिक्तकषायाः ॥ ३ इले-४ त्रिपाकप्राधान्यवादिमतं दर्शयति - नेति । ५ विपाको नाम - " जाठरेणा-ग्निना योगाद्यदुदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥ ” इति वाग्भटो तलक्षणः । ६ द्रव्यगुणानुरूपो निष्ठापाकः सम्यग्विपाकस्तद्विपरीतो मिथ्या-विपाकस्तस्य भावस्तस्मात् । ७ सम्यग् विपक्कानि गुणं, मिथ्याविपक्कानि दोषं च जनयन्तीत्यर्थः । यथा — सम्यग् विपक्कश्चित्रकोऽग्निसन्दीपनादिरूपं गुणं, मिथ्याविमको रुद्धमूत्रत्वादिरूपं दोषं च जनयतीत्याद्यवसेयम् । ८ पवििधविपाकवादिमतं दर्श-यति —– तत्राहुरिति । प्रतिरसं = रसं रसं प्रति पाक इत्यर्थः । षड्रसानां यथाक्रमं षड् विपाकाः भवन्तीति तत्सारम् । ९ त्रिविधविपाकवादिमतमुपन्यस्यति – केचिदिति । चरकेऽपि – “ कटुतिक्तकषा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 365
पाठ पढ़ें पाठ छिपाएँ
-थं ते | -च नं अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २०७ न सम्यक् भूतगुणादागमाच्चा-कटुकं चेति । तत्तु, मधुरमलं न्योऽम्लो विपाको नास्ति । पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात् । यद्येवं लवणोऽप्यन्यः पाको भविष्यति, श्लेष्मा हि विदुग्धो लवण-` तामुपैतीति । मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः । दृष्टान्तं चोपदिशन्ति — यथा तावत् चीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्रादयः प्रकोणः स्वभावमुत्तरकालेऽपि न परि-त्यजन्ति तद्वदिति । केचिद्वदन्ति - अबलवन्तो बलवतां वशमाया-न्तीति । एवमनवस्थितिः; तस्मादसिद्धान्त एषः । आगमे हि द्विविध एव पाको मधुरः कटुकश्च । तयोर्मधुराख्यो गुरुः, कटुकाख्यो लघु-रिति । तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाध-यिद् गुरुता लघुता च । पृथिव्यापश्च गुर्व्यः, शेषाणि लघूनि । तस्माद् द्विविध एव पाक इति ॥ १० ॥
भवन्ति चात्र ।
द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः ।
निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ॥ ११ ॥।
तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु ।
निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ॥ १२ ॥
“ पृथक्त्वदर्शिनामेप वादिनां वादसङ्ग्रहः । याणां विपाकः प्रायशः कटुः । अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ॥ ” इति कट्वम्लमधुरभेदेन त्रय एव विपाकाः प्रदर्शिताः । १ विपाकत्रैविध्यं दूषयति - भूतेति । भूतगुणात् = पृथिव्यादिपञ्चमहाभूतगुणादित्यर्थः ।. २ ‘ प्रतिरसं पाकः ' इति पूर्वोक्त-पक्षं स्थापयति - मधुर इति । ३ उखागतं = स्थालीगतमित्यर्थः । ४ प्रकीर्णाः = भूमावुप्ताः । ५ उत्तरकाले = प्ररोहकाले । ६ “ त्रिषष्टिः स्यादसंख्येया रसानुरसकल्पनात् । रसास्तरतमाभ्यान्तु संख्यामति-पतन्ति हि ॥ ” इति चरकोक्त्या रसानुरसकल्पनेन रसानामपरिसंख्येयत्वादनवस्थिति-रिति पृथिव्यादीनां बोध्यम् । ७ स्वाभिमतं विपाकप्रकारद्वयं द्रढयति - आगम इति । ८ तस्मात् = गुरुत्वलघुत्वसाधर्म्येण द्वैविध्यात् । ९ निर्वर्तन्ते जायन्ते इत्यर्थः ॥ १० पृ-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 366
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहिता jaand eGangotri २०८ Digitized by Arya Samair [ अ ० ४० चतुर्णामपि सामग्यमिच्छन्त्यत्र विपश्चितः ॥ १३ ॥
तद् द्रव्यमात्मना किञ्चित्किञ्चिद्वीर्येण सेवितम् ।
किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ॥ १४ ॥
पोको नास्ति विना वीर्य्याद्वीर्य्यं नास्ति विना रसात् ।
रसो नास्ति विना द्रव्याद् द्र्व्यं श्रेष्ठतमं स्मृतम् ॥ १५ ॥
जन्म तु द्रव्यरसयोरन्योऽन्यापेक्षिकं स्मृतम् ।
अन्योऽन्यापेक्षिकं जन्म यथा स्याद् देह देहिनः ॥ १६ ॥
वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः ।
रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः १७ ॥
द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते च षड्रसाः ।
श्रेष्ठं द्रव्यमतो ज्ञेयं, शेषा भावास्तदाश्रयाः ॥ १८ ॥
अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः ।
आगमेनोपयोज्यानि भेषजानि विचक्षणैः ॥ १ ९ ॥
प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः ।
नौषधीर्हेतुभिर्विद्वान् परीक्षेत कथञ्चन ॥ २० ॥
सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरेचयेत् । थक्त्वदर्शिनां = ‘ द्रव्यं प्रधानं ' ' रसाः प्रधानाः ' इत्येवं द्वैतदर्शिनामित्यर्थः । १ साम-ग्र्यं = समुदायत्वम् । २ पूर्वोक्तमतभेदस्य समन्वयं कुर्वन् चतुर्णां प्राधान्यमभिद-धाति — तदिति । चरकेऽप्याह – “ किञ्चिद्रसेन कुरुते कर्म वीर्येण चापरम् । द्रव्यं गुणेन पाकेन प्रभावेण च किञ्चन ॥ ” इति । ३ रसादीनां द्रव्यकार्यत्वाद् द्रव्यस्य प्राधान्यं वक्ति - पाक इति । ४ द्रश्यमिति सामान्यत उक्तमपि तन्त्रान्तरोक्तमूलत्वगादीनां परिग्रहः कर्तव्यः । तद्यथा— “ मूलत्वक्सारनिर्यासनारम्वरसपल्लवाः । क्षीरं क्षारं फलं पुष्पं भस्म तैलानि कण्टकम् ॥ पत्राणि शृङ्गकन्दानि प्ररोहास्तूद्भिदादयः । द्रव्यशब्देन गृह्यन्ते जङ्गमाः पार्थिवास्तथा ॥ ” इति । ५ द्रव्यातिरिक्ता रसादयो भावा इत्यर्थः । आगमोक्त-गुणानां भेषजानां स्वबुध्या विचारनिषेधं निर्दिशति – अमीमांस्यानीति ६ । श्रमी-मांस्यानि = न विचार्याणीत्यर्थः । ७ आगमस्य प्रत्यक्षफलत्वेन बलीयस्त्वमाह - प्रत्यक्षेति । हिताहितभेदेन प्रत्य-क्षलक्षणफला औषधीर्न परीक्षेतेत्यर्थः । कुतो न ८ प्रसिद्धलक्षणफलमौषधं हेतुभिः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 367
पाठ पढ़ें पाठ छिपाएँ
। अ ० ४१ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् T तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ॥ २१ ॥
२० ९ इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यरसगुणवीर्यविपाकविज्ञानीयो नाम त ५३० विषय संख्या ५४ श्रागत पंजिका संख्या ४०/८/६ पुस्तकालय उत्कर्ष वाय I गुरुकुल कांगड़ी विश्वविद्यालय यं प्रार 18 MA 19728 MAR 1983 करं इ A21 / 18 2118316 पत्कर्ष 16 AUL 1972 बन्ध Harle परीक्षण 28 JUL 1973 म. पद-इव्यं स्य 7: 1 नि माः क्त मी-त्य • न विधाता VIGIL द्रव्यि यात् = क्यम् निर्दिशास -1 OCT 1974. A 20/6 19 MAR 1992 0614 TT स्था आयो उदा-णांश्च ६ उपचयकरं = वृद्धिकरमित्यर्थः । ७ आभ्यद्रव्यस्य लक्षणं गुणांश्चाभिदधाति - शीतेति । १४ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 368
पाठ पढ़ें पाठ छिपाएँ
nnai and eGangotri [ अ ० ४० " सुश्रुतसंहिता janaia Digitized by Arya Samaj Fou २०८ चतुर्णामपि सामग्यमिच्छन्त्यत्र विपश्चितः ॥ १३ ॥
सेवितम् वा ॥ १४ ॥
बना रसात् ।
स्मृतम् ॥ १५ ॥
म् ।
देहिनोः ॥ १६ ॥
: स्मृताः । STT: 11 299 11
ड्रसाः ।
ः ॥ १८ ॥
वितः ।
ः ॥ १ ९ ॥
1 २० ॥ 1 नामित्यर्थः । १. साम-चतुर्णां प्राधान्यमभिद-वीर्येण चापरम् । द्रव्यं द्रव्यकार्यत्वाद् द्रव्यस्य दीनां परिग्रहः कर्तव्यः । फलं पुष्पं भस्म तैलानि शब्देन गृह्यन्ते जङ्गमाः इत्यर्थः । ६ श्रागमोक्त नोमांस्यानीति । श्रमी-मांस्यानि = न विचार्याणीत्यर्थः । ७ आगमस्य प्रत्यक्षफलत्वेन बलीयस्त्वमाह - प्रत्यक्षेति । हिताहितभेदेन प्रत्य-क्षलक्षणफला औषधीर्न परीक्षेतेत्यर्थः । ८ प्रसिद्धलक्षणफलमौषधं हेतुभिः कुतो न CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 369
पाठ पढ़ें पाठ छिपाएँ
२० अ ० ४१ ] म. नद-स्य म । नि माः क्त " मी-त्य • न Digitized by Arya Samaj Foundation Chennai and eGangotri
सूत्रस्थानम् ।
तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ॥ २१ ॥
२० ९ इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यरसगुणवीर्यविपाकविज्ञानीयो नाम चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥
एकचत्वारिंशत्तमोऽध्यायः ।
अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
तत्र, पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद् द्रव्याभिनिर्वृत्तिः, उत्कर्षस्त्वभिव्यञ्जको भवति इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ॥ ३ ॥
तत्र, स्थूलसार सान्द्रमन्दस्थिरखर गुरुकठिनगन्ध बहुलमीषत्कषा-यं प्रायशो मधुरमिति पार्थिवम् । तत् स्थैर्य्यबलगौरवसङ्घातो पर्चय-करं विशेषतश्चाधोगतिस्वभावमिति ॥ ४ ॥
शीतस्तिमितस्निग्धमन्द्गुरुसरसान्द्रमृदुपिच्छिलं रसबहुलमी-षत्कषायाम्ललवणं मधुररसप्रायमाप्यम् । तत् स्नेहनह्लादनक्लेदन-बन्धनविष्यन्दनकरमिति ॥ ५ ॥
परीक्षणीयमित्यत श्राह — सहस्रेणेति । तस्माद् भेषजविषये वैद्यवरैः शास्त्रे एवास्था विधातव्या, न तु प्रतिकूलतर्फे इति भावः । द्रति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां चत्वारिंशत्तमोऽध्यायः । एकचत्वारिंशत्तमोऽध्यायः । १ द्रव्याणां पार्थिवत्वादिना प्रभेदा द्रव्यविशेषास्तेषां विज्ञानमधिकृत्य कृतोऽध्यायो द्रव्यविशेषविज्ञानीयस्तम् – तत्रेति । ३ समुदा-। २ द्रव्योत्पत्तिप्रकारमुपदिशति यात् = समवायात्, द्रव्याभिनिर्वृत्तिः = द्रव्योत्पत्तिः, उत्कर्षः = कस्य चित्तत्त्वस्याधि-क्यम् । ४ अभिव्यञ्जकः = परस्परमसादृश्यबोधकः । ५ पार्थिवद्रव्यस्य लक्षणं गुणांश्च निर्दिशति – तन्त्रेति । सारं = स्थिरांशम्, पाकादिभिः क्षयापचयरहितमित्यर्थः । ६ उपचयकरं = वृद्धिकरमित्यर्थः । ७ आप्यद्रव्यस्य लक्षणं गुणांश्चाभिदधाति - शीतेति । १४ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 370
पाठ पढ़ें पाठ छिपाएँ
२१० Digitized by Arya Sa सुश्रुतसंहितायां- hennai and eGangotri [ अ ० ४१ उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपगुणबहुलमी पद्म्लल-वणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसम् । तद्दहन-पचनदारणतापनप्रकाशनप्रभावर्णकरमिति ॥ ६ ॥
सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीपत्तिक्तं विशेषतः कषायमिति वायवीयम् । तद्वैशद्यलाघवग्लपनविरूक्ष विचौरणकर-मिति ॥ ७ ॥
श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदद्विविक्तमव्यक्तरसं शब्दव माकाशीयम् । तन्मार्दवशौषिर्य्यलाघवकरमिति ॥ ८ ॥
अनेन निदर्शनेन नानौषधीभूतं जगति किञ्चिद् द्रव्यमस्तीति कृत्वा तं तं युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्य्यगुणयुक्तानि द्रव्याणि कार्मुकाणि भवन्ति । तानि यदा कुर्वन्ति स कालः, यत्कु-र्वन्ति तत्कर्म, येन कुर्वन्ति तद्वीर्य्यं, यत्र कुर्वन्ति तदधिकरणं, यथा कुर्वन्ति स उपायः, यन्निष्पादयन्ति तत् फलमिति ॥ ९ ॥
तत्र, विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि, पृथिव्यापो गुर्व्यस्ता गुरुत्वादधो गच्छन्ति, तस्माद्विरेचनमधोगुणभूयिष्ठमनु-मानात् । वमनद्रव्याण्यग्निवायुगुणभूयिष्ठानि, अग्निवायू हि लघू, स्तिमितम् = आर्द्रम् । १ तैजसद्रव्यस्य लक्षणं गुणांश्चाचष्टे – उष्णेति । विशदम् = अपिच्छिलम् । २ वायवीयद्रव्यस्य लक्षणं गुणांश्चाह - सूक्ष्मेति । खरं - कर्कोटक-फलवत्खरस्पर्शम् । ३ विचारणं = मनसोऽनेकविकल्पकारणम् । ४ आकाशीयद्रव्य-स्य लक्षणं गुणांश्च दर्शयति - श्लक्ष्णेति । व्यवायि = विषमद्यवत्सकलं देहं व्याप्य पाकाय वर्तनम् । वक्ष्यति– “ व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते । ” इति । विविक्तं = पृथग्भूतम्, अव्यक्तरसं = मधुरादिरसविशेषानुपलभ्यमानम् । ५ निदर्श्यते विज्ञायते द्रव्याणां स्वभावोऽनेनेति निदर्शनं तेन, पूर्वोक्तेन शास्त्रेणे-त्यर्थः । नानौषधीभूतं, जगति अनौषधीभूतं किञ्चिद् द्रव्यं नास्तीति सम्बन्धः । संसा रेऽस्मिन् दृश्यमानं सर्वं द्रव्यजातं यथाऽवसरं पथ्यकरं भवतीति भावः । ६ युक्ति: विशेषं = तोयाग्निसंस्कार भावनामात्राऽऽदियोजनाविशेषम् । ७ कार्मुकाणि – कार्यक-राणि । कर्मणे प्रभवतीत्यर्थे ‘ कर्मण उकञ् ' इत्युकञ् । ८ यथा = येन प्रकारेण, स्वर • सकल्कश्वतशीतफाण्टघृततैललेह मोदकादिनेत्यर्थः । ९ विरेचनीयादिद्रव्याणां महाभूत-गुणतारतम्येन स्वकार्यकर्तृत्वमुपपादयति — तत्रेति । CC - 0. Gurukul Kangri Collection, Haridwar