सुश्रुत संहिता चौखम्बा — पृष्ठ 361–370

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 361–370

पृष्ठ 361

सुश्रुत संहिता चौखम्बा, पृष्ठ 361 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] I ७ ॥ ॥5 Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् भवन्ति चात्र ।

" रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः ।

तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावनं मृदु ॥ ११ ॥

चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् ।

अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् ॥ १२ ॥

स्वयं प्रवृत्तदोषस्य मृदुकोष्टस्य शोधनम् ।

भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् ॥ १३ ॥

व्याध्यादिषु तु मध्येषु काथस्याञ्जलिरिष्यते ।

विडा पदक चूर्ण देयः कल्कोऽर्क्षसम्मितः ॥ १४ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नाम एकोनचत्वारिंशोऽध्यायः ॥ ३ ९ ॥ । चत्वारिंशत्तमोऽध्यायः । २०३ अथातो द्रव्यरसगुणवीर्यविपाक विज्ञानीयमध्यायं व्याख्या-स्यामः ॥ ५ ॥

११ दुर्बलस्य वलवच्छोधनं निषेधते — रोग इति । १ प्रच्यावनं = विरेचनमि-त्यर्थः । २ अवस्थाविशेषेण दुर्बलेऽपि शोधनमुपदिशति – चल इति । ३ व्याध्य-• ग्निपुरुषेषु मध्यमवलेष्वौषधमात्रां निर्दिशति — व्याध्यादिष्विति । ४ श्रञ्जलिः = चत्वारि पलानि, षोडशतोलकानीत्यर्थः । ५ विडालपदकं = कर्षमितम्, एकतोलक-मित्यर्थः। ६ अक्षसम्मितः = कर्षसम्मित इत्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्या मे कोनचत्वारिंशोऽध्यायः । चत्वारिंशत्तमोऽध्यायः । ७ द्रव्यरसगुणवीर्यविपाकानां विज्ञानं विशिष्टं ज्ञानं, तदधिकृत्य कृतोऽध्यायो द्रव्यरसगुणवीर्यविपाकविज्ञानीयस्तम् । द्रव्यम् = औषधम्, रसः = मधुरादिः शीतोष्णस्निग्धरूक्षमन्दतीक्ष्णगुरुलघुपिच्छिलविशदश्लक्ष्णपरुषकठिनमृदुद्र ववसान्द्रस्थि- , गुणाः = रसरस्थूलसूक्ष्मा विंशतिः, वीर्यं – “ भूतप्रभावातिशयो द्रव्ये पाके रसे स्थितः । चिन्त्या-चिन्त्य किया हेतु धन्वन्तरेमृतम् ” ॥ यद् द्रव्यं परिणामकाले स्वाभाविकं । रसं परि-त्यज्य रसान्तरं भजते तत्र ' विपाक ' इतिसंज्ञेति डल्हणः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 362

सुश्रुत संहिता चौखम्बा, पृष्ठ 362 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Sa २०४ Digitized by Arya S पुतसंहितायां -ennai and eGangotri अ ० ४० यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

केचिदाचार्यां ब्रुवते - द्रव्यं प्रधानम् । कस्मात्? व्यवस्थितत्वात्, इह् खलु द्रव्यं व्यवस्थितं न रसादय; यथा - आमे फले ये रसाद. यस्ते पक्के न सन्ति । नित्यैत्वाच्च, नित्यं हि द्रव्यमनित्या गुणाः; यथा - कँल्कादिप्रविभागः, स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति । स्वजौत्यवस्थानाच्च यथा हि पार्थिवं द्रव्यमन्यभवं न गच्छत्येवं शेषाणि । पञ्चेन्द्रियग्रहणाच्च, पञ्चभिरिन्द्रियैर्गृह्यते द्रव्यं न रसादयः । आश्रयत्वाच्च, द्रव्यमाश्रिता रसायो भवन्ति । आर. म्भसामर्थ्याच्च, द्रव्याश्रित आरम्भ:, यथा- विदारिगन्धादिमाहृत्य सङ्क्षुद्य विपचेदित्येवमादिषु न रसादिष्वारम्भः । शास्त्रप्रामाण्याच्च, शास्त्रे हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा - मातुलुङ्गाग्निमन्थौ चेत्यादौ न रसादय उपदिश्यन्ते । क्रमापेक्षितत्वाच्च रसादीनां, रसा-दयो हि द्रव्यक्रममपेक्षन्ते, यथा - तरुण तरुणाः सम्पूर्ण सम्पूर्णा इति । एकदेशसाध्यत्वाच्च द्रव्याणामेकदेशेनापि व्याधयः साध्यन्ते, यथा — महावृक्षक्षीरेणेति । तस्माद् द्रव्यं प्रधानम् । द्रव्यलक्षणन्तु “ क्रियागुणवत् समवायिकारणम् ' इति ॥ ३ ॥

" नेत्याहुरन्ये । रसास्तु प्रधानम्, कस्मात्? आगमात्, आगमो १ तत्र प्रथमं सयुक्तिकं द्रव्यप्राधान्यं प्रतिपादयति – केचिदिति । २ व्यव स्थितत्वात् = स्वस्वगुणाभावेऽप्यवस्थानादित्यर्थः । ३ कालपरिणामेन रसाद्यन्यथा-भावेऽपि तद्रूपतयाऽवस्थितत्वान्नित्यत्वमितितात्पर्यम् । ४ कल्कादिरूपेण प्रविभक्तो द्रव्यसमूहः कल्कादिप्रविभागः । श्रादिशब्दात् स्वरसश्रुतशीतफाण्टानां परिग्रहः ५ स्वस्यां पार्थिवादिजाताववस्थितत्वादित्यर्थः ॥ ६ अन्यभावम् = आप्यादिजातिम्, शेषाणि = अवशिष्टान्याप्यादीनि । ७ द्रव्ये गृहीते तदाश्रया गुणा गृहीता भवन्ति, गुणाः = शब्दस्पर्शरूपरसगन्धाः । द्रव्ये शब्दोऽप्यस्ति, यथा पार्थिवादिद्रव्ये करकराऽऽदिशब्दः शब्दो “ भूमौ करकरा जले चुलुचुलुध्वनिः ” इत्याद्यनुसन्धेयम् ॥ ८ आश्रयत्वात् = समवायसम्बन्धेन रसा-दीनामधिष्ठानत्वात् । ९ आरम्भसामर्थ्यात् = श्राहरणकुट्टनादिकर्मार्हत्वात् । १० क्रियाश्च गुणाश्च सन्त्यस्मिन्निति क्रियागुणवत् । यत्समवेतं कार्यमुत्पद्यते । यथा - तन्तवः पटरय, घटस्य च मृत्कपालादिः । ११ रसप्राधान्ये एकीयमतं तत्समवायिकारणम् दर्शयति— CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 363

सुश्रुत संहिता चौखम्बा, पृष्ठ 363 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४० ] द-न्य , तु T-, 1 व यति -सूत्रस्थानम् । २०५ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri हि शास्त्रमुच्यते; शास्त्रे हि रसा अधिकृत:, यथा - रसायत्त आंहार इति, तस्मिंश्च प्राणाः । उपदेशाच्च, उपदिश्यन्ते हि रसाः, यश - मधुरा-स्ललवणा वातं शमयन्ति । अनुमानाच्च, रसेन ह्यनुमीयते द्रव्यं, यथा - मधुरमिति । ऋषिवचनाच्च, ऋषिवचनं वेदो यथा - किञ्चिदि-ज्यार्थं मधुरमाहरेदिति । तस्माद्रसाः प्रधानम् । रसेषु गुणसंज्ञा । रसलक्षणमन्यंत्रोपदेक्ष्यामः ॥ ४ ॥

नेत्याहुरन्ये । वीर्य्यं प्रधानमिति । कस्मात्? तद्वशेनौषधकर्मनि-पत्तेः । इहौषधकर्माण्यूर्ध्वाधोभागोभय भाग संशोधनसंशमनसङ्ग्रा-हकाग्निदीपनपोडनलेखन बृंहण रसायनवाजीकरणश्वयथुकरविलय-नदहनदारणमादनप्राणन्नविपप्रशमनानि वीर्य्यप्राधान्याद्भवन्ति । तच्च वीर्य्यं द्विविधमुष्णं शीतं च, अग्नीषोमीयत्वाज्जगतः । केचिदष्ट-विधमाहुः - शीतमुष्णं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति एतानि वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति । यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति, उष्णवो-नेत्याहुरिति । न द्रव्यं प्रधानमित्यर्थः । १ अधिकृताः = प्राधान्येनोपदिष्टा इत्यर्थः । २ मधुरं मधुररसप्रधानं द्रव्यमित्यर्थः । अत्र रसप्राधान्येन द्रव्यव्यपदेशाद्रसाः प्रधा-नमितिसारम् । ३ रसेषु = लुप्तादिनिर्देशाद् रसादिष्वित्यर्थः । ४ अन्यत्र रसविज्ञानीयेऽध्याये । ५ वीर्यप्राधान्ये एकीयमतं । निर्दिशति — नेत्याहुरिति । न - रसाः प्रधानमित्यर्थः । ६ वीर्यम् – “ शक्तिमात्रं तु वीर्य स्यादिति केचिद् बुधा विदुः । तन्मते द्रव्य-रसयोः पाकस्य च गुणस्य च ॥ मृद्वादेः स्वक्रियोत्पादे शक्तिवर्यमिति स्थितिः । मृद्वा-दयो गुणा ह्यष्टौ वीर्याणीत्यूचिरे परे ॥ यस्मात्सर्वगुणोत्कृष्टाः शक्त्युत्कर्षयुता अमी । व्यवहारोपयुक्ताश्च नेदृशास्त्वपरे गुणाः । तस्मान्न ते वीर्यंसंज्ञा इति शास्त्रविदां मतम् । अन्ये शीतोष्णभेदेन वीर्यं द्विविधमूचिरे ॥ अग्नीषोममयं विश्वं यत एतच्चरा-चरम् । ॥ ” इति । “ …………… वीर्यं तु क्रियते येन या क्रिया । नावीर्यं कुरुते किञ्चित्सर्वा वीर्यकृता क्रिया ॥ ” इति चरकोक्त्या रसादीनां वीर्यत्वं धर्मधर्मिणोरभेदात्समर्थनीयम् । येनेति करणे तृतीया । तेन कर्तुर्द्रव्यस्य वीर्यत्वं नाशङ्कनीयम् । ७ औषधकर्माणि दर्श--इहेति 1 ८ लेखनं = पत्तलीकरणम् । ९ दारादिना दहनं, गृध्रपुरीषादिना दारणं, मदिराऽऽदिना मत्तताकरणं मादनम् ।

पृष्ठ 364

सुश्रुत संहिता चौखम्बा, पृष्ठ 364 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहिताय jpai Digitized by Arya Samaj २०६ and eGangotri [ अ ० ४० र्यत्वात्, तथा कुलत्थः कषायः, कटुकः पलाण्डुः, स्नेहभावाच्च । मधुरश्चेक्षुरसो वातं वर्द्धयति, शीतवीर्यत्वात् । कटुका पिप्पली पित्तं शमयति, मृदुशीतवीर्यत्वात्, अम्लमामलकं लवणं सैन्धवञ्च । तिक्ता काकमाची पित्तं वर्द्धयति, उष्णवीर्यत्वात्, मधुरा मत्स्याश्चा कटुकं मूलकं श्लेष्माणं वर्द्धयति, स्निग्धवीर्यत्वात् । अलं श्लेष्मारणं शमयति, रूक्षवीर्यत्वात्, मधुरं क्षौद्रञ्च 1 । तदेतन्निदर्शन-मात्रमुक्तम् ॥ ५ ॥

भवन्ति चात्र ।

ये रसा वातशेंमना भवन्ति यदि तेषु वै ।

रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ॥ ६ ॥

ये रसाः पित्तशमना भवन्ति यदि तेषु वै ।

तैक्ष्णचौष्णच लघुताश्चैव न ते तत्कर्मकारिणः ॥ ७ ॥

ये रसाः श्लेष्मैशमना भवन्ति यदि तेषु वै ।

स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ॥ ८ ॥

तस्माद्वीर्यं प्रधानमिति ॥ ९ ॥

नेत्याहरन्ये । विपाकः प्रधानमिति । कस्मात्? समिध्या-विपाकत्वात् । इह सर्वद्रव्याण्यभ्यवहृतानि सम्यं मिथ्या विपक्कानि गुणं दोषं वा जनयन्ति । तत्रहुरन्ये - प्रतिरसं पाक इति । केचित्रिविधमिच्छन्ति-१ वातशमनाः = मधुराम्ललवणाः । २ पित्तशमनाः = मधुरतिक्तकषायाः ष्मशमनाः = कटुतिक्तकषायाः ॥ ३ इले-४ त्रिपाकप्राधान्यवादिमतं दर्शयति - नेति । ५ विपाको नाम - " जाठरेणा-ग्निना योगाद्यदुदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥ ” इति वाग्भटो तलक्षणः । ६ द्रव्यगुणानुरूपो निष्ठापाकः सम्यग्विपाकस्तद्विपरीतो मिथ्या-विपाकस्तस्य भावस्तस्मात् । ७ सम्यग् विपक्कानि गुणं, मिथ्याविपक्कानि दोषं च जनयन्तीत्यर्थः । यथा — सम्यग् विपक्कश्चित्रकोऽग्निसन्दीपनादिरूपं गुणं, मिथ्याविमको रुद्धमूत्रत्वादिरूपं दोषं च जनयतीत्याद्यवसेयम् । ८ पवििधविपाकवादिमतं दर्श-यति —– तत्राहुरिति । प्रतिरसं = रसं रसं प्रति पाक इत्यर्थः । षड्रसानां यथाक्रमं षड् विपाकाः भवन्तीति तत्सारम् । ९ त्रिविधविपाकवादिमतमुपन्यस्यति – केचिदिति । चरकेऽपि – “ कटुतिक्तकषा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 365

सुश्रुत संहिता चौखम्बा, पृष्ठ 365 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

-थं ते | -च नं अ ० ४० ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २०७ न सम्यक् भूतगुणादागमाच्चा-कटुकं चेति । तत्तु, मधुरमलं न्योऽम्लो विपाको नास्ति । पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात् । यद्येवं लवणोऽप्यन्यः पाको भविष्यति, श्लेष्मा हि विदुग्धो लवण-` तामुपैतीति । मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः । दृष्टान्तं चोपदिशन्ति — यथा तावत् चीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्रादयः प्रकोणः स्वभावमुत्तरकालेऽपि न परि-त्यजन्ति तद्वदिति । केचिद्वदन्ति - अबलवन्तो बलवतां वशमाया-न्तीति । एवमनवस्थितिः; तस्मादसिद्धान्त एषः । आगमे हि द्विविध एव पाको मधुरः कटुकश्च । तयोर्मधुराख्यो गुरुः, कटुकाख्यो लघु-रिति । तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाध-यिद् गुरुता लघुता च । पृथिव्यापश्च गुर्व्यः, शेषाणि लघूनि । तस्माद् द्विविध एव पाक इति ॥ १० ॥

भवन्ति चात्र ।

द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः ।

निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ॥ ११ ॥।

तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु ।

निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ॥ १२ ॥

“ पृथक्त्वदर्शिनामेप वादिनां वादसङ्ग्रहः । याणां विपाकः प्रायशः कटुः । अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ॥ ” इति कट्वम्लमधुरभेदेन त्रय एव विपाकाः प्रदर्शिताः । १ विपाकत्रैविध्यं दूषयति - भूतेति । भूतगुणात् = पृथिव्यादिपञ्चमहाभूतगुणादित्यर्थः ।. २ ‘ प्रतिरसं पाकः ' इति पूर्वोक्त-पक्षं स्थापयति - मधुर इति । ३ उखागतं = स्थालीगतमित्यर्थः । ४ प्रकीर्णाः = भूमावुप्ताः । ५ उत्तरकाले = प्ररोहकाले । ६ “ त्रिषष्टिः स्यादसंख्येया रसानुरसकल्पनात् । रसास्तरतमाभ्यान्तु संख्यामति-पतन्ति हि ॥ ” इति चरकोक्त्या रसानुरसकल्पनेन रसानामपरिसंख्येयत्वादनवस्थिति-रिति पृथिव्यादीनां बोध्यम् । ७ स्वाभिमतं विपाकप्रकारद्वयं द्रढयति - आगम इति । ८ तस्मात् = गुरुत्वलघुत्वसाधर्म्येण द्वैविध्यात् । ९ निर्वर्तन्ते जायन्ते इत्यर्थः ॥ १० पृ-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 366

सुश्रुत संहिता चौखम्बा, पृष्ठ 366 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहिता jaand eGangotri २०८ Digitized by Arya Samair [ अ ० ४० चतुर्णामपि सामग्यमिच्छन्त्यत्र विपश्चितः ॥ १३ ॥

तद् द्रव्यमात्मना किञ्चित्किञ्चिद्वीर्येण सेवितम् ।

किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ॥ १४ ॥

पोको नास्ति विना वीर्य्याद्वीर्य्यं नास्ति विना रसात् ।

रसो नास्ति विना द्रव्याद् द्र्व्यं श्रेष्ठतमं स्मृतम् ॥ १५ ॥

जन्म तु द्रव्यरसयोरन्योऽन्यापेक्षिकं स्मृतम् ।

अन्योऽन्यापेक्षिकं जन्म यथा स्याद् देह देहिनः ॥ १६ ॥

वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः ।

रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः १७ ॥

द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते च षड्रसाः ।

श्रेष्ठं द्रव्यमतो ज्ञेयं, शेषा भावास्तदाश्रयाः ॥ १८ ॥

अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः ।

आगमेनोपयोज्यानि भेषजानि विचक्षणैः ॥ १ ९ ॥

प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः ।

नौषधीर्हेतुभिर्विद्वान् परीक्षेत कथञ्चन ॥ २० ॥

सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरेचयेत् । थक्त्वदर्शिनां = ‘ द्रव्यं प्रधानं ' ' रसाः प्रधानाः ' इत्येवं द्वैतदर्शिनामित्यर्थः । १ साम-ग्र्यं = समुदायत्वम् । २ पूर्वोक्तमतभेदस्य समन्वयं कुर्वन् चतुर्णां प्राधान्यमभिद-धाति — तदिति । चरकेऽप्याह – “ किञ्चिद्रसेन कुरुते कर्म वीर्येण चापरम् । द्रव्यं गुणेन पाकेन प्रभावेण च किञ्चन ॥ ” इति । ३ रसादीनां द्रव्यकार्यत्वाद् द्रव्यस्य प्राधान्यं वक्ति - पाक इति । ४ द्रश्यमिति सामान्यत उक्तमपि तन्त्रान्तरोक्तमूलत्वगादीनां परिग्रहः कर्तव्यः । तद्यथा— “ मूलत्वक्सारनिर्यासनारम्वरसपल्लवाः । क्षीरं क्षारं फलं पुष्पं भस्म तैलानि कण्टकम् ॥ पत्राणि शृङ्गकन्दानि प्ररोहास्तूद्भिदादयः । द्रव्यशब्देन गृह्यन्ते जङ्गमाः पार्थिवास्तथा ॥ ” इति । ५ द्रव्यातिरिक्ता रसादयो भावा इत्यर्थः । आगमोक्त-गुणानां भेषजानां स्वबुध्या विचारनिषेधं निर्दिशति – अमीमांस्यानीति ६ । श्रमी-मांस्यानि = न विचार्याणीत्यर्थः । ७ आगमस्य प्रत्यक्षफलत्वेन बलीयस्त्वमाह - प्रत्यक्षेति । हिताहितभेदेन प्रत्य-क्षलक्षणफला औषधीर्न परीक्षेतेत्यर्थः । कुतो न ८ प्रसिद्धलक्षणफलमौषधं हेतुभिः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 367

सुश्रुत संहिता चौखम्बा, पृष्ठ 367 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

। अ ० ४१ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् T तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ॥ २१ ॥

२० ९ इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यरसगुणवीर्यविपाकविज्ञानीयो नाम त ५३० विषय संख्या ५४ श्रागत पंजिका संख्या ४०/८/६ पुस्तकालय उत्कर्ष‍ वाय I गुरुकुल कांगड़ी विश्वविद्यालय यं प्रार 18 MA 19728 MAR 1983 करं इ A21 / 18 2118316 पत्कर्ष 16 AUL 1972 बन्ध Harle परीक्षण 28 JUL 1973 म. पद-इव्यं स्य 7: 1 नि माः क्त मी-त्य • न विधाता VIGIL द्रव्यि यात् = क्यम् निर्दिशास -1 OCT 1974. A 20/6 19 MAR 1992 0614 TT स्था आयो उदा-णांश्च ६ उपचयकरं = वृद्धिकरमित्यर्थः । ७ आभ्यद्रव्यस्य लक्षणं गुणांश्चाभिदधाति - शीतेति । १४ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 368

सुश्रुत संहिता चौखम्बा, पृष्ठ 368 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

nnai and eGangotri [ अ ० ४० " सुश्रुतसंहिता janaia Digitized by Arya Samaj Fou २०८ चतुर्णामपि सामग्यमिच्छन्त्यत्र विपश्चितः ॥ १३ ॥

सेवितम् वा ॥ १४ ॥

बना रसात् ।

स्मृतम् ॥ १५ ॥

म् ।

देहिनोः ॥ १६ ॥

: स्मृताः । STT: 11 299 11

ड्रसाः ।

ः ॥ १८ ॥

वितः ।

ः ॥ १ ९ ॥

1 २० ॥ 1 नामित्यर्थः । १. साम-चतुर्णां प्राधान्यमभिद-वीर्येण चापरम् । द्रव्यं द्रव्यकार्यत्वाद् द्रव्यस्य दीनां परिग्रहः कर्तव्यः । फलं पुष्पं भस्म तैलानि शब्देन गृह्यन्ते जङ्गमाः इत्यर्थः । ६ श्रागमोक्त नोमांस्यानीति । श्रमी-मांस्यानि = न विचार्याणीत्यर्थः । ७ आगमस्य प्रत्यक्षफलत्वेन बलीयस्त्वमाह - प्रत्यक्षेति । हिताहितभेदेन प्रत्य-क्षलक्षणफला औषधीर्न परीक्षेतेत्यर्थः । ८ प्रसिद्धलक्षणफलमौषधं हेतुभिः कुतो न CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 369

सुश्रुत संहिता चौखम्बा, पृष्ठ 369 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२० अ ० ४१ ] म. नद-स्य म । नि माः क्त " मी-त्य • न Digitized by Arya Samaj Foundation Chennai and eGangotri

सूत्रस्थानम् ।

तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ॥ २१ ॥

२० ९ इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यरसगुणवीर्यविपाकविज्ञानीयो नाम चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥

एकचत्वारिंशत्तमोऽध्यायः ।

अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

तत्र, पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद् द्रव्याभिनिर्वृत्तिः, उत्कर्षस्त्वभिव्यञ्जको भवति इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ॥ ३ ॥

तत्र, स्थूलसार सान्द्रमन्दस्थिरखर गुरुकठिनगन्ध बहुलमीषत्कषा-यं प्रायशो मधुरमिति पार्थिवम् । तत् स्थैर्य्यबलगौरवसङ्घातो पर्चय-करं विशेषतश्चाधोगतिस्वभावमिति ॥ ४ ॥

शीतस्तिमितस्निग्धमन्द्गुरुसरसान्द्रमृदुपिच्छिलं रसबहुलमी-षत्कषायाम्ललवणं मधुररसप्रायमाप्यम् । तत् स्नेहनह्लादनक्लेदन-बन्धनविष्यन्दनकरमिति ॥ ५ ॥

परीक्षणीयमित्यत श्राह — सहस्रेणेति । तस्माद् भेषजविषये वैद्यवरैः शास्त्रे एवास्था विधातव्या, न तु प्रतिकूलतर्फे इति भावः । द्रति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां चत्वारिंशत्तमोऽध्यायः । एकचत्वारिंशत्तमोऽध्यायः । १ द्रव्याणां पार्थिवत्वादिना प्रभेदा द्रव्यविशेषास्तेषां विज्ञानमधिकृत्य कृतोऽध्यायो द्रव्यविशेषविज्ञानीयस्तम् – तत्रेति । ३ समुदा-। २ द्रव्योत्पत्तिप्रकारमुपदिशति यात् = समवायात्, द्रव्याभिनिर्वृत्तिः = द्रव्योत्पत्तिः, उत्कर्षः = कस्य चित्तत्त्वस्याधि-क्यम् । ४ अभिव्यञ्जकः = परस्परमसादृश्यबोधकः । ५ पार्थिवद्रव्यस्य लक्षणं गुणांश्च निर्दिशति – तन्त्रेति । सारं = स्थिरांशम्, पाकादिभिः क्षयापचयरहितमित्यर्थः । ६ उपचयकरं = वृद्धिकरमित्यर्थः । ७ आप्यद्रव्यस्य लक्षणं गुणांश्चाभिदधाति - शीतेति । १४ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 370

सुश्रुत संहिता चौखम्बा, पृष्ठ 370 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१० Digitized by Arya Sa सुश्रुतसंहितायां- hennai and eGangotri [ अ ० ४१ उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपगुणबहुलमी पद्म्लल-वणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसम् । तद्दहन-पचनदारणतापनप्रकाशनप्रभावर्णकरमिति ॥ ६ ॥

सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीपत्तिक्तं विशेषतः कषायमिति वायवीयम् । तद्वैशद्यलाघवग्लपनविरूक्ष विचौरणकर-मिति ॥ ७ ॥

श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदद्विविक्तमव्यक्तरसं शब्दव माकाशीयम् । तन्मार्दवशौषिर्य्यलाघवकरमिति ॥ ८ ॥

अनेन निदर्शनेन नानौषधीभूतं जगति किञ्चिद् द्रव्यमस्तीति कृत्वा तं तं युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्य्यगुणयुक्तानि द्रव्याणि कार्मुकाणि भवन्ति । तानि यदा कुर्वन्ति स कालः, यत्कु-र्वन्ति तत्कर्म, येन कुर्वन्ति तद्वीर्य्यं, यत्र कुर्वन्ति तदधिकरणं, यथा कुर्वन्ति स उपायः, यन्निष्पादयन्ति तत् फलमिति ॥ ९ ॥

तत्र, विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि, पृथिव्यापो गुर्व्यस्ता गुरुत्वादधो गच्छन्ति, तस्माद्विरेचनमधोगुणभूयिष्ठमनु-मानात् । वमनद्रव्याण्यग्निवायुगुणभूयिष्ठानि, अग्निवायू हि लघू, स्तिमितम् = आर्द्रम् । १ तैजसद्रव्यस्य लक्षणं गुणांश्चाचष्टे – उष्णेति । विशदम् = अपिच्छिलम् । २ वायवीयद्रव्यस्य लक्षणं गुणांश्चाह - सूक्ष्मेति । खरं - कर्कोटक-फलवत्खरस्पर्शम् । ३ विचारणं = मनसोऽनेकविकल्पकारणम् । ४ आकाशीयद्रव्य-स्य लक्षणं गुणांश्च दर्शयति - श्लक्ष्णेति । व्यवायि = विषमद्यवत्सकलं देहं व्याप्य पाकाय वर्तनम् । वक्ष्यति– “ व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते । ” इति । विविक्तं = पृथग्भूतम्, अव्यक्तरसं = मधुरादिरसविशेषानुपलभ्यमानम् । ५ निदर्श्यते विज्ञायते द्रव्याणां स्वभावोऽनेनेति निदर्शनं तेन, पूर्वोक्तेन शास्त्रेणे-त्यर्थः । नानौषधीभूतं, जगति अनौषधीभूतं किञ्चिद् द्रव्यं नास्तीति सम्बन्धः । संसा रेऽस्मिन् दृश्यमानं सर्वं द्रव्यजातं यथाऽवसरं पथ्यकरं भवतीति भावः । ६ युक्ति: विशेषं = तोयाग्निसंस्कार भावनामात्राऽऽदियोजनाविशेषम् । ७ कार्मुकाणि – कार्यक-राणि । कर्मणे प्रभवतीत्यर्थे ‘ कर्मण उकञ् ' इत्युकञ् । ८ यथा = येन प्रकारेण, स्वर • सकल्कश्वतशीतफाण्टघृततैललेह मोदकादिनेत्यर्थः । ९ विरेचनीयादिद्रव्याणां महाभूत-गुणतारतम्येन स्वकार्यकर्तृत्वमुपपादयति — तत्रेति । CC - 0. Gurukul Kangri Collection, Haridwar