सुश्रुत संहिता चौखम्बा — पृष्ठ 371–380
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 371–380
पृष्ठ 371
पाठ पढ़ें पाठ छिपाएँ
अ ० ४१ ] ३. तः [ -5. ते ने " क. य. । . क २० • २११ सूत्रस्थानम् । भवन्ति चात्र । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri तान्यूर्ध्वमुत्तिष्ठन्ति, तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम् ॥ उभयगुणभूयिष्ठमुभयतोभागम् लघुत्वांच्च । आकाशगुणभूयिष्टं संशमनम् साङ्ग्राहि कमनिलगुणभूयिष्ठम्, अनिलस्य शोषणात्मकत्वात् । दी-पनमग्निगुणभूयिष्ठं, ( तत्समानत्वात् ) । लेखनमनिलानलगुणभू-यिष्ठम् । बृंहणं पृथिव्यम्बुगुणभूयिष्ठम् । एवमौषधकर्माण्यनुमाना-त्साधयेत् ॥ १० ॥
भूतेजोवारिजैद्रव्यैः शमं याति समीरणः ।
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ॥ ११ ॥
खतेजोऽनिलजैः श्लेष्मा शममेति शरीरिणाम् ।
वियत्पवनजाताभ्यां वृद्धिमाप्नोति मारुतः ॥ १२ ॥
आग्नेयमेव यद् द्रव्यं तेन पित्तमुदीर्य्यते ।
वसुधाजलजाताभ्यां वलासः परिवर्द्धते ॥ १३
एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये विनिश्चितम् ।
. द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् ॥ १४ ॥
तत्र, य इमे गुणा वीर्य्यसंज्ञकाः शीतोष्णस्निग्धरूक्ष मृदुतीक्ष्ण-पिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ | शीतपिच्छिलावम्बुगुण-भूयिष्ठौ पृथिव्यम्बुगुणभूयिष्ठः स्नेहः, तोयाकाशगुणभूयिष्ठं १ शार्ङ्गधरे संशमनलक्षणम्– “ न शोधयति यद्दोषान् समान्नोदीरयत्यपि । समी-करोति क्रुद्धांश्च तत्संशमनमुच्यते ॥ ” इति । भावप्रकाशे साङ्ग्राहिकद्रव्यलक्षणम्--“ आग्नेयगुणभूयिष्ठात्तोयांशं परिशोध्य यत् । संगृह्णाति मलं यत्तु ग्राही शुण्ठथादयो यथा ॥ ” इति । उष्णग्राहकशीत ग्राहकभेदेन ग्राहकद्रव्यं द्विविधमाह - " यद्ं ग्रहण्यामामं सम्पाच्य वह्निं कृत्वा तत्रस्थं द्रवं च शोषयित्वा स्तम्भनं करोति तदुष्णग्राहकं ज्ञेयम् । यद् द्रव्यमतिसारादौ पक्कमलादिकं संस्तभ्य सङ्ग्रहं करोति तच्छीतग्राहकं ज्ञेयमेतद-निलगुणभूयिष्ठमित्यदोषः । ” इति । २ शार्ङ्गधरे लेखनलक्षणम्- “ धातून् मलान् वा देहस्य विशोष्योल्लेखयेच्च यत् । लेखनं तत् ” । ” इति चरकः । इति । ३ “ बृंहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम् ४ पार्थिवादिद्रव्याणां वातादिप्रकोपशमकत्वमाह - स्विति । ५ शीतोष्णादीनां
पृष्ठ 372
पाठ पढ़ें पाठ छिपाएँ
nai and eGangotri [ अ ० ४२ Sa सुश्रुतसंहिता ai २१२ Digitized by Arya Sama मृदुत्वम्, वायुगुणभूयिष्ठं रौक्ष्यम्, क्षितिसमीरणगुणभूयिष्ठं वैश-द्यम्, गुरुलेघुविपाकावुक्तगुणौ; तत्र, उष्णस्निग्धौ वातघ्नी, शीर मृदुपिच्छिलाः पित्तन्नाः, तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः, लघुपाकः श्लेष्मघ्नः, तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः, पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां स्निग्धरूतौ चक्षुषा, तीक्ष्णो सुखदुःखोत्पादनात्; गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च. लघुद्ध विण्मूत्रता मारुतकोपेन च । तत्र तुल्यगुणेषु भूतेषु रसवि-शेषमुपलक्षयेत् । तद्यथा - मधुरो गुरुश्च पार्थिवः, मधुरः स्निग्ध-श्चाप्य इति ॥ १५ ॥
भवति चात्र ।
गुणा य उक्ता द्रव्येषु शरीरेष्वपि ते तथा ।
स्थानंवृद्धिक्षयास्तस्माद् देहिनां द्रव्यहेतुकाः ॥ १६ ॥
इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यविशेषविज्ञानीयो नाम एकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥
द्विचत्वारिंशत्तमोऽध्यायः ।
अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरं परिवृद्धाः शब्द-पार्थिवत्वादिविवेचनं करोति - तन्नेति । इमे - वक्ष्यमाणाः । गुरुः कटुकाख्यो लघुरित्युक्त्या मधुरकटुकविपाकावित्यर्थः । १ तयोर्मधुराख्यो २ स्थानं दोषधातु-मलसाम्येनावस्थितिः, वृद्धिर्दोषादेर्वर्द्धनम्, क्षयो दोषादीनां ह्रासस्ते स्थानवृद्धिक्षयास्त-स्माद्देहिनां प्राणिनां द्रव्यहेतुकाः निर्जीवद्रव्यमूला भवन्तीत्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्य टिप्पन्यामेकचत्वारिंशत्तमोऽध्यायः । द्विचत्वारिंशत्तमोऽध्यायः । ३ रसविशेषस्य मधुरादेर्विज्ञानमधिकृत्य कृतोऽध्यायो रसविशेषविज्ञानीयस्तम् । ४ उत्तरे भूते परिवृद्धा उत्तरपरिवृद्धाः, एकेन एकैकस्याकाशादेर्गुणेनोत्तरपरिवृद्धा इत्ये. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 373
पाठ पढ़ें पाठ छिपाएँ
श्र ० ४२ ] ४२ ध. तु. ये २१३ सूत्रस्थानम् । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri स्पर्शरूपरसगन्धाः, तस्मादाप्यो रसः । परस्परसंसर्गात् । परस्परानुग्र- उत्कषाप-हात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्ति षोढा कर्षात्तु ग्रहणम् । स खल्वाप्यो रसः शेषैभूतसंसर्गाद्विदग्धः कषाय इति । विभज्यते । तद्यथा- मधुरोऽम्लो लवणः कटुकस्तिक्तः ते च भूयः परस्परसंसर्गात्त्रिपष्टिधा भिद्यन्ते । तत्र भूम्यम्बुगुण-बाहुल्यान्मधुरः, भूम्यग्निगुणबाहुल्यादम्लः " तोयाग्निगुणबाहुल्या-ल्लवणः, वाय्वग्निगुणबाहुल्यात्कटुकः, वाय्वाकाशगुणबाहुल्या-त्तिक्तः, पृथिव्यनिलगुणबाहुल्यात्कषाय इति ॥ ३ ॥
, तत्र, मधुराम्ललवणा वातघ्नाः, मधुरतिक्तकषायाः पित्तन्नाः कटुतिक्तकषायाः श्लेष्मन्नाः ॥ ४ ॥
तत्रं, वायु ( यो ) रात्मैवात्मा, पित्तमाग्नेयं श्लेष्मा सौम्य ॥ ६ इति ॥ ॥ || ५ || | त एते रसाः स्वयोनिवर्द्धना अन्ययोनिप्रशमनाश्च केचिदाहुरग्नीषोमीयत्वाज्जगतो रसा द्विविधाः -सौम्या आग्ने-याश्च । तत्र मधुरतिक्तकषायाः सौम्याः । कट्वम्ललवणा आग्नेयाः । तत्र मधुराम्ललवणाः स्निग्धा गुरवश्च, कटुतिक्तकषाया रूक्षा लघ-वश्च; सौम्याः शीता आग्नेयाश्चष्णाः ॥ ७ ॥
कोत्तरपरिवृद्धाः, एकैकस्मिन्नुत्तरे भूते पूर्वपूर्वभूतगुणेन प्रवृद्धाः । यथाऽऽकाशे - शब्दो गुणः, पवने - शब्दस्पर्शों, दहने - शब्दस्पर्शरूपाणि, तोये - शब्दस्पर्शरूपरसाः, भूमौ -शब्दस्पर्शरूपरसगन्धाः । तदाह मनुः- “ आद्याद्यस्य गुणन्त्वेषामवाप्नोति परः परः । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥ ” इति । १ परस्परसंसर्गाद् = अन्योन्यसं-योगात्, परस्परानुग्रहाद् = अन्योन्योपकारात्, परस्परानुप्रवेशाद् = अनुप्रवेशादेका-त्म्यीभावात् = हासः, उत्कर्षाद् ग्रहणम्, अपकर्षाद • । २ उत्कर्षः = वृद्धिः, अपकर्षः ग्रहणमिति तात्पर्यम् । ३ शॆषभूतानां तोयव्यतिरिक्तानां चतुर्णी भूतानां संसर्गो मिलनं तस्मात्, विदग्धः = पाकेन अवस्थाऽन्तरं गतः । ४ भेदप्रकारोऽयं रसभेदीये वक्ष्यते । ५ यस्य यस्य शेषभूतस्य संसर्गाद्यो यो रस उत्पद्यते तं तं दर्शयति – तत्रेत्या-दिना1 । श्रात्मैवात्मा कारणम्, वायुतो ६ दोषाणामुत्पत्तिकारणमाख्याति — तत्रेति वायूत्पत्तिरित्यर्थः । आग्नेयम् अग्नेः पित्तमुत्पद्यते इत्यर्थः । सौम्यः सोमा-` च्छ्लेष्मण उत्पत्तिरित्यर्थः । ७ येभ्यः कारणेभ्यो मधुरादयो रसा उत्पद्यन्ते । तानि वर्धयन्तीत्यर्थः । ८ सौम्याग्नेयभेदेन रसद्वैविध्यमभिदधाति -केचिदिति
पृष्ठ 374
पाठ पढ़ें पाठ छिपाएँ
२१४ Digitized by Arya Sarg संहितायां Ennai and eGangotri [ अ ० ४२ तत्र, शैत्यरौक्ष्यलाघव वैशद्यवैष्टम्भ्यगुणलक्षणो वायुः । तस्य समानयोनिः कषायो रसः । सोऽस्य शैत्याच्छैत्यं वर्द्धयति, रौक्ष्या द्रौक्ष्यं, लाघवाल्लाघवं, वैशद्याद्वैशद्यं, वैष्टम्भ्याद्वैष्टम्भ्यमिति ॥ ८ ॥
औष्ण्यतैक्ष्ण्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तम् । तस्य समा-नयोनिः कटुको रसः । सोऽस्यौष्ण्यादौष्ण्यं वर्द्धयति, तैक्ष्ण्यात्तैक्ष्ण्यं, रौक्ष्याद्रौक्ष्यं, लाघवाल्लाघवं वैशद्याद्वैशद्यमिति ॥ ९ ॥
• माधुर्य्यस्नेह गौरवशैत्यपैच्छिल्यगुणलक्षणः श्लेष्मा । तस्य समानयोनिर्मधुरो रसः । सोऽस्य माधुर्यान्माधुर्य्यं वर्द्धयति, स्नेहात स्नेहं, गौरवागौरवं, शैत्याच्छैत्यं, पैच्छिल्यात्पच्छिल्यमिति ॥ १० ॥
तस्यै पुनरन्ययोनिः कटुको रसः । स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्माधुर्य्यमभिभवति, रौक्ष्यात् स्नेहं लाघवाद्गौरवमौ-ण्याच्छेत्यं वैशद्यात्पच्छिल्यमिति । तदेतन्निदर्शनमात्रमुक्तम् ॥११ ॥
रर्संलक्षणमत ऊर्ध्वं वक्ष्यामः तत्र यः परितोषैमुत्पादयति श्रह्लादयति तर्पयति जीवयति मुखोपलेपं जनयति श्लेष्माणं चाभि-वर्द्धयति स मधुरः । यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धाञ्चोत्पादयति सोऽम्ल: । यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्दवं चापादयति स लवणः । यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकाञ्च स्रावयति स कटुकः । यो गले. चोपमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षच स तिक्तः । यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कर्षति पीडयति च स कषायः ॥ १२॥
रर्संगुणानत ऊर्ध्वं वक्ष्यामः - तत्र, मधुरो रसो रसरक्तमांस-मेदोऽस्थिमज्जौजःशुक्रस्तन्यवर्धनश्चक्षुष्यः केश्यो वर्ण्यो बलकृत्स-१ तस्य = श्लेष्मणः | २ प्रत्यनीकत्वाद् == विरुद्धत्वात् । ३ अभिभवति = नाश-यतीत्यर्थः । ४ षड्रसानां लक्षणं प्रतिपादयति – रसेति ॥ ५ परितोषं = भोजना-वसरे परितुष्टिम् ६ मुखोपलेपं = मुखमलवृद्धिम् । ७ दन्तहर्षं = दन्तकुण्ठताम् । ८ चोषं = चूषणवदाकर्षणम् । ९ सेवितस्य मधुररसस्य गुणकर्माणि निर्दिशति-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 375
पाठ पढ़ें पाठ छिपाएँ
४२ या. ८ ॥ मा. स्य त् ० || त् २१ ॥ ति न-गं च त न न. श ना-। -अ ० ४२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् २१५ स्य न्धानः शोणितरसप्रसादनो बालवृद्धक्षतक्षीणहितः षट्पदपिपीलि- कृमिक-कानामिष्टतमस्तृष्णामूर्च्छादा प्रशमनः पडिन्द्रियप्रसादनः कासश्वा-फकरश्चेति । सं एवं गुणोऽप्येक एवात्यर्थमासेव्यमानः, तथा-सालसकवमथुवदनमाधुर्यश्वरोपघातकृमि गलगण्डानापादयति जनयति ॥ १३ ॥
यं, ऽर्बुदश्लीपदबस्तिगुदोपलेपाभिष्यन्दप्रभृतीन् अम्लो जरणः पाचनो दीपनः पवननिग्रहोऽनुलोमनः कोष्ठवि-दाही बहिश्शीतः क्लेद्नः प्रायशो हृद्यश्चेति । स संवेजन एवंगुणोऽप्येक कफवि-एवात्यर्थमुपसेव्यमानो दन्तहर्षनयनसम्मीलनरोमं लयनशरीरशैथिल्यान्यापादयति, तथा क्षताभिहतद्ग्धदष्टभग्नशून- पाचय-रुग्ण प्रच्युतावमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि त्याग्नेयस्वभावात् परिदहति, कण्ठमुरो हृदयश्चेति ॥ १४ ॥
वैणः संशोधनः पाचनो विश्लेषणः क्लेदनः शैथिल्यकृदुष्णः सर्वरसप्रत्यनीको मार्गविशोधनः सर्वशरीरावयवमार्दवकरश्चेति । स एवंगुणोऽप्येक एवात्यर्थमासेव्यमानो गात्रकण्डू को शोफवैवर्ण्य-पुंस्त्वोपघातेन्द्रियोपतापमुखाचिपाकरक्तपित्तवातशोणिताम्लिकाप्रभृ-तीनापादयति ॥ १५ ॥
कैटुको दीपनः पाचनो रोचनः शोधनः स्थौल्यालस्यकफ-कृमिविषकुष्ठकण्डूपशमनः सन्धिबन्धविच्छेदनोऽवसादनः ” स्तन्य-शुक्रमेदसामुपहन्ता चेति । स एवंगुणोऽप्येक एवात्यर्थमुपसेव्य-मानो भ्रममद्गलताल्वोष्ठशोषदाहसन्तापवलविघातकम्पतोदभेद-रसगुणानिति । १ अतिसेविते मधुरे दोषमभिधत्ते - स इति । इत्या-२ अम्लरसस्य गुणकर्माणि श्रतिसेवितस्य तस्य दोषांश्चाख्याति -अम्ल दिना । ३ रोमसंवेजनं = रोमाञ्चम् । ४ रुग्णं = वक्रीभूतम्, प्रच्युतं = स्वस्थानाद् बिश्लिष्टम्, अवमूत्रितं = मूत्रविषाणां जन्तूनां मूत्रेण दूषितम्, दोषांश्च विसर्पितं वक्ति = स्पर्शविषज- — लवण " तुस्पृष्टम् । ५ लवणरसस्य गुणकर्माणि अतिसेवितस्य तस्य = सर्वरसो-इति । ६ क्लेदनः - व्रणस्य क्लेदोत्पादक इत्यर्थः । ७ सर्वरसप्रत्यनीकः ८ कोठः पिडकाः । च्छेदक इत्यर्थः । मार्गविशोधनः = मलमूत्रव्रणादिमार्गविशोधकः । १० अव-९ कटुकरसस्य गुणकर्माणि अतिसेवितस्य तस्य दोषांश्च ब्रवीति – कटुक इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 376
पाठ पढ़ें पाठ छिपाएँ
२१६ Digitized by Arya S सुश्रुतसंहिता ennai and eGangotri [ अ ० ४२ कृत् करचरणपार्श्वपृष्ठप्रभृतिषु च वातशूलानापाद्यति ॥ १६ ॥
तिक्तश्छेदनो रोचनो दीपनः शोधनः कण्डूकोठतृष्णामूर्च्छाज्य-रप्रशमनः स्तन्यशोधनो विण्मूत्र क्लेद मेदोवसा पूयोपशोषणश्चेति । स एवंगुणोऽप्येक एवात्यर्थं मुपसेव्यमानो गात्रमन्यास्तम्भाक्षेपका-दित शिरश्शूल भ्रम तोदभेदच्छेदास्य वैरस्यान्यापादयति ॥ १७ ॥
कषयः सङ्ग्राहको रोपणः स्तम्भनः शोधनो लेखनः शोषणः पीडनः क्लेदोपशोषणश्चेति । स एवंगुणोऽप्येक एवात्यर्थमुपसेव्य-मानो हृत्पीडाऽऽस्यशोषोद्राध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचु-मैचुमायनाकुञ्चनाक्षेपणप्रभृतीञ्जनयति ॥ १८ ॥
अतः सर्वेषामेव द्रव्याण्युपदेक्ष्यामः । तद्यथा - काकोल्यादिः क्षीरघृतवसामज्जशालिषष्टिकयवगोधूममापशृङ्गाटक कसें रुकन्त्रपुस-र्वारुककर्का रुकालाबुकालिन्दकतकगिलो ड्यपियालपुष्करवीजकाश्म-मधूकद्राक्षाखर्जूरराजादनतालनालिकेरेक्षुविकारबलाऽतिबलाऽऽ-त्मगुप्ताविदारीपयस्यागोक्षुरकक्षीरमोरटमधूलिकाकूष्माण्डप्रभृतीनि समासेन मधुरो वर्गः ॥ १ ९ ॥ दाडिमामलकमातुलुङ्गाम्रातककपित्थकर मर्द बदरको प्राचीना-मलकतिन्तिडीककोशाम्रकभव्यपारावतवेत्रफललकुचाम्लवेतसदन्त-सादनः = अनुत्साहोत्पादकः । १ तिक्तरसस्य गुणकर्माणि अतिसेवितस्य तस्य दोषांश्च दर्शयति — तिक्त इति । २ कषायरसस्य गुणकर्माणि प्रतिसेवितस्य तस्य दोषांश्चा-. चष्टे - कषाय इति । ३ लेखनः= व्रणगतदुष्टमांसस्योच्छेदकः । ४ चुमचुमायनं = सर्षपकल्कलिप्तस्येव त्वचि वेदनाविशेषः । ५ त्रपुसं = लोके ‘ खीरा ' इति ख्यातम् रुकं = कर्कटी, ‘ तरबूज ’ इत्यन्ये, कर्कारुकं = लोके ' खरबूज ' इति प्रसिद्धम्, एव-कर्कारुभेदम्, लोके ‘ फूंट ’ इति ख्यातम्, कतकः = निर्मलीबीजम्, गिलोड्यः , = कालक • लकः शितोड्यकन्दः प्रावृड्जातः शणपत्रिकाऽऽकारो वल्लीयुक्तो गिल्लोठीति लोके इति टल्हणः । गिलं मधुजम्बीरफलम्, उब्धं जिज्ञासितव्यमिति श्रीहाराणचन्द्रः । कालिन्दं = ६ दन्तशठः = जम्बीरः, सुराऽऽदीनां लक्षणं शार्ङ्गघरे– “ परिपक्वान्नसन्धानसमुत्पन्नां सुरां जगुः । कन्दमूलफलादीनि सस्नेहलवणानि च ॥ यत्र द्रवेऽभिषूयन्ते तच्छ्रुक्तमभि-थीयते । तुषाम्बुसन्धितं ज्ञेयमामैर्विदलितैर्यवैः ॥ यवैस्तु निस्तुषैः पक्वैः सौवीरं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 377
पाठ पढ़ें पाठ छिपाएँ
ध T-= 5 II २ अ ० ४२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २१७ शठदद्धितक्रसुराशुक्तसौवीरकतुपोदकधान्याम्लप्रभृतीनि समासेना-म्लो वर्गः ॥ २० ॥
सैन्धवसौवर्चलविड पाये रोमक सामुद्रकपवित्र मयवक्षारोपरप्र-सूतसुवर्चिकाप्रभृतीनि समासेन लवणो वर्गः ॥ २१ ॥
पिप्पल्यादिः सुरसाऽऽदिः शिग्रुमधुशिग्रुमूल कलशुनसुमुखशीत-शीतशिवकुष्ठदेवदारुहरेणुकावल्गुजफल चण्डागुग्गुलुमुस्त लाङ्गलकी-शुकनासापीलुप्रभृतीनि सालसारादिश्च प्रायशः कटुको वर्गः ॥२२ ॥
आरग्वधादिर्गुडूच्यादिर्मण्डूकपर्णीवेत्रकैरी रहरिद्राद्वयेन्द्रयव-वरुणस्वादु कण्टकसप्तपर्णवृहतीद्वय शङ्खिनीद्रवन्तीत्रिवृत्कृतवेधनक-कोटककारवेल्लवार्त्ताक कुरीरकरवीर सुमनः शङ्खपुष्ण्यपामार्गत्रायमाणा-ऽशोकरोहिणीवैजयन्ती सुवर्चला पुनर्न वावृश्चिकालीज्योतिष्मतीप्रभृ-तीनि समासेन तितो वर्गः ॥ २३ ॥
न्यग्रोधादिरम्बष्टादिः प्रियवादी रोघ्रादित्रिफला शल्लकीज-म्ब्वाम्रबकुलतिन्दुकफलानि कतकशाकपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तीर्चिल्लीपालङ्कया-सुनिषण्णकप्रभृतीनि नीवारकादयो मुद्गादयश्च वैदलाः समासेन कषायो वर्गः ॥ २४ ॥
तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति । तद्यथा - पञ्चदश द्विकाः, विंशतिस्त्रिकाः, पञ्चदश चतुष्काः, षट् पञ्चकाः, एकशः षड्रसाः, एकः षट्क इति । तेषामन्यंत्र प्रयोजनानि वक्ष्यामः ॥ २५ ॥
सन्धितं भवेत् । कुल्माषधान्यमण्डादिसन्धितं काञ्चिकं विदुः ॥ ” इति । १ पाक्यम् = उद्भिदलवणः । ३ हरेणुका = निर्गुण्डी-। २ पक्त्रिमं = लवणकारद्वारापाकाभिनिर्वृत्तम् बीजम्, अवल्गुजः = सोमराजी, लोके ' बाकुची ' इति ख्यातः, चण्डा = अजमोदाकारचोरा-ख्यसुगन्धिद्रव्यम्, शणपुष्पीभेद इत्यन्ये । शुकनासा = श्योनाकः, लोके ‘ सोनापाठा ’ इति ख्याता वृश्चिकाली = लोके ' मेढासिङ्गी ' इति । ४ वेत्रकरीरः = वेत्राङ्कुरः । ५ ख्याता । ६ चिल्ली = वास्तुकः, पालङ्कया = पालकीति ख्याता । सुनिषण्णकः = सिरिवा-लिका । ७ अन्यत्र = उत्तरतन्त्रस्य त्रिषष्टितमेऽध्याये । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 378
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samair २१८ सुश्रुतसंहितायांlennai and eGangotri [ अ ० ४३ भवति चात्र ।
जग्धाः षडधिगच्छन्ति बलिनो वशतां रसाः ।
यथा प्रकुपिता दोषा वशं यान्ति बलीयसः ॥ २६ ॥।
इति सुश्रुतसंहितायां सूत्रस्थाने रसविशेषविज्ञानीयो नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥
त्रिचत्वारिंशत्तमोऽध्यायः ।
अथातो वमनद्रैव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ॥१ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
वमनद्रव्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति । अथ मदनपुष्पौणामातपपरिशुष्काणां चूर्णप्रकुञ्चं प्रत्यक्पुष्पासदा-पुष्पीनिम्बक पायाणामन्यतमेनालोड्य मधुरसैन्धवयुक्तां पुष्पचूर्ण-मात्रां पाययित्वा वामयेत् । मदनशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवणयु-क्तान्यभिप्रतप्तानि, मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् । निर्वृत्तानां वा नातितिपाण्डूनां कुशमूढावबद्धमृगोमयप्रलि-१ जग्धाः = भक्षिताः, एकैकशः कृत्वोपयुक्ता इति भावः । २ बलिनः = व्यक्तरसस्य । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां द्विचत्वारिंशत्तमोऽध्यायः । त्रिचत्वारिंशत्तमोऽध्यायः । ३ वमनद्रव्याणां विकल्पो विविधो योगस्तस्य विज्ञानमधिकृत्य कृतोऽध्यायो वमनद्र-व्यविकल्पविज्ञानीयस्तम् । ४ अत्र पुष्पशब्दः फले वर्तते, कारणे कार्योपचारादिति ढल्हणः । ५ प्रकुञ्चं = पलम्, चत्वारि तोलकानीत्यर्थः । मात्रेयं मध्यमा; उक्तं च-“ द्रव्यप्रमाणन्तु यदुक्तमम्रे मध्येषु यत्कोष्ठवयोबलेषु । तन्मूलमारम्भ भवेद् विकल्पस्तेषां विकल्पो ह्यधिकोनभावः ॥ ” इति । तस्माद् दोषबलादिकमवलोक्य निर्दिष्टमात्राया न्यूना-धिक्यं कार्यम् । ६ ‘ आमे फले शलाङः स्यात् ' इत्यमरः । ७ पक्कमदनफलानां तृतीयं प्रधानं योगं निर्दिशति – निर्वृत्तानामिति । निर्वृत्तानां = पक्कानामित्यर्थः । ८ कुशविरचितपुटकः कुशमूढ इत्युच्यते, " कुशपुटे बद्ध्वा " इति दृढक्लः ॥ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 379
पाठ पढ़ें पाठ छिपाएँ
३ अ ० ४३ ] २ ॥ द-TDigitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २१ ९ प्तानां यवतुषमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलैपिप्पलीरुद्धृत्यात शोषयेत् । तासां दधिमधुपलैलवि-मृदितपरिशुष्काणांसुभाजनस्थानामन्तर्नखमुष्टिमुष्णे यष्टीमधुक-कषाये कोविदारादीनामन्यतमे वा कषाये प्रमृद्य रात्रिपर्यपितं मधु-सैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्मुखः प्राङ्मुखमातुरं पाययेद-नेन मन्त्रेणाभिमन्त्रय-“ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानलानिलाः । ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते ॥ रसायनमिवर्षीणां देवानाममृतं यथा । सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥ " विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्रधिषु । प्रवर्त्तमाने वा दोषे पिप्पलीवचागौरसर्षपकल्कोन्मित्रैः सलवणैस्तुषाम्बुभिः पुनः पुनः प्रवर्तयेदासम्यग्वान्तलक्षणादिति । मर्दनफलमज्जचूण वा तत्काथपरिभावितं मदनफलकषायेण; मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्रयुक्तां, मदनफल-मज्जसिद्धं वा पयः, मदनफलमज्जसिद्धेन वा पयसा यवागूम्, अधोभागासृकूपित्तहृद्दाह्योः; मदनफलमज्जसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छा तमकेषु । मदनफलमज्जरसं भल्लातकस्नेहवदादाय फाणितीभूतं लेहयेत् । श्रातपपरिशुष्कं वा तमेव जीवन्तीकषायेण पित्ते कफस्थानगते । मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रतीवापं, तच्चूर्णं वा निम्बरूपि-काकषाययोरन्यतरेण सन्तर्पणकफजव्याधिहरं, मदनफलमज्जचूर्णं १ मदनफलबीजानीत्यर्थः । २ पललं = तिलचूर्णम् । ३ अन्तर्नखा मुष्टिरन्तर्नखमुष्टिः, अन्तःस्थितेन मुष्टिना यावद् गृह्यते तावन्मानमित्यर्थः । तोलकपरिमाणमिति भावः । अत्र “ यावद्वा साधु मन्येत ” इति चरकोक्तमपि ध्येयम् । ४ द्वयोः श्लोकयोरेकमन्त्रत-चैकवचनम् । ५ सम्यग्वान्तलक्षणमाह चरकः– “ पित्तान्तमिष्टं वमनं तथोर्ध्वम् ” इति ॥ ६ दुर्वमनबहुदोषविषययोगं दर्शयति - मदनेति । ७ सन्तानिकां = सरभित्यर्थः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 380
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya २२० सुश्रुतसंहितायां anai and eGangotri [ अ ० ४३
वा मधुक्काश्मर्यद्राक्षाकषायेण । मदनफलविधानंमुक्तम् ॥ ३ ॥
जीमूतक कुसुमचूर्णं पूर्ववदेव क्षीरेण, निर्वृत्तेषु क्षीरयवागूं, रोमशेषु सन्तानिकाम्, अरोमशेषु दध्युत्तरं, हरितपाण्डुषु दधि तत्क षायसंसृष्टां वा सुरां, कफारोचककासश्वासपाण्डुरोगयक्ष्मसु । पर्याग-तेषु मदनफलमज्जवदुपयोगः ॥ ४ ॥
तद्वदेव कुटजफलविधानम् ॥ ५ ॥
कृतवेधनानामप्येष एव कल्पः ॥ ६ ॥
इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत् । एवं क्षीरेण, कासश्वासच्छर्दि-कफरोगेषूपयोगः ॥ ७ ॥
धौमार्गवस्यापि मदनफलमज्जवदुपयोगः । विशेषतस्तु गरगु-ल्मोदरकासश्वासश्लेष्मामयेषु वायौ च कफस्थानगते ॥ ८ ॥
कृतवेर्धनफलपिप्पलीनां वमनद्रव्यकषायपरिपीतानां बहुराश्चू-र्णमुत्पलादिषु दत्तमाघ्रातं वामयति, तत्त्वनवबद्धदोषेषु यवागूमाक-ण्ठात्पीतवत्सु च विदध्यात् । वमनविरेचनशिरोविरेचनद्रव्या-ण्येवं वा प्रधानतमानि भवन्ति ॥ ९ ॥
भवतश्चात्र ।
वमनद्रव्ययोगाणां दिगियं सम्प्रकीत्तिता ।
तां विभर्ज्यं यथाव्याधि कालशक्तिविनिश्चयात् ॥ १० ॥
कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान् । १ त्रिंशद्योगविधानमित्यर्थः । २ मदनफलस्य पश्चाद् वमनीयजीमूतककल्पमुपदि-शति — जीमूतकेति । जीमूतकः = देवदाली । ३ कृतवेधनानां = कोशातकीनाम् । ४ इक्ष्वाकुः = कटुकालावूः । ५ धामार्गवः = पीतपुष्पकटुघोषकः, लोके ‘ कड़वी तरोई ' इति ख्यातः । ६ कृतवेधनः = श्वेतपुष्पकटुकोशातकी । ७ परिपीतानां = भावितानाम् । वमनद्रव्याणि कषायभावनयैव विशेषेण गुणवन्ति भवन्ति । तदाह चरकः– “ भूयश्चैषां बलाधानं कार्यं स्वरसभावनैः । सुभावितं ह्यल्पमपि. द्रव्यं स्याद् बहुकर्मकृत् । स्वरसैस्तुल्यवीर्यैर्वा तस्माद् द्रव्याणि भावयेत् ॥ ” इति ।. ८ अनवबद्धदोषेषु = अतिकुपितदोषेषु पुरुषेष्वित्यर्थः । ९ विभज्य = विविच्य, ।‘वमना-CC - 0. Gurukul Kangri Collection, Haridwar