सुश्रुत संहिता चौखम्बा — पृष्ठ 371–380

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 371–380

पृष्ठ 371

सुश्रुत संहिता चौखम्बा, पृष्ठ 371 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४१ ] ३. तः [ -5. ते ने " क. य. । . क २० • २११ सूत्रस्थानम् । भवन्ति चात्र । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri तान्यूर्ध्वमुत्तिष्ठन्ति, तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम् ॥ उभयगुणभूयिष्ठमुभयतोभागम् लघुत्वांच्च । आकाशगुणभूयिष्टं संशमनम् साङ्ग्राहि कमनिलगुणभूयिष्ठम्, अनिलस्य शोषणात्मकत्वात् । दी-पनमग्निगुणभूयिष्ठं, ( तत्समानत्वात् ) । लेखनमनिलानलगुणभू-यिष्ठम् । बृंहणं पृथिव्यम्बुगुणभूयिष्ठम् । एवमौषधकर्माण्यनुमाना-त्साधयेत् ॥ १० ॥

भूतेजोवारिजैद्रव्यैः शमं याति समीरणः ।

भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ॥ ११ ॥

खतेजोऽनिलजैः श्लेष्मा शममेति शरीरिणाम् ।

वियत्पवनजाताभ्यां वृद्धिमाप्नोति मारुतः ॥ १२ ॥

आग्नेयमेव यद् द्रव्यं तेन पित्तमुदीर्य्यते ।

वसुधाजलजाताभ्यां वलासः परिवर्द्धते ॥ १३

एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये विनिश्चितम् ।

. द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् ॥ १४ ॥

तत्र, य इमे गुणा वीर्य्यसंज्ञकाः शीतोष्णस्निग्धरूक्ष मृदुतीक्ष्ण-पिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ | शीतपिच्छिलावम्बुगुण-भूयिष्ठौ पृथिव्यम्बुगुणभूयिष्ठः स्नेहः, तोयाकाशगुणभूयिष्ठं १ शार्ङ्गधरे संशमनलक्षणम्– “ न शोधयति यद्दोषान् समान्नोदीरयत्यपि । समी-करोति क्रुद्धांश्च तत्संशमनमुच्यते ॥ ” इति । भावप्रकाशे साङ्ग्राहिकद्रव्यलक्षणम्--“ आग्नेयगुणभूयिष्ठात्तोयांशं परिशोध्य यत् । संगृह्णाति मलं यत्तु ग्राही शुण्ठथादयो यथा ॥ ” इति । उष्णग्राहकशीत ग्राहकभेदेन ग्राहकद्रव्यं द्विविधमाह - " यद्ं ग्रहण्यामामं सम्पाच्य वह्निं कृत्वा तत्रस्थं द्रवं च शोषयित्वा स्तम्भनं करोति तदुष्णग्राहकं ज्ञेयम् । यद् द्रव्यमतिसारादौ पक्कमलादिकं संस्तभ्य सङ्ग्रहं करोति तच्छीतग्राहकं ज्ञेयमेतद-निलगुणभूयिष्ठमित्यदोषः । ” इति । २ शार्ङ्गधरे लेखनलक्षणम्- “ धातून् मलान् वा देहस्य विशोष्योल्लेखयेच्च यत् । लेखनं तत् ” । ” इति चरकः । इति । ३ “ बृंहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम् ४ पार्थिवादिद्रव्याणां वातादिप्रकोपशमकत्वमाह - स्विति । ५ शीतोष्णादीनां

पृष्ठ 372

सुश्रुत संहिता चौखम्बा, पृष्ठ 372 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

nai and eGangotri [ अ ० ४२ Sa सुश्रुतसंहिता ai २१२ Digitized by Arya Sama मृदुत्वम्, वायुगुणभूयिष्ठं रौक्ष्यम्, क्षितिसमीरणगुणभूयिष्ठं वैश-द्यम्, गुरुलेघुविपाकावुक्तगुणौ; तत्र, उष्णस्निग्धौ वातघ्नी, शीर मृदुपिच्छिलाः पित्तन्नाः, तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः, लघुपाकः श्लेष्मघ्नः, तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः, पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां स्निग्धरूतौ चक्षुषा, तीक्ष्णो सुखदुःखोत्पादनात्; गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च. लघुद्ध विण्मूत्रता मारुतकोपेन च । तत्र तुल्यगुणेषु भूतेषु रसवि-शेषमुपलक्षयेत् । तद्यथा - मधुरो गुरुश्च पार्थिवः, मधुरः स्निग्ध-श्चाप्य इति ॥ १५ ॥

भवति चात्र ।

गुणा य उक्ता द्रव्येषु शरीरेष्वपि ते तथा ।

स्थानंवृद्धिक्षयास्तस्माद् देहिनां द्रव्यहेतुकाः ॥ १६ ॥

इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यविशेषविज्ञानीयो नाम एकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥

द्विचत्वारिंशत्तमोऽध्यायः ।

अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरं परिवृद्धाः शब्द-पार्थिवत्वादिविवेचनं करोति - तन्नेति । इमे - वक्ष्यमाणाः । गुरुः कटुकाख्यो लघुरित्युक्त्या मधुरकटुकविपाकावित्यर्थः । १ तयोर्मधुराख्यो २ स्थानं दोषधातु-मलसाम्येनावस्थितिः, वृद्धिर्दोषादेर्वर्द्धनम्, क्षयो दोषादीनां ह्रासस्ते स्थानवृद्धिक्षयास्त-स्माद्देहिनां प्राणिनां द्रव्यहेतुकाः निर्जीवद्रव्यमूला भवन्तीत्यर्थः । इति सुश्रुतसंहितायाः सुधाऽऽख्य टिप्पन्यामेकचत्वारिंशत्तमोऽध्यायः । द्विचत्वारिंशत्तमोऽध्यायः । ३ रसविशेषस्य मधुरादेर्विज्ञानमधिकृत्य कृतोऽध्यायो रसविशेषविज्ञानीयस्तम् । ४ उत्तरे भूते परिवृद्धा उत्तरपरिवृद्धाः, एकेन एकैकस्याकाशादेर्गुणेनोत्तरपरिवृद्धा इत्ये. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 373

सुश्रुत संहिता चौखम्बा, पृष्ठ 373 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्र ० ४२ ] ४२ ध. तु. ये २१३ सूत्रस्थानम् । CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri स्पर्शरूपरसगन्धाः, तस्मादाप्यो रसः । परस्परसंसर्गात् । परस्परानुग्र- उत्कषाप-हात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्ति षोढा कर्षात्तु ग्रहणम् । स खल्वाप्यो रसः शेषैभूतसंसर्गाद्विदग्धः कषाय इति । विभज्यते । तद्यथा- मधुरोऽम्लो लवणः कटुकस्तिक्तः ते च भूयः परस्परसंसर्गात्त्रिपष्टिधा भिद्यन्ते । तत्र भूम्यम्बुगुण-बाहुल्यान्मधुरः, भूम्यग्निगुणबाहुल्यादम्लः " तोयाग्निगुणबाहुल्या-ल्लवणः, वाय्वग्निगुणबाहुल्यात्कटुकः, वाय्वाकाशगुणबाहुल्या-त्तिक्तः, पृथिव्यनिलगुणबाहुल्यात्कषाय इति ॥ ३ ॥

, तत्र, मधुराम्ललवणा वातघ्नाः, मधुरतिक्तकषायाः पित्तन्नाः कटुतिक्तकषायाः श्लेष्मन्नाः ॥ ४ ॥

तत्रं, वायु ( यो ) रात्मैवात्मा, पित्तमाग्नेयं श्लेष्मा सौम्य ॥ ६ इति ॥ ॥ || ५ || | त एते रसाः स्वयोनिवर्द्धना अन्ययोनिप्रशमनाश्च केचिदाहुरग्नीषोमीयत्वाज्जगतो रसा द्विविधाः -सौम्या आग्ने-याश्च । तत्र मधुरतिक्तकषायाः सौम्याः । कट्वम्ललवणा आग्नेयाः । तत्र मधुराम्ललवणाः स्निग्धा गुरवश्च, कटुतिक्तकषाया रूक्षा लघ-वश्च; सौम्याः शीता आग्नेयाश्चष्णाः ॥ ७ ॥

कोत्तरपरिवृद्धाः, एकैकस्मिन्नुत्तरे भूते पूर्वपूर्वभूतगुणेन प्रवृद्धाः । यथाऽऽकाशे - शब्दो गुणः, पवने - शब्दस्पर्शों, दहने - शब्दस्पर्शरूपाणि, तोये - शब्दस्पर्शरूपरसाः, भूमौ -शब्दस्पर्शरूपरसगन्धाः । तदाह मनुः- “ आद्याद्यस्य गुणन्त्वेषामवाप्नोति परः परः । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥ ” इति । १ परस्परसंसर्गाद् = अन्योन्यसं-योगात्, परस्परानुग्रहाद् = अन्योन्योपकारात्, परस्परानुप्रवेशाद् = अनुप्रवेशादेका-त्म्यीभावात् = हासः, उत्कर्षाद् ग्रहणम्, अपकर्षाद • । २ उत्कर्षः = वृद्धिः, अपकर्षः ग्रहणमिति तात्पर्यम् । ३ शॆषभूतानां तोयव्यतिरिक्तानां चतुर्णी भूतानां संसर्गो मिलनं तस्मात्, विदग्धः = पाकेन अवस्थाऽन्तरं गतः । ४ भेदप्रकारोऽयं रसभेदीये वक्ष्यते । ५ यस्य यस्य शेषभूतस्य संसर्गाद्यो यो रस उत्पद्यते तं तं दर्शयति – तत्रेत्या-दिना1 । श्रात्मैवात्मा कारणम्, वायुतो ६ दोषाणामुत्पत्तिकारणमाख्याति — तत्रेति वायूत्पत्तिरित्यर्थः । आग्नेयम् अग्नेः पित्तमुत्पद्यते इत्यर्थः । सौम्यः सोमा-` च्छ्लेष्मण उत्पत्तिरित्यर्थः । ७ येभ्यः कारणेभ्यो मधुरादयो रसा उत्पद्यन्ते । तानि वर्धयन्तीत्यर्थः । ८ सौम्याग्नेयभेदेन रसद्वैविध्यमभिदधाति -केचिदिति

पृष्ठ 374

सुश्रुत संहिता चौखम्बा, पृष्ठ 374 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१४ Digitized by Arya Sarg संहितायां Ennai and eGangotri [ अ ० ४२ तत्र, शैत्यरौक्ष्यलाघव वैशद्यवैष्टम्भ्यगुणलक्षणो वायुः । तस्य समानयोनिः कषायो रसः । सोऽस्य शैत्याच्छैत्यं वर्द्धयति, रौक्ष्या द्रौक्ष्यं, लाघवाल्लाघवं, वैशद्याद्वैशद्यं, वैष्टम्भ्याद्वैष्टम्भ्यमिति ॥ ८ ॥

औष्ण्यतैक्ष्ण्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तम् । तस्य समा-नयोनिः कटुको रसः । सोऽस्यौष्ण्यादौष्ण्यं वर्द्धयति, तैक्ष्ण्यात्तैक्ष्ण्यं, रौक्ष्याद्रौक्ष्यं, लाघवाल्लाघवं वैशद्याद्वैशद्यमिति ॥ ९ ॥

• माधुर्य्यस्नेह गौरवशैत्यपैच्छिल्यगुणलक्षणः श्लेष्मा । तस्य समानयोनिर्मधुरो रसः । सोऽस्य माधुर्यान्माधुर्य्यं वर्द्धयति, स्नेहात स्नेहं, गौरवागौरवं, शैत्याच्छैत्यं, पैच्छिल्यात्पच्छिल्यमिति ॥ १० ॥

तस्यै पुनरन्ययोनिः कटुको रसः । स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्माधुर्य्यमभिभवति, रौक्ष्यात् स्नेहं लाघवाद्गौरवमौ-ण्याच्छेत्यं वैशद्यात्पच्छिल्यमिति । तदेतन्निदर्शनमात्रमुक्तम् ॥११ ॥

रर्संलक्षणमत ऊर्ध्वं वक्ष्यामः तत्र यः परितोषैमुत्पादयति श्रह्लादयति तर्पयति जीवयति मुखोपलेपं जनयति श्लेष्माणं चाभि-वर्द्धयति स मधुरः । यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धाञ्चोत्पादयति सोऽम्ल: । यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्दवं चापादयति स लवणः । यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकाञ्च स्रावयति स कटुकः । यो गले. चोपमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षच स तिक्तः । यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कर्षति पीडयति च स कषायः ॥ १२॥

रर्संगुणानत ऊर्ध्वं वक्ष्यामः - तत्र, मधुरो रसो रसरक्तमांस-मेदोऽस्थिमज्जौजःशुक्रस्तन्यवर्धनश्चक्षुष्यः केश्यो वर्ण्यो बलकृत्स-१ तस्य = श्लेष्मणः | २ प्रत्यनीकत्वाद् == विरुद्धत्वात् । ३ अभिभवति = नाश-यतीत्यर्थः । ४ षड्रसानां लक्षणं प्रतिपादयति – रसेति ॥ ५ परितोषं = भोजना-वसरे परितुष्टिम् ६ मुखोपलेपं = मुखमलवृद्धिम् । ७ दन्तहर्षं = दन्तकुण्ठताम् । ८ चोषं = चूषणवदाकर्षणम् । ९ सेवितस्य मधुररसस्य गुणकर्माणि निर्दिशति-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 375

सुश्रुत संहिता चौखम्बा, पृष्ठ 375 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२ या. ८ ॥ मा. स्य त् ० || त् २१ ॥ ति न-गं च त न न. श ना-। -अ ० ४२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् २१५ स्य न्धानः शोणितरसप्रसादनो बालवृद्धक्षतक्षीणहितः षट्पदपिपीलि- कृमिक-कानामिष्टतमस्तृष्णामूर्च्छादा प्रशमनः पडिन्द्रियप्रसादनः कासश्वा-फकरश्चेति । सं एवं गुणोऽप्येक एवात्यर्थमासेव्यमानः, तथा-सालसकवमथुवदनमाधुर्यश्वरोपघातकृमि गलगण्डानापादयति जनयति ॥ १३ ॥

यं, ऽर्बुदश्लीपदबस्तिगुदोपलेपाभिष्यन्दप्रभृतीन् अम्लो जरणः पाचनो दीपनः पवननिग्रहोऽनुलोमनः कोष्ठवि-दाही बहिश्शीतः क्लेद्नः प्रायशो हृद्यश्चेति । स संवेजन एवंगुणोऽप्येक कफवि-एवात्यर्थमुपसेव्यमानो दन्तहर्षनयनसम्मीलनरोमं लयनशरीरशैथिल्यान्यापादयति, तथा क्षताभिहतद्ग्धदष्टभग्नशून- पाचय-रुग्ण प्रच्युतावमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि त्याग्नेयस्वभावात् परिदहति, कण्ठमुरो हृदयश्चेति ॥ १४ ॥

वैणः संशोधनः पाचनो विश्लेषणः क्लेदनः शैथिल्यकृदुष्णः सर्वरसप्रत्यनीको मार्गविशोधनः सर्वशरीरावयवमार्दवकरश्चेति । स एवंगुणोऽप्येक एवात्यर्थमासेव्यमानो गात्रकण्डू को शोफवैवर्ण्य-पुंस्त्वोपघातेन्द्रियोपतापमुखाचिपाकरक्तपित्तवातशोणिताम्लिकाप्रभृ-तीनापादयति ॥ १५ ॥

कैटुको दीपनः पाचनो रोचनः शोधनः स्थौल्यालस्यकफ-कृमिविषकुष्ठकण्डूपशमनः सन्धिबन्धविच्छेदनोऽवसादनः ” स्तन्य-शुक्रमेदसामुपहन्ता चेति । स एवंगुणोऽप्येक एवात्यर्थमुपसेव्य-मानो भ्रममद्गलताल्वोष्ठशोषदाहसन्तापवलविघातकम्पतोदभेद-रसगुणानिति । १ अतिसेविते मधुरे दोषमभिधत्ते - स इति । इत्या-२ अम्लरसस्य गुणकर्माणि श्रतिसेवितस्य तस्य दोषांश्चाख्याति -अम्ल दिना । ३ रोमसंवेजनं = रोमाञ्चम् । ४ रुग्णं = वक्रीभूतम्, प्रच्युतं = स्वस्थानाद् बिश्लिष्टम्, अवमूत्रितं = मूत्रविषाणां जन्तूनां मूत्रेण दूषितम्, दोषांश्च विसर्पितं वक्ति = स्पर्शविषज- — लवण " तुस्पृष्टम् । ५ लवणरसस्य गुणकर्माणि अतिसेवितस्य तस्य = सर्वरसो-इति । ६ क्लेदनः - व्रणस्य क्लेदोत्पादक इत्यर्थः । ७ सर्वरसप्रत्यनीकः ८ कोठः पिडकाः । च्छेदक इत्यर्थः । मार्गविशोधनः = मलमूत्रव्रणादिमार्गविशोधकः । १० अव-९ कटुकरसस्य गुणकर्माणि अतिसेवितस्य तस्य दोषांश्च ब्रवीति – कटुक इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 376

सुश्रुत संहिता चौखम्बा, पृष्ठ 376 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१६ Digitized by Arya S सुश्रुतसंहिता ennai and eGangotri [ अ ० ४२ कृत् करचरणपार्श्वपृष्ठप्रभृतिषु च वातशूलानापाद्यति ॥ १६ ॥

तिक्तश्छेदनो रोचनो दीपनः शोधनः कण्डूकोठतृष्णामूर्च्छाज्य-रप्रशमनः स्तन्यशोधनो विण्मूत्र क्लेद मेदोवसा पूयोपशोषणश्चेति । स एवंगुणोऽप्येक एवात्यर्थं मुपसेव्यमानो गात्रमन्यास्तम्भाक्षेपका-दित शिरश्शूल भ्रम तोदभेदच्छेदास्य वैरस्यान्यापादयति ॥ १७ ॥

कषयः सङ्ग्राहको रोपणः स्तम्भनः शोधनो लेखनः शोषणः पीडनः क्लेदोपशोषणश्चेति । स एवंगुणोऽप्येक एवात्यर्थमुपसेव्य-मानो हृत्पीडाऽऽस्यशोषोद्राध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचु-मैचुमायनाकुञ्चनाक्षेपणप्रभृतीञ्जनयति ॥ १८ ॥

अतः सर्वेषामेव द्रव्याण्युपदेक्ष्यामः । तद्यथा - काकोल्यादिः क्षीरघृतवसामज्जशालिषष्टिकयवगोधूममापशृङ्गाटक कसें रुकन्त्रपुस-र्वारुककर्का रुकालाबुकालिन्दकतकगिलो ड्यपियालपुष्करवीजकाश्म-मधूकद्राक्षाखर्जूरराजादनतालनालिकेरेक्षुविकारबलाऽतिबलाऽऽ-त्मगुप्ताविदारीपयस्यागोक्षुरकक्षीरमोरटमधूलिकाकूष्माण्डप्रभृतीनि समासेन मधुरो वर्गः ॥ १ ९ ॥ दाडिमामलकमातुलुङ्गाम्रातककपित्थकर मर्द बदरको प्राचीना-मलकतिन्तिडीककोशाम्रकभव्यपारावतवेत्रफललकुचाम्लवेतसदन्त-सादनः = अनुत्साहोत्पादकः । १ तिक्तरसस्य गुणकर्माणि अतिसेवितस्य तस्य दोषांश्च दर्शयति — तिक्त इति । २ कषायरसस्य गुणकर्माणि प्रतिसेवितस्य तस्य दोषांश्चा-. चष्टे - कषाय इति । ३ लेखनः= व्रणगतदुष्टमांसस्योच्छेदकः । ४ चुमचुमायनं = सर्षपकल्कलिप्तस्येव त्वचि वेदनाविशेषः । ५ त्रपुसं = लोके ‘ खीरा ' इति ख्यातम् रुकं = कर्कटी, ‘ तरबूज ’ इत्यन्ये, कर्कारुकं = लोके ' खरबूज ' इति प्रसिद्धम्, एव-कर्कारुभेदम्, लोके ‘ फूंट ’ इति ख्यातम्, कतकः = निर्मलीबीजम्, गिलोड्यः , = कालक • लकः शितोड्यकन्दः प्रावृड्जातः शणपत्रिकाऽऽकारो वल्लीयुक्तो गिल्लोठीति लोके इति टल्हणः । गिलं मधुजम्बीरफलम्, उब्धं जिज्ञासितव्यमिति श्रीहाराणचन्द्रः । कालिन्दं = ६ दन्तशठः = जम्बीरः, सुराऽऽदीनां लक्षणं शार्ङ्गघरे– “ परिपक्वान्नसन्धानसमुत्पन्नां सुरां जगुः । कन्दमूलफलादीनि सस्नेहलवणानि च ॥ यत्र द्रवेऽभिषूयन्ते तच्छ्रुक्तमभि-थीयते । तुषाम्बुसन्धितं ज्ञेयमामैर्विदलितैर्यवैः ॥ यवैस्तु निस्तुषैः पक्वैः सौवीरं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 377

सुश्रुत संहिता चौखम्बा, पृष्ठ 377 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ध T-= 5 II २ अ ० ४२ ] Digitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २१७ शठदद्धितक्रसुराशुक्तसौवीरकतुपोदकधान्याम्लप्रभृतीनि समासेना-म्लो वर्गः ॥ २० ॥

सैन्धवसौवर्चलविड पाये रोमक सामुद्रकपवित्र मयवक्षारोपरप्र-सूतसुवर्चिकाप्रभृतीनि समासेन लवणो वर्गः ॥ २१ ॥

पिप्पल्यादिः सुरसाऽऽदिः शिग्रुमधुशिग्रुमूल कलशुनसुमुखशीत-शीतशिवकुष्ठदेवदारुहरेणुकावल्गुजफल चण्डागुग्गुलुमुस्त लाङ्गलकी-शुकनासापीलुप्रभृतीनि सालसारादिश्च प्रायशः कटुको वर्गः ॥२२ ॥

आरग्वधादिर्गुडूच्यादिर्मण्डूकपर्णीवेत्रकैरी रहरिद्राद्वयेन्द्रयव-वरुणस्वादु कण्टकसप्तपर्णवृहतीद्वय शङ्खिनीद्रवन्तीत्रिवृत्कृतवेधनक-कोटककारवेल्लवार्त्ताक कुरीरकरवीर सुमनः शङ्खपुष्ण्यपामार्गत्रायमाणा-ऽशोकरोहिणीवैजयन्ती सुवर्चला पुनर्न वावृश्चिकालीज्योतिष्मतीप्रभृ-तीनि समासेन तितो वर्गः ॥ २३ ॥

न्यग्रोधादिरम्बष्टादिः प्रियवादी रोघ्रादित्रिफला शल्लकीज-म्ब्वाम्रबकुलतिन्दुकफलानि कतकशाकपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तीर्चिल्लीपालङ्कया-सुनिषण्णकप्रभृतीनि नीवारकादयो मुद्गादयश्च वैदलाः समासेन कषायो वर्गः ॥ २४ ॥

तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति । तद्यथा - पञ्चदश द्विकाः, विंशतिस्त्रिकाः, पञ्चदश चतुष्काः, षट् पञ्चकाः, एकशः षड्रसाः, एकः षट्क इति । तेषामन्यंत्र प्रयोजनानि वक्ष्यामः ॥ २५ ॥

सन्धितं भवेत् । कुल्माषधान्यमण्डादिसन्धितं काञ्चिकं विदुः ॥ ” इति । १ पाक्यम् = उद्भिदलवणः । ३ हरेणुका = निर्गुण्डी-। २ पक्त्रिमं = लवणकारद्वारापाकाभिनिर्वृत्तम् बीजम्, अवल्गुजः = सोमराजी, लोके ' बाकुची ' इति ख्यातः, चण्डा = अजमोदाकारचोरा-ख्यसुगन्धिद्रव्यम्, शणपुष्पीभेद इत्यन्ये । शुकनासा = श्योनाकः, लोके ‘ सोनापाठा ’ इति ख्याता वृश्चिकाली = लोके ' मेढासिङ्गी ' इति । ४ वेत्रकरीरः = वेत्राङ्कुरः । ५ ख्याता । ६ चिल्ली = वास्तुकः, पालङ्कया = पालकीति ख्याता । सुनिषण्णकः = सिरिवा-लिका । ७ अन्यत्र = उत्तरतन्त्रस्य त्रिषष्टितमेऽध्याये । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 378

सुश्रुत संहिता चौखम्बा, पृष्ठ 378 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samair २१८ सुश्रुतसंहितायांlennai and eGangotri [ अ ० ४३ भवति चात्र ।

जग्धाः षडधिगच्छन्ति बलिनो वशतां रसाः ।

यथा प्रकुपिता दोषा वशं यान्ति बलीयसः ॥ २६ ॥।

इति सुश्रुतसंहितायां सूत्रस्थाने रसविशेषविज्ञानीयो नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥

त्रिचत्वारिंशत्तमोऽध्यायः ।

अथातो वमनद्रैव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

वमनद्रव्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति । अथ मदनपुष्पौणामातपपरिशुष्काणां चूर्णप्रकुञ्चं प्रत्यक्पुष्पासदा-पुष्पीनिम्बक पायाणामन्यतमेनालोड्य मधुरसैन्धवयुक्तां पुष्पचूर्ण-मात्रां पाययित्वा वामयेत् । मदनशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवणयु-क्तान्यभिप्रतप्तानि, मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् । निर्वृत्तानां वा नातितिपाण्डूनां कुशमूढावबद्धमृगोमयप्रलि-१ जग्धाः = भक्षिताः, एकैकशः कृत्वोपयुक्ता इति भावः । २ बलिनः = व्यक्तरसस्य । इति सुश्रुतसंहितायाः सुधाऽऽख्यटिप्पन्यां द्विचत्वारिंशत्तमोऽध्यायः । त्रिचत्वारिंशत्तमोऽध्यायः । ३ वमनद्रव्याणां विकल्पो विविधो योगस्तस्य विज्ञानमधिकृत्य कृतोऽध्यायो वमनद्र-व्यविकल्पविज्ञानीयस्तम् । ४ अत्र पुष्पशब्दः फले वर्तते, कारणे कार्योपचारादिति ढल्हणः । ५ प्रकुञ्चं = पलम्, चत्वारि तोलकानीत्यर्थः । मात्रेयं मध्यमा; उक्तं च-“ द्रव्यप्रमाणन्तु यदुक्तमम्रे मध्येषु यत्कोष्ठवयोबलेषु । तन्मूलमारम्भ भवेद् विकल्पस्तेषां विकल्पो ह्यधिकोनभावः ॥ ” इति । तस्माद् दोषबलादिकमवलोक्य निर्दिष्टमात्राया न्यूना-धिक्यं कार्यम् । ६ ‘ आमे फले शलाङः स्यात् ' इत्यमरः । ७ पक्कमदनफलानां तृतीयं प्रधानं योगं निर्दिशति – निर्वृत्तानामिति । निर्वृत्तानां = पक्कानामित्यर्थः । ८ कुशविरचितपुटकः कुशमूढ इत्युच्यते, " कुशपुटे बद्ध्वा " इति दृढक्लः ॥ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 379

सुश्रुत संहिता चौखम्बा, पृष्ठ 379 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ अ ० ४३ ] २ ॥ द-TDigitized by Arya Samaj Foundation Chennai and eGangotri सूत्रस्थानम् । २१ ९ प्तानां यवतुषमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलैपिप्पलीरुद्धृत्यात शोषयेत् । तासां दधिमधुपलैलवि-मृदितपरिशुष्काणांसुभाजनस्थानामन्तर्नखमुष्टिमुष्णे यष्टीमधुक-कषाये कोविदारादीनामन्यतमे वा कषाये प्रमृद्य रात्रिपर्यपितं मधु-सैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्मुखः प्राङ्मुखमातुरं पाययेद-नेन मन्त्रेणाभिमन्त्रय-“ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानलानिलाः । ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते ॥ रसायनमिवर्षीणां देवानाममृतं यथा । सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥ " विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्रधिषु । प्रवर्त्तमाने वा दोषे पिप्पलीवचागौरसर्षपकल्कोन्मित्रैः सलवणैस्तुषाम्बुभिः पुनः पुनः प्रवर्तयेदासम्यग्वान्तलक्षणादिति । मर्दनफलमज्जचूण वा तत्काथपरिभावितं मदनफलकषायेण; मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्रयुक्तां, मदनफल-मज्जसिद्धं वा पयः, मदनफलमज्जसिद्धेन वा पयसा यवागूम्, अधोभागासृकूपित्तहृद्दाह्योः; मदनफलमज्जसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छा तमकेषु । मदनफलमज्जरसं भल्लातकस्नेहवदादाय फाणितीभूतं लेहयेत् । श्रातपपरिशुष्कं वा तमेव जीवन्तीकषायेण पित्ते कफस्थानगते । मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रतीवापं, तच्चूर्णं वा निम्बरूपि-काकषाययोरन्यतरेण सन्तर्पणकफजव्याधिहरं, मदनफलमज्जचूर्णं १ मदनफलबीजानीत्यर्थः । २ पललं = तिलचूर्णम् । ३ अन्तर्नखा मुष्टिरन्तर्नखमुष्टिः, अन्तःस्थितेन मुष्टिना यावद् गृह्यते तावन्मानमित्यर्थः । तोलकपरिमाणमिति भावः । अत्र “ यावद्वा साधु मन्येत ” इति चरकोक्तमपि ध्येयम् । ४ द्वयोः श्लोकयोरेकमन्त्रत-चैकवचनम् । ५ सम्यग्वान्तलक्षणमाह चरकः– “ पित्तान्तमिष्टं वमनं तथोर्ध्वम् ” इति ॥ ६ दुर्वमनबहुदोषविषययोगं दर्शयति - मदनेति । ७ सन्तानिकां = सरभित्यर्थः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 380

सुश्रुत संहिता चौखम्बा, पृष्ठ 380 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya २२० सुश्रुतसंहितायां anai and eGangotri [ अ ० ४३

वा मधुक्काश्मर्यद्राक्षाकषायेण । मदनफलविधानंमुक्तम् ॥ ३ ॥

जीमूतक कुसुमचूर्णं पूर्ववदेव क्षीरेण, निर्वृत्तेषु क्षीरयवागूं, रोमशेषु सन्तानिकाम्, अरोमशेषु दध्युत्तरं, हरितपाण्डुषु दधि तत्क षायसंसृष्टां वा सुरां, कफारोचककासश्वासपाण्डुरोगयक्ष्मसु । पर्याग-तेषु मदनफलमज्जवदुपयोगः ॥ ४ ॥

तद्वदेव कुटजफलविधानम् ॥ ५ ॥

कृतवेधनानामप्येष एव कल्पः ॥ ६ ॥

इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत् । एवं क्षीरेण, कासश्वासच्छर्दि-कफरोगेषूपयोगः ॥ ७ ॥

धौमार्गवस्यापि मदनफलमज्जवदुपयोगः । विशेषतस्तु गरगु-ल्मोदरकासश्वासश्लेष्मामयेषु वायौ च कफस्थानगते ॥ ८ ॥

कृतवेर्धनफलपिप्पलीनां वमनद्रव्यकषायपरिपीतानां बहुराश्चू-र्णमुत्पलादिषु दत्तमाघ्रातं वामयति, तत्त्वनवबद्धदोषेषु यवागूमाक-ण्ठात्पीतवत्सु च विदध्यात् । वमनविरेचनशिरोविरेचनद्रव्या-ण्येवं वा प्रधानतमानि भवन्ति ॥ ९ ॥

भवतश्चात्र ।

वमनद्रव्ययोगाणां दिगियं सम्प्रकीत्तिता ।

तां विभर्ज्यं यथाव्याधि कालशक्तिविनिश्चयात् ॥ १० ॥

कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान् । १ त्रिंशद्योगविधानमित्यर्थः । २ मदनफलस्य पश्चाद् वमनीयजीमूतककल्पमुपदि-शति — जीमूतकेति । जीमूतकः = देवदाली । ३ कृतवेधनानां = कोशातकीनाम् । ४ इक्ष्वाकुः = कटुकालावूः । ५ धामार्गवः = पीतपुष्पकटुघोषकः, लोके ‘ कड़वी तरोई ' इति ख्यातः । ६ कृतवेधनः = श्वेतपुष्पकटुकोशातकी । ७ परिपीतानां = भावितानाम् । वमनद्रव्याणि कषायभावनयैव विशेषेण गुणवन्ति भवन्ति । तदाह चरकः– “ भूयश्चैषां बलाधानं कार्यं स्वरसभावनैः । सुभावितं ह्यल्पमपि. द्रव्यं स्याद् बहुकर्मकृत् । स्वरसैस्तुल्यवीर्यैर्वा तस्माद् द्रव्याणि भावयेत् ॥ ” इति ।. ८ अनवबद्धदोषेषु = अतिकुपितदोषेषु पुरुषेष्वित्यर्थः । ९ विभज्य = विविच्य, ।‘वमना-CC - 0. Gurukul Kangri Collection, Haridwar