सुश्रुत संहिता चौखम्बा — पृष्ठ 561–570
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 561–570
पृष्ठ 561
पाठ पढ़ें पाठ छिपाएँ
अ ० १६ ] Digitized by Arya S निदानस्थानम् hennai and eGangotri ४०१ दन्तमांसानि पच्यन्ते मुखं च परिपीडयते ॥ १ ९ ॥
यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः ।
दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् ॥ २० ॥
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ।
वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च ॥ २१ ॥
आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः ।
आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते ॥ २२ ॥
यस्मिन्नुपकुशः स स्यात् पित्तर कृतो गदः ।
घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् ॥ २३ ॥
भवन्ति च चला दन्ताः स वैदर्भोऽभिघातजः ।
मारुतेनाधिको दन्तो जायते तीव्रवेदनः ॥ २४ ॥
वर्द्धर्नंः स मतो व्याधिर्जाते रुक् च प्रशाम्यति ।
हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः ॥ २५ ॥
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ।
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ॥ २६ ॥
दन्तगतास्तु — दालन:, क्रिमिदन्तको, दन्तहर्षो, भञ्जनकः, शर्करा, कपालिका, श्यावदन्तको, हनुमोक्षश्चेति ॥ २७ ॥
१ सर्वदोषेभ्यो जातः सर्वजः सान्निपातिकः । त्रिदोषजत्वेनैवास्य सप्तरात्राद् मार-कत्वमुक्तं भोजे । २ दन्तमांसस्य परिदारणात्परिदरसन्ज्ञा । ३ वेष्टेषु = दन्तवेष्टनमांसे-ष्वित्यर्थः । ४ श्रघट्टिताः = श्राचालिताः । ५ घृष्टेषु = दन्तकाष्ठादिना घृष्टेष्वित्यर्थः । ६ वर्धनः, खलीवर्धनः, अधिदन्त इति नामभेदः । ७ द्दानव्ये = इनुकुहरे, पश्चिमे == अन्तजे। ८ यथा नाडीनिदाने वातपित्तकफसन्निपातागन्तुनिमित्ता ईरितास्तथा दन्तमांसगता अपि पञ्च नाडयो बोध्या इत्यर्थः । ९ शार्ङ्गधरे— “ दन्तरोगा दशाख्याताः " इत्यादिना दश दन्तगता रोगाः परिग-णिताः । तत्र सुश्रुतातिरिक्तयोः करालदन्तचालयोर्लक्षणे प्रदर्श्यते - “ शनैः शनैः प्रकुरुते वायुर्दन्त समाश्रितः । करालान् विकटान् दन्तान् करालो न स सिद्धयति ॥ ” इति, “ चालश्चलद्भिर्दशनैर्भक्षणादधिकव्यथैः " इति । शार्ङ्गधरस्य दन्तभेदः, सुश्रुतस्य भञ्ज-- नकश्च एक एव रोगः प्रतिभाति, तीव्ररुजाकरत्वात् । तत्र दन्तभेदलक्षणम् - " दन्तभेदै २६ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 562
पाठ पढ़ें पाठ छिपाएँ
४०२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १६
दात्यन्ते बहुधा दन्ता यस्मिंस्तीव्ररुगन्विताः ।
दालनः स इति ज्ञेयः सदागतिनिमित्तजः ॥ २८ ॥
V कृष्णैश्छिद्री चलः स्रावी ससंरम्भी महारुजः ।
अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः ॥ २ ९ ॥
दशनाः शीतमुष्णं च सहन्ते स्पर्शनं न च ।
यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात् ॥ ३० ॥
वक्त्रं वक्रं भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक् ।
कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ॥ ३१ ॥
शर्करेव स्थिरीभूतो मलो दन्तेषु यस्य वै 1 सा दन्तानां गुणघ्नी तु विज्ञेया दन्तशर्करा ॥ ३२ ॥
दलन्ति दतवल्कानि यदा शर्करया सह ।
ज्ञेया कपालिका सैव दशनानां विनाशिनी ॥ ३३ ॥
योऽसृमिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः ।
श्यावतां नीलतां वाऽपि गतः स श्यावर्दन्तकः ॥ ३४ ॥
वातेन " तैस्तैर्भावैस्तु हनुसन्धिविसंहतः " ।
हनुमोक्ष ' इति ज्ञेयो व्याधिरर्दितलक्षणः १३ ॥ ३५ ॥
द्विजास्तोदभेदरुक्स्फुटनान्विताः ” इत्यष्टाङ्गसङ्ग्रहोक्तं ज्ञेयम् । १ सदागतिः - वायुः । असाध्योऽयं दालनः । २ कृष्णः = कृष्णदन्तकः । ३ क्रमिकृतच्छिद्रत्वेन वेदनावि-शेषयुक्तः कृमिदन्तकः । ४ दन्तहर्षस्य वातजत्वेऽप्युष्णासहत्वं व्याधिप्रभावात् कफरक्तावृतत्वाद्वा बोद्ध-व्यम् । ५ दन्तभङ्गकारिणा दोषेण वक्त्रस्यापि वक्रत्वं भवेदित्यर्थः । अयमप्यसाध्यः । ६ शर्करेव = उपलखण्ड इव । ७ गुणघ्नी = शुक्लत्वदृढत्वादिगुणहरणशीलेत्यर्थः । ८ दन्तवल्कानि वल्कलाकारा दन्तकवचा दलन्ति स्फुटन्ति । ९ श्यावदन्तकः, संज्ञायां कन् । असाध्योऽयम् । १० तैस्तैर्भावैः = वातव्याधिनिदानोक्तः “ उच्चैर्व्याहरतोऽत्य-र्थं खादतः कठिनानि वा । हसतो जल्पतोऽवाऽपि ” इति भावैरित्यर्थः । ११ विसंहतः == विघट्टितः, हनुसन्धिभ्यः किञ्चिच्चलित इति भावः । १२ हनुमोक्षस्य दन्तदेशसा-मीप्याद् दन्तपीडाकरत्वाच्च दन्तरोगे समावेश इति बोध्यम् । १३ श्रदिंतलक्षणमिव लक्षणं यस्येत्यर्दितलक्षणः । एतेन दन्तपीडाकरत्वे तात्पर्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 563
पाठ पढ़ें पाठ छिपाएँ
अ ०: १६ ] Digitized by Arya नानावा Phennai and eGangotri ४०३ :: जिह्वागतास्तु - कण्टको स्त्रिविधास्त्रिभिर्दोषैः, अलास, उपजि-ह्निका चेति ॥ ३६ ॥
जिह्वाऽनिलेन स्फुटितो प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा ।
पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च ।
कफेन गुर्वी बहुला चिता च मांसोद्गमैः शाल्मलिकण्टकाभैः ॥ ३७ ॥
जिह्वातले यः श्वयथुः प्रगाढः सोऽलासंसंज्ञः कफरक्तमूर्त्तिः ।
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले तु जिह्वा भृशमेति पाकम् ॥ ३८ ॥
जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नय जातः कफरक्तयोनिः ।
प्रसेककण्डू परिदाहयुक्ता प्रकथ्यतेऽसावुपजिह्निकेति ॥३९ ॥
तालुगतास्तु - गलशुण्डिका, तुण्डिकेरी, अधुषः, मांसकच्छपः, अर्बुदं, मांससङ्घातः, तालुपुप्पुटः, तालुशोषः, तालुपाक इति ॥ ४० ॥
श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो मातवस्तिप्रकाशः ।
तृष्णाकासश्वासकृत्सम्प्रदिष्टो व्याधिवैद्यैः कण्ठशुण्डीति नाम्ना ॥४१ ॥
शोफः स्थूलस्तोददाईप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु ।
शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषो रुग्ज्वराढ्यः ॥४२ ॥
कूर्मोत्सन्नोऽवेदनोऽशीघ्र जन्माऽरक्तो ज्ञेयः कच्छपः श्लेष्मणास्यात् १ त्रिविधाः कण्टकाः = वातकण्टकः, पित्तकण्टकः, कफकण्टकश्च । शार्ङ्गधरे जिह्वाग. तरोगेषु अधिजिह्वाख्यः पञ्चसंख्याऽतिरिक्तः षष्ठो भेदो दृश्यते । जिह्वोपरि जातो यः श्व-यथुस्तेनाधिजिह्वा कथिता । सुश्रुते कण्ठरोगे पठितेयम् । २ स्फुटिता = मनाग्विदीर्णा प्रसुप्ता = रसस्यानत्रवोधादचेतना, शाकः = खरपत्रो वृक्षविशेषः, ' सागवान’इति ख्यात-स्तस्य छदनं पत्रं तत्प्रकाशा, खरस्पर्शेत्यर्थः । ३ मांसोद्गमैः = मांसाङ्कुरैः । ४ श्रसाध्यो-ऽयम् । कफरक्तयोर्मूर्त्तिरिव मूर्तिरस्येति कफमूर्तिः । ५ जिह्वाग्ररूपः = जिह्वाग्रसन्निभः । ६ जिह्वाम् उन्नम्य ऊध्वीकृत्य जात उत्पन्नः । एतेन जिह्वाया अधोभवती-त्युक्तमिति डल्हणः । ७ ध्मातबस्तिप्रकाशः = वातपूरितचर्मपुटतुल्यः । ८ कण्ठ. ९ तोददाहप्रपाकी, एतेन वातपित्तानुबन्धो बोद्धव्यः, प्रागुक्ता-शुण्डो = गलशुण्डी । भ्यां = श्लेष्मासृग्भ्याम्, तुण्डिकेरी वनकार्पासीफलं तत्तुल्यशोभतया तुण्डिकेरी । तदुक्तमष्टाङ्गसङ्ग्रहे— “ हनुसन्ध्याश्रितः कण्ठे कार्पासीफलसन्निभः । पिच्छिलो मन्दरु-क्शोफः कठिनस्तुण्डिकेरिका ॥ ” इति । १० अवेदनः = अल्पवेदन इति श्रीकण्ठः । अशीघ्रजन्मा = चिरजः, मन्दानुसारीत्यर्थः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 564
पाठ पढ़ें पाठ छिपाएँ
Digitized by Arya Samaj Foundation Chennai and eGangotri ४०४ सुश्रुतसहिताया- [ अ ० १६ पद्माकारं तालुमध्ये तु शोफं विद्याद्रक्तादर्बदं प्रोक्तलिङ्गम् ॥ ४३ ॥
. दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्तःस्थं मांससङ्घातमाहुः । नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुष्टस्तालुदेशे ४४
1 शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासो वातात्तालुशोषः सपित्तात् ।
पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ॥ ४५ ॥
कण्ठगतास्तु - रोहिण्यः पञ्च, कण्ठशालूकम्, अधिजिहो, बलयो, बलास, एकवृन्दो, वृन्दः, शतघ्नी, गिलायुः, गलविद्रधिः, गलौघः, स्वरघ्नो, मांसतानो, विदारी चेति ॥ ४६ ॥
गलेऽनिलः पित्तकफौ च मूच्छितौ ' पृथक् समस्ताश्च तथैव शोणितम् । प्रदूष्य मांसं गलरोधिनोऽङ्कुरान् सृजन्ति यान् साऽसुर्हरा हि रोहिणी ॥ ४७ ॥
जिह्वां समन्ताद् भृशवेदना ये मांसाङ्कुराः कण्ठनिरोधिनः स्युः ।
तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्रवगाढयुक्ताम् ॥ ४८ ॥
क्षिप्रोगमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा स्यात् ।
स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा वै ॥ ४ ९ ॥
गम्भीरपाकाऽप्रतिवारवीर्या " त्रिदोषलिङ्गा त्रयसम्भवा स्यात् ।
स्फोटाचिता पित्तसमानलिङ्गाऽसाध्या प्रदिष्टा रुधिरात्मिकेयम् ॥५० ॥
१ पद्माकारं = कमलकर्णिकाकारम् । तदुक्तं भोजेन -- " उपर्येव भवेन्नद्धो यथा पद्मस्य कणिका । पार्श्वतश्चाङ्कुरैदीर्घेर्नासा चाप्यवसीदति । श्लेष्मरक्तसमुत्थानं तत्ता-ल्वर्बुदसंज्ञितम् ॥ ” इति । २ प्रोक्तलिङ्गं = पूर्वोक्तरक्तार्बुदतुल्य लिङ्गम् । ३ पुप्पुटः = तालुपुप्पुट इत्यर्थः । तालुशब्दोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः । ४ भोजेन - " तालुशोषो भवेद् वातात् ” इत्युक्तम् । वाग्भटेन तु - " वातपित्तज्वराया सैस्तालुशोषस्तदाह्वयः ” इति वात-पित्ताभ्यां तालुशोषः पठितः । ५ एनं = पाकम् । ६ वातजपित्तजकफजसन्निपातजर-तजा इति पञ्च रोहिण्यः । ७ मूच्छितौ = प्रवृद्धौ, ' मूच्छितो दृढवृद्धयो: ' इत्यजयः । ८ दोषानुसारेण मारकत्वकालो निर्दिष्टः श्रीकण्ठोद्धृतखरनादे- “ सद्यस्त्रिदोषजा हन्ति त्र्यहाच्छ्लेष्मसमुद्भवा । पञ्चादात् पित्तसम्भूता सप्ताहात्पवनोत्थिता ॥ ” इति । ९ वाता रमकोपद्रवाः = कम्पमन्यास्तम्भादयः । १० अप्रतिवारवीर्या = सद्योमारकतया दुर्निवा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 565
पाठ पढ़ें पाठ छिपाएँ
अ ० १६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् । ४०५
कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकैशूकभूतः ।
खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशोलूकमिति ब्रुवन्ति ॥५१ ॥
जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वाप्रबन्धोपरि रक्तमिश्रात् ।: ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ॥ ५२ ॥
वलास एवायतमुन्नतं च शोफं करोत्यन्नगतिं निवार्य ।
तं सर्वथैवाप्रतिवारवीर्यं विवर्जनीयं वलयं वदन्ति ॥ ५३ ॥
गले तु शोफं कुरुत: प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् ।
मर्मच्छिदं दुस्तरमेतदाहुर्बलाससंज्ञं निपुंणा विकारम् ॥। ५४ ॥
वृत्तोन्नतो यः श्वयथुः सदाहः कण्ड्वन्वितोऽपाय मृदुर्गुरुश्च ।
नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्वलासर्क्षतजप्रसूतः ॥ ५५ ॥
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं " वृन्दसुदाहरन्ति ।
तं चापि पित्तक्षतजप्रकोपाद्विद्यात् सतोदं पवनास्रजं तु ॥ ५६ ॥
वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं " पिशितप्ररोहैः ।
" नानारुजोच्छ्रायकरी त्रिदोषाज्ज्ञेया " शतघ्नीव शतघ्न्यसाध्या ॥ ५७ ॥
रशक्तिरित्यर्थः । १ कण्टको पलक्षितः शूको जलशुकः, स इव भूतो जात इति कण्टक--शूकभूतः । २ शालूकं कमलकन्दं तत्समकाठिन्येन कण्ठशालूकम् । = पाकानईः, ३ जिह्वाप्रबन्धस्य जिह्वामूलस्योपरि उपरिष्टात् । एतेन जिह्वातलजाया उपजिह्वाया व्यावर्तनं भवति । तदुक्तं चरके- " जिह्वोपरिष्टादुपजिह्विका स्यात् कफादधस्तादधिजिह्विका च ' इति । ४ बलासः = श्लेष्मा । ५ श्रन्नस्य गतिर्येन स्रोतसा सोऽन्नगतिरन्नवह-मार्गः, अन्नस्य प्रवेशो वेति श्रीकण्ठः । ६ मर्मच्छिदं = प्राणायतनहृदयमर्मच्छिदम् । ७ निपुणाः = कुशलाः, ' वैद्याः कथयन्ति ' इति शेषः । ८ अपाक्यः = ईषत्पाकीति डल्हणः । ९ बलासक्षतजप्रसूतः = कफरक्तजात इत्यर्थः । १० एकवृन्दस्यावस्थाविशेष एव वृन्दः । तुल्यस्थानाकृतितो न सप्तदश संख्याऽति-रॆकः । विस्तरस्त्वन्यत्र द्रष्टव्यः । ११ पिशितप्ररोहैः -मांसाङ्कुरैरित्यर्थः । १२ नानारु-जोच्छ्रायकरी = वातपित्तकफज - चोददाइकण्ड्वादिवेदनावृद्धिकरीत्यर्थः । १३ " श्रयः-कण्टकसंच्छन्ना शतघ्नी महती शिला " तत्तुल्यो व्याधिः शतघ्नीशब्दवाच्यः । श्रसाध्या = प्राणहरी । भोजेऽप्युक्तम् - " वातपित्तकफा दुष्टा मांसाङ्कुरसमाचिताम् । मध्यकण्टचर्या वतिं जनयन्ति इयुपेक्षिताः । शङ्कुनैव गले विद्धा शतघ्न्येषा न सिद्धयति ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 566
पाठ पढ़ें पाठ छिपाएँ
४०६ Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri [ अ ० १६
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्त मूर्त्तिः ।
संलक्ष्यते सेक्तमिवाशनं च स शस्त्रसाध्यस्तु गिलायुसंज्ञः ॥ ५८ ॥
सर्वं गलं व्याप्य समुत्थितो यः शोफो रुजो यत्र च सन्ति सर्वाः ।
स सर्वदोषो गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य ॥ ५ ९ ॥
शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता ।
कफेन जातो रुधिरान्वितेन गले गलौघः परिकीत्त्यतेऽसौ ॥ ६० ॥
योऽति Ü ताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्कैविमुक्तकण्ठः ।
कफो ' दिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ॥ ६१ ॥
प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण ।
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत सर्वकृतो विकारः ॥ ६२ ॥
सदाहृतोदं श्वयथु ं
सरक्तमन्तर्गले " पूतिविशीर्णमांसम् ।
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ॥ ६३ ॥
" सर्वसरास्तु वातपित्तकफशोणित निमित्ताः ॥ ६४ ॥
स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात् ।
रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् ॥ ६५ ॥
कण्डूयुतैरल्परुजैः सवर्णैर्यस्याचितं चापि स वै कफेन । II १ कफरक्तमूर्तिः – कफरक्तज इत्यर्थः । २ सक्तमिव = श्रासक्तनिव । ३ तस्यैव पूर्वो • कृतस्यैव सर्वजस्य सन्निपातजस्य विद्रधेस्तुल्यः सदृश इत्यर्थः । ४ अतिप्रताम्यन् = श्रत्यर्थं तमः प्रपश्यन्निप्यर्थः । ५ शुष्को नीरसो विमुक्तश्च किमपि गिलितुमशक्यतयाऽस्वाधीनः कण्ठो यस्य स शुष्कविमुक्तकण्ठः । ६ कफोपदिग्धेषु = कफलिप्तेषु, अनिलायनेषु -वात • मार्गेषु ७ प्रतानवान् = विस्तारयुक्तः । = महादुःखप्रदायीति श्रीकण्ठः ॥ ८ सुकष्टः ९ प्राणप्रणुत् = प्राणप्रेरकः १० पूतित्रिशीर्णमांसं = दुर्गन्धिगलितमांसमित्यर्थः । ११ स पुरुषो येन पाश्र्वेन विशेषाद् बाहुल्येन शेते, तस्मिन्नेव पार्श्वे विदारी भवतीत्यर्थः । १२ मुखगतोष्ठादिसप्तस्थानव्यापकतया सर्व सरत्वं ज्ञेयमिति विजयरक्षितः । सर्वस्मिन् - मुखे ये भवन्ति ते सर्वसराः, मुखपाका इत्यर्थः । ते पञ्चविधाः प्रदर्शिताः शार्ङ्गधरे -" मुखपाको भवेद्वातात् पित्तात्तद्वत्कफादपि । रक्ताच्च सन्निपाताच्च " इति । १३ अत्र CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 567
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya शारीरस्थानम् pen Chennai and eGangotri ४०७ रक्तेन पित्तोदित एक एव कैश्चित् प्रदिष्टो मुखपाकसंज्ञः ॥ ६६ ॥
इति भगवता श्रीधन्वन्तरिरणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां निदानस्थाने मुखरोगनिदानं नाम षोडशोऽध्यायः ॥१६ ॥
अथ शारीरस्थानम् ।
प्रथमोऽध्यायः ।
अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखि-शोणितोपादानं मतान्तराभिप्रायेणेत्यनन्तरं स्पष्टीभविष्यति । १ कैश्चिद् आचार्यैः -रक्तेन मुखपाकसंज्ञ एकः सर्वसरः प्रदिष्टः स पित्तोदित एवेति सम्बन्धः । इति शम् । इति पण्डितश्रीकपिलदेवमिश्रतनुजन्मना मिश्रोपाहृश्री सुदामाशर्मणा निम्मितायां सुश्रुतसंहितायाः सुधाऽख्यटिप्पन्यां निदानस्थाने षोडशोऽध्यायः । समाप्तमिदं निदानस्थानम् । X अथ शारीरस्थानम् ।
वीणावादनवेलायां यन्मुखे स्मितसान्द्रता ।
तां दयावृंहितां वाण सुदामामिश्र आश्रये ॥ १ ॥
२ रोगनिदानज्ञानानन्तरं चिकित्साया श्रवसरः, सा तत्तत्स्थानज्ञानमन्तरा न -सम्भवतीति तत्तदङ्गप्रत्यङ्गादिज्ञापनार्थं शारीरस्थानमारभ्यते - अथात इति । सर्व-भूतचिन्ताशारीरम्, शरीरमधिकृत्य कृतो ग्रन्थः शारीरः सर्वभूतानां मनुष्यतिर्यक्स्थाव-रादिप्राणिनां चिन्ता विचारः, सा विद्यते यस्मिन्नध्याये, छप्रत्ययस्तस्य ' अध्यायानुवा · “ कयोर्लुक्’इति लुक् । ततः सर्वभूतचिन्ता चासौ शारीरश्चेति कर्मधारयस्तम् । ३ श्रव्यक्तं निरूपयति — सर्वेति । सर्वभूतानां कारणमव्यक्तं नामेति सम्बन्धः । न विद्यते व्यक्ति-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 568
पाठ पढ़ें पाठ छिपाएँ
४०८ Digitized by Arya अकुलकुल सं विकायचं mai and eGangotri [ अ ० १ लस्य जगतः सम्भवहेतुरव्यक्तं नाम । तदेकं बहूनां क्षेत्रज्ञानाम-धिष्ठानं समुद्र इवौदकानां भावानाम् || ३ || तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव, तल्लिङ्गाच्च महतस्त--ल्लक्षण एवाहङ्कार् उत्पद्यते, स त्रिविधो वैकारिकस्तैजसो भूतादि-रिति । तंत्र वैकारिकादहङ्कारात्तैजससहायात्तल्लक्षे खान्येवैकाद-शेन्द्रियाण्युत्पद्यन्ते । तद्यथा श्रोत्रत्वक्चक्षुर्जिह्वाप्राणवाग्वस्तोपस्थ-पायुपादद्मनांसीति । तत्र पूर्वाणि पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च रवयवो यस्येत्यव्यक्तं, बहिरिन्द्रियागोचर इत्यर्थः । मूलप्रकृतिपर्यायोऽयमव्यक्तशब्दः कथम्भूतम्? अकारणं, न विद्यते कारणं यस्य तद् श्रविकृतिरूपम्, न कस्यचित्कार्य -भित्यर्थः । तदुक्तं साङ्ख्यकारिकायाम् - " मूलप्रकृतिरविकृतिः ' इति । तस्य स्वरूपं निर्दि-शति - सत्त्वेति । सत्त्वरजस्तमांसि लक्षणं स्वरूपं यस्येति सत्त्वरजस्तमोलक्षणम् । पुनः कथम्भूतम्? अष्टरूपं, प्रकृतिभावेनैवाव्यक्तं महानहङ्कारः पञ्चतन्मात्राणीत्यष्टौ रूपाणि यस्य तत् । तथा चोक्तं गीतायाम् - - ' भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । श्रहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ' इति । पुनरपि किं विशिष्टम्? अखिलस्य जगतः सम्भवहेतुः अभिव्यक्तिकारणम् । १ क्षीयते इति क्षेत्रं शरीर तज्जानन्तीति क्षेत्रज्ञास्तेषां, जीवानामित्यर्थः । अधिष्ठानम् = आश्रयः, श्रदकानाम् उदकसम्बन्धिनां भावानां पदार्थानां समुद्र इव, यथा एकः समुद्रो बहूनां जलजन्तूनामाश्रयस्तथैव तद-व्यक्तमेकमपि अनेकेषां जीवानामाश्रयो भवतीति । २ श्रव्यक्तात्सर्वतत्त्वानामुत्पत्तिक्रमं दर्शयति -- तस्मादिति । तस्मात् = क्षेत्रज्ञा-धिष्ठितात् श्रव्यक्तात् = मूलप्रकृतेः महान् = आद्यं कार्ये बुद्धितत्त्वम् । साङ्खय कारिकायां सृष्टिक्रममाह -- ' प्रकृतेर्मंहांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशका-स्पञ्चभ्यः पञ्चभूतानि ॥ इति । साङ्ख्यप्रवचन भाष्ये - - ' महत्तत्त्वमिति प्रोक्तं बुद्धितत्त्वं तदुच्यते’इति । “ प्रकृतिर्विश्वजननीं पूर्व बुद्धिमजीजनत् " इत्यादिना शार्ङ्गधरेऽपि । उत्पद्यते = व्यक्तीभवति, तल्लिङ्गः -- तस्याव्यक्तस्य लिङ्गमिव लिङ्गं यस्येति तल्लिङ्गः: सत्त्वरजस्तमोलक्षण एव । ३ श्रहङ्कारः = श्रभिमानव्यापारलक्षणः, ' अहमित्यभिमानेन यः क्रियासु प्रवर्तते । कार्यकारणयुक्तस्तु तदहङ्कारलक्षणम् ॥ ' इति । ४ वैकारिकः = सात्त्विकः, तैजसः -राजसः, भूतादिः = तामसः । ५ तल्लक्षणानि = सच्वलक्षणानि, प्रकाशकत्वात् सत्त्व-प्रधानानीति निष्कर्षः । तदुक्तं सांख्यकारिकायाम् - - ' सात्त्रिक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम् ॥'इति । ६ बुद्धेराश्रय-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 569
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya Samaj Foundation Chennai and eGangotri शारीरस्थानम् । ४११ वायुः, सूर्यश्चक्षुषः, रसनस्यापः, पृथिवी घ्राणस्य, वचसोऽग्निः, हस्तयोरिन्द्रः, पादयोर्विष्णुः, पायोर्मित्रः, प्रजापतिरुपस्थस्येति ॥ ७ ॥
तंत्र सर्व एवाचेतन एष वर्गः, पुरुषः पञ्चविंशतितमः कार्यका-रणसंयुक्तश्चेतयिता भवति । सत्यप्यचैतन्ये प्रधानस्य पुरुषकैव-ल्यार्थं प्रवृत्तिमुपदिशन्ति क्षीरादींश्चात्र हेतूनुदाहरन्ति ॥ ८ ॥
श्रत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः । तद्यथा— उभावप्यनादी, उभावप्यनन्तौ उभावप्यलिङ्गौ, उभावपि नित्यौ, उभावप्यनपरौ, उभौ च सर्वगताविति । एकौ तु प्रकृतिर-बुद्धेरधिष्ठाता ब्रह्मेत्यर्थः । एवमग्र व्याख्येयम् । १ पूर्वोक्ता चेतनवर्गस्य पुरुषश्चेतदिता कथं भवतीति विवृणोति - तन्त्रेति । तत्र = सर्वेभूतेषु मध्ये, एषः = पूर्वोक्तः, वर्ग: = चतुर्विंशतितत्त्वरूपः, सर्व एवाचेतन इति सम्ब-न्धः । पुरुषः पनविंशतितमः पञ्चविंशतितत्त्वरूपः, कार्यकारणसंयुक्तः कार्येण महदा-दिविकारेण कारणेन मूलप्रकृत्या संयुक्तः, संयोग एव भोगापवर्गार्थं सर्गे करोतीति भावः; चेतथिता चेतनो भवतीति तात्पर्यम् । २ प्रधानस्य = प्रकृतेः, " प्रधानं प्रकृतिः शक्तिनित्या चाविकृतिस्तथा । एतानि तस्या नामानि शिवमाश्रित्य या स्थिता ॥ " इति मूलप्रकृतेः पर्यायनामान्याह शार्ङ्गधरे । पुरुषकैवल्यार्थं पुरुषस्य मुक्तये, ' मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ' इत्यमरः । प्रवृत्ति कार्याकारेण परिणामम् उपदि -शन्ति, आचार्या इति शेषः । अत्र अचेतनायाः प्रकृतेः प्रवृत्तौ क्षीरादींश्च हेतून् उदा-हरन्ति । तद्यथा - ' वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ' इति साङ्ख्यकारिकायाम् । यथा वत्सविवृद्धयर्थं क्षीरम. चेतनं प्रवर्तते, एवं प्रकृतिरचेतनाऽपि पुरुषविमोक्षणाय प्रवर्तिष्यते इति तद्भावः । ३ समानो धर्मः साधर्म्यम्, विरुद्धो धर्मो वैधर्म्यम्, साधर्म्य च वैधर्म्यं चेति तें साधर्म्य वैधर्म्ये । ४ तयोः प्राक् साधर्म्यं दर्शयति- उभाविति । उभौ - प्रकृति पुरुषौ, अनादी = न विद्यते आदिः कारणं ययोस्ती, अनन्तौ = न विद्यतेऽन्तो नाशो ययोस्तौ, प्रलिङ्गौ === लिन्नयतेऽनेनेति लिङ्गमाकारः, न विद्यते लिङ्गं ययोस्ती, नित्यौ = कारणर-हितौ, अपरौ = न विद्यते परः श्रेष्ठो याभ्यां तौ, अनपराविति पाठे न विद्यतेऽपरो याभ्यां तौ, यतः प्रकृतिपुरुषावेव महदादिभ्यः परौ, सर्वगतौ व्यापकौ । ५ वैधर्म्य दर्शयति – एकेति । त्रिगुणा = सत्त्वरजस्तमोगुणा, बीजधर्मिणी, बी • जस्य धर्मो बीजधर्म:, सोऽस्त्यस्या इति बीजधर्मिणी, सत्वरजस्तमसां गुणानां साम्या-अस्थायां स्थिता सर्वेषां महदादिविकाराणां बीजभावेनावस्थिता बीजधर्मिणीत्युच्यते CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 570
पाठ पढ़ें पाठ छिपाएँ
४१२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० १ चेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्य मध्यस्थधर्मिणी चेति । बहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अबीजधर्माणोऽप्रसवधर्माणो मध्यस्थधर्माणश्चेति ॥ ९ ॥
तत्र कौरणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः सत्त्व-रजस्तमोमया भवन्ति । तदञ्जनत्वात् तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते ॥ १० ॥
वैद्यके तु—
स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा ।
परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ॥ ११ ॥।
इति डल्इणः । संद्दारे भूतेन्द्रियतन्मात्राहङ्कारमहदादीनामाधारभूतेति बीजधर्मिणीति गयी । प्रसवधर्मिणी = सर्गावस्थायां कार्याकारेण परिणामिनी । ढल्हणः - सँव सिसृक्षुणा विभुना पुरुषेण सार्द्धं क्षोभमागम्य साम्यावस्थातः प्रच्युता महदहङ्कारादिक्रमेण चरा-चरस्य जगतः प्रसवित्रीति प्रसवधर्मिणीत्युच्यते । श्रमध्यस्थधर्मिणी = सत्त्वादिगुणरूप-तया सुखदुःखभोगवतीत्यर्थः । तथा चोक्तमीश्वरकृष्णेन – ' तस्मान्न बध्यतेऽद्धा न तमुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ श्रद्धा न कश्चित् पुरुषो वध्यते, न कश्चित् संसरति, न कश्चिन्मुच्यते; प्रकृतिरेव तु नानाश्रया सती वध्यते संसरति मुच्यते चेति बन्धमोक्ष संसाराः पुरुषेषूपचर्यन्ते इति तदर्थः । १ कारणस्य शुक्लतन्तुरूपकारणस्य अनुरूपं सदृशं कार्यं शुक्लपटस्यैवोत्पत्ति-रूपकार्यम्, इति कृत्वा इति हेतोः सर्व एवैते विशेषाः प्रकाराः महदादिकाः सत्त्वरज • स्तमोमया भवन्ति, तदअनत्वात् तेषां सत्वरजस्तमसामञ्जनमाकारो येषु ते तद-अनाः पुरुषाः सत्त्वादिलक्षणास्तेषां भावस्तत्त्वं तस्मात् ' तदञ्जनता तदाकारता ' इति वाचस्पतिः । तन्मयत्वात् = सत्त्वादिरूपमहदादिवृत्तौ प्रतिबिम्बनात् पुरुषाणां सत्त्वा दिमयत्वात् । तथा च पातञ्जलसूत्रम् - ' वृत्तिसारूप्यमितरत्र ' इति, जपाकुसुमस्फटिक-योरिव बुद्धिपुरुषयोः संन्निधानाभेदग्रहे बुद्धिवृत्तीः समारोप्य शान्तोऽस्मि दुःखितोऽस्मि मूढोऽस्मीत्यध्यत्रस्यतीति तदर्थः । तद्गुणाः = सुखिनो दुःखिनो मूढाश्च पुरुषा भवन्ति, इत्येके = सांख्याचार्याः, एतेन पूर्वोक्तस्य सर्वस्यैकीयमतं प्रतिपादितम् । २ वैद्यकेतु - पृथुदर्शिनः विपुलदर्शिनः स्वभावादयः षट् प्रकृति कारणं मन्यन्ते इति सम्बन्धः । स्वभावादिभेदभिन्नायाः षड्विधाया श्रपि प्रकृतेरुदाहरणान्यत्राभिहि-तानि । तत्र तावत् स्त्रभावस्य कारणत्वम् – “ अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते ” “ सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ । तलेष्वसम्भवो यश्च रोम्णामेतत्स्वभावतः ” ॥ CC - 0. Gurukul Kangri Collection, Haridwar