सुश्रुत संहिता चौखम्बा — पृष्ठ 561–570

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 561–570

पृष्ठ 561

सुश्रुत संहिता चौखम्बा, पृष्ठ 561 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ ] Digitized by Arya S निदानस्थानम् hennai and eGangotri ४०१ दन्तमांसानि पच्यन्ते मुखं च परिपीडयते ॥ १ ९ ॥

यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः ।

दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् ॥ २० ॥

पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ।

वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च ॥ २१ ॥

आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः ।

आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते ॥ २२ ॥

यस्मिन्नुपकुशः स स्यात् पित्तर कृतो गदः ।

घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् ॥ २३ ॥

भवन्ति च चला दन्ताः स वैदर्भोऽभिघातजः ।

मारुतेनाधिको दन्तो जायते तीव्रवेदनः ॥ २४ ॥

वर्द्धर्नंः स मतो व्याधिर्जाते रुक् च प्रशाम्यति ।

हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः ॥ २५ ॥

लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ।

दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ॥ २६ ॥

दन्तगतास्तु — दालन:, क्रिमिदन्तको, दन्तहर्षो, भञ्जनकः, शर्करा, कपालिका, श्यावदन्तको, हनुमोक्षश्चेति ॥ २७ ॥

१ सर्वदोषेभ्यो जातः सर्वजः सान्निपातिकः । त्रिदोषजत्वेनैवास्य सप्तरात्राद् मार-कत्वमुक्तं भोजे । २ दन्तमांसस्य परिदारणात्परिदरसन्ज्ञा । ३ वेष्टेषु = दन्तवेष्टनमांसे-ष्वित्यर्थः । ४ श्रघट्टिताः = श्राचालिताः । ५ घृष्टेषु = दन्तकाष्ठादिना घृष्टेष्वित्यर्थः । ६ वर्धनः, खलीवर्धनः, अधिदन्त इति नामभेदः । ७ द्दानव्ये = इनुकुहरे, पश्चिमे == अन्तजे। ८ यथा नाडीनिदाने वातपित्तकफसन्निपातागन्तुनिमित्ता ईरितास्तथा दन्तमांसगता अपि पञ्च नाडयो बोध्या इत्यर्थः । ९ शार्ङ्गधरे— “ दन्तरोगा दशाख्याताः " इत्यादिना दश दन्तगता रोगाः परिग-णिताः । तत्र सुश्रुतातिरिक्तयोः करालदन्तचालयोर्लक्षणे प्रदर्श्यते - “ शनैः शनैः प्रकुरुते वायुर्दन्त समाश्रितः । करालान् विकटान् दन्तान् करालो न स सिद्धयति ॥ ” इति, “ चालश्चलद्भिर्दशनैर्भक्षणादधिकव्यथैः " इति । शार्ङ्गधरस्य दन्तभेदः, सुश्रुतस्य भञ्ज-- नकश्च एक एव रोगः प्रतिभाति, तीव्ररुजाकरत्वात् । तत्र दन्तभेदलक्षणम् - " दन्तभेदै २६ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 562

सुश्रुत संहिता चौखम्बा, पृष्ठ 562 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४०२ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १६

दात्यन्ते बहुधा दन्ता यस्मिंस्तीव्ररुगन्विताः ।

दालनः स इति ज्ञेयः सदागतिनिमित्तजः ॥ २८ ॥

V कृष्णैश्छिद्री चलः स्रावी ससंरम्भी महारुजः ।

अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः ॥ २ ९ ॥

दशनाः शीतमुष्णं च सहन्ते स्पर्शनं न च ।

यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात् ॥ ३० ॥

वक्त्रं वक्रं भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक् ।

कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ॥ ३१ ॥

शर्करेव स्थिरीभूतो मलो दन्तेषु यस्य वै 1 सा दन्तानां गुणघ्नी तु विज्ञेया दन्तशर्करा ॥ ३२ ॥

दलन्ति दतवल्कानि यदा शर्करया सह ।

ज्ञेया कपालिका सैव दशनानां विनाशिनी ॥ ३३ ॥

योऽसृमिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः ।

श्यावतां नीलतां वाऽपि गतः स श्यावर्दन्तकः ॥ ३४ ॥

वातेन " तैस्तैर्भावैस्तु हनुसन्धिविसंहतः " ।

हनुमोक्ष ' इति ज्ञेयो व्याधिरर्दितलक्षणः १३ ॥ ३५ ॥

द्विजास्तोदभेदरुक्स्फुटनान्विताः ” इत्यष्टाङ्गसङ्ग्रहोक्तं ज्ञेयम् । १ सदागतिः - वायुः । असाध्योऽयं दालनः । २ कृष्णः = कृष्णदन्तकः । ३ क्रमिकृतच्छिद्रत्वेन वेदनावि-शेषयुक्तः कृमिदन्तकः । ४ दन्तहर्षस्य वातजत्वेऽप्युष्णासहत्वं व्याधिप्रभावात् कफरक्तावृतत्वाद्वा बोद्ध-व्यम् । ५ दन्तभङ्गकारिणा दोषेण वक्त्रस्यापि वक्रत्वं भवेदित्यर्थः । अयमप्यसाध्यः । ६ शर्करेव = उपलखण्ड इव । ७ गुणघ्नी = शुक्लत्वदृढत्वादिगुणहरणशीलेत्यर्थः । ८ दन्तवल्कानि वल्कलाकारा दन्तकवचा दलन्ति स्फुटन्ति । ९ श्यावदन्तकः, संज्ञायां कन् । असाध्योऽयम् । १० तैस्तैर्भावैः = वातव्याधिनिदानोक्तः “ उच्चैर्व्याहरतोऽत्य-र्थं खादतः कठिनानि वा । हसतो जल्पतोऽवाऽपि ” इति भावैरित्यर्थः । ११ विसंहतः == विघट्टितः, हनुसन्धिभ्यः किञ्चिच्चलित इति भावः । १२ हनुमोक्षस्य दन्तदेशसा-मीप्याद् दन्तपीडाकरत्वाच्च दन्तरोगे समावेश इति बोध्यम् । १३ श्रदिंतलक्षणमिव लक्षणं यस्येत्यर्दितलक्षणः । एतेन दन्तपीडाकरत्वे तात्पर्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 563

सुश्रुत संहिता चौखम्बा, पृष्ठ 563 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ०: १६ ] Digitized by Arya नानावा Phennai and eGangotri ४०३ :: जिह्वागतास्तु - कण्टको स्त्रिविधास्त्रिभिर्दोषैः, अलास, उपजि-ह्निका चेति ॥ ३६ ॥

जिह्वाऽनिलेन स्फुटितो प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा ।

पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च ।

कफेन गुर्वी बहुला चिता च मांसोद्गमैः शाल्मलिकण्टकाभैः ॥ ३७ ॥

जिह्वातले यः श्वयथुः प्रगाढः सोऽलासंसंज्ञः कफरक्तमूर्त्तिः ।

जिह्वां स तु स्तम्भयति प्रवृद्धो मूले तु जिह्वा भृशमेति पाकम् ॥ ३८ ॥

जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नय जातः कफरक्तयोनिः ।

प्रसेककण्डू परिदाहयुक्ता प्रकथ्यतेऽसावुपजिह्निकेति ॥३९ ॥

तालुगतास्तु - गलशुण्डिका, तुण्डिकेरी, अधुषः, मांसकच्छपः, अर्बुदं, मांससङ्घातः, तालुपुप्पुटः, तालुशोषः, तालुपाक इति ॥ ४० ॥

श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो मातवस्तिप्रकाशः ।

तृष्णाकासश्वासकृत्सम्प्रदिष्टो व्याधिवैद्यैः कण्ठशुण्डीति नाम्ना ॥४१ ॥

शोफः स्थूलस्तोददाईप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु ।

शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषो रुग्ज्वराढ्यः ॥४२ ॥

कूर्मोत्सन्नोऽवेदनोऽशीघ्र जन्माऽरक्तो ज्ञेयः कच्छपः श्लेष्मणास्यात् १ त्रिविधाः कण्टकाः = वातकण्टकः, पित्तकण्टकः, कफकण्टकश्च । शार्ङ्गधरे जिह्वाग. तरोगेषु अधिजिह्वाख्यः पञ्चसंख्याऽतिरिक्तः षष्ठो भेदो दृश्यते । जिह्वोपरि जातो यः श्व-यथुस्तेनाधिजिह्वा कथिता । सुश्रुते कण्ठरोगे पठितेयम् । २ स्फुटिता = मनाग्विदीर्णा प्रसुप्ता = रसस्यानत्रवोधादचेतना, शाकः = खरपत्रो वृक्षविशेषः, ' सागवान’इति ख्यात-स्तस्य छदनं पत्रं तत्प्रकाशा, खरस्पर्शेत्यर्थः । ३ मांसोद्गमैः = मांसाङ्कुरैः । ४ श्रसाध्यो-ऽयम् । कफरक्तयोर्मूर्त्तिरिव मूर्तिरस्येति कफमूर्तिः । ५ जिह्वाग्ररूपः = जिह्वाग्रसन्निभः । ६ जिह्वाम् उन्नम्य ऊध्वीकृत्य जात उत्पन्नः । एतेन जिह्वाया अधोभवती-त्युक्तमिति डल्हणः । ७ ध्मातबस्तिप्रकाशः = वातपूरितचर्मपुटतुल्यः । ८ कण्ठ. ९ तोददाहप्रपाकी, एतेन वातपित्तानुबन्धो बोद्धव्यः, प्रागुक्ता-शुण्डो = गलशुण्डी । भ्यां = श्लेष्मासृग्भ्याम्, तुण्डिकेरी वनकार्पासीफलं तत्तुल्यशोभतया तुण्डिकेरी । तदुक्तमष्टाङ्गसङ्ग्रहे— “ हनुसन्ध्याश्रितः कण्ठे कार्पासीफलसन्निभः । पिच्छिलो मन्दरु-क्शोफः कठिनस्तुण्डिकेरिका ॥ ” इति । १० अवेदनः = अल्पवेदन इति श्रीकण्ठः । अशीघ्रजन्मा = चिरजः, मन्दानुसारीत्यर्थः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 564

सुश्रुत संहिता चौखम्बा, पृष्ठ 564 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri ४०४ सुश्रुतसहिताया- [ अ ० १६ पद्माकारं तालुमध्ये तु शोफं विद्याद्रक्तादर्बदं प्रोक्तलिङ्गम् ॥ ४३ ॥

. दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्तःस्थं मांससङ्घातमाहुः । नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुष्टस्तालुदेशे ४४

1 शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासो वातात्तालुशोषः सपित्तात् ।

पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ॥ ४५ ॥

कण्ठगतास्तु - रोहिण्यः पञ्च, कण्ठशालूकम्, अधिजिहो, बलयो, बलास, एकवृन्दो, वृन्दः, शतघ्नी, गिलायुः, गलविद्रधिः, गलौघः, स्वरघ्नो, मांसतानो, विदारी चेति ॥ ४६ ॥

गलेऽनिलः पित्तकफौ च मूच्छितौ ' पृथक् समस्ताश्च तथैव शोणितम् । प्रदूष्य मांसं गलरोधिनोऽङ्कुरान् सृजन्ति यान् साऽसुर्हरा हि रोहिणी ॥ ४७ ॥

जिह्वां समन्ताद् भृशवेदना ये मांसाङ्कुराः कण्ठनिरोधिनः स्युः ।

तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्रवगाढयुक्ताम् ॥ ४८ ॥

क्षिप्रोगमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा स्यात् ।

स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा वै ॥ ४ ९ ॥

गम्भीरपाकाऽप्रतिवारवीर्या " त्रिदोषलिङ्गा त्रयसम्भवा स्यात् ।

स्फोटाचिता पित्तसमानलिङ्गाऽसाध्या प्रदिष्टा रुधिरात्मिकेयम् ॥५० ॥

१ पद्माकारं = कमलकर्णिकाकारम् । तदुक्तं भोजेन -- " उपर्येव भवेन्नद्धो यथा पद्मस्य कणिका । पार्श्वतश्चाङ्कुरैदीर्घेर्नासा चाप्यवसीदति । श्लेष्मरक्तसमुत्थानं तत्ता-ल्वर्बुदसंज्ञितम् ॥ ” इति । २ प्रोक्तलिङ्गं = पूर्वोक्तरक्तार्बुदतुल्य लिङ्गम् । ३ पुप्पुटः = तालुपुप्पुट इत्यर्थः । तालुशब्दोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः । ४ भोजेन - " तालुशोषो भवेद् वातात् ” इत्युक्तम् । वाग्भटेन तु - " वातपित्तज्वराया सैस्तालुशोषस्तदाह्वयः ” इति वात-पित्ताभ्यां तालुशोषः पठितः । ५ एनं = पाकम् । ६ वातजपित्तजकफजसन्निपातजर-तजा इति पञ्च रोहिण्यः । ७ मूच्छितौ = प्रवृद्धौ, ' मूच्छितो दृढवृद्धयो: ' इत्यजयः । ८ दोषानुसारेण मारकत्वकालो निर्दिष्टः श्रीकण्ठोद्धृतखरनादे- “ सद्यस्त्रिदोषजा हन्ति त्र्यहाच्छ्लेष्मसमुद्भवा । पञ्चादात् पित्तसम्भूता सप्ताहात्पवनोत्थिता ॥ ” इति । ९ वाता रमकोपद्रवाः = कम्पमन्यास्तम्भादयः । १० अप्रतिवारवीर्या = सद्योमारकतया दुर्निवा CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 565

सुश्रुत संहिता चौखम्बा, पृष्ठ 565 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ ] Digitized by Arya Samaj Foundation Chennai and eGangotri निदानस्थानम् । ४०५

कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकैशूकभूतः ।

खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशोलूकमिति ब्रुवन्ति ॥५१ ॥

जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वाप्रबन्धोपरि रक्तमिश्रात् ।: ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ॥ ५२ ॥

वलास एवायतमुन्नतं च शोफं करोत्यन्नगतिं निवार्य ।

तं सर्वथैवाप्रतिवारवीर्यं विवर्जनीयं वलयं वदन्ति ॥ ५३ ॥

गले तु शोफं कुरुत: प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् ।

मर्मच्छिदं दुस्तरमेतदाहुर्बलाससंज्ञं निपुंणा विकारम् ॥। ५४ ॥

वृत्तोन्नतो यः श्वयथुः सदाहः कण्ड्वन्वितोऽपाय मृदुर्गुरुश्च ।

नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्वलासर्क्षतजप्रसूतः ॥ ५५ ॥

समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं " वृन्दसुदाहरन्ति ।

तं चापि पित्तक्षतजप्रकोपाद्विद्यात् सतोदं पवनास्रजं तु ॥ ५६ ॥

वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं " पिशितप्ररोहैः ।

" नानारुजोच्छ्रायकरी त्रिदोषाज्ज्ञेया " शतघ्नीव शतघ्न्यसाध्या ॥ ५७ ॥

रशक्तिरित्यर्थः । १ कण्टको पलक्षितः शूको जलशुकः, स इव भूतो जात इति कण्टक--शूकभूतः । २ शालूकं कमलकन्दं तत्समकाठिन्येन कण्ठशालूकम् । = पाकानईः, ३ जिह्वाप्रबन्धस्य जिह्वामूलस्योपरि उपरिष्टात् । एतेन जिह्वातलजाया उपजिह्वाया व्यावर्तनं भवति । तदुक्तं चरके- " जिह्वोपरिष्टादुपजिह्विका स्यात् कफादधस्तादधिजिह्विका च ' इति । ४ बलासः = श्लेष्मा । ५ श्रन्नस्य गतिर्येन स्रोतसा सोऽन्नगतिरन्नवह-मार्गः, अन्नस्य प्रवेशो वेति श्रीकण्ठः । ६ मर्मच्छिदं = प्राणायतनहृदयमर्मच्छिदम् । ७ निपुणाः = कुशलाः, ' वैद्याः कथयन्ति ' इति शेषः । ८ अपाक्यः = ईषत्पाकीति डल्हणः । ९ बलासक्षतजप्रसूतः = कफरक्तजात इत्यर्थः । १० एकवृन्दस्यावस्थाविशेष एव वृन्दः । तुल्यस्थानाकृतितो न सप्तदश संख्याऽति-रॆकः । विस्तरस्त्वन्यत्र द्रष्टव्यः । ११ पिशितप्ररोहैः -मांसाङ्कुरैरित्यर्थः । १२ नानारु-जोच्छ्रायकरी = वातपित्तकफज - चोददाइकण्ड्वादिवेदनावृद्धिकरीत्यर्थः । १३ " श्रयः-कण्टकसंच्छन्ना शतघ्नी महती शिला " तत्तुल्यो व्याधिः शतघ्नीशब्दवाच्यः । श्रसाध्या = प्राणहरी । भोजेऽप्युक्तम् - " वातपित्तकफा दुष्टा मांसाङ्कुरसमाचिताम् । मध्यकण्टचर्या वतिं जनयन्ति इयुपेक्षिताः । शङ्कुनैव गले विद्धा शतघ्न्येषा न सिद्धयति ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 566

सुश्रुत संहिता चौखम्बा, पृष्ठ 566 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४०६ Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri [ अ ० १६

ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्त मूर्त्तिः ।

संलक्ष्यते सेक्तमिवाशनं च स शस्त्रसाध्यस्तु गिलायुसंज्ञः ॥ ५८ ॥

सर्वं गलं व्याप्य समुत्थितो यः शोफो रुजो यत्र च सन्ति सर्वाः ।

स सर्वदोषो गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य ॥ ५ ९ ॥

शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता ।

कफेन जातो रुधिरान्वितेन गले गलौघः परिकीत्त्यतेऽसौ ॥ ६० ॥

योऽति Ü ताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्कैविमुक्तकण्ठः ।

कफो ' दिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ॥ ६१ ॥

प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण ।

स मांसतानः कथितोऽवलम्बी प्राणप्रणुत सर्वकृतो विकारः ॥ ६२ ॥

सदाहृतोदं श्वयथु ं

सरक्तमन्तर्गले " पूतिविशीर्णमांसम् ।

पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ॥ ६३ ॥

" सर्वसरास्तु वातपित्तकफशोणित निमित्ताः ॥ ६४ ॥

स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात् ।

रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् ॥ ६५ ॥

कण्डूयुतैरल्परुजैः सवर्णैर्यस्याचितं चापि स वै कफेन । II १ कफरक्तमूर्तिः – कफरक्तज इत्यर्थः । २ सक्तमिव = श्रासक्तनिव । ३ तस्यैव पूर्वो • कृतस्यैव सर्वजस्य सन्निपातजस्य विद्रधेस्तुल्यः सदृश इत्यर्थः । ४ अतिप्रताम्यन् = श्रत्यर्थं तमः प्रपश्यन्निप्यर्थः । ५ शुष्को नीरसो विमुक्तश्च किमपि गिलितुमशक्यतयाऽस्वाधीनः कण्ठो यस्य स शुष्कविमुक्तकण्ठः । ६ कफोपदिग्धेषु = कफलिप्तेषु, अनिलायनेषु -वात • मार्गेषु ७ प्रतानवान् = विस्तारयुक्तः । = महादुःखप्रदायीति श्रीकण्ठः ॥ ८ सुकष्टः ९ प्राणप्रणुत् = प्राणप्रेरकः १० पूतित्रिशीर्णमांसं = दुर्गन्धिगलितमांसमित्यर्थः । ११ स पुरुषो येन पाश्र्वेन विशेषाद् बाहुल्येन शेते, तस्मिन्नेव पार्श्वे विदारी भवतीत्यर्थः । १२ मुखगतोष्ठादिसप्तस्थानव्यापकतया सर्व सरत्वं ज्ञेयमिति विजयरक्षितः । सर्वस्मिन् - मुखे ये भवन्ति ते सर्वसराः, मुखपाका इत्यर्थः । ते पञ्चविधाः प्रदर्शिताः शार्ङ्गधरे -" मुखपाको भवेद्वातात् पित्तात्तद्वत्कफादपि । रक्ताच्च सन्निपाताच्च " इति । १३ अत्र CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 567

सुश्रुत संहिता चौखम्बा, पृष्ठ 567 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya शारीरस्थानम् pen Chennai and eGangotri ४०७ रक्तेन पित्तोदित एक एव कैश्चित् प्रदिष्टो मुखपाकसंज्ञः ॥ ६६ ॥

इति भगवता श्रीधन्वन्तरिरणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां निदानस्थाने मुखरोगनिदानं नाम षोडशोऽध्यायः ॥१६ ॥

अथ शारीरस्थानम् ।

प्रथमोऽध्यायः ।

अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखि-शोणितोपादानं मतान्तराभिप्रायेणेत्यनन्तरं स्पष्टीभविष्यति । १ कैश्चिद् आचार्यैः -रक्तेन मुखपाकसंज्ञ एकः सर्वसरः प्रदिष्टः स पित्तोदित एवेति सम्बन्धः । इति शम् । इति पण्डितश्रीकपिलदेवमिश्रतनुजन्मना मिश्रोपाहृश्री सुदामाशर्मणा निम्मितायां सुश्रुतसंहितायाः सुधाऽख्यटिप्पन्यां निदानस्थाने षोडशोऽध्यायः । समाप्तमिदं निदानस्थानम् । X अथ शारीरस्थानम् ।

वीणावादनवेलायां यन्मुखे स्मितसान्द्रता ।

तां दयावृंहितां वाण सुदामामिश्र आश्रये ॥ १ ॥

२ रोगनिदानज्ञानानन्तरं चिकित्साया श्रवसरः, सा तत्तत्स्थानज्ञानमन्तरा न -सम्भवतीति तत्तदङ्गप्रत्यङ्गादिज्ञापनार्थं शारीरस्थानमारभ्यते - अथात इति । सर्व-भूतचिन्ताशारीरम्, शरीरमधिकृत्य कृतो ग्रन्थः शारीरः सर्वभूतानां मनुष्यतिर्यक्स्थाव-रादिप्राणिनां चिन्ता विचारः, सा विद्यते यस्मिन्नध्याये, छप्रत्ययस्तस्य ' अध्यायानुवा · “ कयोर्लुक्’इति लुक् । ततः सर्वभूतचिन्ता चासौ शारीरश्चेति कर्मधारयस्तम् । ३ श्रव्यक्तं निरूपयति — सर्वेति । सर्वभूतानां कारणमव्यक्तं नामेति सम्बन्धः । न विद्यते व्यक्ति-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 568

सुश्रुत संहिता चौखम्बा, पृष्ठ 568 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४०८ Digitized by Arya अकुलकुल सं विकायचं mai and eGangotri [ अ ० १ लस्य जगतः सम्भवहेतुरव्यक्तं नाम । तदेकं बहूनां क्षेत्रज्ञानाम-धिष्ठानं समुद्र इवौदकानां भावानाम् || ३ || तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव, तल्लिङ्गाच्च महतस्त--ल्लक्षण एवाहङ्कार् उत्पद्यते, स त्रिविधो वैकारिकस्तैजसो भूतादि-रिति । तंत्र वैकारिकादहङ्कारात्तैजससहायात्तल्लक्षे खान्येवैकाद-शेन्द्रियाण्युत्पद्यन्ते । तद्यथा श्रोत्रत्वक्चक्षुर्जिह्वाप्राणवाग्वस्तोपस्थ-पायुपादद्मनांसीति । तत्र पूर्वाणि पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च रवयवो यस्येत्यव्यक्तं, बहिरिन्द्रियागोचर इत्यर्थः । मूलप्रकृतिपर्यायोऽयमव्यक्तशब्दः कथम्भूतम्? अकारणं, न विद्यते कारणं यस्य तद् श्रविकृतिरूपम्, न कस्यचित्कार्य -भित्यर्थः । तदुक्तं साङ्ख्यकारिकायाम् - " मूलप्रकृतिरविकृतिः ' इति । तस्य स्वरूपं निर्दि-शति - सत्त्वेति । सत्त्वरजस्तमांसि लक्षणं स्वरूपं यस्येति सत्त्वरजस्तमोलक्षणम् । पुनः कथम्भूतम्? अष्टरूपं, प्रकृतिभावेनैवाव्यक्तं महानहङ्कारः पञ्चतन्मात्राणीत्यष्टौ रूपाणि यस्य तत् । तथा चोक्तं गीतायाम् - - ' भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । श्रहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ' इति । पुनरपि किं विशिष्टम्? अखिलस्य जगतः सम्भवहेतुः अभिव्यक्तिकारणम् । १ क्षीयते इति क्षेत्रं शरीर तज्जानन्तीति क्षेत्रज्ञास्तेषां, जीवानामित्यर्थः । अधिष्ठानम् = आश्रयः, श्रदकानाम् उदकसम्बन्धिनां भावानां पदार्थानां समुद्र इव, यथा एकः समुद्रो बहूनां जलजन्तूनामाश्रयस्तथैव तद-व्यक्तमेकमपि अनेकेषां जीवानामाश्रयो भवतीति । २ श्रव्यक्तात्सर्वतत्त्वानामुत्पत्तिक्रमं दर्शयति -- तस्मादिति । तस्मात् = क्षेत्रज्ञा-धिष्ठितात् श्रव्यक्तात् = मूलप्रकृतेः महान् = आद्यं कार्ये बुद्धितत्त्वम् । साङ्खय कारिकायां सृष्टिक्रममाह -- ' प्रकृतेर्मंहांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशका-स्पञ्चभ्यः पञ्चभूतानि ॥ इति । साङ्ख्यप्रवचन भाष्ये - - ' महत्तत्त्वमिति प्रोक्तं बुद्धितत्त्वं तदुच्यते’इति । “ प्रकृतिर्विश्वजननीं पूर्व बुद्धिमजीजनत् " इत्यादिना शार्ङ्गधरेऽपि । उत्पद्यते = व्यक्तीभवति, तल्लिङ्गः -- तस्याव्यक्तस्य लिङ्गमिव लिङ्गं यस्येति तल्लिङ्गः: सत्त्वरजस्तमोलक्षण एव । ३ श्रहङ्कारः = श्रभिमानव्यापारलक्षणः, ' अहमित्यभिमानेन यः क्रियासु प्रवर्तते । कार्यकारणयुक्तस्तु तदहङ्कारलक्षणम् ॥ ' इति । ४ वैकारिकः = सात्त्विकः, तैजसः -राजसः, भूतादिः = तामसः । ५ तल्लक्षणानि = सच्वलक्षणानि, प्रकाशकत्वात् सत्त्व-प्रधानानीति निष्कर्षः । तदुक्तं सांख्यकारिकायाम् - - ' सात्त्रिक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम् ॥'इति । ६ बुद्धेराश्रय-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 569

सुश्रुत संहिता चौखम्बा, पृष्ठ 569 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya Samaj Foundation Chennai and eGangotri शारीरस्थानम् । ४११ वायुः, सूर्यश्चक्षुषः, रसनस्यापः, पृथिवी घ्राणस्य, वचसोऽग्निः, हस्तयोरिन्द्रः, पादयोर्विष्णुः, पायोर्मित्रः, प्रजापतिरुपस्थस्येति ॥ ७ ॥

तंत्र सर्व एवाचेतन एष वर्गः, पुरुषः पञ्चविंशतितमः कार्यका-रणसंयुक्तश्चेतयिता भवति । सत्यप्यचैतन्ये प्रधानस्य पुरुषकैव-ल्यार्थं प्रवृत्तिमुपदिशन्ति क्षीरादींश्चात्र हेतूनुदाहरन्ति ॥ ८ ॥

श्रत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः । तद्यथा— उभावप्यनादी, उभावप्यनन्तौ उभावप्यलिङ्गौ, उभावपि नित्यौ, उभावप्यनपरौ, उभौ च सर्वगताविति । एकौ तु प्रकृतिर-बुद्धेरधिष्ठाता ब्रह्मेत्यर्थः । एवमग्र व्याख्येयम् । १ पूर्वोक्ता चेतनवर्गस्य पुरुषश्चेतदिता कथं भवतीति विवृणोति - तन्त्रेति । तत्र = सर्वेभूतेषु मध्ये, एषः = पूर्वोक्तः, वर्ग: = चतुर्विंशतितत्त्वरूपः, सर्व एवाचेतन इति सम्ब-न्धः । पुरुषः पनविंशतितमः पञ्चविंशतितत्त्वरूपः, कार्यकारणसंयुक्तः कार्येण महदा-दिविकारेण कारणेन मूलप्रकृत्या संयुक्तः, संयोग एव भोगापवर्गार्थं सर्गे करोतीति भावः; चेतथिता चेतनो भवतीति तात्पर्यम् । २ प्रधानस्य = प्रकृतेः, " प्रधानं प्रकृतिः शक्तिनित्या चाविकृतिस्तथा । एतानि तस्या नामानि शिवमाश्रित्य या स्थिता ॥ " इति मूलप्रकृतेः पर्यायनामान्याह शार्ङ्गधरे । पुरुषकैवल्यार्थं पुरुषस्य मुक्तये, ' मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ' इत्यमरः । प्रवृत्ति कार्याकारेण परिणामम् उपदि -शन्ति, आचार्या इति शेषः । अत्र अचेतनायाः प्रकृतेः प्रवृत्तौ क्षीरादींश्च हेतून् उदा-हरन्ति । तद्यथा - ' वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ' इति साङ्ख्यकारिकायाम् । यथा वत्सविवृद्धयर्थं क्षीरम. चेतनं प्रवर्तते, एवं प्रकृतिरचेतनाऽपि पुरुषविमोक्षणाय प्रवर्तिष्यते इति तद्भावः । ३ समानो धर्मः साधर्म्यम्, विरुद्धो धर्मो वैधर्म्यम्, साधर्म्य च वैधर्म्यं चेति तें साधर्म्य वैधर्म्ये । ४ तयोः प्राक् साधर्म्यं दर्शयति- उभाविति । उभौ - प्रकृति पुरुषौ, अनादी = न विद्यते आदिः कारणं ययोस्ती, अनन्तौ = न विद्यतेऽन्तो नाशो ययोस्तौ, प्रलिङ्गौ === लिन्नयतेऽनेनेति लिङ्गमाकारः, न विद्यते लिङ्गं ययोस्ती, नित्यौ = कारणर-हितौ, अपरौ = न विद्यते परः श्रेष्ठो याभ्यां तौ, अनपराविति पाठे न विद्यतेऽपरो याभ्यां तौ, यतः प्रकृतिपुरुषावेव महदादिभ्यः परौ, सर्वगतौ व्यापकौ । ५ वैधर्म्य दर्शयति – एकेति । त्रिगुणा = सत्त्वरजस्तमोगुणा, बीजधर्मिणी, बी • जस्य धर्मो बीजधर्म:, सोऽस्त्यस्या इति बीजधर्मिणी, सत्वरजस्तमसां गुणानां साम्या-अस्थायां स्थिता सर्वेषां महदादिविकाराणां बीजभावेनावस्थिता बीजधर्मिणीत्युच्यते CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 570

सुश्रुत संहिता चौखम्बा, पृष्ठ 570 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४१२ Digitized by Arya Samaj Foundation Chennai and eGangotri सुश्रुतसंहिताया-[ अ ० १ चेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्य मध्यस्थधर्मिणी चेति । बहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अबीजधर्माणोऽप्रसवधर्माणो मध्यस्थधर्माणश्चेति ॥ ९ ॥

तत्र कौरणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः सत्त्व-रजस्तमोमया भवन्ति । तदञ्जनत्वात् तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते ॥ १० ॥

वैद्यके तु—

स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा ।

परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ॥ ११ ॥।

इति डल्इणः । संद्दारे भूतेन्द्रियतन्मात्राहङ्कारमहदादीनामाधारभूतेति बीजधर्मिणीति गयी । प्रसवधर्मिणी = सर्गावस्थायां कार्याकारेण परिणामिनी । ढल्हणः - सँव सिसृक्षुणा विभुना पुरुषेण सार्द्धं क्षोभमागम्य साम्यावस्थातः प्रच्युता महदहङ्कारादिक्रमेण चरा-चरस्य जगतः प्रसवित्रीति प्रसवधर्मिणीत्युच्यते । श्रमध्यस्थधर्मिणी = सत्त्वादिगुणरूप-तया सुखदुःखभोगवतीत्यर्थः । तथा चोक्तमीश्वरकृष्णेन – ' तस्मान्न बध्यतेऽद्धा न तमुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ श्रद्धा न कश्चित् पुरुषो वध्यते, न कश्चित् संसरति, न कश्चिन्मुच्यते; प्रकृतिरेव तु नानाश्रया सती वध्यते संसरति मुच्यते चेति बन्धमोक्ष संसाराः पुरुषेषूपचर्यन्ते इति तदर्थः । १ कारणस्य शुक्लतन्तुरूपकारणस्य अनुरूपं सदृशं कार्यं शुक्लपटस्यैवोत्पत्ति-रूपकार्यम्, इति कृत्वा इति हेतोः सर्व एवैते विशेषाः प्रकाराः महदादिकाः सत्त्वरज • स्तमोमया भवन्ति, तदअनत्वात् तेषां सत्वरजस्तमसामञ्जनमाकारो येषु ते तद-अनाः पुरुषाः सत्त्वादिलक्षणास्तेषां भावस्तत्त्वं तस्मात् ' तदञ्जनता तदाकारता ' इति वाचस्पतिः । तन्मयत्वात् = सत्त्वादिरूपमहदादिवृत्तौ प्रतिबिम्बनात् पुरुषाणां सत्त्वा दिमयत्वात् । तथा च पातञ्जलसूत्रम् - ' वृत्तिसारूप्यमितरत्र ' इति, जपाकुसुमस्फटिक-योरिव बुद्धिपुरुषयोः संन्निधानाभेदग्रहे बुद्धिवृत्तीः समारोप्य शान्तोऽस्मि दुःखितोऽस्मि मूढोऽस्मीत्यध्यत्रस्यतीति तदर्थः । तद्गुणाः = सुखिनो दुःखिनो मूढाश्च पुरुषा भवन्ति, इत्येके = सांख्याचार्याः, एतेन पूर्वोक्तस्य सर्वस्यैकीयमतं प्रतिपादितम् । २ वैद्यकेतु - पृथुदर्शिनः विपुलदर्शिनः स्वभावादयः षट् प्रकृति कारणं मन्यन्ते इति सम्बन्धः । स्वभावादिभेदभिन्नायाः षड्विधाया श्रपि प्रकृतेरुदाहरणान्यत्राभिहि-तानि । तत्र तावत् स्त्रभावस्य कारणत्वम् – “ अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते ” “ सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ । तलेष्वसम्भवो यश्च रोम्णामेतत्स्वभावतः ” ॥ CC - 0. Gurukul Kangri Collection, Haridwar