सुश्रुत संहिता चौखम्बा — पृष्ठ 551–560

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 551–560

पृष्ठ 551

सुश्रुत संहिता चौखम्बा, पृष्ठ 551 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १३ Pigitized by Arya Sarpa निदानस्थानम् : nai and eGangotri ३ ९ १

कृष्णानि तिलमात्राणि नीरुजानि समानि च ।

वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ॥ ४३ ॥

मण्डलं महदल्पं वा श्यामं वा यदि वा सितम् ।

सहेजं नीरुजं गात्रे न्यच्छमित्यभिधीयते ॥ ४४ ॥

समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्त्तितम् ।

क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ॥ ४५ ॥

सहसा मुखमागत्य मण्डलं विसृजत्यतः ।

नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ॥ ४३ ॥

मर्दनात् पीडनाच्चापि तथैवात्यभिघाततः ।

मेढ़चमै यदा वायुर्भजते सर्वतश्चरः ॥ ४७ ॥

तदा वातोपसृष्टं तु चर्म प्रतिनिवत्र्त्तते ।

मणेरधस्तात् क्रोशश्च ग्रन्थिरूपेण लम्बते ॥ ४८ ॥

सवेदनः सदाहश्च पाकं च व्रजति क्वचित् ।

मारुतागन्तुसम्भूतां विद्यात्तां परिवर्तिकाम् ॥ ४ ९ ॥

सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता ।

अल्पीयःखां यदा हर्षाद् बालां गच्छेत् स्त्रियं नरः ॥ ५० ॥

मषकं वदेत् ॥ ” इति । मपकमित्यत्र माषशब्दात् ' इवे प्रतिकृती ' इति कन्, ' नैरुक्त्येन च विधिना ह्रस्वत्वम् । १ वातपित्ताभ्यां हेतुभ्यां कफस्योच्छोषः शोषणं तस्मात् । अन्ये— “ मारुतः पित्तमादाय कफरक्तसमाश्रितः । चिनोति तिलमात्राणि त्वचि ते तिलकाल-काः ॥ ” इति तन्त्रान्तरमवलोक्य ' वातपित्तकफोद्रेकात् ' इति पठन्ति । २ सहजं = जन्मकालप्रवृत्तम् । ३ “ न्यच्छं लाञ्छनमुच्यते " रक्तपित्तान्वितो वायुरस्य कारणम् । तदुक्तं भोजेन— “ रक्तपित्तान्वितो वायुस्त्वक्प्रदेशाश्रितो यदा । जनयेन्मण्डलं कृष्णं श्यावं वा न्यच्छमादिशेत् ॥ ” इति ४ प्रागर्शोनिदाने । वाग्भ • टस्तु – “ मषेभ्यस्तू-न्नततरान् चर्मकीलान् सितासितान् " इति चर्मकीलं मषकभेदमेवोक्तवान् । ५ श्यावं = शुक्लानुविद्धकृष्णवर्णम् । व्यङ्गमेव स्थानान्तरेण वर्णान्तरेण च नी-लिकोच्यते " कृष्णमेवङ्गुणं गात्रे मुखे वा नीलिकां विदुः ” इति माधवः । ६ सर्वत-श्वरो व्यानो वायुरिति सम्बन्ध: । भोजेऽप्युक्तम् – “ मणेरधो मेढचर्मव्यानस्तु परिवर्त-येत् । सशूलतोददाहाद्यैर्विज्ञेया परिवर्तिका । श्लैष्मिकी कठिना स्निग्धा कण्डू -मत्यल्पवेदना ॥ ” इति । ७ अल्पीयोऽल्पतरं खं योनिमुखं यस्याः सा ताम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 552

सुश्रुत संहिता चौखम्बा, पृष्ठ 552 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ २ Digitized by Arya सुश्रुतसंहिता hennai and eGangotri [ अ ० १३

हस्ताभिघातादथवा चर्मण्युद्वेर्त्तिते बलात् ।

मर्दनात्पीडनाद्वाऽपि शुक्रवेगविघाततः ॥ ५१

यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् ।

चर्म संश्रयते मणिम् ॥ ५२ ॥

वातोपसृष्टमेवं तु

मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च ।

निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् ॥ ५३ ॥

मूत्रं प्रवर्तते जन्तोर्मणिर्न च विदीर्यते ।

निरुद्धप्रकशं विद्याद् दुरूढां चावपाटिकाम् ॥ ५४ ॥

, वेगसन्धारणाद्वायुर्विहँतो गुदमाश्रितः ।

निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ॥ ५५ ॥

मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति ।

सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम् ॥। ५६ ॥

शकृन्मूत्रसमायुक्तेऽधीतेऽपाने शिशोर्भवेत् ।

स्विन्नस्यास्नाप्यमानस्य कण्डू रक्तकफोद्भवा ॥ ५७ ॥

- कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते ।

एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ॥ ५८ ॥

स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः ।

प्रक्लिद्यते यदा स्वेदात् स कण्डुं जनयेत्तदा ॥ ५ ९ ॥

तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते ।

प्राहुर्वृपणकच्छंतां श्लेष्मरक्तप्रकोपजाम् ॥ ६० ॥

१ उद्वर्तिते = उत्तानीभूयोर्ध्वं वर्तिते । २ संश्रयते = समग्रं श्रयते । ३ वि. दीर्यते == स्वक्परिवर्तनाशक्यतया मणिर्विवृतो न भवतीत्यर्थः । ४ विहतः = ५ महत्स्रोतः = गुदम् । ६ तस्य = गुदस्येत्यर्थः । ७ श्र अवरुद्धगतिः । पाने = गुदे | ८ व्रणैः सह एकीभूतं तम् अपानं घोरमहिपूतनं विद्यादिति योजना । इदं दुष्टस्त-न्यपानादपि भवतीति भोजेनोक्तम् – “ दुष्टस्तन्यस्य पानेन मलस्याक्षालनेन च । कण्डू · दाहरुजावद्भिः पिढकैश्च समाचिता । सम्भवन्ति यथादोषं दारुणा ह्यहिपूतना ॥ " इति । ९ उत्सादनम् = उद्वर्तनम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 553

सुश्रुत संहिता चौखम्बा, पृष्ठ 553 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Chennai and eGangotri अ ० १४ ] Digitized by Arya निदानस्थानम् fhen

प्रवाहणातिसाराभ्यां॑ निर्गच्छति गुदं बहिः ।

रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत् ॥ ६१ ॥

३ ९ ३ इति सुश्रुतसंहितायां निदानस्थाने क्षुद्ररोगनिदानं नाम त्रयोदशोऽध्यायः ॥१३ ॥

चतुर्दशोऽध्यायः ।

अर्थातः शुकदोपनिदानं व्याख्यास्यामः ॥१ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते । तद्यथा - सर्पपिका, अष्ठीलिका, ग्रथितं, कुम्भीका, अलजी, मृदितं, सम्मूढपिडका, अवमन्थः, पुष्करिका, स्पर्शहानिः, उत्तमा, शतपोनकः, त्वक्पाकः, शोणितार्बुदं, मांसा-र्बुद, मांसपाकः, विद्वधिः, तिलकालकश्चेति ॥ ३ ॥

गौरसर्पपतुल्या तु शूदुर्भग्नहेतुका ।

पिडका कफरक्ताभ्यां ज्ञेया सर्षपिका बुधैः ॥ ४ ॥

१ प्रवाहणं = प्रकर्षेण कुन्थनम् । इति सुश्रुतसंहिताया निदानस्थानीयसुधा ss ख्यटिप्पन्यां त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः । २ शूकः सविषो जलमलोद्भवो जन्तुभेदः, शिश्नवृद्धिकरयोगो वा तस्य दोषो वा-तादी रोगो वा " दोषा ह्यपि रोगशब्दं लभन्ते " इति दृढबलस्मरणात्, तस्य निदानं शूकदोषनिदानम् । लिङ्गवृद्धिकरा योगा वात्स्यायनीयकामसूत्रे उक्ताः – “ भल्लातका-स्थिजलशूकमथाब्जपत्रमन्तविंद मतिमान् सह सैन्धवेन । एतद्विरूढबृहतीफलतोय-पिष्टमालेपनं महिषविविमलीकृतेऽङ्गे ॥ ” इति । अपि च - " अश्वगन्धावरीकुष्ठमांसी-सिंद्दीफलान्वितम् । चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत् । स्तनलिङ्गकर्णपालिवर्ध नं क्षणादिदम् ॥ ” इति । ३ शूकदोषजव्याधीनां सामान्यसम्प्राप्तिं भेदांश्च दर्शयति – लिङ्गेति । लिङ्गवृ-द्धिमिच्छतां = लिङ्गस्थूलीकरणमभिलषताम्, अक्रमप्रवृत्तानाम् = अनुचित शिश्नवृद्धि-करकल्पे प्रवृत्तिमताम् । ' क्रमः कल्पाङ्घ्रिशक्तिषु ' इति हेमचन्द्रः । ४ शुकस्य दुर्भुग्नं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 554

सुश्रुत संहिता चौखम्बा, पृष्ठ 554 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ ४ Digitized by Arya Samaj त्सुश्रुतसंहितायांland eGangotri [ अ ० १४

कठिना विषमैरन्तैर्मारुतस्य प्रकोपतः ।

शूकैस्तु विषसम्भुग्नैः पिडकाऽष्ठीलिका भवेत् ॥ ५ ॥

शूकैर्यत् पूरितं शश्वद् ग्रथितं तत् कफोत्थितम् ।

कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाशुभ ॥ ६ ॥

अलैजीलक्षणैर्युक्तामलजीं च वितर्कयेत् ।

मृदितं पीडितं यत्तु संरब्धं वायुकोपतः ॥ ७ ॥

पाणिभ्यां भृशसंम्मूढे सम्मूढपिडका भवेत् ।

दीर्घा बह्वयश्च पिडका दीर्यन्ते मध्यतस्तु याः ॥ ८ ॥

सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ।

पित्तशोणितसम्भूता पिडका पिडकाचिता ॥ ९ ॥

पद्मपुस्करसंस्थाना ज्ञेया पुष्करिकेति सा ।

जनयेत् स्पर्श " निं तु शोणितं शूकदूषितम् ॥ १० ॥

मुद्गमाषोपमा रक्ता पिडका रक्तपित्तजा ।

उत्तमैषा तु विज्ञेया शूक जीर्णनिमित्तजा ॥ ११ ॥

१॰छिद्रैरणुमुखैर्वस्तु चितं यस्य समन्ततः । दुरवचारणादवश्यविकारित्वरूपं बलवत्कौटिल्यं हेतुर्यस्याः सा शूकदुर्भुग्नहेतुका । १ विषमैः = अप्रशस्तैः, अन्तैः = पतितैः, शुकैरष्ठीलिका भवेदिति सम्बन्धः । अष्ठी-लिका लौइकारस्य भाण्डीविशेषः, तत्तुल्यत्वादष्ठीलिका । २ शुकैर्यत् पूरितं = शेफसि शूकपूरणप्रतीतियुक्तम्, ग्रन्थि तुल्यत्वाद् ग्रथितसन्ज्ञा, शश्वद = अहरहः, एतेनैकदिना-न्तरपूरणं प्रशस्तमिच्छन्ति कामतन्त्राचार्याः । नित्यपूरणाद् ग्रथितनाम्नो रोगस्योत्पत्ति-रिति वाचस्पतिः । ३ कुम्भी वारिपणीं तस्याः फलं कुम्भी ' फले लुप् ' इति तद्धित-प्रत्ययस्य लुप्, ' इवे प्रतिकृतौ ' इति कन् । कुम्भीफलाकारा कुम्भीका । ' कुम्भ्युखायां पाटलायां वारिपर्ण्यो च कट्फले ' इति हेमचन्द्रः । ४ शुभं शुक्लं तद्विरोधे नञ्, कृष्णेत्यर्थः । ५ अलजीलक्षणैः = प्रमेहपिटको । ६ शूकपातानन्तरं कोक्तालजीलक्ष लक्षणैरित्यर्थः पीडितमिति बोध्यम् । यत्तु संरब्धं शोथशूलादिभिरभिभूतमित्यर्थः । ७ भृशसम्मूढे = अत्यन्तमर्दनेन अवनते ‘ पातितशुके लिङ्गे ' ' वातको पत: ' इति द्वयमध्याहार्यम् । ८ स्पर्श-हानिम् = एतन्नामानं व्याधिविशेषमित्यर्थः । ९ शूकाजीर्णं पुनः पुनर्दुरख चरितशूक-विकृतिमेव तन्निमित्तजा । १० छिद्रैः = दुरवचारितशूकदोषजनितवातशोणितजैः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 555

सुश्रुत संहिता चौखम्बा, पृष्ठ 555 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

San ndation अ ० १४ ] Digitized by Arya Sf नदानस्थानम् hannai and eGangotri वातशोणितजो व्याधिर्विज्ञेयः शतपोनकः ॥ १२ ॥

पित्तरक्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहवान् ।

कृष्णैः स्फोटैः सरक्तैश्च पिडकाभिश्च पीडितम् ।

यस्य बस्तिरुजश्चोप्रा ज्ञेयं तच्छोणितार्बुदम् ॥ १३ ॥

मांसदोषेण जानीयादर्बुदं मांससम्भवम् ।

शीर्यन्ते यस्य मांसानि यस्य सर्वोश्च वेदनाः ॥ १४ ॥

विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक् ।

विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत् ॥ १५ ॥

कृष्णानि चित्रण्यथवा शूकानि सविषाणि च ।

पातितानि पचन्त्याशु मेढ्रं निरवशेषतः ॥ १६ ॥

कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः ।

सन्निपातसमुत्थानं तं विद्यात्तिलकालकम् ' ॥ १७ ॥

तर्त्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः । ३ ९ ५ विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः ॥ १८ ॥

इति सुश्रुतसंहितायां निदानस्थाने शूकदोषनिदानं नाम चतुर्दशोऽध्यायः ॥१४ ॥

१ त्वक्पाकः = एतन्नामा व्याधिविशेषः । २ ‘ वास्तुरुज: ' इति पाठे वास्तु व्रणाधिष्ठानं तत्र रुजः श्रगाधोच्छ्रितमांसशोथत्वा-दित्यर्थः । ३ शूकपातानन्तरं प्रहारादिना कृतेन मांसदोषेण मांससम्भवमर्बुदं मांसार्बुदं जानीयात् । ४ वेदनाः = वातपित्तकफजा इत्यर्थः । ५ विद्रधिनिदाने “ नानावर्ण-रुजास्रावः ” इत्यादिना सन्निपातजविद्रधिलक्षणं विद्रधिं निर्दिशेत् जानीयात् । ६ चि. त्राणि = नानावर्णानि, शुक्लपीतनीलादिवर्णानीति यावत् । ७ कालानि = कृष्णानि परिणत तिलफलवर्णानि । ८ कृष्णतिलतुल्यत्वात् तिलकालकसन्ज्ञा । ९ शुकदोषजे-ष्वसाध्यान्निर्दिशति — तन्त्रेति । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां चतुर्दशोऽध्यायः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 556

सुश्रुत संहिता चौखम्बा, पृष्ठ 556 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ ६ Digitized by Arya Samart सुश्रुतसंहिता ajai nai and eGangotri [ अ ० १५

पञ्चदशोऽध्यायः ।

अथातो भग्नानां निदानं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

पतनपीडनप्रहाराक्षे परणव्यालमृगदशनप्रभृतिभिरभिघातविशेषै-रनेकविधमस्थ्नां भङ्गमुपदिशन्ति ॥ ३ ॥

तत्तु भङ्गजातमनुसार्यमाणं द्विविधमेवोत्पद्यते सन्धिमुक्त काण्डभग्नं च ॥ ४ ॥

तत्र सन्धिमुक्तम् - उत्पिंष्टं विश्लिष्टं विवर्त्तितम् अवक्षिप्तम्, अतिक्षिप्तं, तिर्य्यक्षिप्तमिति षडविधम् ॥ ५ ॥

तत्र प्रसारणाकुञ्चनविवर्त्तनाक्षेपणाशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम् ॥ ६ ॥

विशेषेणोत्पिष्टे सन्धावुभयतः शोफो वेदनाप्रादुर्भावो विशेषतश्च नानाप्रकारा वेदना रात्रौ प्रादुर्भवन्तिः । विश्लिष्टेऽल्पः शोफो वेदनासातत्यं सन्धिविक्रिया च । विर्वात्तते तु सन्धिपार्श्वापगमा-द्विषमाङ्गता वेदना च । अवक्षिप्ते सन्धिविश्लेषस्तीव्ररुजत्वं च । अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरतिक्रान्तता वेदना च । तिर्यक्क्षप्ते त्वेकास्थिपार्श्वापगमनमत्यर्थं वेदना चेति ॥ ७ ॥

काण्डभग्नमत ऊर्ध्वं वक्ष्यामः – कर्कटकम्, अश्वकर्णं, चूर्णितं, पिच्चितम, अस्थिच्छल्लितं, काण्डभग्नं, मज्जानुगतम्, अतिपातितं, पञ्चदशोऽध्यायः । १ प्रभृतिग्रहणाद् बलवद्विग्रहादीनामादेशः । २ अनुसार्यमाणं = तत्त्वतोऽनु-सन्धीयमानम् । ३ द्वयोरस्थ्नोः सन्धानं सन्धिस्तनुमुक्तं सन्धिविश्लेषः, काण्डभ-ग्नम् = अस्थिकाण्डभग्नम्, काण्डेन च नलककपालवलयतरुण रुचकानां ग्रहः । ४ उत्पि-ष्टं = यत्रास्थिपेषणं जातम्, विश्लिष्टं = यत्र किञ्चिद्विश्लेषणं जातम्, विवर्तितं = सव्यद · क्षिणविभागेनापवर्तितम्, अवक्षिप्तम् = ऊर्ध्व मधो वा क्षिप्तम्, प्रतिक्षिप्तं = मांससि-रादीनि विदार्यापगतम्, तिर्यक्क्षप्तं = तिर्यग्गतम्, अत्र ह्येकं सन्ध्यस्थि सन्धिस्थानं त्यक्त्वा तिर्यग्यातीति तात्पर्यम् । ५ सन्धिसंश्रययोरस्थ्नोव्यवर्तनेन पाश्र्वागमना-द्विषमाङ्गता । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 557

सुश्रुत संहिता चौखम्बा, पृष्ठ 557 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १५ ] Digitized by Arya Sa नमन epnai and eGangotri ३ ९ ७ चक्रं, छिन्नं, पाटितं, स्फुटितमिति द्वादशविधम् ॥ ८ ॥

श्वयथुबाहुल्य स्पन्दनविवर्त्तनस्पर्शा सहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता विविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्म-लाभ इति समासेन काण्डभग्नलक्षणमुक्तम् ॥ ९ ॥

विशेषतस्तु सम्मूढमुभयतोऽस्थिमध्ये भग्नं ग्रन्थिरिवोन्नतं कर्कटकम्, अश्वकर्णवदुगतमश्वकर्णकं स्पृश्यमानं शब्दवच्चूर्णित-मवगच्छेत्, पिच्चितं पृथुतां गतमनल्पशोफम्, पार्श्वयोरस्थि हीनोद्गतमस्थिच्छल्लितम्, वेल्लते प्रकम्पमानं काण्डभग्नम्, अ-स्थ्यवयवोऽस्थिमध्यवनुप्रविश्य मज्जानमुन्नतोति मज्जानुगतम्, अस्थि निःशेषतश्छिन्नमतिपातितम्, आभुर्नमविमुक्तास्थि वक्रम्, ' अन्यतरपार्श्ववशिष्ट छिन्नम्, पाटितमणुबहुविदारितं वेदनावच्च, " शुकपूर्णमिवाध्यातं विपुलं " विस्फुटीकृतं स्फुटितमिति ॥ १० ॥

तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि, कृशवृद्धबालानां क्षतक्षीणकुष्ठश्वासिनां सन्ध्युपगतं चेति ॥ ११ ॥

भवन्ति चात्र । ०

१२ भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम् ।

जघनं प्रतिपिष्टं च वर्जयेत्तच्चिकित्सकः ॥ १२ ॥

" असंश्लिष्टं कपालं तु ललाटे चूर्णितं च यत् । भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च १३ वर्जयेत् ॥ १३ ॥

१ ] तन्त्रान्तरे द्वादशविधादप्यधिकमुक्तम् । तथा च माधव: - " भग्नं तु काण्डे बहुधा प्रयाति समासतो नामभिरेव तुल्यम् ” इति । २ शर्म सुखं तस्य लाभः । ' शर्मशातसुखानि च ' इत्यमरः । ३ अस्थि उभयतः ऊर्ध्वमधश्च मध्ये भग्नं सम्मूढं कार्यानर्हमिति सम्बन्ध: । ४ पृथुतां = विस्तीर्णताम् । ५ छल्लं वल्कलम् अस्थि चलमिव सञ्जातमिवास्थिछल्लितम् । ६ अस्य स्थाने ' खल्लितम् ' इति पाठान्तरम् । तत्र खल्लो गर्तः । । _७_उन्नह्यति = उत्क्षिपति । ८ श्रभुग्नम् = ईषत्कुटिलम् । ९ एकतरपार्श्वावशिष्टमित्यर्थः । १० शूको यवादीनामग्रभागः, वेदनाविशेषे तात्पर्यम् । ११ विस्फुटीकृतं = विदलीकृतम् । १२ असाध्यतां निर्दिशति – भिन्नमिति । १३ असंश्लिष्टं = विघट्टितसन्धि । १४ स्तनान्तरे = उरसि, शङ्ख = शारीरे वच्यमाणे द्वे मर्मणी, पृष्ठे = पृष्ठवंशे, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 558

सुश्रुत संहिता चौखम्बा, पृष्ठ 558 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ ८ Digitized by Arya Samaj - fs सहित a and jai and eGangotri [ अ ० १६

आ॑दि॒तो यच्च दुर्जातमस्थि सन्धिरथापि वा ।

सम्यंग्यमितमप्यस्थि दुन्यसौदुर्निबन्धनात् ॥ १४

सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्चवर्जयेत् ।

मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्त्तिताः ॥ १५ ॥

तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजानता ।

तरुणस्थीनि नम्यन्ते भज्यन्ते नलकानि तु ॥ १६ ॥

कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च ।

इति सुश्रुतसंहितायां निदानस्थाने भग्ननिदानं नाम पञ्चदशोऽध्यायः ॥१५ ॥

पोडशोऽध्यायः ।

अथातो मुखरोगाणां निदानं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

मुखरोगाः पञ्चषष्टिः सप्तस्वायतनेषु । तत्रायतनानि श्रोष्ठौ, --मूर्ध्नि = चूडास्थाने । भालुकिनाऽप्युक्तम् — “ शङ्ख मृध्नि स्तनान्तरे वा काण्डेभग्नं मरणाय " इति । १ आदित: भग्नात्पूर्वतः, यदस्थि, दुर्जातं विकृतं, शोषादिना दूषि-तमित्यर्थः । २ सर्वेषामनवधानतोऽसाध्यत्वं प्रतिपादयति - सम्यगिति । सम्यग्य-मितं = सम्यक्संहितम् । ३ दुर्व्यासात् = दुःस्थापनात्, दुर्निबन्धनात् = कुशातू-लिकादिबन्धनवस्तुभिर्दृढतयाऽबन्धनात् । ४ संक्षोभात् = संहिताङ्गखण्डद्वयस्य सच-लनात् । ५ श्रातुरोपक्रमणीये “ तस्य विकल्पो वृद्धियौवनं सम्पूर्णताहानिरिति ” इत्यादिना वर्णितास्तासु तिस्रोऽवस्थाः षोडशवर्षादूर्ध्वं चत्वारिंशद्यावत् । ६ अस्थिविशेषेण भग्नविशेषमाह - तरुणेति । घ्राणकर्णकण्ठाक्षिपुटेषु तरुणास्थीनि नम्यन्ते वक्रीभवन्ति, एतेनात्र वक्रलक्षणं भग्नम् । नलकानि शाखाऽस्थीनि भज्यन्ते त्रुटन्ति, कपालानि मस्तकादिकर्पराणि विभिद्यन्ते विदारणानि भवन्ति, रुचकानि दन्ताः स्फुटन्ति स्फुटितानि भवन्ति चकाराद् वलयान्यपि स्फुटितानि भवन्ति, अस्थ्नः तरु-णनलककपालवलयरुचकेति पञ्चभेदात् । इति सुश्रुतसंहिताया निदानस्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चदशोऽध्यायः । षोडशोऽध्यायः । ७ भोजेनाप्युक्तम्- " दन्तेष्वष्टावोष्ठयोश्च मूलेषु दश पञ्च च । नव तालुनि जिह्वायां CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 559

सुश्रुत संहिता चौखम्बा, पृष्ठ 559 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १६ ] Digitized by Arya Sama निन्दानाक lai and eGangotri ३ ९९ दन्तमूलानि, दन्ताः, जिह्वा, तालु, कण्ठः, सर्वाणि चेति । तत्राष्टा-वोष्ठयोः, पञ्चदश दन्तमूलेषु, अष्टौ दन्तेषु पञ्च जिह्वायाम्, नव तालुनि, सप्तदश कण्ठे, त्रयः सर्वेष्वायतनेषु ॥ ३ ॥

तत्रौष्ठप्रकोप निमित्ताः ॥ ४ ॥

वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोभिघात-केर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ । दाते परिपाटयेते ह्योष्ठौ मारुतकोपतः ॥ ५ ॥

आचित पिडकाभिस्तु सर्पपाकृतिभिर्भृशम् ।

सदाहपाकसंस्राचौ नीलौ पीतौ च पित्ततः ॥ ६ ॥

सर्वर्णाभिस्तु चीयेते पिडकाभिरवेदनौ ।

कण्डूमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू ॥ ७ ॥

संकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च ।

सन्निपातेन विज्ञेयावनेकपिडकाचितौ ॥ ८ ॥

खर्जूरफलवर्णाभिः पिडकाभिः समाचितौ ।

रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ॥ ९ ॥

मांस दुष्टौ गुरू स्थूल मांसपिण्डवदुतौ ।

जन्तवश्चात्र मूर्च्छन्तिं सृक्कस्योभयतो मुखात् ॥। १० ॥

मेदसा घृतमण्डाभौ कण्डूमन्तौ स्थिरौमृदू ।

अच्छस्फटिकसङ्काशमात्रावं स्रवतो गुरू ॥ ११ ॥

पञ्चसप्तदशामयाः । कण्ठे त्रयः सर्वसरा एकषष्टिश्चतुः पराः " इति । चरके चतुःषष्टिविधाः, शार्ङ्गधरे चतुःसप्तविविधाः, वाग्भटे पञ्चसप्ततिविधाः, भावप्रकाशे च सप्तषष्टिविधा मुखरोगा उक्ताः । १ प्रकोपशब्देनेह तन्मूला रोगा उच्यन्ते । २ कर्कशौ = शाकपत्रवत् खरस्पर्शों, परुषौ = कठोरौ, स्तब्धौ = निश्चलौ । ३ दाल्येते = विदार्येते, परिपाटयेते = किन्चिदवदीर्णत्व चौ भवतः । ४ सवर्णाभिः = श्रेष्ठस मानवर्णाभिरित्यर्थः । ५ सकृत् = कदाचिद् विकृतिवशात् । ६ रक्तोपसृष्टौ = रक्तदूषितौ । ७ क्रिमयश्चात्र सृक्कस्य श्रोष्ठप्रान्तद्वितयस्य उभयत उभयपाश्र्वाश्रयिणो मुखाद् व्रणास्याद् मूर्च्छन्ति उच्छ्रिता भवन्तीत्यर्थः । ८ घृतमण्डः = घृतस्योपरितनः स्वच्छो CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 560

सुश्रुत संहिता चौखम्बा, पृष्ठ 560 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४०० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri क्षतजाभौ विदीर्येते पाटयेते चाभिघाततः । [ अ ० १६ ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ ॥ १२ ॥

दन्तमूलगतास्तु - शीतादः, दन्तपुप्पुटकः, दन्तवेष्टकः, शौषिरः, महाशौषिरः, परिदरः, उपकुशः, दन्तवैदर्भः, वर्द्धनः, अधिमांसः, नौड्यः पश्चेति ॥ १३ ॥

शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्त्तते 1 दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ॥ १४ ॥

दन्तमांसानि शीर्यन्ते ६ पचन्ति च परस्परम् ।

शीतादो नाम स व्याधिः कफशोणितसम्भवः ॥ १५ ॥

दन्तयोस्त्रिषु वा यस्य श्वयथुः सरुजो महान् ।

दन्तपुप्पुटको ज्ञेयः कफँरक्तनिमित्तजः ॥ १६ ॥

स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च ।

दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ॥ १७ ॥

श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः ।

लालास्रावी स विज्ञेयः कण्डूमान् शौषिरो गदः ॥ १८ ॥

दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते । भागस्तस्यामेवाभा ययोस्तौ । १ क्षतजाभौ = रक्तच्छायौ, ' रक्तक्षतजशोणितम् ’ इत्यमरः । २ ग्रथितौ = ग्रन्थियुक्तौ । श्रोष्ठप्रकोपे वातजे शुद्धो वातः कारणम्, श्रभिघातजेतु कफरक्तसहित इति परस्परं भेद इति डल्हणः । भोजेनाप्युक्तम्– “ क्षता-चभिइतौ वाऽपि रक्तावोष्ठौ सवेदनौ । भवतः सपरिस्रावौ कफरक्तप्रदूषितौ ॥ ” इति । ३ नाड्यः पन्चेतीति सर्वे मिलित्वा पञ्चदशसंख्याः पूर्यन्ते । पञ्च नाड्यो दोषा-दिभेदेन “ दोषैस्त्रिभिर्भवति ” इत्यादिना प्राग् नाडीनिदाने ज्ञातव्याः । शार्ङ्गधरसंहि-तयां “ तथा त्रयोदशमिता दन्तमूलामयाः स्मृताः ” इत्यादिना त्रयोदशसंख्याः परि-गणिताः । तत्राधिकस्य दन्तविद्र घेर्लक्षणम् - " दन्तमांसैर्मलस्रा वैर्बाइयतः श्वयथुर्गुरुः । सदाइरुक् स्रवेद् भिल्लं पूयास्रं दन्तविद्रधिः ॥ ” इति । ४ दन्तवेष्टेभ्यः = दन्तबन्ध-नमासेभ्य इत्यर्थः । ५ अकस्मात् = अभिघातादिनिमित्तं विनेत्यर्थः । ६ शीर्यन्ते = गलन्ति । ७ कफरक्तजत्वेऽपि रुजा लालासावाभावात् शौषिराद् भिन्नोऽयम् । ८ चकारेण दन्ता श्रेष्ठौ चाप्यवदीर्यन्ते इति बोध्यम् । तदुक्तं भोजे – “ विवृद्धम-निशं दन्तान् तात्वोष्ठमपि दारयेत् । महाशौषिर इत्येव सप्तरात्रान्निहन्त्यसून् ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar