सुश्रुत संहिता चौखम्बा — पृष्ठ 581–590
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 581–590
पृष्ठ 581
पाठ पढ़ें पाठ छिपाएँ
अ ० २ ] Digitized by Arya Samaj Foundation Chennai and eGangotri शारीरस्थानम् । ४२३ विसर्पत्यार्त्तवं नार्यास्तथा पुंसां समागमे ॥ ३६ ॥
बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ ।
यमावित्यभिधीयेते धर्मेतरपुरःसरौ ॥ ३७ ॥
पित्रोरत्यल्पवीजत्वादासेक्यः पुरुषो भवेत् ।
स शुक्रं प्राश्यं लभते ध्वजोच्छ्राय म संशयम् ॥ ३८ ॥
यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः ।
स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ॥ ३ ९ ॥
स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्तते ।
कुम्भीकः स च विज्ञेय, ईर्ष्यकं शृणु चापरम् ॥ ४० ॥
दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते ।
ईयकः स च विज्ञेयः, पण्डकं शृणु पञ्चमम् ॥ ४१ ॥
यो भार्यायामृतौ मोहादङ्गनेर्वं प्रवर्त्तते । II ततः " स्त्रीचेष्टिताकारो जायते षण्डसंज्ञितः ॥ ४२ ॥
प्यधातुबहुल इत्यर्थः । १ गर्भानुपयोगि शुक्रमप्यासां क्षरतीत्याह वृद्धवाग्भट:: – - ' " यो -षितोऽपि स्रवन्त्येव शुक्रं पुंसां समागमे । तन्न गर्भस्य किचित्तु करोतीति न चिन्त्यते ॥ ” इति । २ धर्मेतरपुरस्सरौ - धर्मस्तदितरोऽधर्मस्तौ पुरस्सरौ ययोस्तौ । तथा च यमौ धर्माधर्मपुरोगामिनौ भवत इत्यर्थः । गयदासस्तु धर्मेतरोऽधर्मस्तत्पुरस्सरौ...... - अत एव तदुत्पत्तौ प्रायश्चित्तमभ्युपदिष्टमिति व्याख्यातवान् । ३ सेक्य पुरुष लक्षणमाह--पित्रोरिति । श्रसक्यो मुखयोनीति नामान्तरम् । ४ अन्यपुरुषेण स्वमुखे मैथुनं का-रयित्वा तस्य शुक्रं प्राश्य मेहनोत्थानं लभते इत्यर्थः । ५ सौगन्धिकनामेत्यर्थः । ना-सायोनीति नामान्तरम् । ६ बलं = मैथुने शक्तिम् । ७ यः स्वे गुद्दे स्त्रीवदधोभूतः पुरुषान्तरेण मैथुनं कारयित्वा पश्चात् स्त्रीषु विषये पुरुषवद् मैथुनं करोति स कुम्भीकनामा ज्ञेयः । अस्योत्पत्तौ हेतुमाह चरकः- “ मातुर्व्य वायप्रतिषेन वकी स्याद्वीज दौर्बल्यतया पितुश्च " इति । गयदासस्त्वेतदुत्पत्तिहेतौ का-श्यपोक्तं श्लोकं पठति- " अरजस्कां यदा नारी श्लेष्मरेता व्रजेदृतौ । अन्यसक्ता भवेत्प्री-तिर्जायते कुम्भिलस्तदा " ॥ ८ " ईयकः स तु विज्ञेयो दृष्टियोनिस्तु स स्मृतः ” इति तन्त्रान्तराद् ईर्ष्यको दृष्टियोन्यपरपर्यायः । अस्योत्पत्तौ हेतुमाह दृढबलः – “ ईष्याऽभि-भूतावपि मन्दहर्षा वर्ष्याह्वयस्यापि वदन्ति हेतुम् " इति । - ९ अङ्गनैव उत्तानीभूय विपरीतबन्धेनेति यावत् । १० स्त्रीचेष्टितः समेोऽपि पंशक्तिहीनः, रूपाकारः श्मश्रुर-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 582
पाठ पढ़ें पाठ छिपाएँ
४२४ Digitized by Arya Samaj सुकुमारसंहिता and eGangotri ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि । अ ० २ तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टितो ॥ ४३ ॥
आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ण्यकस्तथा ।
सरेतसस्त्वमी ज्ञेया अशुक्रः षण्डसंज्ञितः ॥ ४४ ॥
अनया विप्रकृत्यौ तु तेषां शुक्रवहाः सिराः ।
हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत् ॥ ४५ ॥
आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ ।
स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ॥ ४६ ॥
यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन ।
मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते ॥ ४७ ॥
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् ।
आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥ ४८ ॥
मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् ।
कलेलं जायते तस्या वर्जितं पैतृकैर्गुणैः ॥ ४ ९ ॥
सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये ।
गर्भावे स्त्रियाचैव ज्ञेयाः पापकृता भृशम् ॥ ५० ॥
हितः । ढल्हणस्तु - स्त्र्णाकृतिः स्त्रीचेष्टितश्च स्त्रीवदधोभूतः स्वमेद्स्योर्ध्वप्रदेशेऽपरपुरु-षाद् वीर्यं च्युतिं कारयतीति । १ अधुना नारीपण्डं निर्दिशति — ऋताविति 1 । पुरुषवद् न्युब्जीभूयेत्यर्थः । २ स्त्रीरूपाऽपि पुंवत् स्त्रियमारुह्य तद्योनौ स्वयोनिघर्षंणं करोतीति ढल्हणः । विप्र-३ कृत्या = शुक्रप्राशनादिरूपविपरीतेन विशिष्टेन वा स्वभावेनेत्यर्थः । ४ अनस्थि श्रस्थिरहितमांसपिण्डात्मकगर्भ इत्यर्थः । बल्हणस्तु - ईषदर्थे नञ, तेनाल्पकोमला स्थि-रित्यर्थः । विचारणीयमेतत् यतः " ध्रुवं चतुर्णां सान्निध्याद् गर्भः स्याद्विधिपूर्वकः " इति पूर्वोक्त्या ऋतुक्षेत्राम्बुबीजानां चतुर्णामेव सान्निध्याद् गर्भोत्पत्तेः, " योषितोऽपि स्रवन्त्ये-व …………… ' गर्भस्य तन्न किश्चित्तु करोतीति न चिन्त्यते ” इति तन्त्रान्तरोक्तेश्च । ५ कललं गर्भाकृतिभूतं शुक्रशोणितसन्निपातमात्रं सिङ्घाणप्रख्यम् । ' उल्वं च कललोऽस्त्रियाम् ” इत्यमरः । पूर्वोक्तकारणादत्रापि विचारणीयम् । अत्र इमौ द्वावपि श्लोकौ जेज्झटा-चार्येण न पठिताविति ढल्इणः । ६ केशश्मश्रुलोमनखदन्तसिरास्नायुधमनी रेतःप्रभृ-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 583
पाठ पढ़ें पाठ छिपाएँ
R ] Digitized by Arya Samaj Foundation Chennai and eGangotri ' शारीरस्थानम्
गर्भो वातप्रकोपेण दौर्हृदेवोऽवमानिते ।
भवेत् कुब्जः कुरिणः पङ्गुर्मू को मिन्मिन एव वा ॥ ५१ ॥
मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः ।
वातादीनाञ्च कोपेन गर्भो विकृतिमाप्नुयात् ॥ ५२ ॥
मलाल्पत्वादयोगाच्च पायोः पक्वाशयस्य च ।
वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ॥ ५३ ॥
जरायुगा मुखे च्छन्ने कण्ठे च कफवेष्टिते ।
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥ ५४ ॥
निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति ।
मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसम्भवान् ॥ ५५ ॥
सन्निवेशैः शरीराणां दन्तानां पतनोद्भवैौ ।
तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः ॥ ५६ ॥
भावितः पूर्वदेहेषु सततं शास्त्रबुद्धयः ।
भवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः ॥ ५७ ॥।
कर्मणा चोदितो येन तदाप्नोति पुनर्भवे । ४२५ तिभिरित्यर्थः । १ स्वहृदयेन गर्भहृदयेन च द्वे हृदये यस्याः सा द्विहृदया गर्भिणी तस्या इदं दौर्हृदं गर्भिणीश्रद्धादि श्रवमाननं च गर्भिण्याः श्रद्धादिखण्डनम् । तदु-क्तम् -- “ श्रद्धाविघाताद् गर्भस्य विकृतिश्च्युतिरेव वा " इति । २ प्रयोगाद् = ईषद्यो • गादित्यर्थः । ३ गर्भस्थो बालक इत्यर्थः । ४ निश्वासादिका याश्चेष्टा माता कुरुते, ता गर्भोऽपि करोतीति भावः । ५ सन्निवेशः = रचनाविशेषः । ६ हस्तपादतले. ष्वित्यर्थः । ७ चरके हेत्वन्तरं प्रदर्शितम् - " तत्र जरायुजानामण्डजानां प्राणिनामेते यां यां गर्भकरा भावा योनिमापद्यन्ते, तस्यां तस्यां योनौ तथा तथा रूपा भवन्ति । तद्यथा— कनकरजतताम्रत्रपुसीसकान्यासिच्यमानानि तेषु तेषु मधूच्छिष्टविग्रहेषु । ते यदा मनु-ष्यबिम्बमापद्यन्ते, तदा मनुष्यविग्रहेण जायन्ते । तस्मात्समुदयात्मकः सन् गर्भो मनु-प्यादिविग्रहेण जायते । मनुष्यश्च मनुष्यप्रभव उच्यते तद्योनिरखात् ” इति । ८ पूर्वजन्म • न्यभ्यस्ता गुणा उत्तरजन्मन्यपि अनुवर्तन्ते इति श्लोकद्वयेन दर्शयति- भाविता इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 584
पाठ पढ़ें पाठ छिपाएँ
४२६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०३ अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् ॥ ५८ ॥
इति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणित शुद्धिशारीरं नाम द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः ।
अथातो गर्भावक्रान्तिशारीरं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
' सौम्यं शुक्रमार्त्तवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्य-णुना विशेषेण, परस्परोपकारात्परस्परानुग्रहात्परस्परानुप्रवेशाच्च ॥३ ॥
पूर्वदेहेषु सत्त्वभूयिष्ठाः सन्तः सततं ये भाविताः ज्ञानविज्ञानादिना परिशुद्धास्ते शास्त्र-बुद्धयो भवन्तीति योजना । इति सुश्रुतसंहितायाः शारीरस्थानीय सुधाऽख्यटिप्पन्यां द्वितीयोऽध्यायः । तृतीयोऽध्यायः । १ गर्भः गर्भाशयस्थमात्मप्रकृतिविकारसम्मूच्छितं शुक्रशोणितं तस्यावक्रान्तिरव-क्रमणम्, अवतरणमिति यावद, गर्भावक्रान्ति:, सा विद्यते यस्मिन्नध्याये छप्रत्ययः, ‘ अध्यायानुवाकयोर्लुक् ’ इति तस्य लुक् । २ सोम गुणभूयिष्ठं सौम्यमित्यर्थः । ३ अग्नि-गुणभूयिष्ठमाग्नेयम् । इतरेषां = पृथिवीवाय्याकाशानाम् । ४ पृथिवीजलाग्निवाय्वाका शानां क्रमशो धारणसङ्गठनपरिणामव्यूहावकाशदानैः परस्परोपकारकादित्यर्थः । परस्प-रानुग्रहश्च, यथा- पार्थिवद्रव्ये पृथिव्याख्यं भूतं बलवद्, अवशिष्टानि जलादीनि चत्वारि दुर्बलान्याश्रयदानेनानुगृह्णातीत्येवम्प्रकारेण द्रव्यान्तरे कस्यचिद् बलवत्त्वेऽन्येषां दुर्ब-लत्वे बलवद्भूतं दुर्बलान्यनुगृह्वन्तीति बोध्यम् । परस्परानुप्रवेशश्च यथा – शब्दगुण-कस्याकाशस्य वायौ प्रवेशः, शब्दस्पर्शगुणत्वाद् वायोः । श्राकाशवाय्वोस्तेजसि प्रवेशः, शब्दस्पर्शरूपगुणत्वात्तेजसः । एवमग्रेऽपि अनुप्रवेशकानुप्रवेश्यत्वेनावस्थितानां पञ्च-महाभूतानां परस्परानुप्रवेशो बोद्धयः 1 । मनुरपि - " आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः । यो यो यावतिथश्रैषां स स तावद्गुणः स्मृतः ॥ ” इति । अथवा वेदान्तोक्तपञ्ची-करणद्वाराऽप्यस्य समाधानं बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 585
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Arya Samaj Foundation Chennai and eGangotri शारीरस्थानम् । ४२७ तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरे यति । ततस्तेजो-ऽनिलसन्निपाताच्छुकं च्युतं योनिमभिप्रतिपद्यते संसृज्यते चार्तवेन । ततोऽग्नीषोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनुप्रतिपद्यते क्षेत्रज्ञो वेदयिता स्पष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता यः कोऽसावित्येवमादिभिः पर्यायवाचकैर्नाम-भिरभिधीयते दैवसङ्गादयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्दैवासुरैरपरैश्च भावैर्वायुनाऽभिप्रेर्यमाणः गर्भाश-यमनुप्रविश्यावतिष्ठते ॥ ४ ॥
तत्र शुक्रबाहुल्यात् पुमान्, आर्त्तवबाहुल्यात् स्त्री, साम्यादु-भयोर्नपुंसकमिति ॥ ५ ॥
ऋतुस्तु " द्वादशरात्रं भवति दृष्टार्त्तवः । अदृष्टार्त्तवाऽप्यस्तीत्येके भाषन्ते ॥ ६॥ तुमसे अतिवर
१ तेजः = स्त्रीपुरुषेन्द्रियद्वितय सङ्घर्षजन्य मूष्माणमित्यर्थः । २ उदीरयति = उद्रिक्तं करोति । ३ च्युतं द्रवीभावमापन्नं सत् स्खलितं, योनिमभितः सर्वतः प्र-तिपद्यते गच्छति, आर्तवेन श्रार्तववहात् स्रोतसो विच्युतेन स्त्रीबीजेन, संसृज्यते मिश्री-भावमापद्यते । ४ संसृज्यमानः षाकविशेषाद् गर्भाकारेण परिणम्यमानः गर्भः, गर्भाः शयं योन्यास्तृतीयावर्त्तावस्थितगर्भशय्यामित्यर्थः । गर्भशय्यास्वरूपं च – “ शङ्खनाभ्या-कृतिर्योनित्र्यावर्ता सा च कीर्तिता । तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता । यथा रोहितमत्स्यस्य मुखं भवति रूपतः । तत्संस्थानां तथा रूपां गर्भशय्यां विदुर्बुधाः ” ॥ यथा जले रोहितमत्स्यस्यावस्थितिस्तथा पित्ताशयपक्काशयमध्ये गर्भशय्याया अप्यव-स्थितिः, यथा च रोहितस्य मुखं स्वल्पमाशयस्तु महान् तथा तस्या रूपमपीति तदर्थः । ५ भूतात्मना = भौतिकेन सूक्ष्म लिङ्गशरीरेण सह, अन्वक्षं = तत्क्षणमेव । ६ अपरैः = पश्वा · दिजैरित्यर्थः । ७ ननु “ आर्तवं हि चतुरव्जलिप्रमाणं शुक्रं तु प्रसृतिमात्रम् " इत्युक्तेः सदैवा · र्तवस्यैव बाहुल्यात् कथं पुत्रोत्पत्तिरिति चेत्? न, यतः शुक्रं कदाचिदत्यन्तहर्षवशाद् दुग्धादिशुक्लद्रव्य सेवनाच्छुक्रबाहुल्याद् गर्भाशये बहु स्रवति कदाचिद्वैमनस्यादिना-ऽल्पम् " एवमार्तवमपीति न दोषः । ८ तुकारः समुच्चयार्थः । तेन षोडशरात्रादिकं समुच्चीयते । एवञ्च— “ ऋतुस्तु दृष्टार्तवो द्वादशरात्रं भवति, षोडशरात्रमित्यन्ये, शुद्ध-योनि गर्भाशयार्तवायाः मासमपि केचित्, तद्वददृष्टार्तवोऽप्यस्तीत्यपरे " इति वृद्धवा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 586
पाठ पढ़ें पाठ छिपाएँ
४२८ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri लक्ष् भवन्ति चात्र ।
पीनैप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम् ।
( नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम् ॥७ ॥
प्रदेश स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचम् । ५85 Get हर्षोत्सुक्यपरां चापि विद्यादृतुमतीमिति ॥ ८ ॥
नियतं दिवसेऽतीते सकुचत्यम्बुजं यथा । net [ अ ० ३. ऋतौ व्यतीते नार्यास्तु योनिः संत्रियते तथा ॥ ९ ॥ ever
मासेनोपचितं काले धमनीभ्यां तदार्तवम् । जय होजाती है ईषत्कृष्णं विगन्धं च वायुर्योनिमुखं नयेत् ॥ १० ॥
। तद्वर्षाद् द्वादशात् काले वर्तमानमसृक् नः ।
जरापक्कशरीराणां याति पञ्चाशतः क्षयम् ॥ ११ ॥
युग्मेषु 8 तु पुमान प्रोक्तो दिवसेष्वन्यथाऽबला ।
ऋतु पुष्पकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् ॥ १२ ॥
तत्र सद्योगृहीतगर्भाया लिङ्गानि - श्रमो ग्लानिः पिपासा सक्थि-सदनं शुक्रशोणितयोरवबन्धः स्फुरणं च योनेः ॥ १३ ॥
ग्भटोक्तं सङ्गच्छते । दृष्टमार्तवं यस्मिन् काले स दृष्टार्तवः कालः ऋतुः । द्वादशरात्र-मिति षोडशदिनेषु मध्ये श्रद्यं दिनत्रयमन्तिमं च षोडशं योनिसङ्कोचदिनं न गण-नीयमिति डल्हणः । १ अदृष्टार्तवाया ऋतुमत्या लक्षणं निर्दिशति - पीनेति । २ द्विजा दन्तास्तेषां प्रक्लेदासम्भवात्तत्समीपवर्त्तिनो दन्तवेष्टका ग्राह्याः । ३ योनिरत्र धराद्वारम्, संव्रियते = सङ्कोचमाप्नोति । ४ युग्मेषु = चतुर्थंषष्ठादिसमदिनेषु । “ युग्मेषु तु दिनेष्वासां भवत्यल्पतरं रजः । संयोगं तत्र या गच्छेत् सा पुमांसं प्रसूयते ॥ अयुग्मेषु दिनेष्वासां भवेद्बहुतरं रजः । संयोगं तत्र या गच्छेत् सा तु कन्यां प्रसूयते ॥ ” इति विदेद्दोक्त्या “ शुक्रबाहुल्यात् पुमान् " इत्यादि पूर्वोक्तस्य न विरोध इति भावः । ५ श. रीरशुचिरित्यर्थः । तन्त्रान्तरे - " स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोऽचितः । भुक्त-वृष्यः सुवसनः सुवेशः समलङ्कृतः ॥ ताम्बूलवदनन्तस्यामनुरक्तोऽधिकस्मरः । पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 587
पाठ पढ़ें पाठ छिपाएँ
Tafatalisअ ० ३ ] Digitized by Arya Samaj Foundation Chennai and eGangotri " शारीरस्थानम् pai a ४२ ९ लक्ष उत्तरभावी मुंहसेपानी 31141
स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा ।
अक्षिपक्ष्माणि चाप्यस्याः सम्मील्यन्ते विशेषतः ॥ १४ ॥
अकामतश्छर्दयति गन्धादुद्विजते शुभात् ।
प्रसेकः सदनं चापि गर्भिण्या लिङ्गमुच्यते ॥ १५ ॥
तदा प्रभृति व्यवायं व्यायाममतितर्पणमतिकर्शनं दिवास्वप्नं रात्रि जागरणं शोकं यानारोहणं भयमुत्कटुकासनं चैकान्ततः स्ने हादिक्रियां शोणितमोक्षणं चाकाले वेगविधारणं च न सेवेत ॥१६ ॥
दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते । शिधाण सदृश स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥ १७ ॥
तत्र प्रथमे मासि कलेलं जायते । द्वितीये ' शीतोष्मानिलैरभि-प्रपच्यमानानां महाभूतानां सङ्घातो छैनः सञ्जायते; यदि पिण्डैः पुमान, स्त्री चेत् पेशी, नपुंसकं चेदर्बुदमिति । तृतीये हस्तपाद-शिरसां पञ्च पिण्डका ' निर्वर्त्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति । चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति, गर्भहृदय-प्रव्यक्तिभावाचेतनाधातुरभिव्यक्तो " भवति, कस्मात्? तत्स्थान -त्वात् । तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु १२ करोति । द्विहृदयां १ गृहीतगर्भाया उत्तरकालीनं लिङ्गं दर्शयति — स्तनयोरिति । चरके – “ आर्त-वादर्शनमास्यसंस्रवणमनन्नाभिलाषः छर्दिररोचकोऽम्ल कामता च विशेषेण, श्रद्धाप्रण-यनञ्चोच्चात्रचेषु भावेषु गुरुगात्रत्वं चक्षुषोर्लानिः स्तनयोः स्तन्यमोष्ठस्तनमण्डलयोश्च कार्ण्यमत्यर्थम्, ', श्वयथुः पादयोरीषल्लोमराज्या योन्याश्च चाटालत्वमिति गर्भे पर्या-गते रूपाणि भवन्ति " इति । २ गर्भाकारं शुक्रशोणितसन्निपातमात्रं कलल मित्यु. च्यते। ३ शीतः = श्लेष्मा, ऊष्मा = पित्तम्, “ भौमाप्याग्नेय वायव्याः पन्चोष्माणः सनाभसाः । पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्त्यनु ॥ ” इति चरकः । ४ घनः = कठिन इत्यर्थः । ५ पिण्डः = वर्तुलाकारः । ६ पेशी = दीर्घाकृ • तिः । ७ अर्बुदमिवेत्यर्बुदम् अर्धपिण्डाकृतिः । भोजे पिण्डादीनामन्यथाकृतिर्दर्शिता-“ चतुरस्रा भवेत्पॆशी, वृत्तः पिण्डो घनः स्मृतः । शाल्मली मुकुलाकारमर्बुदं परिचक्षते ॥ ” इति । ८ सूचक इति शेषः । ९ निर्वर्तन्ते = निरसरन्ति । १० चेतना = मनोद्वि तीयनामिका । ११ स्थानत्वात् = हृदयस्थानत्वादित्यर्थः । १२ इन्द्रियार्थेषु = शब्द • स्पर्शरूपरसगन्धेषु । तदुक्तम् --- " हृदयव्यक्तभावेन व्यज्यते चेतनाऽपि च । तस्माच्च-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 588
पाठ पढ़ें पाठ छिपाएँ
ediot ४३० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri । अ ० ३ च नारीं दौर्हृदिनीमाचक्षते । दौदेविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति, तस्मात् सा यद्यदिच्छेत् तत्तस्यै दापयेत् । लब्धदौईहा हि वीर्यवन्तं चिरायुषं च पुत्रं जनयति ॥ १८ ॥।
भवन्ति चात्र ।
इन्द्रियार्थास्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी ।
गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् ॥ १ ९ ॥
सा प्राप्तदौर्हृदा पुत्रं जनयेत गुणान्वितम् ।
अलब्धदौर्हृदा गर्भे लभेतात्मनि वा भयम् ॥ २० ॥
येषु विन्द्रियार्थेषु दौहृदे वै विमानना ।
प्रजायेत सुतस्यात्र्त्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥ २१ ॥
रौजसन्दर्शने यस्या दौर्हृदं जायते स्त्रियाः ।
अर्थवन्तं महाभागं कुमारं सा प्रसूयते ॥ २२ ॥
दुकूलपट्टकौशेय भूषणादिषु दौर्हृदात् ।
अलङ्कारैषिणं पुत्रं लैलितं सा प्रसूयते ॥ २३ ॥
आश्रमे संयतात्मानं धर्मशीलं प्रसूयते ।
देवताप्रतिमायां तु प्रसूते पार्षदोपमम् ।
दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते ॥ २४ ॥
गोधामांसाशने पुत्रं सुषुप्सुं धारणात्मकम् ।
गवां मां च बलिनं सर्वक्लेशसहं तथा ॥ २५ ॥
तुर्थे गर्भस्तु नानावस्तूनि वान्छति ॥ ” इति । १ गर्भहृदयेन च द्विहृदया नारी तस्या इदं दौर्हृदं श्रद्धादि तस्य विमाननं तस्मात् । तदुक्तमष्टाङ्गहृदये – “ श्रद्धाविघाताद गर्मस्य विकृतिश्च्युतिरेव वा " इति । २ कुणिं = कुत्सितपाणिम् । ३ निषिद्धमपि विदाहि विष्टम्भ्याद्यपथ्यम् । उक्तञ्च - " देयमप्यहितं तस्यै हितोपहितमल्पकम् ” इति । अतिशयेनाल्पमित्यल्पकमिति तदर्थः । ४ अलब्धदौर्हृदा = अप्राप्ताभिलषितपदार्थेत्यर्थः । ५ दौर्हृदविशेषैर्गुणविशेषयुक्तापत्योत्पत्ति विवृणोति — राजेति । ६ ललितं = शृङ्गारचेष्टायुक्तम् । ७ पार्षदॆषु रुद्रानुचरेषु सभापुरुषेषु वा उपमा यस्य स तं पार्षदो-पमं सभ्यसमम् । ८ सुषुप्तुं स्वप्तुमिच्छुम् धारणात्मकं हृदय गृहीतवस्तूनाममोच • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 589
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Arya दाबी भातम् Chennai and eGangotri ४३१
माहिषे दौर्हदाच्छूरं रक्ताचं लोमसंयुतम् ।
वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम् ॥ २६ ॥
मोर्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम् ।
सृमराद्विग्ने मनसं नित्यभीतं च तैत्तिरात् ॥ २७ ॥
अतोऽनुक्तेषु या नारी समभिध्याति दौर्हृदम् ।
शरीरौचारशीलैः सा समानं जनयिष्यति ॥ २८ ॥
कर्मणी चोदितं जन्तोर्भवितव्यं पुनर्भवेत् ।
यथा तथा दैवयोगाद्दौर्हृदं जनयेद्धृदि ॥ २ ९ ॥
पञ्चमे मनःप्रतिबुद्धतरं भवति, षष्ठे बुद्धिः, सप्तमे सर्वाङ्गप्र-त्यङ्गविभागः प्रव्युक्ततरः भवत्योजः । तत्र जातश्चेन्न अष्टमेऽस्थिरी जीवेन्निरोजस्त्वान्नैऋतभागत्वाच्च । ततो बलिं मांसौदनमस्मै दाप-येत् । नवमदशमैकादशद्वादशानामन्यतमस्मिन् जायते । अतो-S न्यथा विकारी भवति ॥ ३० ॥
मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडी प्रतिबद्धा, साऽस्य मातुराहाररसवीर्यमभिवहति । तेनोपस्नेहेनास्याभिवृद्धि-र्भवति । असञ्जाताङ्गप्रत्यङ्गप्रविभागमा निषेकात् " प्रभृति सर्वशरी-( = मृग. कमिति ढल्हणः । ' धावनात्मकम् ' इति पाठे शीघ्रगामिनमित्यर्थः । १ मार्गात् = मांसात्, विक्रान्तजङ्घालं = वेगवज्जङ्घायुक्तम् । २ विग्नमनसं = चञ्चलचित्तम् । ३ तत्तत्पदार्थशरीरा चारशीलै रित्यर्थः । ४ कर्मणा = प्राक्तनकर्मणा । ५ दौर्हृदं = गर्भिण्यभिलाषः । ६ श्रजः = सर्वधातूनां परं तेजः । तदुक्तम्- " प्रोजश्च तेजो धातूनां शुकान्तानां परं स्मृतम् । हृदयस्थमपि व्यापि देहस्थिति निबन्धनम् ॥ ” इति 1 ।. श्रो-जसोऽस्थिरतायाः कारणं चरकादौ बोध्यम् । ७ नैर्ऋतभागत्वात् = रक्षसांशत्वादित्यर्थः । ८ ततस्तस्माद् अस्मै निर्ऋतयेऽष्टमे मासि मांसौदनं बलिं दापयेत् । यत उक्तम्-“ अष्टमे मासि जातस्य हरन्त्योजो निशाचराः ” इति । कुमारतन्त्रे - “ नैर्ऋताय भागश्च बालेषु रुद्रेण दत्तः ” इति । ९ नाड्यां मातुर्गर्भाशयोर्ध्वावयवसंस्थितायां धमन्यां गर्भनाभिनाडी गर्भस्य नाभिप्रसृतसिराद्यावृता नाडीप्रतिबद्धा सिराऽध्यायोक्तप्रकारेण सदृढं संलग्ना । " गर्भस्य नाभिनाड्या तु नाडी रसवहा स्त्रियाः । संलग्ना तेन गर्भ-स्य वृद्धिर्भवति नित्यशः ॥ ” इति । १० अभिवहति = प्रापयति । ११ श्रनिषेकात् = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 590
पाठ पढ़ें पाठ छिपाएँ
४३० by Arya Samaj Fourd eGangotri सुश्रुतसंहितायां [ अ ० ३ रावयवानुसारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति ॥ ३१ ॥
गर्भस्यै खलु सम्भवतः पूर्वं शिरः सम्भवतीत्याह शौनकः, शिरोमूलत्वात्प्रधानेन्द्रियाणाम् । हृदयमिति कृतवीय्यों, बुद्धेर्मन-सश्च स्थानत्वात् । नाभिरिति पाराशर्यः, ततो हि वर्धते देहो देहिनः । पाणिपादमिति मार्कण्डेयः, तन्मूलत्वाच्चेष्टाया गर्भस्य । मध्यशरीर-मिति सुभूतिर्गौतमः, तन्निबद्धत्वात् सर्वगात्रसम्भवस्य । तत्तु न सम्यक्, सर्वाण्यङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरि-र्गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च । तद्यथा-चूतफले परिपक्के केशरमांसास्थिमज्जानः पृथक् पृथग्दृश्यन्ते, का-लप्रकर्षात् । तान्येव तरुणे नोपलभ्यन्ते, सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति । एतेनैव वंशाङ्कुरोऽपि व्या-ख्यातः । एवं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेषु सत्स्वपि सौक्ष्म्या -दनुपलब्धिः, तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति ॥ ३२ ॥
तत्र गर्भस्य पितृजमातृजरस जात्मजसत्त्वजसात्म्यजानि शरी-रलक्षणानि व्याख्यास्यामः – गर्भस्य, केशश्मश्रुलोमास्थिनखदन्त-सिरास्नायुधमनीरेतः प्रभृतीनि स्थिराणि पितृजानि । मांसशोणि-तमेदोमज्जहृन्नाभियकृत्प्लीहान्त्र गुदप्रभृतीनि मृदूनि मातृजानि । शरीरोपचयो बलं वर्णः स्थितिहनिश्च रसजानि । इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकं चात्मजानि । सत्त्वजान्युत्तरत्र वक्ष्यामः । श्रागर्भाधानात् । १ उपासन्नं निष्यन्देन स्नेहयतीत्युपस्नेहः मातुराहाररसवीर्यरूपी, जीवयति = प्राणधारणं करोति । तथा च भोज: - " गर्भो रुणद्धि स्रोतांसि रसरक्तवहानि वै । रक्ताज्जरायुर्भवति नाढी चैव रसात्मिका ॥ सा नाडी गर्भमाप्नोति तया गर्भेस्य वर्तनम् । यद्यदश्नाति माताऽस्य भोजनं हि चतुर्विधम् । तस्मादन्नाद्रसीभूतं वीर्यं त्रेधा प्रवर्तते । भागः शरीरं पुष्णाति स्तन्यं भागेन वर्धते ॥ गर्भः पुष्यति भागेन वर्धते च यथाक्रमम् । गर्भं कुल्येव केदारं नाडी प्रीणाति तर्पिता ॥ ” इति । २ गर्भे यदङ्गं पूर्वं भवतीति नानामत्तप्रदर्शन पुरस्सरं धन्वन्तरिमतं दर्शयति— गर्भस्येति । ३ इन्द्रियाणां = ज्ञानेन्द्रियकर्मेन्द्रियाणाम् । ४ लक्षणानि = लक्षणीया-CC - 0. Gurukul Kangri Collection, Haridwar