सुश्रुत संहिता चौखम्बा — पृष्ठ 581–590

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 581–590

पृष्ठ 581

सुश्रुत संहिता चौखम्बा, पृष्ठ 581 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० २ ] Digitized by Arya Samaj Foundation Chennai and eGangotri शारीरस्थानम् । ४२३ विसर्पत्यार्त्तवं नार्यास्तथा पुंसां समागमे ॥ ३६ ॥

बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ ।

यमावित्यभिधीयेते धर्मेतरपुरःसरौ ॥ ३७ ॥

पित्रोरत्यल्पवीजत्वादासेक्यः पुरुषो भवेत् ।

स शुक्रं प्राश्यं लभते ध्वजोच्छ्राय म संशयम् ॥ ३८ ॥

यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः ।

स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ॥ ३ ९ ॥

स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्तते ।

कुम्भीकः स च विज्ञेय, ईर्ष्यकं शृणु चापरम् ॥ ४० ॥

दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते ।

ईयकः स च विज्ञेयः, पण्डकं शृणु पञ्चमम् ॥ ४१ ॥

यो भार्यायामृतौ मोहादङ्गनेर्वं प्रवर्त्तते । II ततः " स्त्रीचेष्टिताकारो जायते षण्डसंज्ञितः ॥ ४२ ॥

प्यधातुबहुल इत्यर्थः । १ गर्भानुपयोगि शुक्रमप्यासां क्षरतीत्याह वृद्धवाग्भट:: – - ' " यो -षितोऽपि स्रवन्त्येव शुक्रं पुंसां समागमे । तन्न गर्भस्य किचित्तु करोतीति न चिन्त्यते ॥ ” इति । २ धर्मेतरपुरस्सरौ - धर्मस्तदितरोऽधर्मस्तौ पुरस्सरौ ययोस्तौ । तथा च यमौ धर्माधर्मपुरोगामिनौ भवत इत्यर्थः । गयदासस्तु धर्मेतरोऽधर्मस्तत्पुरस्सरौ...... - अत एव तदुत्पत्तौ प्रायश्चित्तमभ्युपदिष्टमिति व्याख्यातवान् । ३ सेक्य पुरुष लक्षणमाह--पित्रोरिति । श्रसक्यो मुखयोनीति नामान्तरम् । ४ अन्यपुरुषेण स्वमुखे मैथुनं का-रयित्वा तस्य शुक्रं प्राश्य मेहनोत्थानं लभते इत्यर्थः । ५ सौगन्धिकनामेत्यर्थः । ना-सायोनीति नामान्तरम् । ६ बलं = मैथुने शक्तिम् । ७ यः स्वे गुद्दे स्त्रीवदधोभूतः पुरुषान्तरेण मैथुनं कारयित्वा पश्चात् स्त्रीषु विषये पुरुषवद् मैथुनं करोति स कुम्भीकनामा ज्ञेयः । अस्योत्पत्तौ हेतुमाह चरकः- “ मातुर्व्य वायप्रतिषेन वकी स्याद्वीज दौर्बल्यतया पितुश्च " इति । गयदासस्त्वेतदुत्पत्तिहेतौ का-श्यपोक्तं श्लोकं पठति- " अरजस्कां यदा नारी श्लेष्मरेता व्रजेदृतौ । अन्यसक्ता भवेत्प्री-तिर्जायते कुम्भिलस्तदा " ॥ ८ " ईयकः स तु विज्ञेयो दृष्टियोनिस्तु स स्मृतः ” इति तन्त्रान्तराद् ईर्ष्यको दृष्टियोन्यपरपर्यायः । अस्योत्पत्तौ हेतुमाह दृढबलः – “ ईष्याऽभि-भूतावपि मन्दहर्षा वर्ष्याह्वयस्यापि वदन्ति हेतुम् " इति । - ९ अङ्गनैव उत्तानीभूय विपरीतबन्धेनेति यावत् । १० स्त्रीचेष्टितः समेोऽपि पंशक्तिहीनः, रूपाकारः श्मश्रुर-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 582

सुश्रुत संहिता चौखम्बा, पृष्ठ 582 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२४ Digitized by Arya Samaj सुकुमारसंहिता and eGangotri ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि । अ ० २ तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टितो ॥ ४३ ॥

आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ण्यकस्तथा ।

सरेतसस्त्वमी ज्ञेया अशुक्रः षण्डसंज्ञितः ॥ ४४ ॥

अनया विप्रकृत्यौ तु तेषां शुक्रवहाः सिराः ।

हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत् ॥ ४५ ॥

आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ ।

स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ॥ ४६ ॥

यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन ।

मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते ॥ ४७ ॥

ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् ।

आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥ ४८ ॥

मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् ।

कलेलं जायते तस्या वर्जितं पैतृकैर्गुणैः ॥ ४ ९ ॥

सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये ।

गर्भावे स्त्रियाचैव ज्ञेयाः पापकृता भृशम् ॥ ५० ॥

हितः । ढल्हणस्तु - स्त्र्णाकृतिः स्त्रीचेष्टितश्च स्त्रीवदधोभूतः स्वमेद्स्योर्ध्वप्रदेशेऽपरपुरु-षाद् वीर्यं च्युतिं कारयतीति । १ अधुना नारीपण्डं निर्दिशति — ऋताविति 1 । पुरुषवद् न्युब्जीभूयेत्यर्थः । २ स्त्रीरूपाऽपि पुंवत् स्त्रियमारुह्य तद्योनौ स्वयोनिघर्षंणं करोतीति ढल्हणः । विप्र-३ कृत्या = शुक्रप्राशनादिरूपविपरीतेन विशिष्टेन वा स्वभावेनेत्यर्थः । ४ अनस्थि श्रस्थिरहितमांसपिण्डात्मकगर्भ इत्यर्थः । बल्हणस्तु - ईषदर्थे नञ, तेनाल्पकोमला स्थि-रित्यर्थः । विचारणीयमेतत् यतः " ध्रुवं चतुर्णां सान्निध्याद् गर्भः स्याद्विधिपूर्वकः " इति पूर्वोक्त्या ऋतुक्षेत्राम्बुबीजानां चतुर्णामेव सान्निध्याद् गर्भोत्पत्तेः, " योषितोऽपि स्रवन्त्ये-व …………… ' गर्भस्य तन्न किश्चित्तु करोतीति न चिन्त्यते ” इति तन्त्रान्तरोक्तेश्च । ५ कललं गर्भाकृतिभूतं शुक्रशोणितसन्निपातमात्रं सिङ्घाणप्रख्यम् । ' उल्वं च कललोऽस्त्रियाम् ” इत्यमरः । पूर्वोक्तकारणादत्रापि विचारणीयम् । अत्र इमौ द्वावपि श्लोकौ जेज्झटा-चार्येण न पठिताविति ढल्इणः । ६ केशश्मश्रुलोमनखदन्तसिरास्नायुधमनी रेतःप्रभृ-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 583

सुश्रुत संहिता चौखम्बा, पृष्ठ 583 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

R ] Digitized by Arya Samaj Foundation Chennai and eGangotri ' शारीरस्थानम्

गर्भो वातप्रकोपेण दौर्हृदेवोऽवमानिते ।

भवेत् कुब्जः कुरिणः पङ्गुर्मू को मिन्मिन एव वा ॥ ५१ ॥

मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः ।

वातादीनाञ्च कोपेन गर्भो विकृतिमाप्नुयात् ॥ ५२ ॥

मलाल्पत्वादयोगाच्च पायोः पक्वाशयस्य च ।

वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ॥ ५३ ॥

जरायुगा मुखे च्छन्ने कण्ठे च कफवेष्टिते ।

वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥ ५४ ॥

निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति ।

मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसम्भवान् ॥ ५५ ॥

सन्निवेशैः शरीराणां दन्तानां पतनोद्भवैौ ।

तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः ॥ ५६ ॥

भावितः पूर्वदेहेषु सततं शास्त्रबुद्धयः ।

भवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः ॥ ५७ ॥।

कर्मणा चोदितो येन तदाप्नोति पुनर्भवे । ४२५ तिभिरित्यर्थः । १ स्वहृदयेन गर्भहृदयेन च द्वे हृदये यस्याः सा द्विहृदया गर्भिणी तस्या इदं दौर्हृदं गर्भिणीश्रद्धादि श्रवमाननं च गर्भिण्याः श्रद्धादिखण्डनम् । तदु-क्तम् -- “ श्रद्धाविघाताद् गर्भस्य विकृतिश्च्युतिरेव वा " इति । २ प्रयोगाद् = ईषद्यो • गादित्यर्थः । ३ गर्भस्थो बालक इत्यर्थः । ४ निश्वासादिका याश्चेष्टा माता कुरुते, ता गर्भोऽपि करोतीति भावः । ५ सन्निवेशः = रचनाविशेषः । ६ हस्तपादतले. ष्वित्यर्थः । ७ चरके हेत्वन्तरं प्रदर्शितम् - " तत्र जरायुजानामण्डजानां प्राणिनामेते यां यां गर्भकरा भावा योनिमापद्यन्ते, तस्यां तस्यां योनौ तथा तथा रूपा भवन्ति । तद्यथा— कनकरजतताम्रत्रपुसीसकान्यासिच्यमानानि तेषु तेषु मधूच्छिष्टविग्रहेषु । ते यदा मनु-ष्यबिम्बमापद्यन्ते, तदा मनुष्यविग्रहेण जायन्ते । तस्मात्समुदयात्मकः सन् गर्भो मनु-प्यादिविग्रहेण जायते । मनुष्यश्च मनुष्यप्रभव उच्यते तद्योनिरखात् ” इति । ८ पूर्वजन्म • न्यभ्यस्ता गुणा उत्तरजन्मन्यपि अनुवर्तन्ते इति श्लोकद्वयेन दर्शयति- भाविता इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 584

सुश्रुत संहिता चौखम्बा, पृष्ठ 584 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ०३ अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् ॥ ५८ ॥

इति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणित शुद्धिशारीरं नाम द्वितीयोऽध्यायः ॥ २ ॥

तृतीयोऽध्यायः ।

अथातो गर्भावक्रान्तिशारीरं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

' सौम्यं शुक्रमार्त्तवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्य-णुना विशेषेण, परस्परोपकारात्परस्परानुग्रहात्परस्परानुप्रवेशाच्च ॥३ ॥

पूर्वदेहेषु सत्त्वभूयिष्ठाः सन्तः सततं ये भाविताः ज्ञानविज्ञानादिना परिशुद्धास्ते शास्त्र-बुद्धयो भवन्तीति योजना । इति सुश्रुतसंहितायाः शारीरस्थानीय सुधाऽख्यटिप्पन्यां द्वितीयोऽध्यायः । तृतीयोऽध्यायः । १ गर्भः गर्भाशयस्थमात्मप्रकृतिविकारसम्मूच्छितं शुक्रशोणितं तस्यावक्रान्तिरव-क्रमणम्, अवतरणमिति यावद, गर्भावक्रान्ति:, सा विद्यते यस्मिन्नध्याये छप्रत्ययः, ‘ अध्यायानुवाकयोर्लुक् ’ इति तस्य लुक् । २ सोम गुणभूयिष्ठं सौम्यमित्यर्थः । ३ अग्नि-गुणभूयिष्ठमाग्नेयम् । इतरेषां = पृथिवीवाय्याकाशानाम् । ४ पृथिवीजलाग्निवाय्वाका शानां क्रमशो धारणसङ्गठनपरिणामव्यूहावकाशदानैः परस्परोपकारकादित्यर्थः । परस्प-रानुग्रहश्च, यथा- पार्थिवद्रव्ये पृथिव्याख्यं भूतं बलवद्, अवशिष्टानि जलादीनि चत्वारि दुर्बलान्याश्रयदानेनानुगृह्णातीत्येवम्प्रकारेण द्रव्यान्तरे कस्यचिद् बलवत्त्वेऽन्येषां दुर्ब-लत्वे बलवद्भूतं दुर्बलान्यनुगृह्वन्तीति बोध्यम् । परस्परानुप्रवेशश्च यथा – शब्दगुण-कस्याकाशस्य वायौ प्रवेशः, शब्दस्पर्शगुणत्वाद् वायोः । श्राकाशवाय्वोस्तेजसि प्रवेशः, शब्दस्पर्शरूपगुणत्वात्तेजसः । एवमग्रेऽपि अनुप्रवेशकानुप्रवेश्यत्वेनावस्थितानां पञ्च-महाभूतानां परस्परानुप्रवेशो बोद्धयः 1 । मनुरपि - " आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः । यो यो यावतिथश्रैषां स स तावद्गुणः स्मृतः ॥ ” इति । अथवा वेदान्तोक्तपञ्ची-करणद्वाराऽप्यस्य समाधानं बोध्यम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 585

सुश्रुत संहिता चौखम्बा, पृष्ठ 585 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Arya Samaj Foundation Chennai and eGangotri शारीरस्थानम् । ४२७ तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरे यति । ततस्तेजो-ऽनिलसन्निपाताच्छुकं च्युतं योनिमभिप्रतिपद्यते संसृज्यते चार्तवेन । ततोऽग्नीषोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनुप्रतिपद्यते क्षेत्रज्ञो वेदयिता स्पष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता यः कोऽसावित्येवमादिभिः पर्यायवाचकैर्नाम-भिरभिधीयते दैवसङ्गादयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्दैवासुरैरपरैश्च भावैर्वायुनाऽभिप्रेर्यमाणः गर्भाश-यमनुप्रविश्यावतिष्ठते ॥ ४ ॥

तत्र शुक्रबाहुल्यात् पुमान्, आर्त्तवबाहुल्यात् स्त्री, साम्यादु-भयोर्नपुंसकमिति ॥ ५ ॥

ऋतुस्तु " द्वादशरात्रं भवति दृष्टार्त्तवः । अदृष्टार्त्तवाऽप्यस्तीत्येके भाषन्ते ॥ ६॥ तुमसे अतिवर

१ तेजः = स्त्रीपुरुषेन्द्रियद्वितय सङ्घर्षजन्य मूष्माणमित्यर्थः । २ उदीरयति = उद्रिक्तं करोति । ३ च्युतं द्रवीभावमापन्नं सत् स्खलितं, योनिमभितः सर्वतः प्र-तिपद्यते गच्छति, आर्तवेन श्रार्तववहात् स्रोतसो विच्युतेन स्त्रीबीजेन, संसृज्यते मिश्री-भावमापद्यते । ४ संसृज्यमानः षाकविशेषाद् गर्भाकारेण परिणम्यमानः गर्भः, गर्भाः शयं योन्यास्तृतीयावर्त्तावस्थितगर्भशय्यामित्यर्थः । गर्भशय्यास्वरूपं च – “ शङ्खनाभ्या-कृतिर्योनित्र्यावर्ता सा च कीर्तिता । तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता । यथा रोहितमत्स्यस्य मुखं भवति रूपतः । तत्संस्थानां तथा रूपां गर्भशय्यां विदुर्बुधाः ” ॥ यथा जले रोहितमत्स्यस्यावस्थितिस्तथा पित्ताशयपक्काशयमध्ये गर्भशय्याया अप्यव-स्थितिः, यथा च रोहितस्य मुखं स्वल्पमाशयस्तु महान् तथा तस्या रूपमपीति तदर्थः । ५ भूतात्मना = भौतिकेन सूक्ष्म लिङ्गशरीरेण सह, अन्वक्षं = तत्क्षणमेव । ६ अपरैः = पश्वा · दिजैरित्यर्थः । ७ ननु “ आर्तवं हि चतुरव्जलिप्रमाणं शुक्रं तु प्रसृतिमात्रम् " इत्युक्तेः सदैवा · र्तवस्यैव बाहुल्यात् कथं पुत्रोत्पत्तिरिति चेत्? न, यतः शुक्रं कदाचिदत्यन्तहर्षवशाद् दुग्धादिशुक्लद्रव्य सेवनाच्छुक्रबाहुल्याद् गर्भाशये बहु स्रवति कदाचिद्वैमनस्यादिना-ऽल्पम् " एवमार्तवमपीति न दोषः । ८ तुकारः समुच्चयार्थः । तेन षोडशरात्रादिकं समुच्चीयते । एवञ्च— “ ऋतुस्तु दृष्टार्तवो द्वादशरात्रं भवति, षोडशरात्रमित्यन्ये, शुद्ध-योनि गर्भाशयार्तवायाः मासमपि केचित्, तद्वददृष्टार्तवोऽप्यस्तीत्यपरे " इति वृद्धवा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 586

सुश्रुत संहिता चौखम्बा, पृष्ठ 586 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२८ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri लक्ष् भवन्ति चात्र ।

पीनैप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम् ।

( नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम् ॥७ ॥

प्रदेश स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचम् । ५85 Get हर्षोत्सुक्यपरां चापि विद्यादृतुमतीमिति ॥ ८ ॥

नियतं दिवसेऽतीते सकुचत्यम्बुजं यथा । net [ अ ० ३. ऋतौ व्यतीते नार्यास्तु योनिः संत्रियते तथा ॥ ९ ॥ ever

मासेनोपचितं काले धमनीभ्यां तदार्तवम् । जय होजाती है ईषत्कृष्णं विगन्धं च वायुर्योनिमुखं नयेत् ॥ १० ॥

। तद्वर्षाद् द्वादशात् काले वर्तमानमसृक् नः ।

जरापक्कशरीराणां याति पञ्चाशतः क्षयम् ॥ ११ ॥

युग्मेषु 8 तु पुमान प्रोक्तो दिवसेष्वन्यथाऽबला ।

ऋतु पुष्पकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् ॥ १२ ॥

तत्र सद्योगृहीतगर्भाया लिङ्गानि - श्रमो ग्लानिः पिपासा सक्थि-सदनं शुक्रशोणितयोरवबन्धः स्फुरणं च योनेः ॥ १३ ॥

ग्भटोक्तं सङ्गच्छते । दृष्टमार्तवं यस्मिन् काले स दृष्टार्तवः कालः ऋतुः । द्वादशरात्र-मिति षोडशदिनेषु मध्ये श्रद्यं दिनत्रयमन्तिमं च षोडशं योनिसङ्कोचदिनं न गण-नीयमिति डल्हणः । १ अदृष्टार्तवाया ऋतुमत्या लक्षणं निर्दिशति - पीनेति । २ द्विजा दन्तास्तेषां प्रक्लेदासम्भवात्तत्समीपवर्त्तिनो दन्तवेष्टका ग्राह्याः । ३ योनिरत्र धराद्वारम्, संव्रियते = सङ्कोचमाप्नोति । ४ युग्मेषु = चतुर्थंषष्ठादिसमदिनेषु । “ युग्मेषु तु दिनेष्वासां भवत्यल्पतरं रजः । संयोगं तत्र या गच्छेत् सा पुमांसं प्रसूयते ॥ अयुग्मेषु दिनेष्वासां भवेद्बहुतरं रजः । संयोगं तत्र या गच्छेत् सा तु कन्यां प्रसूयते ॥ ” इति विदेद्दोक्त्या “ शुक्रबाहुल्यात् पुमान् " इत्यादि पूर्वोक्तस्य न विरोध इति भावः । ५ श. रीरशुचिरित्यर्थः । तन्त्रान्तरे - " स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोऽचितः । भुक्त-वृष्यः सुवसनः सुवेशः समलङ्कृतः ॥ ताम्बूलवदनन्तस्यामनुरक्तोऽधिकस्मरः । पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 587

सुश्रुत संहिता चौखम्बा, पृष्ठ 587 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Tafatalisअ ० ३ ] Digitized by Arya Samaj Foundation Chennai and eGangotri " शारीरस्थानम् pai a ४२ ९ लक्ष उत्तरभावी मुंहसेपानी 31141

स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा ।

अक्षिपक्ष्माणि चाप्यस्याः सम्मील्यन्ते विशेषतः ॥ १४ ॥

अकामतश्छर्दयति गन्धादुद्विजते शुभात् ।

प्रसेकः सदनं चापि गर्भिण्या लिङ्गमुच्यते ॥ १५ ॥

तदा प्रभृति व्यवायं व्यायाममतितर्पणमतिकर्शनं दिवास्वप्नं रात्रि जागरणं शोकं यानारोहणं भयमुत्कटुकासनं चैकान्ततः स्ने हादिक्रियां शोणितमोक्षणं चाकाले वेगविधारणं च न सेवेत ॥१६ ॥

दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते । शिधाण सदृश स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥ १७ ॥

तत्र प्रथमे मासि कलेलं जायते । द्वितीये ' शीतोष्मानिलैरभि-प्रपच्यमानानां महाभूतानां सङ्घातो छैनः सञ्जायते; यदि पिण्डैः पुमान, स्त्री चेत् पेशी, नपुंसकं चेदर्बुदमिति । तृतीये हस्तपाद-शिरसां पञ्च पिण्डका ' निर्वर्त्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति । चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति, गर्भहृदय-प्रव्यक्तिभावाचेतनाधातुरभिव्यक्तो " भवति, कस्मात्? तत्स्थान -त्वात् । तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु १२ करोति । द्विहृदयां १ गृहीतगर्भाया उत्तरकालीनं लिङ्गं दर्शयति — स्तनयोरिति । चरके – “ आर्त-वादर्शनमास्यसंस्रवणमनन्नाभिलाषः छर्दिररोचकोऽम्ल कामता च विशेषेण, श्रद्धाप्रण-यनञ्चोच्चात्रचेषु भावेषु गुरुगात्रत्वं चक्षुषोर्लानिः स्तनयोः स्तन्यमोष्ठस्तनमण्डलयोश्च कार्ण्यमत्यर्थम्, ', श्वयथुः पादयोरीषल्लोमराज्या योन्याश्च चाटालत्वमिति गर्भे पर्या-गते रूपाणि भवन्ति " इति । २ गर्भाकारं शुक्रशोणितसन्निपातमात्रं कलल मित्यु. च्यते। ३ शीतः = श्लेष्मा, ऊष्मा = पित्तम्, “ भौमाप्याग्नेय वायव्याः पन्चोष्माणः सनाभसाः । पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्त्यनु ॥ ” इति चरकः । ४ घनः = कठिन इत्यर्थः । ५ पिण्डः = वर्तुलाकारः । ६ पेशी = दीर्घाकृ • तिः । ७ अर्बुदमिवेत्यर्बुदम् अर्धपिण्डाकृतिः । भोजे पिण्डादीनामन्यथाकृतिर्दर्शिता-“ चतुरस्रा भवेत्पॆशी, वृत्तः पिण्डो घनः स्मृतः । शाल्मली मुकुलाकारमर्बुदं परिचक्षते ॥ ” इति । ८ सूचक इति शेषः । ९ निर्वर्तन्ते = निरसरन्ति । १० चेतना = मनोद्वि तीयनामिका । ११ स्थानत्वात् = हृदयस्थानत्वादित्यर्थः । १२ इन्द्रियार्थेषु = शब्द • स्पर्शरूपरसगन्धेषु । तदुक्तम् --- " हृदयव्यक्तभावेन व्यज्यते चेतनाऽपि च । तस्माच्च-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 588

सुश्रुत संहिता चौखम्बा, पृष्ठ 588 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ediot ४३० सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri । अ ० ३ च नारीं दौर्हृदिनीमाचक्षते । दौदेविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति, तस्मात् सा यद्यदिच्छेत् तत्तस्यै दापयेत् । लब्धदौईहा हि वीर्यवन्तं चिरायुषं च पुत्रं जनयति ॥ १८ ॥।

भवन्ति चात्र ।

इन्द्रियार्थास्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी ।

गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् ॥ १ ९ ॥

सा प्राप्तदौर्हृदा पुत्रं जनयेत गुणान्वितम् ।

अलब्धदौर्हृदा गर्भे लभेतात्मनि वा भयम् ॥ २० ॥

येषु विन्द्रियार्थेषु दौहृदे वै विमानना ।

प्रजायेत सुतस्यात्र्त्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥ २१ ॥

रौजसन्दर्शने यस्या दौर्हृदं जायते स्त्रियाः ।

अर्थवन्तं महाभागं कुमारं सा प्रसूयते ॥ २२ ॥

दुकूलपट्टकौशेय भूषणादिषु दौर्हृदात् ।

अलङ्कारैषिणं पुत्रं लैलितं सा प्रसूयते ॥ २३ ॥

आश्रमे संयतात्मानं धर्मशीलं प्रसूयते ।

देवताप्रतिमायां तु प्रसूते पार्षदोपमम् ।

दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते ॥ २४ ॥

गोधामांसाशने पुत्रं सुषुप्सुं धारणात्मकम् ।

गवां मां च बलिनं सर्वक्लेशसहं तथा ॥ २५ ॥

तुर्थे गर्भस्तु नानावस्तूनि वान्छति ॥ ” इति । १ गर्भहृदयेन च द्विहृदया नारी तस्या इदं दौर्हृदं श्रद्धादि तस्य विमाननं तस्मात् । तदुक्तमष्टाङ्गहृदये – “ श्रद्धाविघाताद गर्मस्य विकृतिश्च्युतिरेव वा " इति । २ कुणिं = कुत्सितपाणिम् । ३ निषिद्धमपि विदाहि विष्टम्भ्याद्यपथ्यम् । उक्तञ्च - " देयमप्यहितं तस्यै हितोपहितमल्पकम् ” इति । अतिशयेनाल्पमित्यल्पकमिति तदर्थः । ४ अलब्धदौर्हृदा = अप्राप्ताभिलषितपदार्थेत्यर्थः । ५ दौर्हृदविशेषैर्गुणविशेषयुक्तापत्योत्पत्ति विवृणोति — राजेति । ६ ललितं = शृङ्गारचेष्टायुक्तम् । ७ पार्षदॆषु रुद्रानुचरेषु सभापुरुषेषु वा उपमा यस्य स तं पार्षदो-पमं सभ्यसमम् । ८ सुषुप्तुं स्वप्तुमिच्छुम् धारणात्मकं हृदय गृहीतवस्तूनाममोच • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 589

सुश्रुत संहिता चौखम्बा, पृष्ठ 589 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Arya दाबी भातम् Chennai and eGangotri ४३१

माहिषे दौर्हदाच्छूरं रक्ताचं लोमसंयुतम् ।

वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम् ॥ २६ ॥

मोर्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम् ।

सृमराद्विग्ने मनसं नित्यभीतं च तैत्तिरात् ॥ २७ ॥

अतोऽनुक्तेषु या नारी समभिध्याति दौर्हृदम् ।

शरीरौचारशीलैः सा समानं जनयिष्यति ॥ २८ ॥

कर्मणी चोदितं जन्तोर्भवितव्यं पुनर्भवेत् ।

यथा तथा दैवयोगाद्दौर्हृदं जनयेद्धृदि ॥ २ ९ ॥

पञ्चमे मनःप्रतिबुद्धतरं भवति, षष्ठे बुद्धिः, सप्तमे सर्वाङ्गप्र-त्यङ्गविभागः प्रव्युक्ततरः भवत्योजः । तत्र जातश्चेन्न अष्टमेऽस्थिरी जीवेन्निरोजस्त्वान्नैऋतभागत्वाच्च । ततो बलिं मांसौदनमस्मै दाप-येत् । नवमदशमैकादशद्वादशानामन्यतमस्मिन् जायते । अतो-S न्यथा विकारी भवति ॥ ३० ॥

मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडी प्रतिबद्धा, साऽस्य मातुराहाररसवीर्यमभिवहति । तेनोपस्नेहेनास्याभिवृद्धि-र्भवति । असञ्जाताङ्गप्रत्यङ्गप्रविभागमा निषेकात् " प्रभृति सर्वशरी-( = मृग. कमिति ढल्हणः । ' धावनात्मकम् ' इति पाठे शीघ्रगामिनमित्यर्थः । १ मार्गात् = मांसात्, विक्रान्तजङ्घालं = वेगवज्जङ्घायुक्तम् । २ विग्नमनसं = चञ्चलचित्तम् । ३ तत्तत्पदार्थशरीरा चारशीलै रित्यर्थः । ४ कर्मणा = प्राक्तनकर्मणा । ५ दौर्हृदं = गर्भिण्यभिलाषः । ६ श्रजः = सर्वधातूनां परं तेजः । तदुक्तम्- " प्रोजश्च तेजो धातूनां शुकान्तानां परं स्मृतम् । हृदयस्थमपि व्यापि देहस्थिति निबन्धनम् ॥ ” इति 1 ।. श्रो-जसोऽस्थिरतायाः कारणं चरकादौ बोध्यम् । ७ नैर्ऋतभागत्वात् = रक्षसांशत्वादित्यर्थः । ८ ततस्तस्माद् अस्मै निर्ऋतयेऽष्टमे मासि मांसौदनं बलिं दापयेत् । यत उक्तम्-“ अष्टमे मासि जातस्य हरन्त्योजो निशाचराः ” इति । कुमारतन्त्रे - “ नैर्ऋताय भागश्च बालेषु रुद्रेण दत्तः ” इति । ९ नाड्यां मातुर्गर्भाशयोर्ध्वावयवसंस्थितायां धमन्यां गर्भनाभिनाडी गर्भस्य नाभिप्रसृतसिराद्यावृता नाडीप्रतिबद्धा सिराऽध्यायोक्तप्रकारेण सदृढं संलग्ना । " गर्भस्य नाभिनाड्या तु नाडी रसवहा स्त्रियाः । संलग्ना तेन गर्भ-स्य वृद्धिर्भवति नित्यशः ॥ ” इति । १० अभिवहति = प्रापयति । ११ श्रनिषेकात् = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 590

सुश्रुत संहिता चौखम्बा, पृष्ठ 590 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४३० by Arya Samaj Fourd eGangotri सुश्रुतसंहितायां [ अ ० ३ रावयवानुसारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति ॥ ३१ ॥

गर्भस्यै खलु सम्भवतः पूर्वं शिरः सम्भवतीत्याह शौनकः, शिरोमूलत्वात्प्रधानेन्द्रियाणाम् । हृदयमिति कृतवीय्यों, बुद्धेर्मन-सश्च स्थानत्वात् । नाभिरिति पाराशर्यः, ततो हि वर्धते देहो देहिनः । पाणिपादमिति मार्कण्डेयः, तन्मूलत्वाच्चेष्टाया गर्भस्य । मध्यशरीर-मिति सुभूतिर्गौतमः, तन्निबद्धत्वात् सर्वगात्रसम्भवस्य । तत्तु न सम्यक्, सर्वाण्यङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरि-र्गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च । तद्यथा-चूतफले परिपक्के केशरमांसास्थिमज्जानः पृथक् पृथग्दृश्यन्ते, का-लप्रकर्षात् । तान्येव तरुणे नोपलभ्यन्ते, सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति । एतेनैव वंशाङ्कुरोऽपि व्या-ख्यातः । एवं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेषु सत्स्वपि सौक्ष्म्या -दनुपलब्धिः, तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति ॥ ३२ ॥

तत्र गर्भस्य पितृजमातृजरस जात्मजसत्त्वजसात्म्यजानि शरी-रलक्षणानि व्याख्यास्यामः – गर्भस्य, केशश्मश्रुलोमास्थिनखदन्त-सिरास्नायुधमनीरेतः प्रभृतीनि स्थिराणि पितृजानि । मांसशोणि-तमेदोमज्जहृन्नाभियकृत्प्लीहान्त्र गुदप्रभृतीनि मृदूनि मातृजानि । शरीरोपचयो बलं वर्णः स्थितिहनिश्च रसजानि । इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकं चात्मजानि । सत्त्वजान्युत्तरत्र वक्ष्यामः । श्रागर्भाधानात् । १ उपासन्नं निष्यन्देन स्नेहयतीत्युपस्नेहः मातुराहाररसवीर्यरूपी, जीवयति = प्राणधारणं करोति । तथा च भोज: - " गर्भो रुणद्धि स्रोतांसि रसरक्तवहानि वै । रक्ताज्जरायुर्भवति नाढी चैव रसात्मिका ॥ सा नाडी गर्भमाप्नोति तया गर्भेस्य वर्तनम् । यद्यदश्नाति माताऽस्य भोजनं हि चतुर्विधम् । तस्मादन्नाद्रसीभूतं वीर्यं त्रेधा प्रवर्तते । भागः शरीरं पुष्णाति स्तन्यं भागेन वर्धते ॥ गर्भः पुष्यति भागेन वर्धते च यथाक्रमम् । गर्भं कुल्येव केदारं नाडी प्रीणाति तर्पिता ॥ ” इति । २ गर्भे यदङ्गं पूर्वं भवतीति नानामत्तप्रदर्शन पुरस्सरं धन्वन्तरिमतं दर्शयति— गर्भस्येति । ३ इन्द्रियाणां = ज्ञानेन्द्रियकर्मेन्द्रियाणाम् । ४ लक्षणानि = लक्षणीया-CC - 0. Gurukul Kangri Collection, Haridwar