सुश्रुत संहिता चौखम्बा — पृष्ठ 591–600

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 591–600

पृष्ठ 591

सुश्रुत संहिता चौखम्बा, पृष्ठ 591 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ३ ] Digitized by Arya की एक कनकन् Chennai and eGangotri ४३३ चीर्यमारोग्यं बलवर्णौ मेधा च सात्म्यजानि ॥ ३३ ॥

तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणा-क्षिमहत्त्वञ्च पूर्वञ्च दक्षिणं सक्ध्युत्कर्षति बाहुल्याच पुन्नामधेयेषु द्रव्येषु दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदात्रा-तकादीनि पुन्नामान्येव प्रसन्नमुखवर्णा च भवति तां ब्रूयात् । पुत्र-मियं जनयिष्यतीति, तद्विपर्य्यये कन्याम् । यस्याः पार्श्वद्वयमुन्नतं

पुरस्तान्निर्गतमुदरं प्रागभिहितलक्षणं च तस्या नपुंसकमिति विद्यात् ।

यस्या मध्ये निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत इति ॥ ३४ ॥

भवन्ति चात्र ।

देवताब्राह्मणपराः शौचाचारहिते रताः ।

महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् ॥ ३५ ॥

अङ्गप्रत्यङ्गर्निर्वृत्तिः स्वभावादेव जायते ।

अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्ति गुणागुणाः ।

ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः ॥ ३६ ॥

इति सुश्रुतसंहितायां शारीरस्थाने गर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ॥ ३ ॥

नि, ज्ञातव्यानीति यावत् । कर्मणि ल्युट् । १ दौर्हृदम् = अभिलाषम् । २ चकारात् " पुत्रगर्भयुतायास्तु नार्या मासि द्वितीयके । गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु ॥ ” इति लक्षणान्तरमपि बोध्यम् । ३ तदुक्तं चरके– “ सव्याङ्गचेष्टा पुरुषार्थिनी स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा । सव्यात्तगर्भा न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते ॥ ” इति । ४ चकारात्– “ नपुंसकं यदा गर्भे भवेद्गर्भोऽर्बुदाकृतिः ” इति लक्षणा • न्तरमपि बोध्यम् । ५ द्रोणी जलक्षेपणी तत्सदृशमित्यर्थः । ६ निर्वृत्तिः = सिद्धिः, उत्पत्तिरिति यावत् । इति सुश्रुतसंहितायाः शारीरस्थानीयसुधाऽख्यधिन्यां तृतीयोऽध्यायः । २८ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 592

सुश्रुत संहिता चौखम्बा, पृष्ठ 592 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४३४ by Arya Samaj सुश्रुतसंहिताय and eGangotri i चतुर्थोऽध्यायः । [ अ ० ४ अथातो गर्भव्याकरणं नाम शारीरं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः ॥ ३ ॥

तस्य खल्वेवम्प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त त्वचो भवन्ति । तासां प्रथमाऽवभासिनी नाम, या सर्ववर्णानवभासयति पञ्चविधां च छायां प्रकाशयति । सात्री-हेरष्टादशभागप्रमाणा, सिध्मपद्मकण्टकाधिष्ठाना । द्वितीया लोहिता नाम, व्रीहिषोडशभागप्रमाणा, तिलकालकन्यच्छव्यङ्गाधिष्ठाना । तृ-तया श्वेतानाम, ब्रोहिद्वादशभागप्रमाणा, चर्मदलाजगल्ली मशकाधि-चतुर्थोऽध्यायः । १ पूर्वाध्याये सङ्क्षेपत उक्तस्य गर्भस्य विस्तरेण व्याख्यातुं गर्भव्याकरणं नामा-ध्याय आरभ्यते । व्याख्यायते विस्तरेण विव्रियतेऽनेनेति व्याकरणन्, गर्भस्य व्याक-रणं विवरणमित्यर्थः । शॆषं पूर्ववत् । २ अग्निरत्र पाचकालो चकरञ्जकभ्राजक साधका-नां तथा पाञ्चभौतिकानां तथा सप्तधातुगतानामूष्मणां शक्तिरूपतयाऽवस्थितो वाचोऽधि-देवखं प्राप्तो बोद्धयः, स चाहारपाकादिकर्मणा जीवयति । सोमश्च पञ्चात्मकश्लेष्मरस-शुक्रादीनां, तोयात्मकानां भावानां रसनेन्द्रियस्य च शक्तिरूपतयाऽवस्थितो मनसश्चा-धिदेवत्वं प्राप्तो बोध्यः, स च सौम्यधातोरोजःप्रभृतेः पेषणेन पवनपावकसंशुष्क भाग.. स्यार्द्रताविधानेन जीवयति । वायुः प्राणादिभेदेन पञ्चात्मकः, स च दोषधातुमलाङ्गो-पाङ्गादीनां सञ्चारणेनोच्छ्वासनिःश्वासाभ्यां च जीवयति । सत्त्वं रजस्तम इति मनो-रूपतया परिणतं जीवात्मनः शरीरान्तरे जीवनग्रहणमोक्ष हेतुरिति तदपि जीवयति । पञ्चेन्द्रियाणि श्रोत्रत्वङ्नेत्र जिह्वाप्राणानि शब्दादिग्रहणकर्मणा जीवयति । भूतात्मा जीवात्मा, स चाशेषस्यैव राशेश्चैतन्य हेतुरिति सोऽपि जीवयति । प्राणयन्ति जीव-यन्तीति प्राणा इति ढल्हाणः । ३ एवंप्रवृत्तस्य जीवात्माधिष्ठितस्य अभिपच्यमानस्य तस्य शुक्रशोणितस्य क्षीरस्य सन्तानिका इव यथा पाचितस्य दुग्धस्योपरि सर उत्पद्यते, तथैव सप्तत्वचो भवन्तीत्य. थः । चरकेतु षट् त्वचोऽभिहिताः । ४ सर्ववर्णान् = गौरादिकान् । ५ चकारात्प्र-भाम्, “ श्रासन्ना लक्ष्यते छाया प्रभा दूरात्प्रकाशते " इति । ६ अत्र व्रीहिर्यवः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 593

सुश्रुत संहिता चौखम्बा, पृष्ठ 593 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by ArI ीए था pion Chennai and eGangotri ४३५ ष्ठाना । चतुर्थी ताम्रा नाम, व्रीहेरष्टभागप्रमाणा, विविधकिलासकु-ष्ठाधिष्ठाना । पञ्चमी - वेदिनी नाम, व्रीहिपञ्चभागप्रमाणा, कुष्टवि-सर्पाधिष्ठाना । षष्ठी रोहिणी नाम, व्रीहिप्रमाणा, ग्रन्थ्यपच्यर्बुद-श्लीपद्गलगण्डाधिष्टाना । सप्तमी मांसवरा नाम, व्रीहिद्वयप्रमाणा, भगन्दरविद्रध्यर्शोऽधिष्ठाना । यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्व-वकाशेषु, न ललाटे सूक्ष्माङ्गुल्यादिषु । यतो वक्ष्यत्युदरेषु - त्रीहिमु-खेनाङ्गुष्ठोदरप्रेमाणमवगाढं विध्येदिति ॥ ४ ॥

कलाः खल्वपि सप्त सम्भवन्ति धात्वाः ' यान्तरमर्यादाः ॥ ५ ॥

भवतश्चात्र ।

यथा हि सारः काष्ठेषु विद्यमानेषु दृश्यते ।

तथा धातुहि मांसेषु छिद्यमानेषु दृश्यते ॥ ६ ॥

स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा ।

श्लेष्मणा वेष्टितांश्चापि कैलाभागांस्तु तान् विदुः ॥ ७ ॥

तासां प्रथमा मांसधरा नाम, यस्यां मांसे सिरास्नायुधमनी-स्रोतसां प्रताना भवन्ति ॥ ८ ॥

भवति चात्र । यथा बिसमृणालानि विवर्धन्ते समन्ततः । १ उदररोगचिकित्सिते वक्ष्यतीत्यर्थः । २ अङ्गुष्ठोदरप्रमाणं विंशतितमभागोनषड्यव-६२० प्रमाणम् । एतेन सप्तत्वचः समुदिता श्रङ्गुष्ठोदरप्रमाणाः सन्तीति सूच्यते । ३ धातूनां मांसशोणितभेदः श्लेष्म शुक्राणाम्, आशययोः पित्तपक्वाशययोर-न्तरेषु मर्यादाः । डल्हणस्तु दधतीति धातवो रसरक्तमांसादयः, कफपित्तपुरीषाण्यपि प्राकृतानि स्वकर्मणा दधतीति धातव:, तेषामाशया अवस्थानप्रदेशा धात्वाशयाः, तेषा • मन्तरेषु मर्यादाः सीमाभूता इत्याह । कलास्वरूपम् - " घात्वाशयान्तरे घातुर्यः क्लेदस्त्व-धितिष्ठति । देहोष्मणाऽभिपक्कश्च सा कलेत्यभिधीयते ॥ ” इति । वृद्धवाग्भट: - “ यस्तु धात्वाशयान्तरेण क्लेदोऽवतिष्ठते स यथास्वमूष्मभिर्विपक्कः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुरसशेषोऽल्पत्वात् कलासंज्ञः ” । कला ' मिल्ली ' इति भाषायां ज्ञातव्या । ४ जरायुणा गर्भवेष्टकसदृशेन, सन्ततान् सम्यक्प्रकारेण व्याप्तान् । ५ कलाभागान् = कलाविभागविशेषान् । ६ प्रतानाः = विस्ताराः, शाखा इति यावत् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 594

सुश्रुत संहिता चौखम्बा, पृष्ठ 594 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४३६ & igitized by Arya Samaj सुश्रुतसंहितायां and ion Chennai and eGangotri [ अ ० ४ भूमौ पङ्कोदकस्थानि तथा मांसे सिराऽऽयः ॥ ९ ॥

द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतः, तस्यां शोणितं विशेषतश्च सिरासु यकृत्प्लीह्नोश्च भवति ॥ १० ॥

भवति चात्र ।

वृक्षाद्यथाऽभिप्रह्तात् क्षीरिण: क्षीरमावहेत् ।

मांसादेवं क्षतात् क्षिप्रं शोणितं सम्प्रसिच्यते ॥ ११ ॥

तृतीया मेदोधरा नाम, मेदो हि सर्वभूतानामुदरस्थमण्वस्थिषु च, मह्त्सु च मज्जा भवति ॥ १२ ॥

भवति चात्र । स्थूलास्थिषु विशेषेण मज्जौ त्वभ्यन्तराश्रितः ।

अथेतरेषु सर्वेषु सरक्तं मेद् उच्यते ।

शुद्धमांसस्य यः स्नेहः सा वँसा परिकीर्त्तिता ॥ १३ ॥

चतुर्थी श्लेष्मधरा नाम, सर्वसन्धिषु प्राणभृतां भवति ॥ १४ ॥

भवति चात्र ।

स्नेहाभ्यक्ते यथा ह्यक्षे चक्रं साधु प्रवर्त्तते ।

सन्धयः साधु वर्त्तन्ते संश्लिष्टाः श्लेष्मणा तथा ॥ १५ ॥

१ शाखाप्रशाखारूपेण विवर्धन्ते इति भावः । २ यकृदिदं दक्षिणे भागे नवमपर्शुकावधि स्वैरङ्गुलैश्चतुर्दशाङ्गुलमायामेनाष्टाङ्गुलं चतुरङ्गुलनोत्सेधेनोपलभ्यते, प्लीहा चाष्टमपर्शुकां यावदधिष्ठितः षडङ्गुलश्चतुरङ्गुलवि-स्तारः सार्द्धाङ्गुलोत्सेधश्च तयो रक्तधराऽऽख्या कला भवतीति भावः । ३ सम्प्रसि-च्यते = रक्तधराकलाऽनुविद्धत्वाच्छोणितं प्रसवतीत्यर्थः । ४ महत्सु = अस्थिष्वित्य-र्थः । ५ मज्जानाम = अस्थिमध्यगतः स्नेहः । स द्विविधः पीतो रक्तश्च । तत्र पीतो नलकास्थ्नामन्तः, रक्तस्त्वितरास्थिषु, प्रान्तभागेषु च नलकास्थ्नाम् । सोऽयं स्थूल-स्वरूपेण मॆदसोऽभिन्नोऽपि कर्म वैशे यात्पृथगेव धातुः । ६ मेदोनाम – सान्द्रसर्पिस्तु • त्यः स्नेहधातुः शरीरस्य । तस्य स्थानमुदरान्तः, त्वचामधश्च । ७ वसा तु -मांसान्तरानुप्रविष्टः स्नेहस्तस्या मेदस्यनुप्रवेशस्तुल्योपादानत्वात् । ८ श्रक्षे = चक्र-च्छिद्रान्तर्गतधुरि, ' अक्षो रथस्यावयवे ' इति हेमचन्द्रः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 595

सुश्रुत संहिता चौखम्बा, पृष्ठ 595 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by Arya शासे रस्थामय् qhennai and eGangotri ४३७ पञ्चमी पुरीषधरा नाम, याऽन्तःकोष्ठे मलमभिविभजते पक्का-शयस्था ॥ १६ ॥

भवति चात्र ।

यकृत्समन्तात् कोष्ठं च तथाऽन्त्राणि समाश्रिता ।

उण्डुकस्थं विभजते मलं मलधरा कला ॥ १७ ॥

षष्ठी पित्तधरा नाम, या चतुर्विधमन्नपानमुपभुक्तमामाशयात् प्रच्युतं पक्वाशयोपस्थितं धारयति ॥ १८ ॥

भवति चात्र ।

अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम् ।

तज्जीर्यति यथाकालं शोषितं पित्ततेजसा ॥ १ ९ ॥

१ कोष्ठस्थिताऽपि पुरीषस्य पक्वाशयस्थितत्वाद्वाहुल्येन पक्वाशयस्थोच्यते । कोष्ठ-शब्देन “ स्थानान्यामाग्निपक्कानां मूत्रस्य रुधिरस्य च । हृदुण्डुकं फुप्फुसश्च कोष्ठ इत्य-भिधीयते ॥ ” इति बोध्यम् । २ अत्र सुश्रुतार्थ सन्दीपनभाष्यम् - यकृतः कोष्ठस्यामा-शयादैश्च समन्तात् समीपत इत्यर्थः । एतेनैतदुक्तं भवति, यथा नाभेरघो दक्षिणतः स्थितस्य क्षुद्रान्त्र सीमासन्निविष्टस्योण्डुकस्यापरप्रान्तेन सम्बद्धं बृहदन्त्रमूर्ध्वमुखीभूय ग्रहण्या दक्षिणपार्श्वतो यकृतोऽधस्तादामाशयमपसव्यं कृत्वा गुदमनुगतम् । तथैव तदन्तर्वर्त्तिनी मलधरानामकला उण्डुकस्थं पक्वं मलं विसृजतीति । ढल्हणस्तु —सम • न्तात्सर्वतो यकृदादिकं समाश्रिता उण्डुकस्थं मलं विभजते । तत्र यकृद्ग्रहणं रक्ताधार · साम्येन प्लीह्न उपलक्षणं यकृत्समीपानां हृदयादीनां च, उण्डुकग्रहणेन सान्निध्याद् गुदं गृह्यते । तेनोर्ध्वं यकृदादिव्यवस्थितम्, अधस्ताद् गुदपर्यन्तं कोष्ठं समन्तात समाश्रितेति । ३ उण्डुकस्तु – पक्वाशयस्यैकदेशे विभक्तमलधारकः । सुश्रुतार्थसन्दीपनभाष्ये— स्थूलक्षुद्रान्त्रयोराद्यन्तसीमासन्निविष्टो मलोद्गमप्रतिबन्धिनाऽनुलोम सन्निविष्टेन कपा-टद्वितयेनानुविद्धः पार्श्वोद्वतयैकद्वारया प्रायः षढङ्गुलिमितयाऽननुभूतक्रियया नाढ्या समेतः पुरीषविभाजको गोलो यन्त्रभेद इति । ४ आमाशयात् प्रच्युतं कफाशयाद् भ्रष्टं पक्वाशयोपस्थितं पक्वाशयगमनायोपस्थितं पित्तस्थानं संप्राप्तं पाकार्थं धारयती -त्यर्थः । इयमेव ग्रहणी अभिहिता - “ षष्ठी पित्तधरानाम या कला परिकीर्तिता । आमप-क्काशयान्तःस्था ग्रहणी साऽभिधीयते ॥ ” इति । सङ्ग्रहे स्पष्टमाह - “ षष्ठी पित्तधरानाम पक्कामाशयमध्यस्था । सा ह्यन्तरग्नेरधिष्ठानतयाऽऽमाशयात् पक्काशयोन्मुखमन्नं बलेन विधार्य पित्ततेजसा शोषयन्ती पचति, पक्कं च विमुञ्चति । दोषाधिष्ठिता तु दौर्बल्यादा-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 596

सुश्रुत संहिता चौखम्बा, पृष्ठ 596 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४३८ सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४ सप्तमी शुक्रधरा नाम, या सर्वप्राणिनां सर्वशरीरव्यापिनी ॥२० ॥

भवन्ति चात्र ।

यथा पयसि सर्पिस्तु गूढैश्चेक्षौ रसो यथा ।

शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः ॥ २१ ॥

द्व्यङ्गुले दक्षिणे पौर्श्वे बस्तिद्वारस्य चाप्यधः ।

मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्त्तते ॥ २२ ॥

कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा ।

स्त्रीषु व्यायच्छतञ्चापि हर्षात्तत् सम्प्रवर्त्तते ॥ २३ ॥

B. गृहीतगर्भाणामार्त्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण, तस्माद् गृहीतगर्भाणामार्तवं न दृश्यते । ततस्तदधः प्रतिहतमूर्ध्वमा-गतमपरं चोपचीयमानमपरेत्यभिधीयते । शेषं चोर्ध्वतरमागतं पयो-धरावभिप्रतिपद्यते, तस्माद्गर्भिण्यः पीनोन्नतपयोधरा भवन्ति || २४ ||

गर्भस्य यँकृत्प्लीहानौ शोणितजौ । शोणितफेनप्रभवः फुप्फुसः ।

शोणितकिट्टप्रभव उँण्डुकः ॥ २५ ॥

ममेव । ततोऽसावन्नस्य ग्रहणात् पुनर्ग्रहणी संज्ञा " इति । १ ' गुडश्चेक्षुरसे ' इति पाठान्तरम् । पयोदृष्टान्तोऽल्पमैथुनत्वाद् बहुशुक्रे, इक्षुदृष्टान्तस्त्वतिपीडनशुक्रक्षरण-त्वान्मन्दशुके इति डल्इणः । २ ‘ पाइर्खे ' इत्यत्र ‘ वामे ' इत्येव साधीयान् पाठः । अन्यथा प्रत्यक्षविरोधात् स्वो-क्तिबिरोधाच्च । श्रूयते हि " शुक्रवहे द्वे शुक्रप्रादुर्भावाय, द्वे शुक्रविसर्गाय च " इति सुश्रुत एवेति प्रत्यक्ष शारीरस्योपोद्घाते गणनाथसेनः । ३ व्यायच्छतः = स्त्रीप्रसङ्गं कु-र्वतः। ४ प्रतिहतं = प्रत्यावृत्तम् । ५ अपरा = जरायुः । ६ हृदयादधो दक्षिण-पाइर्वे स्थितं यक्कृत् कालखण्डापरपर्यायम् । हृदयस्य वामभागेऽधस्तन्नाटिकालग्नो रक्त-वाहिसिरामूलं ' लोहा । अनयोराकृतिः प्राक् प्रदर्शिता । ७ हृदयस्य वामभागेऽधस्त-न्नाडिकालग्नः फुप्फुसः । सुश्रुतार्थसन्दीपनभाष्ये - फुप्फुसो नाम प्रायेण कण्ठप्रदेशादा-रभ्य षष्ठीं सप्तम वा पर्शुकामवधीकृत्य लम्बमानः समन्तात्, सप्तमपर्शुकासमदेशवर्त्तिनं कुक्षिवक्षोविभाजिनं तदपवारणपटं स्पृष्ट्वेव विस्तारेण प्रायः सर्वमुरोव्याप्यावतिष्ठते । स चाधस्तात् कोविदारपत्रवद् द्वेधा विभज्यते, विभक्तस्य च तस्य दक्षिणो भागो वा-माद् विशालः किञ्चित्पुरस्सरश्च वामस्तु दक्षिणादायतः किञ्चित्पृष्ठानुसारी चेति । ८ उण्डुकः = पोट्टलकः, श्रस्याकृत्यादिकं प्रागभिहितम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 597

सुश्रुत संहिता चौखम्बा, पृष्ठ 597 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by Arya Shi Chennai and eGangotri San ४३ ९

असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः ।

तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति ॥ २६ ॥

ततोऽस्यान्त्राणि जायन्ते गुदं बस्तिश्च देहिनः ।

उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् ॥ २७ ॥

कफशोणितमांसानां सारो जिह्वा प्रजायते ।

यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् ॥ २८ ॥

अनुप्रविश्य पिशितं पेशीर्विभेजते तथा ।

मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात् ॥ २ ९ ॥

सिराणां तु । मृदुः पाकः स्नायूनां च ततः खरः ।

आशय्याभ्यासयोगेन करोत्याशयसम्भवम् ॥ ३० ॥

रक्त मेदः प्रसादाद् वृको मांसासृकफमेदः प्रसादाद् वृपणौ; । शोणितकफप्रसादजं हृदयं, यदाश्रया हि धमन्यः प्राणवहाः । तस्याधो वामतः प्लीहा फुप्फुसश्च दक्षिणतो यकृत् क्लोमं च 1 तद्धृदयं विशेषेण चेतनास्थानम्, अतस्तस्मिंस्त-१ प्रसादः = सारतमो भागः । २ यथार्थ पेशीविभजते इति सम्बन्धः । पेशी = मांसपिण्डम् । ३ अभ्यासयोगेन वारं वारम्, आशय्य आशयानुरूपो भूत्वा, आशयानां सम्भव-मुत्पत्तिकरोति वायुरिति पूर्वेणान्वयः । ४ वृक्कौ = श्रभ्यन्तरे कुक्षिगोलको । ५ ' हृ-दयस्याधो वामतः प्लीहा दक्षिणतो यकृद् उभयतः क्लोम फुप्फुसौ च ' इति तु साधी-यान् पाठ इति प्रत्यक्ष शारीरस्योपोद्घाते गणनाथसेनः । तन्त्रान्तरेऽपि - ' फुप्फुसस्तु द्विधाभिन्नो वामदक्षिणभेदतः । पेश्यां वक्षस्थलस्थायां समासन्नोऽनुशीर्षकः ॥ अधो विशालो बहुभिः कोशैरिव मधुक्रमः । दुष्टशोणित संशुद्धिकोशोऽयं परिकीर्तितः ॥ ” इत्यादिना वामदक्षिणभेदेन फुप्फुसो वर्णितः । ६ क्लोम = तिलकं, पिपासास्थानमिति यावत् । तदुक्तम् — “ अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति । जलवाहि सिरामूलं तृष्णास्थानं मतं बुधैः ॥ ” इति । यद्यपि क्लोमस्यावस्थितिरामाशयस्याधो वामपार्श्वेऽस्ति, तथाऽप्यस्य हृदयाद् दक्षिणदेशवर्त्ति-मुखमात्रेण बोध्यम् । तदुक्तम् - " आमाशयादधस्ताच्च ग्रहण्या उपरिस्थितात् । पित्त-पातस्थानवद्धमुखात् प्लीहावधिस्थितात् || क्लोम्नो विनिःश्रुतेनाथ सक्षारेण रसेन च । भिद्यतेऽन्नमनिर्भिन्नं यदामाशयशक्तितः ॥ ” इति । ७ सामान्येन सकलं शरीरं चेतनास्थानमुक्तं चरके- " चेतनानामधिष्ठानं मनो देहश्च सेन्द्रियः । केशलोमनखाग्रान्न-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 598

सुश्रुत संहिता चौखम्बा, पृष्ठ 598 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४० सुश्रुतसंहितायां.. [ अ ० ४ Digitized by Arya Sama Foundation Chennai and eGangotri मसोऽऽवृते सर्वप्राणिनः स्वपन्ति ॥ ३१ ॥

भवति चात्र ।

पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् ।

जाग्रतस्तद्विकसति स्वपतश्च निमीलति ॥ ३२ ॥

निद्रां तु वैष्णवीं पाप्मानमुपदिशन्ति । सा स्वभावत एव सर्व-प्राणिनोऽभिस्पृशति । तत्रै यदा संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा भवत्यनवबोधिनी, सा प्रलयकाले । तमोभूयिष्ठानामहः सु निशासु च भवति, रजोभूयिष्ठा-नामनिमित्त॑म्, सत्त्वभूयिष्ठानामर्द्धरात्रे । क्षीणश्लेष्मणामनिलबहु-लानां मनःशरीराभितापवतां च नैव, सा वैकारिकी भवति ॥३३ ॥

भवन्ति चात्र |

हृदयं चेतनास्थानमुक्तं सुश्रुत! देहिनाम् ।

तमोऽभिभूते तस्मिंस्तु निद्रा विशति देहिनम् ॥ ३४ ॥

निद्राहेतुस्तमः सत्त्वं बोधने हेतुरुच्यते ।

स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते ॥ ३५ ॥

मलद्रवगुणैर्विना ॥ ” इति । १ तमसा तमोगुणेन, आवृते आच्छादित इत्यर्थः । २ पुण्डरीकेण = सङ्कुचितकमलेनेत्यर्थः । ३ श्रधोमुखम् = अधोवर्तिमुखाकृति • भागमित्यर्थः । तन्त्रान्तरे विशेषः - " चतुःप्रकोष्ठं हृदयं वामदक्षिणभागतः । तेषां द्वौ दक्षिणौ कोष्ठौ गृहीत्वाऽशुद्धशोणितम् ॥ मनाक् संशोध्य विसृजेत् सिरया फुप्फुसेऽनि-शम् । तत्र शुद्धं व्रजेत् कोष्ठौ वामौ च तदनन्तरम् । तस्मात् सृतं शरीरं च जीवयेद् बृंहयेच्च तत् ॥ ” इति । ४ वैष्णवीं मायामित्यर्थः । पाप्मानम् उपदिशन्ति श्राचार्या इति शेषः । जनो निद्रया शुभाशुभकर्म कर्तुमसमर्थः, अतः ' पाप्मानम् ' इत्युक्तम् । ५ यद्यपि तन्त्रान्तरे– “ कालस्वभावामयचित्तदेहखेदैः कफागन्तुतमोभवा च । निद्रा बिभर्ति प्रथमा शरीरं पाप्मान्तगा व्याधिनिमित्तमन्याः ॥ ” इति सप्तविधा निदा उक्तास्तथाऽपि त्रिविधैवेति तामसी - स्वाभाविकी - वैकारिकीभेदेन क्रमशस्ता दर्शयति-तत्रेति । ६ श्रनिमित्तम् = श्रनियतकालम्, रजसश्चलतया कदाचिद्दिवा कदाचिद्रा-त्राविति तात्पर्यम् । ७ श्रायातीति शेषः । श्रयाति चेत् सा निद्रा वैकारिकीत्यर्थः । चरके विशेषः – “ यदा तु मनसि कान्ते कर्मात्मानः क्लमान्विताः । विषयेभ्यो निव • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 599

सुश्रुत संहिता चौखम्बा, पृष्ठ 599 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ४ ] Digitized by Ary Arya's खारीरस्थान n chennai and eGangotri

' पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः ।

रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान् ॥ ३६ ॥

करणानां तु वैकल्ये तमसाऽभिप्रवेर्धिते ।

अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥ ३७ ॥

४४१ सर्वेर्त्तषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् । प्रतिषिद्धेष्वपि तु बालवृद्धस्त्रीकर्शित क्षत क्षीणमद्यनित्ययान वाहनाध्वकर्मपरिश्रान्ता-नाममुक्तवतां मेदःस्वेदक फरसरक्तक्षीणानाम जीर्णिनां च मुहूत्त दिवास्वपनमप्रतिषिद्धम् । रात्रावपि जागरितवतां जागरितकालाद-र्धमिष्यते दिवास्वपनम् । विकृतिर्हि दिवास्वप्नो नाम । तत्र स्वपता-मधर्मः सर्वदोषप्रकोपश्च । तत्प्रकोपाच्च कासश्वासप्रतिश्यायशिरागौ-वाङ्गामर्दारोचकज्वराग्निदौर्बल्यानि भवन्ति । रात्रावपि जागरित-वतां वातपित्तनिमित्तास्तं एवोपद्रवा भवन्ति ॥ ३८ ॥

भवन्ति चात्र ।

तस्मान्न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत् ।

ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितं चरेत् ॥ ३ ९ ॥

अरोगः सुमना ह्येवं बलवर्णान्वितो नृपः ।

नातिस्थूलकृशः श्रीमान् नरो जीवेत् समाः शतम् ॥। १० ॥

निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा ।

दिवारात्रौ च ये नित्यं स्वप्नजागरणोचिताः ॥

न तेषां स्वपतां दोषो जायतां वाऽपि जायते ॥ ४१ ॥

निद्रानाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि । र्तन्ते तदा स्वपिति मानवः ॥ ” इति । १ स्वप्नदर्शने कारणं निर्दिशति - पूर्वेति । स्वपतः शरीरस्य प्रभुः स्वामी जीवात्मेत्यर्थः । २ तमसा करणानामिन्द्रियाणां वैकल्ये वैक्लव्ये श्रभिवर्द्धिते अभि सर्वतो बहिरन्तश्च प्रवर्द्धित इत्यर्थः । बहिरिन्द्रियविषयभूतेऽर्थे, अन्तर्म-नोऽर्थे । ३ दिवास्वप्नस्य प्रवृत्तिनिवृत्तो निर्दिशति - सर्वर्तुष्विति । ४ तथाऽपि ग्रीष्मे शरीररक्षार्थं दिवास्वप्नोऽभिहितः, सर्वदोषप्रकोपः = वातादिरक्तसर्वदोषप्रकोपश्चेत्यर्थः । ५ ते = कासश्वासप्रतिश्यायादयः । ६ वृषः = शुक्रलः, स्त्रीसम्भोगशक्तियुक्त इत्यर्थः । ७ श्रयमर्ध श्लोके डल्हणसम्मतोऽतः स्थापितः । निद्रानाशहेतून् तच्चिकित्सां च CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 600

सुश्रुत संहिता चौखम्बा, पृष्ठ 600 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-४४२ Digitized by Arya Samaj Foundation Chennai and eGangotri सम्भवत्यभिघाताच्च प्रत्यनीकैः प्रशाम्यति ॥ ४२ ॥

निद्रानाशेऽभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम् ।

गात्रस्योद्वर्त्तनं चैव हितं संवाहनानि च ॥ ४३ ॥।

शालिगोधूमपिष्टान्नभक्ष्यैरैक्षवसंस्कृतैः । [ अ ०४ भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः ॥ ४४ ॥

रसैर्बिलेशयानां च विष्किराणां तथैव च ।

द्राक्षासितेक्षुद्रव्याणामुपयोगे भवेन्निशि ॥ ४५ ॥

शयनासनयानानि मनोज्ञानि मृदूनि च ।

निद्रानाशे तु कुर्वीत तथाऽन्यान्यपि बुद्धिमान् ॥ ४६ ॥

निद्राऽतियोगे वमनं हितं संशोधनानि च ।

लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च ॥ ४७ ॥

कफमेदोविषार्तानां रात्रौ जागरणं हितम् ।

दिवास्वप्रश्च तृट्शूल हिक्काजीर्णातिसारिणाम् ॥। ४८ ॥

इन्द्रियार्थेष्वसम्प्राप्तिगौरवं जृम्भणं क्लमः ।

निद्रार्त्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ॥ ४ ९ ॥

' पीत्वैक मनिलोच्छ्वासमुद्वेष्टन् विवृताननः ।

यं मुङ्क्ष्वति सनेत्रास्त्रं स जृम्भ इति संज्ञितः ॥ ५० ॥

यो s नायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः ।

क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः ॥ ५१ ॥

सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता ।

शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते ॥ ५२ ॥

उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकँष्ठीवनेरितम् ।

हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ॥ ५३ ॥

दर्शयति — निद्रति । १ प्रत्यनीकैः = अभ्यङ्गादिभिः । २ संवाहनानि - मृदुमर्द-नानि । ३ श्रन्यानि = प्रावरणादीनि । ४ तन्द्रां निर्दिशति – इन्द्रियेति । ५ ईहा = चक्षुर्निमीलनादिका । ६ जृम्भादीनां लक्षणं ब्रवीति - पीत्वेति । ७ प्रसे-CC - 0. Gurukul Kangri Collection, Haridwar