सुश्रुत संहिता चौखम्बा — पृष्ठ 591–600
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 591–600
पृष्ठ 591
पाठ पढ़ें पाठ छिपाएँ
अ ० ३ ] Digitized by Arya की एक कनकन् Chennai and eGangotri ४३३ चीर्यमारोग्यं बलवर्णौ मेधा च सात्म्यजानि ॥ ३३ ॥
तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणा-क्षिमहत्त्वञ्च पूर्वञ्च दक्षिणं सक्ध्युत्कर्षति बाहुल्याच पुन्नामधेयेषु द्रव्येषु दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदात्रा-तकादीनि पुन्नामान्येव प्रसन्नमुखवर्णा च भवति तां ब्रूयात् । पुत्र-मियं जनयिष्यतीति, तद्विपर्य्यये कन्याम् । यस्याः पार्श्वद्वयमुन्नतं
पुरस्तान्निर्गतमुदरं प्रागभिहितलक्षणं च तस्या नपुंसकमिति विद्यात् ।
यस्या मध्ये निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत इति ॥ ३४ ॥
भवन्ति चात्र ।
देवताब्राह्मणपराः शौचाचारहिते रताः ।
महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् ॥ ३५ ॥
अङ्गप्रत्यङ्गर्निर्वृत्तिः स्वभावादेव जायते ।
अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्ति गुणागुणाः ।
ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः ॥ ३६ ॥
इति सुश्रुतसंहितायां शारीरस्थाने गर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ॥ ३ ॥
नि, ज्ञातव्यानीति यावत् । कर्मणि ल्युट् । १ दौर्हृदम् = अभिलाषम् । २ चकारात् " पुत्रगर्भयुतायास्तु नार्या मासि द्वितीयके । गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु ॥ ” इति लक्षणान्तरमपि बोध्यम् । ३ तदुक्तं चरके– “ सव्याङ्गचेष्टा पुरुषार्थिनी स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा । सव्यात्तगर्भा न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते ॥ ” इति । ४ चकारात्– “ नपुंसकं यदा गर्भे भवेद्गर्भोऽर्बुदाकृतिः ” इति लक्षणा • न्तरमपि बोध्यम् । ५ द्रोणी जलक्षेपणी तत्सदृशमित्यर्थः । ६ निर्वृत्तिः = सिद्धिः, उत्पत्तिरिति यावत् । इति सुश्रुतसंहितायाः शारीरस्थानीयसुधाऽख्यधिन्यां तृतीयोऽध्यायः । २८ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 592
पाठ पढ़ें पाठ छिपाएँ
४३४ by Arya Samaj सुश्रुतसंहिताय and eGangotri i चतुर्थोऽध्यायः । [ अ ० ४ अथातो गर्भव्याकरणं नाम शारीरं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः ॥ ३ ॥
तस्य खल्वेवम्प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त त्वचो भवन्ति । तासां प्रथमाऽवभासिनी नाम, या सर्ववर्णानवभासयति पञ्चविधां च छायां प्रकाशयति । सात्री-हेरष्टादशभागप्रमाणा, सिध्मपद्मकण्टकाधिष्ठाना । द्वितीया लोहिता नाम, व्रीहिषोडशभागप्रमाणा, तिलकालकन्यच्छव्यङ्गाधिष्ठाना । तृ-तया श्वेतानाम, ब्रोहिद्वादशभागप्रमाणा, चर्मदलाजगल्ली मशकाधि-चतुर्थोऽध्यायः । १ पूर्वाध्याये सङ्क्षेपत उक्तस्य गर्भस्य विस्तरेण व्याख्यातुं गर्भव्याकरणं नामा-ध्याय आरभ्यते । व्याख्यायते विस्तरेण विव्रियतेऽनेनेति व्याकरणन्, गर्भस्य व्याक-रणं विवरणमित्यर्थः । शॆषं पूर्ववत् । २ अग्निरत्र पाचकालो चकरञ्जकभ्राजक साधका-नां तथा पाञ्चभौतिकानां तथा सप्तधातुगतानामूष्मणां शक्तिरूपतयाऽवस्थितो वाचोऽधि-देवखं प्राप्तो बोद्धयः, स चाहारपाकादिकर्मणा जीवयति । सोमश्च पञ्चात्मकश्लेष्मरस-शुक्रादीनां, तोयात्मकानां भावानां रसनेन्द्रियस्य च शक्तिरूपतयाऽवस्थितो मनसश्चा-धिदेवत्वं प्राप्तो बोध्यः, स च सौम्यधातोरोजःप्रभृतेः पेषणेन पवनपावकसंशुष्क भाग.. स्यार्द्रताविधानेन जीवयति । वायुः प्राणादिभेदेन पञ्चात्मकः, स च दोषधातुमलाङ्गो-पाङ्गादीनां सञ्चारणेनोच्छ्वासनिःश्वासाभ्यां च जीवयति । सत्त्वं रजस्तम इति मनो-रूपतया परिणतं जीवात्मनः शरीरान्तरे जीवनग्रहणमोक्ष हेतुरिति तदपि जीवयति । पञ्चेन्द्रियाणि श्रोत्रत्वङ्नेत्र जिह्वाप्राणानि शब्दादिग्रहणकर्मणा जीवयति । भूतात्मा जीवात्मा, स चाशेषस्यैव राशेश्चैतन्य हेतुरिति सोऽपि जीवयति । प्राणयन्ति जीव-यन्तीति प्राणा इति ढल्हाणः । ३ एवंप्रवृत्तस्य जीवात्माधिष्ठितस्य अभिपच्यमानस्य तस्य शुक्रशोणितस्य क्षीरस्य सन्तानिका इव यथा पाचितस्य दुग्धस्योपरि सर उत्पद्यते, तथैव सप्तत्वचो भवन्तीत्य. थः । चरकेतु षट् त्वचोऽभिहिताः । ४ सर्ववर्णान् = गौरादिकान् । ५ चकारात्प्र-भाम्, “ श्रासन्ना लक्ष्यते छाया प्रभा दूरात्प्रकाशते " इति । ६ अत्र व्रीहिर्यवः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 593
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by ArI ीए था pion Chennai and eGangotri ४३५ ष्ठाना । चतुर्थी ताम्रा नाम, व्रीहेरष्टभागप्रमाणा, विविधकिलासकु-ष्ठाधिष्ठाना । पञ्चमी - वेदिनी नाम, व्रीहिपञ्चभागप्रमाणा, कुष्टवि-सर्पाधिष्ठाना । षष्ठी रोहिणी नाम, व्रीहिप्रमाणा, ग्रन्थ्यपच्यर्बुद-श्लीपद्गलगण्डाधिष्टाना । सप्तमी मांसवरा नाम, व्रीहिद्वयप्रमाणा, भगन्दरविद्रध्यर्शोऽधिष्ठाना । यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्व-वकाशेषु, न ललाटे सूक्ष्माङ्गुल्यादिषु । यतो वक्ष्यत्युदरेषु - त्रीहिमु-खेनाङ्गुष्ठोदरप्रेमाणमवगाढं विध्येदिति ॥ ४ ॥
कलाः खल्वपि सप्त सम्भवन्ति धात्वाः ' यान्तरमर्यादाः ॥ ५ ॥
भवतश्चात्र ।
यथा हि सारः काष्ठेषु विद्यमानेषु दृश्यते ।
तथा धातुहि मांसेषु छिद्यमानेषु दृश्यते ॥ ६ ॥
स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा ।
श्लेष्मणा वेष्टितांश्चापि कैलाभागांस्तु तान् विदुः ॥ ७ ॥
तासां प्रथमा मांसधरा नाम, यस्यां मांसे सिरास्नायुधमनी-स्रोतसां प्रताना भवन्ति ॥ ८ ॥
भवति चात्र । यथा बिसमृणालानि विवर्धन्ते समन्ततः । १ उदररोगचिकित्सिते वक्ष्यतीत्यर्थः । २ अङ्गुष्ठोदरप्रमाणं विंशतितमभागोनषड्यव-६२० प्रमाणम् । एतेन सप्तत्वचः समुदिता श्रङ्गुष्ठोदरप्रमाणाः सन्तीति सूच्यते । ३ धातूनां मांसशोणितभेदः श्लेष्म शुक्राणाम्, आशययोः पित्तपक्वाशययोर-न्तरेषु मर्यादाः । डल्हणस्तु दधतीति धातवो रसरक्तमांसादयः, कफपित्तपुरीषाण्यपि प्राकृतानि स्वकर्मणा दधतीति धातव:, तेषामाशया अवस्थानप्रदेशा धात्वाशयाः, तेषा • मन्तरेषु मर्यादाः सीमाभूता इत्याह । कलास्वरूपम् - " घात्वाशयान्तरे घातुर्यः क्लेदस्त्व-धितिष्ठति । देहोष्मणाऽभिपक्कश्च सा कलेत्यभिधीयते ॥ ” इति । वृद्धवाग्भट: - “ यस्तु धात्वाशयान्तरेण क्लेदोऽवतिष्ठते स यथास्वमूष्मभिर्विपक्कः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुरसशेषोऽल्पत्वात् कलासंज्ञः ” । कला ' मिल्ली ' इति भाषायां ज्ञातव्या । ४ जरायुणा गर्भवेष्टकसदृशेन, सन्ततान् सम्यक्प्रकारेण व्याप्तान् । ५ कलाभागान् = कलाविभागविशेषान् । ६ प्रतानाः = विस्ताराः, शाखा इति यावत् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 594
पाठ पढ़ें पाठ छिपाएँ
४३६ & igitized by Arya Samaj सुश्रुतसंहितायां and ion Chennai and eGangotri [ अ ० ४ भूमौ पङ्कोदकस्थानि तथा मांसे सिराऽऽयः ॥ ९ ॥
द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतः, तस्यां शोणितं विशेषतश्च सिरासु यकृत्प्लीह्नोश्च भवति ॥ १० ॥
भवति चात्र ।
वृक्षाद्यथाऽभिप्रह्तात् क्षीरिण: क्षीरमावहेत् ।
मांसादेवं क्षतात् क्षिप्रं शोणितं सम्प्रसिच्यते ॥ ११ ॥
तृतीया मेदोधरा नाम, मेदो हि सर्वभूतानामुदरस्थमण्वस्थिषु च, मह्त्सु च मज्जा भवति ॥ १२ ॥
भवति चात्र । स्थूलास्थिषु विशेषेण मज्जौ त्वभ्यन्तराश्रितः ।
अथेतरेषु सर्वेषु सरक्तं मेद् उच्यते ।
शुद्धमांसस्य यः स्नेहः सा वँसा परिकीर्त्तिता ॥ १३ ॥
चतुर्थी श्लेष्मधरा नाम, सर्वसन्धिषु प्राणभृतां भवति ॥ १४ ॥
भवति चात्र ।
स्नेहाभ्यक्ते यथा ह्यक्षे चक्रं साधु प्रवर्त्तते ।
सन्धयः साधु वर्त्तन्ते संश्लिष्टाः श्लेष्मणा तथा ॥ १५ ॥
१ शाखाप्रशाखारूपेण विवर्धन्ते इति भावः । २ यकृदिदं दक्षिणे भागे नवमपर्शुकावधि स्वैरङ्गुलैश्चतुर्दशाङ्गुलमायामेनाष्टाङ्गुलं चतुरङ्गुलनोत्सेधेनोपलभ्यते, प्लीहा चाष्टमपर्शुकां यावदधिष्ठितः षडङ्गुलश्चतुरङ्गुलवि-स्तारः सार्द्धाङ्गुलोत्सेधश्च तयो रक्तधराऽऽख्या कला भवतीति भावः । ३ सम्प्रसि-च्यते = रक्तधराकलाऽनुविद्धत्वाच्छोणितं प्रसवतीत्यर्थः । ४ महत्सु = अस्थिष्वित्य-र्थः । ५ मज्जानाम = अस्थिमध्यगतः स्नेहः । स द्विविधः पीतो रक्तश्च । तत्र पीतो नलकास्थ्नामन्तः, रक्तस्त्वितरास्थिषु, प्रान्तभागेषु च नलकास्थ्नाम् । सोऽयं स्थूल-स्वरूपेण मॆदसोऽभिन्नोऽपि कर्म वैशे यात्पृथगेव धातुः । ६ मेदोनाम – सान्द्रसर्पिस्तु • त्यः स्नेहधातुः शरीरस्य । तस्य स्थानमुदरान्तः, त्वचामधश्च । ७ वसा तु -मांसान्तरानुप्रविष्टः स्नेहस्तस्या मेदस्यनुप्रवेशस्तुल्योपादानत्वात् । ८ श्रक्षे = चक्र-च्छिद्रान्तर्गतधुरि, ' अक्षो रथस्यावयवे ' इति हेमचन्द्रः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 595
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by Arya शासे रस्थामय् qhennai and eGangotri ४३७ पञ्चमी पुरीषधरा नाम, याऽन्तःकोष्ठे मलमभिविभजते पक्का-शयस्था ॥ १६ ॥
भवति चात्र ।
यकृत्समन्तात् कोष्ठं च तथाऽन्त्राणि समाश्रिता ।
उण्डुकस्थं विभजते मलं मलधरा कला ॥ १७ ॥
षष्ठी पित्तधरा नाम, या चतुर्विधमन्नपानमुपभुक्तमामाशयात् प्रच्युतं पक्वाशयोपस्थितं धारयति ॥ १८ ॥
भवति चात्र ।
अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम् ।
तज्जीर्यति यथाकालं शोषितं पित्ततेजसा ॥ १ ९ ॥
१ कोष्ठस्थिताऽपि पुरीषस्य पक्वाशयस्थितत्वाद्वाहुल्येन पक्वाशयस्थोच्यते । कोष्ठ-शब्देन “ स्थानान्यामाग्निपक्कानां मूत्रस्य रुधिरस्य च । हृदुण्डुकं फुप्फुसश्च कोष्ठ इत्य-भिधीयते ॥ ” इति बोध्यम् । २ अत्र सुश्रुतार्थ सन्दीपनभाष्यम् - यकृतः कोष्ठस्यामा-शयादैश्च समन्तात् समीपत इत्यर्थः । एतेनैतदुक्तं भवति, यथा नाभेरघो दक्षिणतः स्थितस्य क्षुद्रान्त्र सीमासन्निविष्टस्योण्डुकस्यापरप्रान्तेन सम्बद्धं बृहदन्त्रमूर्ध्वमुखीभूय ग्रहण्या दक्षिणपार्श्वतो यकृतोऽधस्तादामाशयमपसव्यं कृत्वा गुदमनुगतम् । तथैव तदन्तर्वर्त्तिनी मलधरानामकला उण्डुकस्थं पक्वं मलं विसृजतीति । ढल्हणस्तु —सम • न्तात्सर्वतो यकृदादिकं समाश्रिता उण्डुकस्थं मलं विभजते । तत्र यकृद्ग्रहणं रक्ताधार · साम्येन प्लीह्न उपलक्षणं यकृत्समीपानां हृदयादीनां च, उण्डुकग्रहणेन सान्निध्याद् गुदं गृह्यते । तेनोर्ध्वं यकृदादिव्यवस्थितम्, अधस्ताद् गुदपर्यन्तं कोष्ठं समन्तात समाश्रितेति । ३ उण्डुकस्तु – पक्वाशयस्यैकदेशे विभक्तमलधारकः । सुश्रुतार्थसन्दीपनभाष्ये— स्थूलक्षुद्रान्त्रयोराद्यन्तसीमासन्निविष्टो मलोद्गमप्रतिबन्धिनाऽनुलोम सन्निविष्टेन कपा-टद्वितयेनानुविद्धः पार्श्वोद्वतयैकद्वारया प्रायः षढङ्गुलिमितयाऽननुभूतक्रियया नाढ्या समेतः पुरीषविभाजको गोलो यन्त्रभेद इति । ४ आमाशयात् प्रच्युतं कफाशयाद् भ्रष्टं पक्वाशयोपस्थितं पक्वाशयगमनायोपस्थितं पित्तस्थानं संप्राप्तं पाकार्थं धारयती -त्यर्थः । इयमेव ग्रहणी अभिहिता - “ षष्ठी पित्तधरानाम या कला परिकीर्तिता । आमप-क्काशयान्तःस्था ग्रहणी साऽभिधीयते ॥ ” इति । सङ्ग्रहे स्पष्टमाह - “ षष्ठी पित्तधरानाम पक्कामाशयमध्यस्था । सा ह्यन्तरग्नेरधिष्ठानतयाऽऽमाशयात् पक्काशयोन्मुखमन्नं बलेन विधार्य पित्ततेजसा शोषयन्ती पचति, पक्कं च विमुञ्चति । दोषाधिष्ठिता तु दौर्बल्यादा-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 596
पाठ पढ़ें पाठ छिपाएँ
४३८ सुश्रुतसंहितायां -Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ४ सप्तमी शुक्रधरा नाम, या सर्वप्राणिनां सर्वशरीरव्यापिनी ॥२० ॥
भवन्ति चात्र ।
यथा पयसि सर्पिस्तु गूढैश्चेक्षौ रसो यथा ।
शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः ॥ २१ ॥
द्व्यङ्गुले दक्षिणे पौर्श्वे बस्तिद्वारस्य चाप्यधः ।
मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्त्तते ॥ २२ ॥
कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा ।
स्त्रीषु व्यायच्छतञ्चापि हर्षात्तत् सम्प्रवर्त्तते ॥ २३ ॥
B. गृहीतगर्भाणामार्त्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण, तस्माद् गृहीतगर्भाणामार्तवं न दृश्यते । ततस्तदधः प्रतिहतमूर्ध्वमा-गतमपरं चोपचीयमानमपरेत्यभिधीयते । शेषं चोर्ध्वतरमागतं पयो-धरावभिप्रतिपद्यते, तस्माद्गर्भिण्यः पीनोन्नतपयोधरा भवन्ति || २४ ||
गर्भस्य यँकृत्प्लीहानौ शोणितजौ । शोणितफेनप्रभवः फुप्फुसः ।
शोणितकिट्टप्रभव उँण्डुकः ॥ २५ ॥
ममेव । ततोऽसावन्नस्य ग्रहणात् पुनर्ग्रहणी संज्ञा " इति । १ ' गुडश्चेक्षुरसे ' इति पाठान्तरम् । पयोदृष्टान्तोऽल्पमैथुनत्वाद् बहुशुक्रे, इक्षुदृष्टान्तस्त्वतिपीडनशुक्रक्षरण-त्वान्मन्दशुके इति डल्इणः । २ ‘ पाइर्खे ' इत्यत्र ‘ वामे ' इत्येव साधीयान् पाठः । अन्यथा प्रत्यक्षविरोधात् स्वो-क्तिबिरोधाच्च । श्रूयते हि " शुक्रवहे द्वे शुक्रप्रादुर्भावाय, द्वे शुक्रविसर्गाय च " इति सुश्रुत एवेति प्रत्यक्ष शारीरस्योपोद्घाते गणनाथसेनः । ३ व्यायच्छतः = स्त्रीप्रसङ्गं कु-र्वतः। ४ प्रतिहतं = प्रत्यावृत्तम् । ५ अपरा = जरायुः । ६ हृदयादधो दक्षिण-पाइर्वे स्थितं यक्कृत् कालखण्डापरपर्यायम् । हृदयस्य वामभागेऽधस्तन्नाटिकालग्नो रक्त-वाहिसिरामूलं ' लोहा । अनयोराकृतिः प्राक् प्रदर्शिता । ७ हृदयस्य वामभागेऽधस्त-न्नाडिकालग्नः फुप्फुसः । सुश्रुतार्थसन्दीपनभाष्ये - फुप्फुसो नाम प्रायेण कण्ठप्रदेशादा-रभ्य षष्ठीं सप्तम वा पर्शुकामवधीकृत्य लम्बमानः समन्तात्, सप्तमपर्शुकासमदेशवर्त्तिनं कुक्षिवक्षोविभाजिनं तदपवारणपटं स्पृष्ट्वेव विस्तारेण प्रायः सर्वमुरोव्याप्यावतिष्ठते । स चाधस्तात् कोविदारपत्रवद् द्वेधा विभज्यते, विभक्तस्य च तस्य दक्षिणो भागो वा-माद् विशालः किञ्चित्पुरस्सरश्च वामस्तु दक्षिणादायतः किञ्चित्पृष्ठानुसारी चेति । ८ उण्डुकः = पोट्टलकः, श्रस्याकृत्यादिकं प्रागभिहितम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 597
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by Arya Shi Chennai and eGangotri San ४३ ९
असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः ।
तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति ॥ २६ ॥
ततोऽस्यान्त्राणि जायन्ते गुदं बस्तिश्च देहिनः ।
उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् ॥ २७ ॥
कफशोणितमांसानां सारो जिह्वा प्रजायते ।
यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् ॥ २८ ॥
अनुप्रविश्य पिशितं पेशीर्विभेजते तथा ।
मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात् ॥ २ ९ ॥
सिराणां तु । मृदुः पाकः स्नायूनां च ततः खरः ।
आशय्याभ्यासयोगेन करोत्याशयसम्भवम् ॥ ३० ॥
रक्त मेदः प्रसादाद् वृको मांसासृकफमेदः प्रसादाद् वृपणौ; । शोणितकफप्रसादजं हृदयं, यदाश्रया हि धमन्यः प्राणवहाः । तस्याधो वामतः प्लीहा फुप्फुसश्च दक्षिणतो यकृत् क्लोमं च 1 तद्धृदयं विशेषेण चेतनास्थानम्, अतस्तस्मिंस्त-१ प्रसादः = सारतमो भागः । २ यथार्थ पेशीविभजते इति सम्बन्धः । पेशी = मांसपिण्डम् । ३ अभ्यासयोगेन वारं वारम्, आशय्य आशयानुरूपो भूत्वा, आशयानां सम्भव-मुत्पत्तिकरोति वायुरिति पूर्वेणान्वयः । ४ वृक्कौ = श्रभ्यन्तरे कुक्षिगोलको । ५ ' हृ-दयस्याधो वामतः प्लीहा दक्षिणतो यकृद् उभयतः क्लोम फुप्फुसौ च ' इति तु साधी-यान् पाठ इति प्रत्यक्ष शारीरस्योपोद्घाते गणनाथसेनः । तन्त्रान्तरेऽपि - ' फुप्फुसस्तु द्विधाभिन्नो वामदक्षिणभेदतः । पेश्यां वक्षस्थलस्थायां समासन्नोऽनुशीर्षकः ॥ अधो विशालो बहुभिः कोशैरिव मधुक्रमः । दुष्टशोणित संशुद्धिकोशोऽयं परिकीर्तितः ॥ ” इत्यादिना वामदक्षिणभेदेन फुप्फुसो वर्णितः । ६ क्लोम = तिलकं, पिपासास्थानमिति यावत् । तदुक्तम् — “ अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति । जलवाहि सिरामूलं तृष्णास्थानं मतं बुधैः ॥ ” इति । यद्यपि क्लोमस्यावस्थितिरामाशयस्याधो वामपार्श्वेऽस्ति, तथाऽप्यस्य हृदयाद् दक्षिणदेशवर्त्ति-मुखमात्रेण बोध्यम् । तदुक्तम् - " आमाशयादधस्ताच्च ग्रहण्या उपरिस्थितात् । पित्त-पातस्थानवद्धमुखात् प्लीहावधिस्थितात् || क्लोम्नो विनिःश्रुतेनाथ सक्षारेण रसेन च । भिद्यतेऽन्नमनिर्भिन्नं यदामाशयशक्तितः ॥ ” इति । ७ सामान्येन सकलं शरीरं चेतनास्थानमुक्तं चरके- " चेतनानामधिष्ठानं मनो देहश्च सेन्द्रियः । केशलोमनखाग्रान्न-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 598
पाठ पढ़ें पाठ छिपाएँ
४४० सुश्रुतसंहितायां.. [ अ ० ४ Digitized by Arya Sama Foundation Chennai and eGangotri मसोऽऽवृते सर्वप्राणिनः स्वपन्ति ॥ ३१ ॥
भवति चात्र ।
पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् ।
जाग्रतस्तद्विकसति स्वपतश्च निमीलति ॥ ३२ ॥
निद्रां तु वैष्णवीं पाप्मानमुपदिशन्ति । सा स्वभावत एव सर्व-प्राणिनोऽभिस्पृशति । तत्रै यदा संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा भवत्यनवबोधिनी, सा प्रलयकाले । तमोभूयिष्ठानामहः सु निशासु च भवति, रजोभूयिष्ठा-नामनिमित्त॑म्, सत्त्वभूयिष्ठानामर्द्धरात्रे । क्षीणश्लेष्मणामनिलबहु-लानां मनःशरीराभितापवतां च नैव, सा वैकारिकी भवति ॥३३ ॥
भवन्ति चात्र |
हृदयं चेतनास्थानमुक्तं सुश्रुत! देहिनाम् ।
तमोऽभिभूते तस्मिंस्तु निद्रा विशति देहिनम् ॥ ३४ ॥
निद्राहेतुस्तमः सत्त्वं बोधने हेतुरुच्यते ।
स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते ॥ ३५ ॥
मलद्रवगुणैर्विना ॥ ” इति । १ तमसा तमोगुणेन, आवृते आच्छादित इत्यर्थः । २ पुण्डरीकेण = सङ्कुचितकमलेनेत्यर्थः । ३ श्रधोमुखम् = अधोवर्तिमुखाकृति • भागमित्यर्थः । तन्त्रान्तरे विशेषः - " चतुःप्रकोष्ठं हृदयं वामदक्षिणभागतः । तेषां द्वौ दक्षिणौ कोष्ठौ गृहीत्वाऽशुद्धशोणितम् ॥ मनाक् संशोध्य विसृजेत् सिरया फुप्फुसेऽनि-शम् । तत्र शुद्धं व्रजेत् कोष्ठौ वामौ च तदनन्तरम् । तस्मात् सृतं शरीरं च जीवयेद् बृंहयेच्च तत् ॥ ” इति । ४ वैष्णवीं मायामित्यर्थः । पाप्मानम् उपदिशन्ति श्राचार्या इति शेषः । जनो निद्रया शुभाशुभकर्म कर्तुमसमर्थः, अतः ' पाप्मानम् ' इत्युक्तम् । ५ यद्यपि तन्त्रान्तरे– “ कालस्वभावामयचित्तदेहखेदैः कफागन्तुतमोभवा च । निद्रा बिभर्ति प्रथमा शरीरं पाप्मान्तगा व्याधिनिमित्तमन्याः ॥ ” इति सप्तविधा निदा उक्तास्तथाऽपि त्रिविधैवेति तामसी - स्वाभाविकी - वैकारिकीभेदेन क्रमशस्ता दर्शयति-तत्रेति । ६ श्रनिमित्तम् = श्रनियतकालम्, रजसश्चलतया कदाचिद्दिवा कदाचिद्रा-त्राविति तात्पर्यम् । ७ श्रायातीति शेषः । श्रयाति चेत् सा निद्रा वैकारिकीत्यर्थः । चरके विशेषः – “ यदा तु मनसि कान्ते कर्मात्मानः क्लमान्विताः । विषयेभ्यो निव • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 599
पाठ पढ़ें पाठ छिपाएँ
अ ० ४ ] Digitized by Ary Arya's खारीरस्थान n chennai and eGangotri
' पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः ।
रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान् ॥ ३६ ॥
करणानां तु वैकल्ये तमसाऽभिप्रवेर्धिते ।
अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥ ३७ ॥
४४१ सर्वेर्त्तषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् । प्रतिषिद्धेष्वपि तु बालवृद्धस्त्रीकर्शित क्षत क्षीणमद्यनित्ययान वाहनाध्वकर्मपरिश्रान्ता-नाममुक्तवतां मेदःस्वेदक फरसरक्तक्षीणानाम जीर्णिनां च मुहूत्त दिवास्वपनमप्रतिषिद्धम् । रात्रावपि जागरितवतां जागरितकालाद-र्धमिष्यते दिवास्वपनम् । विकृतिर्हि दिवास्वप्नो नाम । तत्र स्वपता-मधर्मः सर्वदोषप्रकोपश्च । तत्प्रकोपाच्च कासश्वासप्रतिश्यायशिरागौ-वाङ्गामर्दारोचकज्वराग्निदौर्बल्यानि भवन्ति । रात्रावपि जागरित-वतां वातपित्तनिमित्तास्तं एवोपद्रवा भवन्ति ॥ ३८ ॥
भवन्ति चात्र ।
तस्मान्न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत् ।
ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितं चरेत् ॥ ३ ९ ॥
अरोगः सुमना ह्येवं बलवर्णान्वितो नृपः ।
नातिस्थूलकृशः श्रीमान् नरो जीवेत् समाः शतम् ॥। १० ॥
निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा ।
दिवारात्रौ च ये नित्यं स्वप्नजागरणोचिताः ॥
न तेषां स्वपतां दोषो जायतां वाऽपि जायते ॥ ४१ ॥
निद्रानाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि । र्तन्ते तदा स्वपिति मानवः ॥ ” इति । १ स्वप्नदर्शने कारणं निर्दिशति - पूर्वेति । स्वपतः शरीरस्य प्रभुः स्वामी जीवात्मेत्यर्थः । २ तमसा करणानामिन्द्रियाणां वैकल्ये वैक्लव्ये श्रभिवर्द्धिते अभि सर्वतो बहिरन्तश्च प्रवर्द्धित इत्यर्थः । बहिरिन्द्रियविषयभूतेऽर्थे, अन्तर्म-नोऽर्थे । ३ दिवास्वप्नस्य प्रवृत्तिनिवृत्तो निर्दिशति - सर्वर्तुष्विति । ४ तथाऽपि ग्रीष्मे शरीररक्षार्थं दिवास्वप्नोऽभिहितः, सर्वदोषप्रकोपः = वातादिरक्तसर्वदोषप्रकोपश्चेत्यर्थः । ५ ते = कासश्वासप्रतिश्यायादयः । ६ वृषः = शुक्रलः, स्त्रीसम्भोगशक्तियुक्त इत्यर्थः । ७ श्रयमर्ध श्लोके डल्हणसम्मतोऽतः स्थापितः । निद्रानाशहेतून् तच्चिकित्सां च CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 600
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-४४२ Digitized by Arya Samaj Foundation Chennai and eGangotri सम्भवत्यभिघाताच्च प्रत्यनीकैः प्रशाम्यति ॥ ४२ ॥
निद्रानाशेऽभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम् ।
गात्रस्योद्वर्त्तनं चैव हितं संवाहनानि च ॥ ४३ ॥।
शालिगोधूमपिष्टान्नभक्ष्यैरैक्षवसंस्कृतैः । [ अ ०४ भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः ॥ ४४ ॥
रसैर्बिलेशयानां च विष्किराणां तथैव च ।
द्राक्षासितेक्षुद्रव्याणामुपयोगे भवेन्निशि ॥ ४५ ॥
शयनासनयानानि मनोज्ञानि मृदूनि च ।
निद्रानाशे तु कुर्वीत तथाऽन्यान्यपि बुद्धिमान् ॥ ४६ ॥
निद्राऽतियोगे वमनं हितं संशोधनानि च ।
लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च ॥ ४७ ॥
कफमेदोविषार्तानां रात्रौ जागरणं हितम् ।
दिवास्वप्रश्च तृट्शूल हिक्काजीर्णातिसारिणाम् ॥। ४८ ॥
इन्द्रियार्थेष्वसम्प्राप्तिगौरवं जृम्भणं क्लमः ।
निद्रार्त्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ॥ ४ ९ ॥
' पीत्वैक मनिलोच्छ्वासमुद्वेष्टन् विवृताननः ।
यं मुङ्क्ष्वति सनेत्रास्त्रं स जृम्भ इति संज्ञितः ॥ ५० ॥
यो s नायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः ।
क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः ॥ ५१ ॥
सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता ।
शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते ॥ ५२ ॥
उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकँष्ठीवनेरितम् ।
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ॥ ५३ ॥
दर्शयति — निद्रति । १ प्रत्यनीकैः = अभ्यङ्गादिभिः । २ संवाहनानि - मृदुमर्द-नानि । ३ श्रन्यानि = प्रावरणादीनि । ४ तन्द्रां निर्दिशति – इन्द्रियेति । ५ ईहा = चक्षुर्निमीलनादिका । ६ जृम्भादीनां लक्षणं ब्रवीति - पीत्वेति । ७ प्रसे-CC - 0. Gurukul Kangri Collection, Haridwar