सुश्रुत संहिता चौखम्बा — पृष्ठ 641–650
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 641–650
पृष्ठ 641
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Arya शारीरस्थानम Chennai and eGangotri ४८३ विद्धस्य पिपासा सद्योमे॑रणं च । रसवहे द्वे, तयोर्मूलं हृदयं रसवा-हिन्यश्च धमन्यः, तत्र विद्वस्य शोषः प्राणवविद्धवच मरणं तल्लि -ङ्गानि च । रक्तबहे द्वे, तयोर्मूलं यकृत प्लीहानौ रक्तवाहिन्यश्च धम-न्यः, तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डुता शोणितागमनं रक्तनेत्रता च । मांसवहे द्वे, तयोर्मूलं स्नायुत्वचं रक्तवहाश्च धमन्यः, तत्र विद्धस्य श्वयथुर्मांसशोपः सिरोग्रन्थयो मरणं च । मेदोवहे द्वे, तयोर्मूलं कटी वृक्कौ च, तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता पिपासा च । मूत्रबहे द्वे, तयोर्मूलं बस्तिर्मेढं च, तत्र विद्धस्यानद्धबस्तिता मूत्रनिरोधः स्तब्ध मेढ्रता च । पुरीष-वहे द्वे ", तयोर्मूलं पकाशयो गुदं च तत्र विद्धस्यानाहो दुर्गन्धता ग्रथितान्त्रता च । शुक्रवहे द्वे, तयोर्मूलं स्तनौ वृषणौ च तत्र विद्ध-स्य क्लीवता चिरात् प्रसेको रक्तशुक्रता च । आर्तववहे हे, तयो-र्मूलं गर्भाशय आर्त्तववाहिन्यश्च धमन्यः, तत्र विद्वाया वन्ध्यात्वं मैथुनासहिष्णुत्वमार्त्तवनाशश्च । सेवनीच्छेदाद्र जाप्रादुर्भावः । बस्ति-गुदबिद्धलक्षणं प्रागुक्तमिति । स्रोतोविद्धन्तु प्रत्याख्यायोपचरेत् । उद्घृतशल्यन्तु क्षतविधानेनोपचरेत् ॥ १२ ॥
भवति चात्र ।
मूलात् खादन्तरं देहे प्रसृतं त्वभिर्वाहि यत् ।
स्रोतस्तदिति विज्ञेयं सिराधमनिवर्जितम् ॥ १३ ॥
इति सुश्रुतसंहितायां शारीरस्थाने धमनीव्याकरणशारीरं नाम नवमोऽध्यायः ॥ ९ ॥
लुकमिति द्वे । १ सद्योमरणम् = आध्मानकण्ठावरोधादिनेत्यर्थः । २ रसस्थानस्यो-धोविभागेन द्वे । १३ प्राणवह मूल विद्धवदित्यर्थः । ४ द्वे = उण्डुकक्षुद्रान्त्रे । ५ “ सेवन्यः सप्त तासां तु भवेयुः पञ्चमस्तके | एका शेफसि जिह्वायाम् " इति यद्यपि सन्ति, तथाऽप्यत्र गुदामारम्य मुष्कमूलं यावत् सेवनी बोध्या । ६ स्रोतोऽधिकारे - " तत्र बिद्धस्यानद्धवस्तिता ” इत्यादिना वस्तिविद्धलक्षणम्, " तत्र विद्धस्यानाह- " इत्या-दिना गुदविद्धलक्षणं चोक्तमित्यर्थः । ७ प्रत्याख्याय = स्रोतोविद्धपरिवारं काठिन्य-मुक्त्वा, उपचरेत् ' शल्योद्धरणप्रकारेण ' इति शेषः । ८ श्रभिवाहि = प्राणादिवइन-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 642
पाठ पढ़ें पाठ छिपाएँ
४८४ • Bigitized by Arya Samaj F सुश्रुतसंहितायां and e Gangotri दशमोऽध्यायः । [ अ ० १० अथातो गंभिरणीव्याकरणं शारीरं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा शुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत्, मलिन. विकृतहीनगात्राणि न स्पृशेत्, दुर्गन्धदुर्दर्शनानि परिहरेत्, उद्वे-जनीयाश्च कथाः, शुष्कं पर्युषितं कुथितं क्लिन्नं चान्नं नोपभुञ्जीत, बहिर्निष्क्रमणं शून्यागारचैत्यश्मशानवृक्षाश्रयान् क्रोधभयसङ्करांश्च भावानुच्चैर्भाष्यादिकं च परिहरेद् यानि च गर्भं व्यापादयन्ति, न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत, न चायासयेच्छरीरं, पूर्वोक्तानि च परिहरेत्, शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयो -तमसम्बाधं च विदध्या, हृद्यं द्रवं मधुरप्रायं स्निग्धं दीपनीय-संस्कृतं च भोजनं भोजयेत्, सामान्यमेतदाप्रसवात् ॥ ३ ॥
विशेषतस्तु गर्भिणी प्रथमद्वितीयतृतीयमासेषु मधुरशीतद्रवप्रा-यमाहारमुपसेवेत, विशेषतस्तु तृतीये षष्टिकौदनं पयसा भोजये-च्चतुर्थे दना पञ्चमे पयसा षष्ठे सर्पिषा चेत्येके, चतुर्थे पयोनवनीत-संसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं भोजयेत्, पञ्चमे क्षीर-सर्पिःसंसृष्टं, षष्ठे श्वदंष्ट्रासिद्धस्य सर्पिषो मात्रां पाययेद् यवागूं वा, शीलम् । तन्त्रान्तरे— “ मनः प्राणान्नपानीयदोषधातूपधातवः । धातूनां च मला मूत्रं मलमित्यादयस्तनौ । सञ्चरन्ति हि येर्मार्गैस्तानि स्रोतांसि सञ्जगुः । " इति । चरके विशेषः– “ स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च । स्रोतांसि दीर्घाण्याकृत्या प्रतान ' सदृशानि च ॥ ” इति । इति सुश्रुतसंहितायाः शारीरस्थानीयसघा ss ख्यटिप्पन्यां नवमोऽध्यायः । दशमोऽध्यायः । १ गर्भिण्या व्याकरण माहाराचारादिविवरणं विद्यते यस्मिन् । शेषं समानम् । २ यानि गर्भावक्रान्तौ ग्राम्यधर्मयानादीन्युपदिष्टानि । ३ अपाश्रयश्चन्द्रातपः प्राङ्ग-गावरणमिति यावत् तेनोपेतम्, असम्बाधं = मत्कुणादिरहितम् । ४ श्वदंष्ट्रा = CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 643
पाठ पढ़ें पाठ छिपाएँ
अ ० १० ] Digitized by Arya शारीरस्थानम् pennai and eGangotri ४८५ सप्तमे सर्पिः पृथक्पर्ण्यादिसिद्धम्, एवमाप्यायते गर्भः, अष्टमे बदरोदकेन बलाऽतिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमद-नफलमधुघृतमिश्रेणास्थापयेत् पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थं च वायोः, ततः पयोमधुरकपायसिद्धेन तैलेनानुवासयेत्, अनुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति, अत ऊर्ध्व स्निग्धा-भिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसवकालात्; एवमुपक्रान्ता स्नि-ग्धा बलवती सुखमनुपद्रवा प्रसूयते ॥ ४ ॥
नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ तत्रा-रिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेतरक्तपीत कृष्णेषु भूमिप्रदेशेषु बिल्वन्यग्रोधतिन्दुकभल्लातकनिर्मितं सर्वागारं यथासङ्ख्यं तन्मय-पर्य्यङ्कमुपलिप्तभित्तिं सुविभक्तपरिच्छेदं प्राग्द्वारं दक्षिणद्वारं वाऽष्ट-हस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम् ॥ ५ ॥
जाते हि शिथिले कुक्षौ मुक्त हृदयबन्धने ।
सशूले जघने नारी ज्ञेया सा तु प्रजायिनी ॥ ६ ॥
तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ताद् वेदना भवत्य-भीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखाच्छ्लेष्मा च ॥ ७ ॥
प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पु-मैफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां सम्भृतां यवागूमा-कण्ठात् पाययेत् । ततः कृतोपधाने मृदुनि विस्तीर्णे शयने स्थिता-= ‘ गोखरू ' इति ख्याता । १ पृथक्पर्ण्यादिः - पृश्निपर्ण्यादिः, स च द्रव्यसङ्ग्रहणीयाध्याये विदारीगन्धाऽऽदिगणे द्रष्टव्यः । २ पललं = तिलचूर्णम् । ३ सङ्ग्रहे गर्भिण्या आस्थापने-ऽनुवासने च सन्निवेशविशेष उक्त: - " गर्भिणी तु न्युब्जामास्थापयेदनुवासयेच्च, तथाऽ--स्या विवृतमार्गतया सम्यगौषधिमनुप्रविशति " इति । ४ ' अरिष्टं सूतिकागृहम्’इत्यमरः । ५ पुन्नामा = पुन्नागः, ' नागकेसर ' इति लोके । तथा च राजनिघण्टुः - " पुन्नागः पुरुषस्तुङ्गः पुन्नामा पाटलद्रुमः " इति । एतत्फलेन भूतानां विद्रावणं भवति, तदुक्तम्-“ पुन्नानो मधुरः शीतः सुगन्धिः पित्तनाशकृत् । भूतविद्रावणश्चैव देवतानां प्रसादनः || ” इति । ६ शयने = भूशयने, तदुक्तं वाग्भटेन - " तनौ भूशयने । स्थिताम् ” इति । सङ्ग्रहे ' विशेष उक्तः– “ सुरक्तार्षभ चर्मप्रच्छदे मृदुनि भूशयने शयानाम् " इत्यादिना । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 644
पाठ पढ़ें पाठ छिपाएँ
४८६ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १० माभुग्नसक्थीमुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजन-नकुशलाः कर्त्तितनखाः परिचरेयुरिति ॥ ८ ॥
अथास्या विशिखान्तरमनुलोममनुमुखमभ्ये ज्यानुत्र्याच्चैना-मेकौ — सुभगे! प्रवाहस्वेति, न चाप्राप्तावी प्रवाहस्व । ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणिवङ्क्षरणवस्तिशिरःसु च प्रवाहेथाः शनैः शनैः । ततो गर्भनिर्गमे प्रगाढम्, ततो गर्भे योनिमुखं प्रपन्ने -गार्ढतरमाविशल्यभावात् । अकालप्रवाहरणाद् बधिरं मूकं कुब्जं व्य-हनुमूर्ध्वाभिघातिनं कासश्वासशोपोपद्रुतं विकटं वा जनयति || ९ || तत्र प्रतिलोममनुलोमयेत् ॥ १० ॥
गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्प निर्मोके १० पिण्डीतकेन वा, बध्नीयाद्धिरण्यपुष्पीमूलं " हस्तपादयोः, धारयेत् " सुवर्चलां विशल्यां वा ॥ ११ ॥
आसमन्ताद् भुग्ने सङ्कुचिते सक्थिनी यस्याः सा ताम् । १ विशिखान्तरं = योनेर्बहि • द्वरम्, अपत्यमार्गमिति यावत् । २ तैलमभ्यज्येत्यर्थः । तदुक्तमष्टाङ्गहृदये- “ मुक्त • गर्भावरां योनि तैले नाङ्गं च मर्दयेत् ” इति । ३ एका = चतसृणां स्त्रीणां मध्ये कान चिदेकेत्यर्थः । हे सुभगे! प्रवाहस्व आपत्यं वहिः प्रवर्तयितुं यतस्व, कुन्धनं कुर्विति - यावत् । इत्येनामनुब्रूयादितिसम्बन्धः । श्रप्राप्तावी = श्रप्राप्तप्रसववेदनः । ४. प्रकृष्टो बन्धः प्रबन्धस्तस्मिन् । ५ स्वस्थानाद् गर्भस्य निःसरणाय गमनं गर्भनिर्गमस्त-स्मिन् । गर्भनिर्गमे, प्रगाढं = प्रथमापेक्षयाऽधिकवेगेन । ६ गाढतरं = द्वितीयापे-क्षयाऽतिशयवेगेन, श्राविशल्यभावात् श्रपरापातपर्यन्तम्, अकाले यदा प्रसववेदना • नोत्पद्यते तस्मिन् काले प्रवाहणादित्यर्थः । ७ व्यस्तइनुम् = अर्दितवत्तिर्यङ्मुखसन्धिम्, मूर्द्धाभिघातिनं = विकृत मस्तिष्क-म् । ऊर्ध्वाभिघातिनमिति पाठे ऊर्ध्वजत्रु गतरोगिणमित्यर्थः । ८ प्रतिलोमं = प्राक् ' शिरोनिस्सरतीति स्वाभाविकप्रसवनियमस्तद् वैपरीत्येनापत्यपथमनुप्राप्तम्, अनुलोम-येत् = मूढगर्भचिकित्सोक्तविध्यनुसारेण बहिर्निष्क्रमणयोग्यं कुर्यात् । ९ गर्भस्य सङ्गे सक्तावित्यर्थः । १० पिण्डीतकेन = मदनफलेन । ११ हिरण्यपुष्पी मूलं == कलिकारिकामूलम् । तदुक्तं रसतरङ्गिण्याम् – “ सुधौतं लाङ्गलीमूलं वारिणा परिपेषि-तम् । नाभौ योनौ प्रलिप्तं वा सद्यः प्रसवकृन्मतम् ” ॥ ” इति । सुवर्चलां = .१२ सूर्यमुखीम्, विशल्यां = गुडूचीम्, विशल्या पाटलेति डल्हणः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 645
पाठ पढ़ें पाठ छिपाएँ
अ ० १० ] Digitized by Arya शारीरस्थानम् Fhennai and eGangotri ४८७ श्रथ जातस्योल्बमपनीय, मुखं च सैन्धवसर्पिषा विशोध्य, घृ · ताक्तं मूर्ध्नि पिचुं दद्यात् । ततो नाभिनाडीमष्टाङ्गुलमायम्य सूत्रेण बद्ध्वा छेदयेत्, तत्सूत्रैकदेशं च कुमारस्य ग्रीवायां सम्यग् बध्नीयात् ॥ १२ ॥
.. कुमारं शीताभिरद्भिराश्वास्य जातकर्मणि कृते मधुसर्पिर-नन्तं चूर्णमङ्गुल्याऽनामिकया लेहयेत् । ततो बलातैलेनाभ्यज्य, क्षीरवृक्षकषायेण सर्वर्गन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्रकषायेण वा कोष्णेन यथाकालं यथादोषं यथाविभवं च ॥ १३ ॥
धमनीनां हृदिस्थानां विवृतत्वादनन्तरम् ।
चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्त्तते ॥ १४ ॥
तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तंमिश्रं मन्त्रपूतं त्रिकालं पाययेत्, द्वितीये लक्ष्मणासिद्धं सर्पिः, तृतीये च । ततः प्रानि-चारितस्तन्यं मधुसर्पिः स्वपाणितलसम्मितं द्विकालं पाययेत् ॥१५ ॥
अथ सूतिकां बलातैलाभ्यक्तां वातहरौषध निष्काथेनोपाचरेत् । १ उल्बं = जरायुम् । २ विशोध्य = संशोध्य, श्लेष्मापकर्षणेन निर्मलीकृत्य घृताक्तं पिचुं मूर्ध्नि दद्यात् । तन्त्रान्तरे विशेष: “ दक्षिणतर्जन्या तालून्नम्यावगुण्ठयेत्, शिरसि स्नेहपिचुना " इति । ३ बध्वा = रुधिरगतिनिरोधार्थं बन्धनं कृत्वेत्यर्थः । वृद्धवाग्भटे विशेषः – “ प्रत्यागतप्राणस्य च प्रकृतिभूतस्य नाभिनालं नालाभिबन्धनाच्च-तुरङ्गुलस्योर्ध्वं क्षौमसूत्रेण बध्वा तीक्ष्णेन शस्त्रेण वर्धयेत् ” इति । ४ तेन रसादिगति-प्रतिबन्धाच्छीघ्रमेव नाभिनाडी शुष्का भविष्यतीति बोध्यम् । ५ अनन्तचूर्णं सुव-र्णचूर्णं, तेन मिश्रितं मधुसर्पिः । वृद्धवाग्भटेन त्वन्यथा प्राशनमभिहितं यथा— “ ऐन्द्रीब्राह्मीशङ्खपुष्पीव चाकल्कं मधुघृतोपेतं हरेणुमात्रं कुशाभिमन्त्रितं सौवर्णे-नाश्वत्थपत्रेण वा मेघाऽऽयुर्बलजननं प्राशयेद्वा ब्राह्मीवचाऽनन्ताशतावर्यन्यतम-चूर्णम् " इति । ६ सर्वगन्धो नाम– “ चातुर्जातककर्पूरकक्को लागुरुकुङ्कुमम् । लवङ्गसहितं चैव सर्व-गन्धं विनिर्दिशेत् ॥ ” इति । ७ अनन्तस्य सुवर्णचूर्णस्य सर्षपप्रमाणेन मिश्रम् । वृद्ध-वाग्भटेन – ‘ अनन्तामिश्रे ' इति पाठे अनन्ता दूर्वा व्याख्याता । तन्त्रान्तरे - “ स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं हितम् ” इति । ८ मूढगर्भचिकित्सितोक्तबला तैलाभ्यक्ता-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 646
पाठ पढ़ें पाठ छिपाएँ
४८८ • Digitized by Arya Sama सुश्रुतसंहितायां a and eGangotri [ अ ० १० सशेषदोषां तु तदहः पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्ग-वेचूर्णं गुडोदकेनोष्णेन पाययेत् । एवं द्विरात्रं त्रिरात्रं वा कुर्यादा-दुष्टशोणितात् । विशुद्धे ततो विदारिगन्धादिसिद्धां स्नेहयवागूं क्षी-रयवागूं वा पाययेत्त्रिरात्रम् । ततो यवकोलकुलत्थसिद्धेन जाङ्गल-रसेन शाल्योदनं भोजयेद् बलमग्निबलञ्चावेक्ष्य । अनेन विधिनाऽ-ध्यर्द्धमासमुपसंस्कृता विमुक्ताहाराचारा विगतसूतिकाऽभिधाना स्यात्,. पुनरार्त्तवदर्शनादित्येके ॥ १६ ॥
धन्वैभूमिजातां तु सूतिकां घृततैलयोरन्यतरस्य मात्रां पाययेत् पिप्पल्यादिकषायानुपानां, स्नेहनित्या च स्यात् त्रिरात्रं पञ्चरात्रं वा बलवतीमबैलां यवागूं पाययेत् त्रिरात्रं पञ्चरात्रं वा । अत ऊर्ध्वं स्निग्धेनान्नसंसर्गेणोपचरेत् ॥ १७ ॥
प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिषिचेत् । क्रोधायासमैथुना-दीन् परिहरेत् ॥ १८ ॥
भवतश्चात्र ।
मिथ्याचारात् सूतिकाया यो व्याधिरुपजायते ।
स कृच्छ्रसाध्योऽसाध्यो वा भवेदत्यपतर्पणात् ॥ १ ९ ॥
तस्मात्तां देशकालौ च व्याधिसात्म्येन कर्मणा ।
परीक्ष्योपचरेन्नित्यमेवं नात्ययमाप्नुयात् ॥ २० ॥
अर्थापराऽपतन्त्यानाहाध्मानौ कुरुते, तस्मात् कण्ठमस्याः केश-मित्यर्थः । वातहरोषधानि वीरतर्वादीनि भद्रदार्वादीनि च सूत्रस्थानोक्तानि । १ विदा रोगन्धाऽऽदिगणः द्रव्यसङ्ग्रहणीयाध्यायोक्तः । २ धन्वभूमिजातां == मरुदेशोत्पन्नां जाङ्गलदेशोत्पन्नां वा । ३ अबलां = सूतिकाम् । ४ आदिपदात् क्रोधादयः पञ्चदश श्रातुरोपद्रवचिकित्सितोक्ता ग्राह्याः । ५ मिथ्याऽऽचारात् = पूर्वविहितादाराचाराणामयथावत्करणात् । ६ अत्यपतर्पः णात्= - अतिलङ्घनात्, असाध्यत्वे हेतुः । ७ तां सूतिकां देशकालौ परीक्ष्य व्याधि-सात्म्येन व्याध्यनुकूलेन कर्मणा नित्यमुपचरेत् प्रतिकुर्यादिति सम्बन्धः । एवमत्ययं विनाशं न श्राप्नुयात् । ८ श्रपराया अपतने दोषान् तच्चिकित्सां चाचष्टे - अथेति । अपरा = जरायुः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 647
पाठ पढ़ें पाठ छिपाएँ
अ ० १० ] Digitized by Arya शारीरस्थानम् Fhennai and eGangotri ४८ ९ वेष्टितयाऽङ्गुल्या प्रमृजेत् । कटुकालाबुकृतवेधनसर्प पसपैनिक कटुतैलविमित्रैर्योनिमुखं धूपयेत् । लाङ्गलीमूलकल्केन वाऽस्याः पाणिपादतलमालिम्पेत् । मूर्ध्नि वाऽस्या महावृक्षं क्षीरमनु से चयेत् । कुष्ठलाङ्गलीमूलकल्कं वा मद्यमूत्रयोरन्यतरेण पाययेत् । शालमूल-कल्कं वा पिप्पल्यादि वा मद्येन । सिद्धार्थककुष्ठलाङ्गली महावृक्षतो-रमिश्रेण सुरामण्डेन वाऽऽस्थापयेत् । एतैरेव सिद्धेन सिद्धार्थ-कतैलेनोत्तरवस्ति दद्यात् " स्निग्धेन वा कृत्तनखेन हस्तेनापह-रेत् ॥ २१ ॥
8 प्रजातायाश्च नार्या रुक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वा-युना तद्देशगतेनातिसंरुद्धं नाभेरधः पार्श्वयोबस्तौ बस्तिशिरसि वा ग्रन्थि करोति । ततश्च नाभिबस्त्युदरशूलानि भवन्ति, सूचीभि-विनिस्तुद्यते भिद्यते दीर्यत इव च पक्वाशयः । समन्तादाध्मानमु-दरे मूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम् । तत्रं सर्पिषा सुखोष्णेन लवणचूर्णेन वा वीरतर्वादिसिद्धं जलमुषकादिप्रतीवापं पाययेत्, यवक्षारचूर्णं वा पिप्पल्यादिक्काथेन, पिप्पल्यादिचूण वा सुराम-ण्डेन, वरुणादिक्वाथं वा पञ्चकोलैलाप्रतीवापं, पृथक्पर्ण्यादिकार्थं वा भद्रदारुमरिचसंसृष्टं, पुराणगुडं वा त्रिकटुकचतुर्जातककुस्तुम्बु-रुमिश्रं खादेत्, अंच्छं वा पिबेदरिष्टमिति ॥ २२ ॥
अर्थं बालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् । १ लाङ्गलो = कलिहारिका, अस्या वे शिष्टयमाह रसतरङ्गिण्याम्- ' लाङ्गली वारिणा पिष्टा करपादप्रलेपिता । अपरां पातयत्याशु न सन्देहोऽत्र कश्चन ॥ ” इति । २ महावृक्षः = स्नुही । ३ पिप्पल्यादिः द्रव्यसङ्ग्रहणीयाध्यायोक्तगणः । ४ अष्टाङ्गसङ्ग्रह - " न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद् बलव-दुरपीन्यान्येन पृष्ठत उपसङ्गृह्य विधुनुयात् ” इति विशेषोक्तं वाऽऽचरणीयम् । ५ मक्कल्ललक्षणं दर्शयति- प्रजाताया इति । तीक्ष्णैः - पिप्पल्याद्यौषधः । ६ तच्चि -कित्सां प्रतिपादयति — तत्रेति । वीरतर्वादिः ऊषकादिः वरुणादिश्च गणः द्रव्यस-ङ्ग्रहणीयाध्याये द्रष्टव्यः । ७ अच्छं = केवलम्, अरिष्टं चिकित्सिते वच्यमाणमभ याऽरिष्टादिकं वा पिबेदित्यर्थः । बालोपचारप्रकारं निर्दिशति - अथेति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 648
पाठ पढ़ें पाठ छिपाएँ
४ ९ ० Samaj सुश्रुतसहिताया [ अ ० १० * Digitized by Arya emai and eGangotri पीलबदरीनिम्बपरूषकशाखाभिश्चैनं परिवीजयेत् । मूर्ध्नि चास्या-हरहस्तैलपिचुमवचारयेत्, धूपयेच्चैनं रक्षोघ्नैर्धूपैः । रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत् । तिलात सी सर्षपकणांश्चात्र
प्रकिरेत् । अधिष्ठौने चाग्नि प्रज्वालयेत् । व्रणितोपासनीयं चा-वेक्षेत ॥ २३ ॥
ततो दशमेऽहनि मातापितरौ कृतमङ्गलकौतुको स्वस्तिवाचनं कृत्वा नाम कुर्यातां यदभिप्रेतं नक्षत्रनाम वा ॥ २४ ॥
ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयस्काम-रोगां शीलवतीमचपलामलोलुपामकृशामस्थूलां प्रसन्नतीरामलम्बी-ष्ठीमलम्बोर्ध्वस्तनीमव्यङ्गामव्यसनिनीं जीवद्वत्सां दोग्ध्रीं वत्सला-मक्षुद्रकर्मिणीं कुले जातामतो भूयिष्ठैश्च गुणैरन्वितां श्यामामारोग्यः बलवृद्धये बालस्य । तंत्रोर्ध्वस्तनी करालं कुर्यात् । लम्बस्तनी नासि-कामुखं छादयित्वा मरणमापादयेत् । ततः प्रशस्तायां तिथौ शिर: -स्नातमह्तवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य -दरिणरणं स्तनं धौतमीषत्परिस्रुतमभिमन्त्रय मन्त्रेणानेन पाययेत् || २५ || १ परूषकः = ‘ फालसा ' इति ख्यातः । २ रक्षोध्नैः = वचाकुष्ठक्षौमक हिङ्गुसर्षपातसी. लशुनादिना कृतै रक्षोघ्ननामधेयैरित्यर्थः । ३ अधिष्ठाने = सूतिकाऽऽगारे । ४ नक्षत्रनाम = नक्षत्र देवताकृतं नाम । तथा च वेदाङ्गज्यौतिषे - " अग्निः प्रजा-पतिः सोमो रुद्रोऽदितिबृहस्पतिः " इत्यादिना कृत्तिका नक्षत्रमारभ्य सर्वेषां नक्षत्राणां देवताः प्रदर्श्य " नक्षत्रदेवता पता एताभिर्यज्ञकर्मणि । यजमानस्य शास्त्रज्ञैर्नाम नक्ष-त्रजं स्मृतम् ॥ ” इत्युक्तम् । बौधायनसूत्रे - " पुत्रस्य नाम गृह्णाति रौहिणाय तिष्याय " इति । “ कुलदेवतानक्षत्रसम्बद्धं पिता नाम कुर्यात् " इति शङ्खः । नामकरणे नाक्षत्र-नाम नक्षत्रपादाक्षरादि कार्यमिति वृद्धाः । गृह्यसूत्रे तु - " द्वयक्षरं चतुरक्षरं वा घोष--वदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितम् " इति । एतद्वचनानां विशेषवि वेचनमन्यत्र द्रष्टव्यम् ।.५ यथावर्णे == वर्णातिक्रमेण, समानजातीयामित्यर्थः । ६ " शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला । तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कीर्तिता ॥ ” इति । अन्यत्र साधारणतया षोडशवार्षिकी श्यामाऽभिहिता । ७ उक्त व्यतिक्रमे दोषं दर्शयति - तत्रेति । ऊर्ध्वस्तनी करालं दन्तुरं कुर्यादि-त्यर्थः। ८ धात्रीमिति मातुर्विशुद्धस्तन्याभावे बोध्यम् । तदुक्तम् - " मातुरेव पिबे -CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 649
पाठ पढ़ें पाठ छिपाएँ
अ ० १० ] Digitized by Arya S शारीरस्थानम् hennai and eGangotri ४ ९ १
चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः ।
भवन्तु सुभगे! नित्यं बालस्य बलवृद्धये ॥ २६ ॥
पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने! ।
दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥ २७ ॥
अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याद् व्याधिजन्म भ-वेति ॥ २८ ॥
अपरिस्रुतेऽप्यतिस्तव्धस्तन्यपूर्ण स्तनपानादुत्सुहित स्रोतसः शि-शोः कासश्वासवमीप्रादुर्भावः । तस्मादेवंविधानां स्तन्यं न पाय-येत् ॥ २ ९ ॥ क्रोधशोकावात्सल्यादिभिश्च स्त्रियाः स्तन्यनाशो भवति । अथास्याः क्षीरजननार्थं सौमनस्यमुत्पाद्य यवगोधूमशालिषष्टिक-मांसरससुरासौवीरकपिण्याकलशुनमत्स्यकशेरुकशृङ्गाटकबिसविदा-रिकन्दमधुकशतावरीनलिकोऽलाबूकालशाकप्रभृतीनि विदध्यात् ॥३० ॥
अथास्याः स्तन्यमप्सु परीक्षेत, तच्चेत् शीतलममलं तनु शङ्खा-वभासमप्सु न्यस्तमेकीभावं गच्छत्यफेनिलम तन्तुमन्नोत्प्लवतेऽव-सीति वा तच्छुद्धमिति विद्यात् " तेन कुमारस्यारोग्यं शरीरोप-चयो बलत्रृद्धिश्च भवति । न च क्षुधितशोकार्तश्रान्तप्रदुष्टधातुग-र्भिणीज्वरिता तिक्षीणातिस्थूलविदग्धभक्तविरुद्धाहारतर्पितायाः स्तन्यं पाययेत्; नाजीर्णौषधं च बाल, दोषौषधमलानां तीव्रवेगोत्पत्ति-भयात् ॥ ३१ ॥
भवन्ति चात्र ।
धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा ।
दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ॥ ३२ ॥
त्स्तन्यं तत्परं देहवृद्धये । स्तन्यधात्र्यावुभे कार्ये तदसम्पदि वत्सले ॥ ” इति । १ तस्माद् दुग्धपानार्थमेकैव धात्री नियोजनीयेति निष्कर्षः । २ उत्सुद्दितस्रोतसः = उर्ध्वं परिपूर्ण-स्रोतसः - श्राद्धार्हः शाकभेदः, प्रभृतिग्रह-। ३ नलिका = नाडीशाकः, कालशाकः याद् वीरणादयो ग्राह्याः । ४ श्रवसीदति = निमज्जति, अत्रापि नकारः सम्बध्यते । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 650
पाठ पढ़ें पाठ छिपाएँ
४ ९ २ सुश्रुतसंहितायां -Digitized by Arya Samaj edation Chennai and eGangotri
मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः ।
दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः ॥
[ अ ० १० भवन्ति कुशलस्तांश्च भिषक् सम्यग् विभावयेत् ॥। ३३ ॥
अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते ।
मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति ॥ ३४ ॥
निमीलिताक्षो मूर्द्धस्थे शिरोरोगे न धारयेत् ।
बस्तिस्थे मूत्रसङ्गात्तौ रुजा तृष्यति मूर्च्छति ॥ ३५ ॥
विण्मूत्रसङ्गवैवर्ण्यच्छद्यमानान्त्रकूजनैः ।
कोष्ठे दोषान् विजानीयात् सर्वत्रस्थांश्च रोदनैः ॥ ३६ ॥
तेषु च यथाऽभिहितं मृद्वच्छेदनीयमौषधं मात्रया क्षीरपस्य क्षी-रसर्पिषा धात्र्याश्च विदध्यात्, क्षीरान्नादस्यात्मनि वात्र्याश्च, अन्ना-दस्य कषायादीनात्मन्येव न धात्र्याः ॥ ३७ ॥
तत्र मासादूध्व क्षीरपायाङ्गुलिपर्वद्वयग्रहणसम्मितामौषधमात्रां विदध्यात्, कोलास्थिसम्मितां कल्कमात्रां क्षीरान्नादाय, कोलस-म्मितामन्नादायेति ॥ ३८ ॥
येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः ।
तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ॥ ३ ९ ॥
एकं द्वे त्रीणि चाहानि वातपित्तकफज्वरे ।
स्तन्यपायाहितं सर्पिरितरौभ्यां यथार्थतः ॥ ४० ॥
बालानां व्याधिज्ञानोपायं वक्ति - - अ अङ्गेति । २ यथाऽभिहितं १ वक्तुमशक्तानां यस्मिन् यस्मिन् रोगे यद्यदौषधं कथितं तत्तत्कुर्यात्, मृदु = अतीक्ष्णम्, अच्छेदनीयं = कफमेदसोरित्यर्थः । ३ तामेत्र भेषजमात्रां दर्शयति - तत्रेति । शार्ङ्गधरे तु - " बालस्य प्रथमे मासि देया भेषजरक्तिका । श्रवलेही कृतैकैव क्षीरक्षौद्रसिताघृतैः । वर्धयेत्तावदेकैकां यावद् भवति वत्सरः । मात्रेयं कल्कचूर्णानां कषायाणां चतुर्गुणा || " इति भेषजप्रमाणं प्रदर्शितम् । वस्तुतस्तु " मात्राया नास्त्यवस्थानं दोषमग्नि बलं वयः । व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत् ॥ ” इति बोध्यम् । ४ श्रौषधप्रयोगं प्रकारान्तरेणाह - येषामिति । ५ इतराभ्यां – क्षीरपायान्नादाभ्याम्, यथार्थतः = यथाप्रयोजनतः, सर्विहितमित्यर्थः । -CC - 0. Gurukul Kangri Collection, Haridwar