सुश्रुत संहिता चौखम्बा — पृष्ठ 631–640
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 631–640
पृष्ठ 631
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Arya S शारीरस्थानम् hennai and eGangotri ४७३
अष्टमोऽध्यायः ।
अथातः सिराव्यधविधिशारीरं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
बालस्थविररूक्षक्षतक्षीणभीरुपरिश्रान्तमद्याध्वस्त्रीकषितवमित-विरिक्तास्थापितानुवासितजागरितक्लीब कृशगर्भिणीनां कासश्वास-शोषप्रवृद्धज्वराक्षेपकपक्षाघातोपवासपिपासा मूर्च्छाप्रपीडितानां च सिरां न विध्येत्, याश्चाव्यध्याः व्यध्याश्चादृष्टाः, दृष्टाश्चायन्त्रिताः, यन्त्रिताश्चानुत्थिता इति ॥ ३ ॥
शोणितावसेकसाध्याश्च ये विकाराः प्रागभिहितास्तेषु चापक्केष्व-न्येषु चानुक्तेषु यथाऽभ्यासं यथान्यायं च सिरां विध्येत् ॥ ४ ॥
प्रतिषिद्धानामपि च विषोपसर्गात्ययिकेषु सिराव्यधनमप्रति-षिद्धम् ॥ ५ ॥
तत्र स्निग्धस्विन्नमातुरं यथादोषप्रत्यनीकं द्रवप्रायमन्नं भुक्त-वन्तं यवागूं पीतवन्तं वा यथाकालमुपस्थाप्यासीनं स्थितं वा प्राणा-पद्मिनीकन्दात् प्रसृता निर्गता बिसादीनां बिसमृणालानां प्रताना विस्तारा जलं व्याप्नुवन्ति, तथा नाभितः प्रसृताः सिराः अभितः सर्वतो देहं व्याप्नुवन्ति । एतेन सर्वत्र सिरासम्भवत्वेन व्याख्यातसंख्यासु न्यूनाधिक्यमस्तीति सूच्यते । इति सुश्रुतसंहितायाः शारीरस्थानीय सुधाऽऽख्यटिप्पन्यां सप्तमोऽध्यायः । अष्टमोऽध्यायः । १ सिराणां व्यधविधिर्विद्यते यस्मिन्नध्याये, ततः सिराव्यधविधिश्च तच्छारीर चेति • कर्मधारयः । २ श्रव्यध्या जालधरादयः प्रागुक्ताः, व्यध्या अपि श्रदृष्टाः गम्भीरगति • कत्वाद् दृष्टिपथमनाक्रान्ताः, दृष्टा अपि श्रयन्त्रिताः उत्थापयितुं वस्त्रपट्टचर्मान्तर्वल्कल-लतानामन्यतमेन या न बद्धाः, यन्त्रिता अपि या अनुत्थिताः ता न विध्येदिति भावः । ३ प्राक् = शोणितवर्णनीये । ४ अनुक्तेषु = गुल्मप्लीह । दिषु यथाऽभ्यासं यथासमी-' पम्, यथान्यायं = स्नेहस्वेदादियथोचिताम् । ५ विषोपसर्गात्ययिकेषु = सर्पदंशना-दिजन्यविषोपद्रवेषु विसर्पाद्यात्ययिकेषु चेत्यर्थः । ६ सिरावेधस्य प्रधानकर्म विधि-मभिधत्ते — तत्रेति । ७ उपस्थाप्य = पुरोधसा देवानर्चयित्वा, उपपूर्वस्य तिष्ठतेः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 632
पाठ पढ़ें पाठ छिपाएँ
४७४ Digitized by Arya Samaj सुश्रुतसहिताया and eGangotri [ अ ० ८ नबाधमानो वस्त्रपट्टचर्मान्तर्वल्कललतानामन्यतमेन यन्त्रयित्वा नातिगाढं नातिशिथिलं शरीरप्रदेशमासाद्य प्राप्तं शस्त्रमादाय सिरां विध्येत् ॥ ६ ॥
नैवातिशीते नात्युष्णे न प्रवाते न चाश्रिते ।
सिराणां व्यधनं कार्यमरोगे वा कदाचन ॥ ७ ॥
तत्रं, व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरत्निमात्रोच्छ्रिते उपवे-श्यासने सक्थ्नोराकुञ्चितयोर्निवेश्य कूपरौ सन्धिद्वयस्योपरि हस्ता-वन्तर्गढाङ्गष्ठकृतमुष्टी मन्ययोः स्थापयित्वा यन्त्रणशाटकं ग्रीवामु-थ्योरुपरि परिक्षिप्यान्येन पुरुषेण पश्चात् स्थितेन वामहस्तेनोत्तानेन शाटकान्तद्वयं ग्राहयित्वा ततो वैद्यो ब्रूयात् - दक्षिणहस्तेन सिरोत्था-पनार्थं नात्यार्यंतशिथिलं यन्त्रमावेष्टयेति, असृक्स्रावणार्थं च । यन्त्रं पृष्ठमध्ये पीडयेति, कर्मपुरुषं च वायुपूर्णमुखं स्थापयेत् । एप उत्तमाङ्गगतानामन्तर्मुखवर्द्धानां सिराणां व्यधने यन्त्रणविधिः । तत्रं पादव्यध्यसिरस्य पादं समे स्थाने सुस्थिरं स्थापयित्वाऽन्यं पादमीषत्सङ्कुचितमुच्चैः कृत्वा व्यध्यसिरपादं जानुसन्धेरधः शाटकेनावेष्ट्य हस्ताभ्यां प्रपीडयगुल्कं व्यध्यप्रदेशस्योपरि चतु-रङ्गुले ' लोतादीनामन्यतमेन बद्ध्वा वा पादसिरां विध्येत् । " अथो-पूजाऽर्थंकत्वात्, “ कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः " इति तन्त्रान्तरे । श्रासी • नम् = उपविष्टम्, ललाटादिगत सिराव्यधनार्थमिति भावः । स्थितं = दण्डवदवस्थितम्, पादादिगतसिराव्यधनार्थमिति भावः । १ अभ्राणि मेघाः सञ्जातानि यत्र तदनितं दिनं तस्मिन् । २ शिरोगत सिरावेधार्थं यन्त्रणविधिं प्रतिपादयति - तत्रेति । ३ जानुसन्धिद्वय-स्योपरीत्यर्थः । तलसंवृताङ्गुष्ठेन पाणिना कृता मुष्टिर्यत्र तावन्तर्गढाङ्गुष्ठकृतमुष्टी । ४ यन्त्रणशाटकं = यन्त्रणवस्त्रम् । ५ ततः = तं पुरुषमित्यर्थः, द्वितीयान्तात् सार्ववि-भक्तिकस्तसिल् । ६ नात्यायतशिथिलं = नात्याकृष्टं नापि च शिथिलं, सममित्यर्थः । ७ पादगत सिरावेधार्थं यन्त्रणविधिमाह – तत्रेति । गुल्फ गुल्फमभिव्याप्य गुल्फादर्वाग्वा जानुसन्धेरधोहस्ताभ्यां प्रपीड्य शाटकेन वस्त्रेणावेष्टयेति सम्बन्धः । पक्षा-न्तरं निर्दिशति - व्यध्येति । ९ प्लोतं = वस्त्रम् । १० हस्तगतसिरावेधनार्थं यन्त्रण-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 633
पाठ पढ़ें पाठ छिपाएँ
श्र ० ८ ] Digitized by Arya Samaj Foundation Chennai and eGangotri शारीरस्थान ४७५ परिष्टाद्धस्तौ गूढाङ्गुष्ठकृतमुष्टी सम्यगासने स्थापयित्वा सुखोप-विष्टस्य पूर्वर्वद्यन्त्रं बद्ध्वा हस्तसिरां विध्येत् । गृध्रैसोविश्वाच्योः सङ्कुचितजानुकूर्परस्य । श्रोणीपृष्ठस्कन्धेषून्नामितपृष्ठस्यावाक्शिर्-स्कस्योपविष्टस्य विस्फूर्जितपृष्ठस्य विध्येत् । उदरोरसोः प्रसारितो-रस्कस्योन्नामितशिरस्कस्य विस्फूर्जितदेहस्य | बाहुभ्यामवलम्बमा-नदेहम्य पार्श्वयोः । अवनामितमेढ्रस्य मेढे । उन्नमितविदष्ट जि-ह्वाऽग्रस्याधोजिह्वायाम् । अतिव्यात्ताननस्यं तालुनि दन्तमूलेषु च । एवं यन्त्रोपायानन्यांश्च सिरोत्थापन हेतून् बुद्ध्याऽवेक्ष्य शरीरवशेन व्याधिवशेन च विदध्यात् ॥ ८ ॥
मांस लेष्ववकाशेषु यवमात्रं शस्त्रं निदध्यात् । अतोऽन्येऽवर्द्ध-यवमात्रं वा व्रीहिमावं वा ब्रीहिमुखेन, अस्थ्नामुपरि कुठारिकया विध्येदर्द्धयवमात्वम् ॥ ९ ॥
भवन्ति चात्र ।
व्यभ्रे वर्षासु विध्येत ग्रीष्मकाले तु शीतले ।
हेमन्तकाले मध्याह्ने शस्त्र कालास्त्रयः स्मृताः ॥ १० ॥
सम्यक्त्रनिपातेन धारया या स्रवेदसृक् ।
मुहूत्त रुद्धा तिष्ठेच्च सुविद्धां तां विनिर्दिशेत् ॥ ११ ॥
विधि वक्ति - अथेति । १ पूर्ववत् = पादवत् 1 कूर्परसन्धेरधः शाटकेनावेष्टय व्यध्य-प्रदेशस्योर्ध्वं चतुरङ्गुले वेत्यर्थः । २ गृध्रस्यां सङ्कुचितजानोः विश्वाच्यां सङ्कुचित कूर्परस्य पुरुषस्य सिरां विध्येदिति पूर्ववाक्येन सम्बन्धः । ३ श्रोण्यादिगतसिरावेधनार्थं यन्त्रणविधिमुपदिशति — श्रो-णीति । ४ विस्फूर्जितमायमितं पृष्ठं येन स तस्य विस्फूर्जितपृष्ठस्य । ५ विस्फूर्जि • तदेइस्य = श्रायामितमध्यशरीरस्येत्यर्थः । बाहुभ्यां = वृक्षशाखाद्यालम्बिताभ्याम्, अव-लम्ब्यमानदेहस्य = उच्चैरवस्थाप्यमानशरीरस्य । श्रवनामितमेढ्रस्य = वक्रीकृतमेढ्रस्ये-त्यर्थः । श्रवनामनात् पूर्वं शिश्नस्य हर्षावस्थामपेक्षत इति बोध्यम् । ६ प्रदेशविशेषेण शस्त्रप्रणिधानप्रमाणं प्रतिपादयति- मांसलेष्विति । मांसलेषु = उदरोरुस्फिगादिषु । ७ शीतले = सायं प्रातःकाले । ८ रुद्धा = वस्त्रादिना वेष्टिता, CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 634
पाठ पढ़ें पाठ छिपाएँ
४७६Digitized by Arya Samaj सुश्रुतसंहितायां and eGangotri i
यथा कुसुम्भपुष्पेभ्यः पूर्वं स्रवति पीतिका ।
तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्त्तते ॥ १२ ॥
मूर्च्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च । [ अ ० ८ न वहन्ति सिरा विद्धास्तथाऽनुत्थितयन्त्रिताः ॥ १३ ॥
क्षीणस्य बहुदोषस्य मूर्च्छयाऽभिहतस्य च ।
भूयोऽपराह्णे विस्राव्या साऽपरेद्युत्र्यहेऽपि वा ॥ १४ ॥
रक्तं सशेषदोषं तु कुर्यादपि विचक्षणः ।
न चातिप्रस्रुतं कुर्याच्छेषं संशमनैर्जयेत् ॥ १५ ॥
बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः ।
परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥ १६ ॥
तत्र, पाददाहपादहर्षाव बाहुकचिप्प विसर्पवातशोणितवातकण्ट-कविचर्चिकापाददारीप्रभृतिषु क्षिप्रै मर्मण उपरिष्टाद् द्व्यङ्गुले व्रीहिमुखेन सिरां विध्येत् । श्लीपदे तच्चिकित्सिते यथा वक्ष्यते । क्रोष्टुकशिरःखखपङ्गुलवातवेदनासु जङ्घायां गुल्फस्योपरि चतुरङ्गुले, अपच्यामिन्द्रबस्तेरधस्ताद् द्व्यङ्गुले, जानुसन्धेरुपये-धो वा चतुरङ्गुले, गृध्रस्यामृरुमूलसंश्रितां गलगण्डे, एतेनेतर-सक्थि बाहू च व्याख्यातौ । विशेषतस्तु वामवाहौ कूर्परसन्धेरभ्य-न्तरतो बाहुमध्ये प्लीह्नि कनिष्ठिकाऽनामिकयोर्मध्ये वा, एवं दक्षिण-बाहौ यकृदाख्ये कफोदरे चैतामेव च कासश्वासयोरपि आदिश-न्ति । गृध्रस्यामिव विश्वाच्यां, श्रोणिं प्रति समन्ताद् द्व्यङ्गुले प्रवाहिकायां शूलिन्यां, परिवत्तिको पदंशशूकदोषशुक्रव्यापत्सु मेढूमध्ये, वृषणयोः पार्श्वे मूत्रवृद्धयां, नाभेरधश्चतुरङ्गुले सेव-न्यां वामपार्श्वे दकोदरे, वामपार्श्वे कक्षास्तनयोरन्तरेऽन्तविद्रधौ तिष्ठेत् = असृक् स्थापयेत् । १ दुष्टं = रक्तमित्यर्थः । २ प्रस्थ = सार्ध त्रयोदशपलम्, तदुक्तम्– “ वमनॆ च विरेके च तथा शोणितमोक्षणे । सार्धत्रयोदशपलं प्रस्थमाहुर्मनी-षिणः ॥ ” इति । बलवत्त्वादिधर्मवतामिदानीं द्विपलमेव परं प्रमाणमिति सुश्रुतार्थ सन्दीप-नम् । ३ रोगानुसारेण सिरावेधस्थानं निर्दिशति – तत्रेति । ४ चिप्रमर्मण इत्यत्र जातावेकवचनम्, क्षिप्रमर्मभ्य इत्यर्थः । ५ तथा सिरा विध्येदिति शेषः । ६ वाम-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 635
पाठ पढ़ें पाठ छिपाएँ
श्र ० ८ ] Digitized by Arya झावेरस्थापन Phennai and eGangotri ४७७ ' पार्श्वशूले च, बाहुशोपावबाहुकयोरप्येके वदन्त्यंसयोरन्तरे, त्रिक-सन्धिमध्यगतां तृतीयके, अधः स्कन्धसन्धिगतामन्यतरपार्श्वसंस्थि-तां चतुर्थके, हनुसन्धिमध्यगतामपस्मारे, शङ्खकेशान्तसन्धिगता-मुरोऽपाङ्गललाटेषु चोन्मादे, जिह्वारोगेष्वधोजिह्वायां दन्तव्याधिषु च, तालुनि तालव्येषु, कर्णयोरुपरि समन्तात् कर्णशूले तद्रोगेषु च गन्धाग्रहणे नासारोगेषु च नासाग्रे, तिमिराक्षिपाकप्रभृतिष्व-क्ष्याम येषूपनौसिके लालाट्यामपाङ्गयां वा, एता एव च शिरोरोगा-धिमन्थप्रभृतिषु रोगेष्विति ॥ १७ ॥
अत ऊर्ध्वं दुष्टव्यधनमनुव्याख्यास्यामः- तत्र दुर्विद्धाऽतिविद्धा कुञ्चिता पिच्चिता कुट्टिताऽप्रस्रुता अत्युदीर्णा अन्तेऽभिहता परिशु-का कूणिता वेपिता अनुत्थितविद्धा शस्त्रहता तिर्य्यग्विद्धा अप-विद्धा व्यध्या विद्रुता धेनुका पुनःपुनविद्धा मांससिरास्नाय्व-स्थिसन्धिमर्मसु चेति विंशतिदुष्टव्याः ॥ १८ ॥
तत्र, या सूक्ष्मशस्त्रविद्धाऽव्यक्तमसृक् स्रवति रुजाशोफवती चसा दुर्विद्धा, प्रमाणातिरिक्तविद्धायामन्तः प्रविशति शोणितं शो-शितातिप्रवृत्तिर्वा साऽतिविद्धा, कुञ्चितायामध्येवं, कुण्ठशस्त्रप्रम-थिता पृथुलीभावमापन्ना पिच्चिता, अनासादिता पुनःपुनरन्तयोश्च बहुशः शस्त्राभिहता कुट्टिता, शीतभयमूर्च्छाभिरप्रवृत्तशोणिता अप्र-स्रुता, तीक्ष्णमहामुखशस्त्रविद्धा अत्युदीर्णा, अल्परक्तस्राविण्यन्ते विद्धा अन्तेऽभिहता क्षीणशोणितस्यानिलपूर्णा परिशुष्का, चतु-भगवसादिता किञ्चित्प्रवृत्तशोणिता कूणिता, दुःस्थानबन्धनाद् पार्श्वग्रहणं दक्षिणपाश्वस्योपलक्षणम् । १ ‘ उन्मादेऽपस्मारे च ' इति पाठो न समी-चीनः । तथा चैतच्छास्त्रानुवादी वाग्भट: - " उरोऽपाङ्गललाटस्था मुन्मादेऽपस्मृतौ पुनः । हनुसन्धौ समुद्भूतां सिरां भ्रूमध्यगामिनीम् ॥ ” इति । २ तद्रोगेषु = कर्णरोगेषु । ३ उपनासिके = नासिकाऽऽसन्ने सिरे । ४ प्रभृतिग्रहणात् क्षुद्ररोग पठितारूंषिकादयो गृह्यन्ते । ५ दुष्टो व्यधो यासां ता दुष्टव्यधाः । ६ श्रव्यक्तम् = श्रल्पतयाऽस्पष्टम् । ७ कुण्ठशस्त्रं = धाराविरहितश-स्त्रम् । ८ अनासादिता = सम्यगनुद्धितत्वेनाप्राप्ता । ९ चतुर्थो भागश्चतुर्भागः श्रन्त-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 636
पाठ पढ़ें पाठ छिपाएँ
४७८ सुश्रुतसंहितायां... Digitized by Arya Samaj Poundation Chennai and eGangotri [ अ ०८ वेपमानायाः शोणितसम्मोहो भवति सा वेपिता, अनुत्थितविद्धा मप्येवं, छिन्नाऽतिप्रवृत्तशोणिता क्रियासङ्गकैरी शस्त्रहता, तिय्र्य. क्प्रणिहितशस्त्रा किञ्चिच्छेषा तिर्य्यग्विद्धा, बहुशः दक्षता हीनशस्त्र -प्रणिधानेनापचिद्धा, अशस्त्रकृत्या अव्यध्या, अनवस्थितविद्धा विद्रुता, प्रदेशस्य बहुशोऽवघट्टनादारोहव्यधा मुहुर्मुहुः शोणितस्रावा धेनुका, सूक्ष्मशस्त्रव्यधनादू बहुशो भिन्ना पुनःपुनर्विद्धा, मांस-स्नाय्वस्थिसिरासन्धिमर्मसु विद्धा रुजां शोफं वैकल्यं मरणं चापादयति ॥ १ ९ ॥ भवन्ति चात्र ।
सिरासु शिक्षितो नास्ति चला ह्येताः स्वभावतः ।
मत्स्यवत् परिवर्त्तन्ते तस्माद्यत्नेन ताडयेत् ॥ २० ॥
जानता गृहीते तु शस्त्रे कायनिपातिते ।
भवन्ति व्यापदश्चैता बहवश्वाप्युपद्रवाः ॥ २१ ॥
स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि ।
यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिराव्यधात् ॥२२ ॥
सिराव्यधश्चिकित्सोद्ध शल्यतन्त्रे प्रकीर्त्तितः ।
यथा प्रणिहितः सम्यग्बस्तिः कायचिकित्सिते ॥ २३ ॥
तंत्र स्निग्धस्विन्नवान्तविरिक्तास्थापितानुवासितसिराविद्धैः प-रिहर्त्तव्यानि - क्रोधायास मैथुनदिवास्वप्नवाग्व्यायामयानाध्ययन-स्थानासनचङ्क्रमणशीतवातातपविरुद्धासात्म्याजीर्णान्याबललाभा-त्, मासमेके मन्यन्ते । एतेषां विस्तरमुपरिष्टाद् वक्ष्यामः || २४ || भवतश्चात्र । सिराविषाणतुम्बैस्तु जलौकाभिः पदैस्तथा । र्मता शोणितधरा कला, तत्रावसादिता सङ्कुचिततया रक्तं विस्रावयितुमक्षमा चतुर्भागा- ' वसादिता । १ शोणितसम्मोहः = मुहुर्मुहुःशोणितप्रवृत्तिनिरोधः । २ क्रियासङ्गकरी = गमनादिक्रियाविनाशकरीत्यर्थः । ३ सिराव्यधनप्रदेशस्येत्यर्थः । श्रारोह उपर्युपर्या · रोपितो व्यधो यस्याः सा तथोक्ता । ४ ताडयेत् = विध्येदित्यर्थः । ५ चिकित्साऽर्धं चि • कित्सामध्ये मुख्यम् । ६ वाग्व्यायामः = उच्चैर्भाषणम् । उपरिष्टाद = श्रातुरोपद्रवचिकि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 637
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Arya खारी ख्यकम् Chennai and eGangotri ४७ ९ अवगाढं यथापूर्वं निर्हरेद् दुष्टशोणितम् ॥ २५ ॥
अवगाढे जलौकाः स्यात् प्रच्छन्नं पिण्डिते हितम् ।
सिराऽङ्गव्यापके रक्ते शृङ्गलाबू त्वचि स्थिते ॥ २६ ॥
इति सुश्रुतसंहितायां शारीरस्थाने सिराव्यधविधिशारीरं नाम अष्टमोऽध्यायः ॥ ८ ॥
नवमोऽध्यायः ।
अथातो धमनीव्याकरणं शारीरं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
चतुर्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः । तत्र केचिदाहुः-सिराधमनीस्रोतसामविभागः, सिराविकारा एव धमन्यः स्रोतांसि चेतिं । तत्तु न सम्यक्, अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः । कस्मात्? व्यञ्जनान्यत्वात् मूलसन्नियमात् कर्मवैशेष्या-दागमाच्च । केवलं तु परस्परसन्निकर्षात् सदृशागमकर्मत्वात् सौ-क्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव कर्मसु भवति ॥ ३ ॥
त्सिते। १ यथापूर्वं पूर्वानतिक्रमेण सिरादिभिरवगाढमभ्यन्तराश्रयं दुष्टशोणितं निर्ह. रेदित्यर्थः । एतेन प्रवगाढं जलौकोभिः, अवगाढतरं तुम्बैः, श्रवगाढतमं विषाणेन, सार्वाङ्गिकमत्यवगाढतमं च सिराभिः त्वग्गतत्वेन श्रनवगाढं तु पदैः प्रच्छानैरिति तात्पयम् । २ मतान्तरं निर्दिशति - अवेति । वाग्भटेनाप्युक्तम् – “ प्रच्छानं पिण्डिते वा स्यादवगाढे जलौकसः । स्वक्स्थेऽलाबुघटीशृङ्गं सिरैव व्यापकेऽसृजि ॥ ” इति । इति सुश्रुतसंहितायाः शारीरस्थानीय सुधाऽऽख्यटिप्पन्यामष्टमोऽध्यायः । नवमोऽध्यायः । ३ ध्मानाद् वायुपुरणाद् धमन्यस्तासां व्याकरणं विवरणं विद्यते यस्मिन् । शेषं पूर्ववत् । ४ अभिहिताः = शोणितवर्णनीयादौ कथिताः । ५ श्रविभागः = श्रवि-शेषः । ६ नाममात्रभिन्नानीति भावः । ७ तदुक्तं चरके— “ ध्मानाद्धमन्यः स्रव-णात् स्रोतांसि सरणात् सिरा " इति । ध्मानाद्रसादीनां यथावदीरणेनान्तरग्नेदीँपना-द्धमन्यः, स्रवणान्मांसादीनाप्याययितुं रसादीनां क्षरणात् स्त्रोतांसि सरणाद्वेगेन शोणि-तसहितानां त्रयाणां वातादीनां वहनात् सिरेति तदर्थः । ८ व्यञ्जनान्यत्वात् = लिङ्गा-. CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 638
पाठ पढ़ें पाठ छिपाएँ
४८० सुश्रुतसहिताया-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ०.९ तासां तु नाभिप्रभवाणां धमनीनामूर्ध्वगा दश, दश चाधोगा-मिन्यः, चतस्रस्तिर्य्यग्गाः ॥ ४ ॥
ऊर्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वाशोच्छवासजृम्भितक्षुद्धसि-तकथितरुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते, तास्त्रिंशत् । तासां तु वातपित्तकफ्-शोणितरसान् द्वे द्वे वहतस्ता दश, शब्दरूपरसगन्धानष्टाभिर्गृह्णीते ', द्वाभ्यां भाषते, द्वाभ्यां घोषं करोति, द्वाभ्यां स्वपिति, द्वाभ्यां प्रति-बुध्यते, द्वे चाश्रुवाहिण्यौ, द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते, ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः, तास्त्वेतास्त्रिंशत् सर्विभागा व्याख्याताः । एताभिरूर्ध्वं नाभेरुदरपार्श्वपृष्ठोरः स्कन्धग्रीवाबाहवो धार्यन्ते याप्यन्ते च ॥ ५ ॥
भवति चात्र ।
ऊर्ध्वगमास्तु ' कुर्वन्ति कर्माण्येतानि सर्वशः ।
अधोगमास्तु वक्ष्यामि कर्म तासां यथायथम् ॥ ६ ॥
अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधो वहन्ति । तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थ मेवान्नपानरसं विपक्कमौष्ण्याद् विवे-चयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्ति, अर्पयन्ति चोर्ध्वगानां न्यत्वात्, तत्र सिराणां वातादिवद्दानामरुणनीलशुकुलोहितवर्णत्वं लक्षणम् । शब्दादि-वहधमनीनां तु वर्णानुक्तेः स्वधातु समवर्णत्वम् । एवं स्रोतसामपि । तदुक्तं चरके— “ स्वधातुसमवर्णानि वृत्तस्थूलान्यपूनि च । स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च ” इत्यादिकमिति निबन्ध संग्रहाख्यव्याख्यायां द्रष्टव्यम् । १ शाखा प्रशाखापरिसंख्याने-नेति बोध्यम् । २ प्रत्येकं द्वाभ्यां द्वाभ्यामिति शेषः । द्वाभ्यां जिह्वागताभ्यां भाषते व्यक्तशब्दं करोति, द्वाभ्यां कण्ठगताभ्यां घोषमव्यक्तशब्दं करोति, द्वाभ्यां तमोविष-याभ्यां स्वपिति, द्वाभ्या सत्त्वविषयाभ्यां प्रतिबुद्धयते । ३ अण्डग्रन्थिभिर्यदन्तःप्रसादरसं निस्सरति तत्पुरुषस्तनमभितः केशादिरूपेण पुरुषचिह्नं प्रकटयतीति नरस्य स्तनाभ्यां शुक्रमभिवहत इत्यस्याभिप्रायः । ४ औष्ण्याद् अग्नेरिति शेषः । विवेचयन्त्यः = विपक्कमशनरसं पृथक्कुर्वन्त्यः, अभि सर्वतो वहन्त्यः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 639
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Arya - Chennai and eGangotri ४८१ तिर्यग्गाणां च रसस्थानञ्चाभिपूरयन्ति, मूत्रपुरीषस्वेदाश्च विवेच-यन्ति; आमपक्वाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत्, तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, द्वे अन्नवाहिन्याव-न्त्राश्रिते, तोयवहे द्वे, मूत्रबस्तिमभिप्रपन्ने मूत्रवहे द्वे, शुक्रवहे द्वे शुक्रप्रादुर्भावाय, द्वे विसर्गाय, ते एव रक्तमभिवहतो नारीणामा-र्त्तवसञ्ज्ञम्, द्वे वर्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे, अष्टावन्यास्ति-ग्गाणां धमनीनां स्वेदमर्पयन्ति, तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः । एताभिरधोनाभेः पक्वाशयकटीमूत्रपुरीषगुदबस्तिमेढ़-सक्थीनि धार्यन्ते याप्यन्ते च ॥ ७ ॥
भवति चात्र ।
अधोगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः ।
तिर्यग्गाः सम्प्रवक्ष्यामि कर्म चासां यथायथम् ॥ ८ ॥
तिर्यग्गाणां तु चतसृणां धमनीनामेकैका शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते, तास्त्वसङ्ख्येयाः । ताभिरिदं शरीरं गवक्षितं विबद्धमाततं च । तासां मुखानि रोमकूपप्रतिबद्धानि, यैः स्वेदमभि-वहन्ति रसं चाभितर्पयन्त्यन्तर्बहिश्च तैरेव चाभ्यङ्गपरिषेकावगाहा-लेपनवीर्याण्यन्तः शरीरमभिप्रतिपद्यन्ते त्वचि विपक्कानि, तैरेव च स्पर्शं सुखमसुखं वा गृह्णाति । तास्त्वेताश्चतस्रो धमन्यः सर्वाङ्गगताः सविभागा व्याख्याताः ॥ ९ ॥
भवतश्चात्र । यथा स्वभावतः खानि मृणालेषु बिसेषु च । १ रसस्थानं = हृदयम् । सुश्रुतार्थ सन्दीपने तु रसस्थानं नाभेर्नेदिष्ठं पृष्ठवंशभागमाग-त्य वामं स्कन्धं यावदुत्थाय रक्तवाहिन्या धमन्या योगमुपगतं रसाधिष्ठानभूतं नाडी भेदं चेति। २ पक्वाशयान्तरे = पित्ताशये इत्यर्थः । ३ विसर्गाय - शुकनिःसरणाय, ते = द्वे अण्डाधस्तालिङ्गमूलसंसक्ते । ४ गवाक्षितं == गवाक्षाकाररन्ध्रनिकर युक्तमित्यर्थः । यथा गवाक्षे बहूनि छिद्राणि भवन्ति, तथाऽस्मिन् देहे जालवत् सिरा व्याप्य तिष्ठन्तीति भावः । विबद्धं = विशेषेण बद्धम्, श्राततं = व्याप्तम् । ५ रसं = रंसधातुमित्यर्थः; ६ बिसेषु = सूक्ष्मतरमृणालेषु । एतेन स्थूलं सूक्ष्मं सुक्ष्मतरं चेति त्रिविध ' मृणालं बोध्यम् । ३१ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 640
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-४८२ Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ९ धमनीनां तथा खानि रसो यैरुपचीयते ॥ १० ॥
पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रियं पञ्चसु भावयन्ति ।
पञ्चेन्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले ॥११ ॥
अत ऊर्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः । तानि तु— नाणान्नोदकरसरक्तमांसमेदोमूत्रपुरीषशुक्रार्त्तववहानि, येष्वधिकारः, एकेषौं बहूनि । एतेषां विशेषा बहवः । तत्र प्राणवहे द्वे ", तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः, तत्र विद्धस्य क्रोशनविनमनमोहनम्र-मणवेपनानि मरणं वा भवति । अन्नवहे द्वे, तयोर्मूलमामाशयोऽ-न्नवाहिन्यश्च धमन्यः, तत्र विद्धस्याध्मानं शूलान्नद्वेषो छर्दिः पिपा-साऽऽन्ध्यं मरणं च । उदकवहे द्वे, तयोर्मूलं तालु क्लोम च । तत्र १श्रयमर्थः— : - धमन्यः कथम्भूताः पचाभिभूताः पञ्चभ्य आकाशादिमहाभूतेभ्य अभि समन्ताद् भूता उत्पन्नाः । अथवा शब्दस्पर्शरूपरसगन्धैः पञ्चभिरभिभूता व्याप्ताः, पञ्चे · न्द्रियं पञ्च इन्द्रियाणि उभयात्मकं मनश्च यस्य तं पचेन्द्रियं जीवात्मानं, कर्मपुरुष-मिति यावत् । पञ्चसु श्रोत्रादिष्विन्द्रियाधिष्ठानेषु, पञ्चकृत्वः पञ्चवारान् पर्यायेण न त्वे. कदैवेति भावः । भावयन्ति प्रापयन्ति, योजयन्तीति यावत् । पञ्चेन्द्रियं पञ्चानामिन्द्रि-याणां समाहारः पब्चेन्द्रियं श्रोत्रादीन्द्रियपञ्चकम्, तदुपलक्षितं कर्मेन्द्रियं मनश्च, पञ्चसु पृथिव्यादिषु बुद्धीन्द्रियविषयेषु तदुपलक्षितेषु हस्तादिषु कर्मेन्द्रियविषयेषु मन्तव्ये मनोविषये च, भावयित्वा प्राप्य, संयोज्येति यावत् । विनाशकाले पञ्चत्वम् श्राकाशा दिभावम्, आयान्ति श्रागच्छन्ति प्राप्नुवन्तीत्यर्थः । एतेन श्राकाशादिपञ्चभूत समुदाय-समुत्पन्ना धमन्यः कर्मपुरुषमिन्द्रियाधिष्ठानेषु पञ्चवारान् भावयन्ति । ततश्चेन्द्रियपञ्च · कमाकाशादिषु भूतेषु संयोज्य विनाशकाले धमन्यो विनाशं यान्तीति डल्हणोक्त्या निष्कर्षः । २ स्रोतसां मूलविद्धलक्षणं वक्ति - अत इति । पञ्चमाध्याये – “ द्वाविंशतियोंग-वद्दानि स्रोतांसि च ” इति प्रस्तावमात्रं कृतं न व्याकृतं सम्प्रति प्राणवहादीन्येव स्रोतां विव्रियत इति तात्पर्यम् । ३ एकेषाम् = अन्येषाम् । तदुक्तम् – “ प्रतिबहुत्वात्तु खलु केचिदपरिसंख्येयान्याचक्षते " इति श्रपि च - " बहूनि तानि संख्याय शक्यन्ते नैव भाषितुम् ” इति । वाग्भटे त्रयोदश स्रोतांस्युक्तानि । ४ द्वे - फुप्फसदक्षिणपार्श्ववा मपार्श्वात्मके । ५ एकं स्रोतो जिह्वातलात् काकलकाधः पर्यन्तं स्थूलम्, एकं च काकलकादामाशयपर्यन्तं किञ्चित्सूक्ष्ममिति द्वे । ६ एकं क्लोमानुविद्धम्, एकं चोपता-CC - 0. Gurukul Kangri Collection, Haridwar