सुश्रुत संहिता चौखम्बा — पृष्ठ 661–670
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 661–670
पृष्ठ 661
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by An, चक्कित्स ai: Sama Chennai and eGangotri ५०३ पवनपित्तकफशोणितेभ्यः । जिहीतलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्यवस्थितो निरास्रावश्चेति शुद्धो व्रण इति ॥ ७ ॥
तस्य रणस्य षष्टिरुपक्रमा भवन्ति । तद्यथा - अपतर्पणमालेपः १ अधुना शुद्धव्रणलक्षणं ब्रवीति - जिह्वेति । जिह्वातलवदामा प्रभा यस्य सः । अत्राभा वर्णः, तलशब्दः स्वरूपवचनः । जिह्वातलाभशब्दस्य मृदुस्निग्धश्लक्ष्णश-ब्दैस्सह प्रत्येकं सम्बन्धः । २ सुव्यवस्थितः = समतलत्वेन शोभनाकारः । उत्सन्नो-सङ्गित्वरहित इत्यर्थः । ३ व्रणस्य षष्टिमुपक्रमान्निर्दिशति —– तस्येति । अपतर्पणम् = अभोजनम्, लङ्ङ्घनमिति यावत्, आलेप: = यथोक्तौषधिभिरुप लेपनम्, परिषेकः = यथास्वौष-थसिद्धोष्णजलाद्यवसेचनम्, श्रभ्यङ्गः = तैलादिना मर्दनम्, स्वेदः = पार्थिवद्रव्याणां तापेन क्लेदरूपः, विम्लापनं = अङ्गुष्ठादिनाऽवमर्दनम्, उपनाहः = व्रणालेपनपिण्डः, पाचनं = शोथोपरि शणमूलकवीजादिद्रव्यबन्धनेन दोषपाचनम्, विस्रावणं = जलौ-कोभिः प्रच्छानैर्वा शोणितमोक्षणम्, स्नेहः = श्रोषधिसिद्धघृतपानन्, वमनं = प्रच्छर्द-नम्, | विरेचनं = हरीतक्याद्योषधिभिर्विरेकः, छेदनं = शस्त्रेण द्विधाकरणम्, भेदनं = शस्त्रेण विदारणम्, दारणं = चिरबिलादि दारणीय द्रव्यैः क्षारेण वा दारणम्, लेख-नं = दुष्टमांसापनयनार्थं रेखा कारिशस्त्रानुशस्त्रोपयोगेन प्रतिकरणम्, एषणं = शलाका-शस्त्रादिनाऽन्वेषणम्, श्राहरणं = शल्याद्यानयनम्, व्यधनं = शस्त्रेण वेधनम्, वि-स्रावणं = दुष्टशोणितादिनिस्सारणम्, सीवनं सन्धानं च = व्रणौष्ठादीनां संयोजनम्, पीडनं = यथोक्तपीडनद्रव्यैश् चम्पनम् 1 शोणितास्थापन = सिराच्छेदादिजन्य रुधिराव-रोधनम्, निर्वापणं = पित्तरक्तव्रणस्य पच्यमानस्य ' ज्वरेणाभिभूतस्य दूर्वाद्यौषधादि • भिर्दाहोपशमनम्, उत्कारिका = तिलालसी सर्षपैरण्डादिस्नै दिकवी जपाचितलप्सिका-ss कारो घनीभूतः कल्को लप्सिकाकारा । कषायादयः सप्त शोधनरोपणाः । तत्र कषायः = मिश्र काध्यायोक्त शङ्खिन्यङ्कोठसु-मनादिशोधनद्रव्यकृतक्वाथः, वर्तिः = मिश्र काध्यायोक्ताजगन्धाज शृङ्गयादिशोधनद्रव्य-कृता, कल्कः = श्रजगन्धादिशोधनद्रव्यसाधितः सर्पिः = श्रर्कमूल त्रिफलाऽऽदिभिः पूर्वो-क्तशोधनवर्तिनिर्दिष्टैर्द्रव्यैश्च संस्कृतघृतम्, तैलम् = अपामार्गादिभिः शोधनवर्तिनिर्दि ष्टैद्रव्यैश्च साधितं तैलम्, शोधनरोपणकर्मद्वय कर्तृतया द्वित्वमेव तैलघृतयोर्गणनीयम् । रसक्रिया = सालसारादिगणद्रव्यैरन्यैश्च शोधकद्रव्यैः साधितो घनीभूतः क्वाथः, अवचू-र्णनं = चूर्णावकीर्णम्, व्रणधूपनं = श्रीवेष्टकादिभिर्धूपनम्, उत्सादनं = परिशुष्का-ल्पमांसानां व्रणानामुत्सादनीयापामार्गाश्वगन्धादिभिरुन्नमनम्, मांसाभिवर्द्धनमिति यावत्, निम्ननणोत्थापनमित्यर्थः । अत्र सादनं = दुष्टमांसादीनां विलपनम्, उत्सन्न-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 662
पाठ पढ़ें पाठ छिपाएँ
५०४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १ परिषेकोऽभ्यङ्गः स्वेदो विम्लापनमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचनं छेदनं भेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रावणं सीवनं सन्धानं पीडनं शोणितास्थापनं निर्वापणमुत्का-रिका कषायो वर्त्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनं व्रणधूपन-मुत्सादनमवसादनं मृदुकर्म दारुणकर्म क्षारकर्माद्मिकर्म कृष्णकर्म व्रणमांसक्षयकरमित्यर्थः, मृदुकर्म = दारुणानां मृदूकरणम् दारुणकर्म, = तद्विपरीतम् । क्षारकर्म = क्षारपाकविध्यध्याये “ तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य ” इत्या-दिनोक्तम्, अग्निकर्म = अग्निकर्मविध्यध्यायोक्तम्, कृष्णकर्म = पूरणानन्तरं व्रणस्य शुक्लत्वनिराकरणार्थं कृष्णीकरणम्, पाण्डुकर्म – कृष्णानां पाण्डुकरणम् एतदुभयकर्म व्रणस्थानस्य शरीरसमवर्णकरणाथमवगन्तव्यम्, प्रतिसारणं न गण्यते । रोमसञ्जननं = वालोत्पादककर्म, लोमापहरणं = व्रणमभितो रोमाकीर्णत्वाद्यस्य व्रणस्य पूरणं न भवति तदर्थं कर्तर्यादिना रोमशातनकर्म, बस्तिकर्म = वातादिदुष्टत्रणे निरूहस्तैहिक-बस्तिकर्मकरणम्, उत्तरबस्तिकर्म = मूत्राघातादिदोषजन्यत्रणे उत्तरबस्तिकर्मकरणम्, बन्धः = बन्धनम्, पत्रदानं = दोषानुसारेण तत्तदोषधिपत्र बन्धनम् कृमिघ्नं = कृमि • नाशककर्मं, बृंहणं = बृंहणीयकर्म, विषघ्नं कल्पस्थाने वक्ष्यमाणं विषनाशककर्म, शिरोविरेचनं = जत्रूपरिस्थानां कण्डूमतां व्रणानामुपशमाय शिरोविरेचनकर्म, नस्यं = जत्रर्ध्वमुत्पन्नानां रूक्षाणां व्रणानां शान्त्यर्थं नस्यकर्म, कवलधारणं = शीतोष्ण-कवलग्रहकर्म, धूमः = धूमपानकम, मधुसर्पिः व्रणस्योष्णताशान्त्यर्थं सन्धानार्थं च मधुसर्पिःप्रयोगः, सर्पिषो वारद्वयमभिधानं संस्कृतासंस्कृत सर्पिःपरिग्रहार्थम् । यन्त्रं = हस्तेनाक्रष्टुमशक्यत्रणे यन्त्राहरणकर्म, श्राहारः = त्रणितोपासनीयाध्याये जीणंशाल्योदनमित्यादिनोक्तः, रक्षाविधानं = व्रणितोपासनीयाध्यायोक्तमिति । चरके दृढबलेन षट्त्रिंशदेवोपक्रमा उक्ताः – “ यथाक्रममतश्चोर्ध्वं शृणु सर्वानुप-क्रमान् ॥ शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम् । निर्वापणं ससन्धानं स्वेदः शमन • मेषणम् ॥ शोधनौ रोपणीयौ च कषायौ सप्रलेपनौ । द्वे तैले तद्गुणे पत्रं च्छादने द्वे च बन्धने ॥ भोज्यमुत्सादनं दाहो द्विविधः सावसादनः । काठिन्यमार्दवकरे धूप. नालेपने शुभे ॥ व्रणावचूर्णनं वण्यं रोपणं लोमरोहणम् । इति षट्त्रिंशदुद्दिष्टा व्रणानां समुपक्रमाः ॥ ” इति । षष्टिरुपक्रमाः षट्त्रिंशदुपक्रमेष्वन्तर्भावनीयाः । भावप्रकाशे तु “ श्रादौ शोथहरो लेपस्ततस्तु परिषेचनम् । विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाह-नम् ॥ पाचनं भेदनं पश्चात्पीडनं शोधनं तथा । रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः ” इति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 663
पाठ पढ़ें पाठ छिपाएँ
Arya अ ० १ ] Digitized by A च्च विकास तथा Chennai and eGangotri ५०५ पाण्डुकर्म प्रतिसारणं रोमसञ्जननं लोमापहरणं बस्तिकर्मोत्तरबस्ति-कर्म बन्धः पत्रदानं कृमिघ्नं बृंहणं विषघ्नं शिरोविरेचनं नस्यं कवलधारणं धूमो मधुसर्पिर्यन्त्रमाहारो रक्षाविधानमिति ॥ ८ ॥
तेषु कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनमिति शोधनरोपणानि तेष्वष्टौ शस्त्रकृत्याः, शोणितास्थापनं क्षारोऽग्नि-यन्त्रमाहारो रक्षाविधानं बन्धविधानं । चोक्तानि स्नेहस्वेदनवम-नविरेचनवत्युत्तरवस्तिशिरोविरेचननस्यधूमकवलधारणान्यन्य २ वक्ष्यामः, यदन्यदवशिष्टमुपक्रमजातं तदिह वक्ष्यते ॥ ९ ॥
१ उपक्रमेषु कषायादीनां शोधनरोपणोभयार्थ कारित्वमभिधत्ते —तेष्विति । तेषु = षष्टयुपक्रमेषु मध्ये । तेषु = अपतर्पणादिषु मध्ये, अष्टौ = दारणवर्ज्याश्छेदनादयः सीवनान्ताः, शस्त्रकृत्याः = शस्त्रेण छेदनाद्युपक्रमोपक्रमणीयाः । उपक्रमा अष्टविधश-स्त्रकर्मीयाध्याये बोद्धव्याः 1 । शोणितास्थापनं चतुर्दशे शोणितवर्णनीयाध्याये “ चतुर्विधं यदेतद्धि रुधिरस्य निवारणम् " इत्यादिना कषायशीत क्रियापचनदहनचतुर्विधभेदेनो-तम् । क्षारः एकादशे क्षारपाकविध्यध्याये प्रतिसारणीयपानीयाख्यद्विविधभेदेनोक्तः । अग्नि: द्वादशेऽग्निकर्म विध्यध्याये प्रोक्तः । यन्त्रं सप्तमे यन्त्रविध्यध्याये कथि. तम् । श्राहारः एकोनविंशे वणितोपासनीयाध्याये " जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् " इत्यादिनोक्तः । रक्षाविधानं पञ्चमेऽग्रो पहरणीयाध्याये " ततो गुग्गुल्व-गुरुसर्जरसवचागौरसर्षपचूर्णैः " इत्यादिना धूपनैः मन्त्रेण च व्रणितोपासनीयाध्याये " छत्रामतिच्छत्रां लाङ्गलीं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुद्दामतिगुहाम् " इत्यादिना शिरस्योषधिधारणेन च द्विविधमुक्तम् । बन्धविधानम् अष्टादशे व्रणालेपनबन्ध विध्य-ध्याये “ तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसङ्कुचितं मृदुपट्ट निवेश्य बध्नीयात् " इत्यादिनोक्तम् । २ अन्यत्र - चिकित्सास्थानस्य वदयमाणतत्तदध्यायेष्वित्यर्थः । यथा स्नेहः एकत्रिंशत्तमे स्नेहोपयौगिकचिकित्सिताध्याये “ अथ लघुकोष्ठायातुराय " इत्यादिना वक्ष्यमाणः । स्वेदो द्वात्रिंशत्तमे स्वेदावचारणीयचिकित्सिताध्याये वच्यमाणः । वमनं विरेचनं च त्रयस्त्रिंशत्तमे वमनविरेचनसाध्योपद्रवचिकित्सिताध्याये वक्ष्यमाणम् । वस्ति: अष्टत्रिंशत्तमे निरूहक्रमचिकित्सिताध्याये वच्यमाणा । उत्तरवस्तिः सप्तत्रिंशत्त-मेऽनुवासनोत्तरवस्तिचिकित्सिताध्याये वदयमाणा । शिरोविरेचन - नस्य- धूम - कवल-धारणानि चत्वारिंशत्तमे घूमनस्य कवलग्रहचिकित्सिताध्याये वच्यमाणानि । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 664
पाठ पढ़ें पाठ छिपाएँ
५०६ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १ षड्विधः प्रागुपदिष्टः शोफः, तस्यैकादशोपक्रमा भवन्त्यप-तर्पणादयो विरेचनान्ताः, ते च विशेषेण शोथप्रतीकारे वर्तन्ते,
व्रणभावमापन्नस्य च न विरुध्यन्ते । शेषास्तु प्रायेण व्रणप्रतीकार-हेतव एव ॥ १० ॥
अपतर्पणमाद्य उपक्रमः, एष सर्वशोफानां सामान्यः प्रधान-तमश्च ॥ ११ ॥
भवन्ति चात्र ।
दोषोच्छ्रायोपशान्त्यर्थं दोषानद्धस्य देहिनः ।
अवेक्ष्य दोषं प्राणं चं कार्यं स्यादपतर्पणम् ॥ १२ ॥
ऊर्ध्वं मारुततृष्णाक्षन्मुखशोषश्रमान्वितैः ।
न कार्यं गर्भिणीबृद्धबालदुर्बलभीरुभिः ॥ १३ ॥
" शोफेषूत्थितमात्रेषु ' व्रणेषूप्ररुजेषु च । १ शोफस्योपचारान्निर्दिशन्नाह - षड्विध इति । षड्विधः = वातपित्तकफ-शोणितसन्निपात।गन्तुनिमित्तः, प्राक् = सप्तदशे श्रामपक्कैषणीयाध्याये । २ अपतर्पणादय इत्यत्रातद्गुणसंविज्ञानो बहुव्रीहि:, तेनापतर्पणातिरिक्ता एकादश ग्राह्याः । ३ व्रण. भावमापन्नस्य शोफस्येत्यर्थः । अर्थाच्छोफो यदा व्रणभावमापन्नस्तदैतेऽपतर्पणादि-विरेचनान्ता एकादश उपक्रमा न श्रेष्ठाः । तदा तु एकादशभ्योऽवशिष्टा उपक्रमा बोद्धया इति भावः । ४ उपक्रमेषु मध्ये प्रथममपतर्पणं विवेचयति – अपतर्पणमिति । श्रद्यः = प्रागा-द्यत्वेनोपदिष्टादालेपादपि पूर्वं प्रयुज्यत्वादाद्यतर इत्यर्थः । उपक्रमः = उपचारः, भावे घञ्, ‘ नोदात्तोपदेशस्य मान्तस्यानाचमेः ' इति वृद्धिनिषेधः । सर्वशोफानाम् = आग-न्तुकातिरिक्तानां पञ्चदशानामित्यर्थः । सामान्यः - शोफस्य सर्वशहितकरत्वेन सामा · न्यः, प्रधानतमः = शीघ्ररोगहरत्वेनात्यन्तश्रेष्ठ इत्यर्थः । ५ अपतर्पणस्य फलं विषयं च निर्दिशति - दोषोच्छ्रायेति । ६ चकारादवस्थाप्रकृत्यादीनां ग्रहणम् । ७ येष्वपतर्पणनिषेघस्तन्निर्दिशति – ऊर्ध्वमारुतेति । ऊर्ध्वमारुताः = श्वासकासादि · रोगिणः । सुश्रुतार्थसन्दीपनकारस्तूर्ध्वमारुतपदेन वातविकारमाह । तल्लक्षणं यथा— " यथा भुक्ते तथाऽभुक्ते यस्योद्गारो भृशं भवेत् । तस्योर्ध्ववातं तं विद्यादुदानव्यानसम्भ-वम् ॥ ” इति । ८ श्रालेपनविषयं प्रतिपादयति-- शोफेष्विति । उत्थितमात्रेषु = अ • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 665
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Aryafsचिकित्सास्थानम् prai Chennai and eGangotri ५०७ यथास्वैरौषधैर्लेप प्रोत्ये कश्येन कारयेत् ॥ १४ ॥
यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम् ।
क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः ॥ १५ ॥
प्रह्लादने शोधने च शोफस्य हरणे तथा ।
उत्सादने रोपणे च लेपः स्यात्तु तदर्थकृत् ॥ १६ ॥
वातशोफे तु वेदनोपशमार्थं सर्पिस्तैलधान्याम्लमांसरसवातह-रौषधनिःक्काथैरशीतैः परिषेकान् कुर्वीत, पित्तरक्ताभिघातविषनि-मित्तेषु क्षीरघृतमधुशर्करोद के क्षुर समधुरौषधचीरवृक्ष निष्काथैरनु-ष्णैः परिषेकान् कुर्वीत, श्लेष्मशोफे तु तैलमूत्रक्षारोदकसुराशुक्त-क नौषधनिःक्काथैरशीतैः परिषेकान् कुर्वीत ॥ १७ ॥
यथाऽम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति ।
दोषाग्निरेवं सहसा परिषेकेण शाम्यति ॥ १८ ।
चिरोत्थितेषु, जातमात्रेष्विति यावत् । १ यथास्वैः = वातादिदोषानुसारेण समुदितै-मिंश्रकोक्तैर्वक्ष्यमाणैश्च द्विपञ्चमूल्यादिभिरौषधैरित्यर्थः । २ प्रात्येकश्येन = एकैकेन, प्रत्येकश इत्यस्माच्छब्दात् ' चतुर्वर्णादीनां स्वार्थे उपसंख्यानम् ' इति ष्यञ बोध्यः । ' प्रत्येकश्येन ' ‘ प्रत्येकं चैव ' इति पाठान्तरम् । प्रत्येकश्येनेति पाठो विचारणीयः । ३ दृष्टान्तप्रदर्शनैनालेपस्य फलमाख्याति -- यथेति । वेदनोप-४ प्रह्लादने शमनेन शान्त्यवस्थापने, शोधने = व्रणस्य दोषप्रकोपस्फोटनादिति भावः । तथा शोफ-स्य हरणे विलयनै, उत्सादने = निम्नर्व्रणोत्थापने, रोपणे = मांससञ्जनने, चकारादव-सादनसवर्णंकरणादीनि बोध्यानि ॥ तदर्थकृत् = प्रह्लादनादिप्रयोजनकारीत्पर्थः । आलेपस्य रात्रौ निषेधमाह भाव प्रकाशे - " तमसा पिहितोऽत्युष्मा रोमकूपमुखोत्थितः । विना लेपेन निर्याति रात्रौ नालेपयेदतः " || रात्रिलेप निषेधाविषयमप्याह-- " रात्रा-वपि प्रलेपस्तु विधातव्यो विचक्षणैः । पाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे ॥ ” इति । ५ वातादिशोफेषु परिषेकस्य फलं प्रयोगं चाचष्टे - वातेत्यादिना । ६ धान्येष्व-भिषुतमम्लं धान्याम्लं काञ्जिकम्, शाकपार्थिवादिः । " धान्याम्लं शालिचूर्णाच्छकोद्रवादि-कृतं भवेत् ” इति बोध्यम् । वातइरौषधानि = भद्रदार्वादीनि । ७ मधुरौषधानि = का. कोल्यादीनि, क्षीरित्रृक्षाः = क्षीरियुक्तवृक्षपञ्चकम् । तदुक्तम् – - ' " न्यग्रोधोदुम्बराश्वत्थपा-रिशप्लक्षपादपाः । पश्चैते क्षीरिणो वृक्षास्तेषां त्वकू पञ्चवल्कलम् ॥ केचित्तु पारिश-स्थाने शिरीषं वेतसं परे । " इति । ८ कफघ्नौषधानि = कालेय कागुर्वादीनि । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 666
पाठ पढ़ें पाठ छिपाएँ
५०८ Digitized by Arya Sama सुतसंहिता and Gangotri That [ अ ० १ अभ्य॑ङ्गस्तु दोषमालोक्योपयुक्तो दोषोपशमं मृदुतां च करोति ॥१ ९ ॥
स्वेदविम्लापनादीनां क्रियाणां प्राक् स उच्यते ।
पश्चात् कर्मसु चादिष्टः स च विस्रावणादिषु ॥ २० ॥
रुजावतां । दारुणानां कठिनानां तथैव च ।
शोफानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः ॥ २१ ॥
स्थिरौणां रुजतां मन्दं काय विम्लापनं भवेत् ।
अभ्यज्य स्वेदयित्वा तु वेणुनाड्या ततः शनैः ॥ २२ ॥
विमर्दयेद्भिषक् प्राज्ञस्तलेनाङ्गुष्ठकेन वा ।
शोफयोरुपनाहं तु कुर्यादामविदग्धयोः ॥ २३ ॥
अविदग्धः शमं याति विदग्धः पाकमेति च ।
निर्वर्त्तते न यः शोफो विरेकान्तैरुपक्रमैः ॥ २४ ॥
तस्य सम्पाचनं कुर्यात् समाहृत्यौषधानि तु " दधितक्रसुराशुक्तवान्याम्लैयजितानि तु ॥ २५ ॥
१२ स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुभाम् । १ अभ्यङ्गस्य फलं प्रयोगं चाभिधत्ते - अभ्यङ्गस्त्विति । श्रभ्यङ्गस्तैलादिना मर्द्दनम्, तच्च वाते कफे च तैलेन, वित्तं रक्ते विषादिषु च शतधौतादिघृतेन कार्यम् । २ श्रभ्यङ्गस्य समयनिर्धारणं निर्दिशति – स्वेदेति । सोऽभ्यङ्गः स्नेहवर्जितानां स्वेद ' विम्लापनादिविरेचनान्तानां सप्तोपक्रमाणां प्रागुच्यते । स्नेहवमनविरेचनरहितेषु विस्रा-वणादिसेचनान्तेषु कर्मसु पश्चादादिष्ट इत्यर्थः । ३ स्वेदनविषयमभिदधाति - रुजावतामिति । रुजावतां = वातकफवेदनायुक्ता-नामित्यर्थः । स्वदप्रयोगं स्वेदावचारणीयचिकित्सिते वक्ष्यति । ४ विम्लापनस्य विषयं प्रयोगं च दर्शयति- स्थिराणामिति । स्थिरायां = कठोराणाम् । ५ वेणुनाढ्या = वंशनलिकयेत्यर्थः । ६ उपनाहविधिमभिदधाति - शोफयोरिति । उपनादः = सोष्ण-बद्दललेपः । ७ श्रविदग्धः = श्रमः । ८ विदग्धः किचित्पक्कः । ९ पाचनप्र योगमभिषत्ते - निवर्तत इति । १० औषधानि = शणमूलकशिचूणामित्यादिमिश्र-कोक्तानि समभागप्रमाणानि । ११ दध्यादीनि द्रवद्रव्याणि चतुर्गुणानि बोध्यानि । १२ स्निग्धानि = घृताप्लुता-नीत्यर्थः । लवणीकृत्य लवणेन संसृष्टानि ' लवणाल्लुक् ' इति ठको लुक्, लवणेन CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 667
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Ary विर्वकित्सास्थानम् and eGangotri ५० ९ सैरण्डपत्रया शोफं नाहयेदुष्णया तया ॥ २६ ॥
* हितं सम्भोजनं चापि पाकायाभिमुखो यदि ।
वेदनोपशमार्थाय तथा पाकशमाय च ॥ २७ ॥
अचिरोत्पतिते शोफे कुर्याच्छोणितमोक्षणम् ।
सोफे कठिने श्यामे सरक्ते वेदनावति ॥ २८ ॥
संरब्धे विषमे वाऽपि ब्रणे विस्रावरणं हितम् ।
सविषे च विशेषेण जलौकोभिः पदैस्तथा ॥ २ ९ ॥
वेदनायाः प्रशान्त्यर्थं पाकस्याप्राप्तये तथा ॥
सोपद्रवाणां रूक्षाणां कृशानां व्रणशोपिरणाम् ॥ ३० ॥
यथास्मौषधैः सिद्धं स्नेहपानं विधीयते ।
" उत्सन्नमांसशोफे तु कफजुष्टे विशेषतः ॥ ३१ ॥
77 " सङक्लिष्टश्यामरुधिरे व्रणे " प्रच्छर्दनं हितम् ।
१३ वातपित्तप्रदुष्टेषु दीर्घकालानुबन्धिषु ॥ ३२ ॥
विरेचनं प्रशंसन्ति व्रणेषु व्रणकोविदाः ।
G अपाकेषु तु रोगेषु कठिनेषु स्थिरेषु च ॥ ३३ ॥
संसृज्येत्यर्थः । उत्कारिकां = लप्सिकाऽऽकृतिम् । १ सैरण्डपत्रया एरण्डपत्रोपरिविन्यस्तया उष्णया तयोत्कारिकया शोफ नाहयेद् बध्नीयादित्यर्थः । २ हितं = हितकारि भोजनमि-त्यर्थः।श्रत्रोष्णानुषङ्गाद् भोजनमप्युष्णमेव वोध्यम् । तदुक्तं त्रणितोपासनीये " जीर्णशा-त्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् । भुञ्जानो जाङ्गलैर्मासैः शीघ्रं व्रणमपोहति ॥ " इति । ३ विस्रावणकर्म निर्दिशति - वेदनेत्यादिना । ४ अचिरोत्पतिते = तत्कालप्रा-दुर्भूते । ५ श्यामे = हरिद्वर्णे, ' त्रिषु श्यामौ हरिकृष्णौ ' इत्यमरः । सरक्ते = रक्त-वर्णे, वेदनावति = बहुवेदनायुक्ते । भूम्नि वतुप् । ६ संरब्धे = दाहरागसङ्कुले, विशा-लमूले इति डल्हणः । विषमे नतोन्नत त्यर्थः । ७ पदैः = प्रच्छानैरित्यर्थः । ८ स्ने-हपानविषयं दर्शयति - सोपद्रवाणामिति । सोपद्रवाणां = वेपथुपक्षवधादियुक्ताना-मित्यर्थः, न तु गन्धवर्णस्राव वेदनाऽऽकृतीनां पञ्चत्रणोपद्रवाणाम् । ९ वातादेर्यस्य यदात्मीयमौषधं तैरित्यर्थः । १० वमनविषयमभिधत्ते — उत्सन्नेति । उत्सन्नम् = उन्नतम् । ११ सङ्क्लिष्टं = दूषितम् । १२ प्रच्छर्दनं - वमनम् । १३ विरेचनविषयमभिदधाति - वातेत्यादिना । अत्र वातेन सहितं पित्तमिति समासो बोध्यः, न तु वातश्च पित्तं चेति । १४ छेदनवि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 668
पाठ पढ़ें पाठ छिपाएँ
सुश्रुतसंहितायां-५१० Digitized by Arya Samaj Foundation Chennai and eGangotri
स्नायुकोथादिषु तथा छेदनं प्राप्तमुच्यते ।
अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्स्वपि ॥ ३४ ॥
गतिमत्सु च रोगेषु ' भेदनं प्राप्तमुच्यते ।
बालवृद्धासहक्षीरणभीरूणां योषितामपि ॥ ३५ ॥
मर्मोपरि च जातेषु रोगेषूक्तेषु दारणम् ।
सुँपक्वे पिण्डिते शोफे पीडनैरुपपीडिते ॥ ३६ ॥
पाकोद्वृत्तेषु दोषेषु तत्तु कार्यं विजानता ।
सुपिष्टैर्दारणद्रव्यैर्युक्तः क्षारेण वा पुनः ॥ ३७ ॥
कठिनान् स्थूलवृत्तौष्ठान् दीर्यमाणान पुनः पुनः ।
कठिनोत्सन्नमांसांच " लेखनेनाचरेद्भिषक् ॥ ३८ ॥
समं.19 लिखेत् सुलिखितं लिखेन्निरवशेषतः । [ अ ० १ वर्त्मनां तु प्रमाणेन समं शस्त्रेण निर्लिखेत् ॥ ३ ९ ॥ षयमाख्याति - अपाकेष्विति । अत्र नम् शब्दस्योभयार्थकत्वेन अपाकेषु पाकशून्येषु अधिमासादिषु, अथवा ईषत्पाकेषु वल्मीकादिष्वित्यर्थो बोद्धव्यः । १ कोथ: - -पूतिभावः, आदिशब्दात् सिराधमन्यादिसङ्ग्रहः । २ प्राप्तं युक्तमिति पर्यायौ । ३ भेदनविषयमभिदधाति- अन्तः पूयेष्विति । श्रवक्त्रेषु = वक्त्ररहितेषु ईषद-क्त्रेषु चेत्यर्थः, नञ्शब्दस्योभयार्थकत्वात् । ४ रोगेषु = व्रणेषु । ५ दारणविषयं निर्दिशति -- बालेति । असहाः = स्वभावेनैवासहिष्णवः । ६ दारणीयावस्थाम-भिधत्ते – सुपक्क इति । पिण्डिते = संहतपूयत्वेन पिण्डाकारत्वमापन्ने, पीडनैः = पीडनीयौषधैः । ७ पाकोद्वृत्तेषु = पाकमतिक्रान्तेषु, अत्यन्तं परिपक्वेष्विति तात्प-र्यम् । दारणद्रव्यैः = ‘ चिरबिल्वोऽग्निको दन्ती ” इत्यादिमिश्रकाध्यायोक्तैः । क्षारोऽत्र प्रतिसारणीयाख्यः । अस्य विधिरेकादशे क्षारपाकविध्यध्यायेऽवलोकनीयः । ९ भावप्रकाशे - " क्षारद्रव्यं तथा क्षारो दारणः परिकीर्तितः । हस्तिदन्तो जले पिष्टो बिन्दुमात्रप्रलेपितः । श्रत्यर्थं कठिने शोधे कथितो भेदनः परः ॥ ” इति । लेखनविषयं वर्णयति -- कठिनानिति । १० लेखनेन = दुष्टमांसापनयनार्थं रेखाकारि-शस्त्रानुशस्त्रोपयोगेनेत्यर्थः । ११ समम् = अखिलम्, अधिकमिति यावत् । ' समं साध्यखिलं सदृक् ' इति हेमचन्द्रः । लिखेत् कठिनानिति पूर्वेण सह योजना । एवमेत्र स्थूल वृत्तौष्ठान् सुलिखितम् श्रतिशयलिखितं लिखेत् । पुनः पुनः दीर्यमाणान् निरव-शेषतो मनागप्यपरिहार्य लिखेत् । कठिनोसन्नमांसान् वर्त्मनां प्रमाणेन समं लिखेत् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 669
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] ' 1 क चकित्सास्थानम् । ५११ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri
क्षौमं ' प्लोतं पिचुं फेनं यावशूकं ससैन्धवम् ।
कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् ॥ ४० ॥
नाडीव्रणान् शल्यगर्भानुन्मार्ग्यत्सङ्गिनः शनैः ।
करीरबालाङ्गुलिभिरेषण्या वैषयेद्भिषक् ॥ ४१ ॥
नेत्रवर्त्मगुदाभ्यासँ नाड्योऽवक्त्राः सशोणिताः ।
चुच्चूपोदकजैः श्लक्ष्णैः करीरैरेषयेतु ताः ॥ ४२ ॥
संवृतासंवृतास्येषु व्रणेषु मतिमान् भिषक् ।
यथोक्तमाहरेच्छल्यं प्राप्तोद्धरणलक्षणम् ॥ ४३ ॥
रोगें व्यधनसाध्ये तु यथोद्देशं प्रमाणतः ।
शस्त्रं निदध्याद् दोषं च स्रावयेत् कीर्त्तितं यथा ॥ ४४ ॥
पाको द्रुता ये च मांसस्था वि ताश्च ये यथोक्त " सीवनं तेषु कार्यं सन्धानमेव च ॥ ४५ ॥
" पूयगर्भानणुद्वारान् व्रणान्मर्मगतानपि ।
" यथोक्तैः पीडनद्रव्यैः समन्तात् परिपीडयेत् ॥। ४६ ॥
१ क्षौमं क्षुमा अतसी तद्भवं वस्त्रम्, प्लोतं = शणजं वस्त्रम्, पिचु = कार्पासतू-लाम्, फेनं = समुद्रफेनम्, यावशुकं = यवक्षारम्, कर्कशानि पत्राणि = गोजी शे-फालिका शाकपत्र करीरादीनां शस्त्रावचारणीयाध्यायोक्तानि । २ एषणविषयं दर्शयति - नाडीति । ३ बालाः = शल्लकीशूकरादीनाम् । ४ अभ्यासः समीपम् । ५ आहरणविषयं निर्दिशति -- संवृतेति । ६ शल्या-पनयनीयोक्तं विधिमनतिक्रम्येति यथोक्तमित्यर्थः । ७ व्यधनस्रावणविषयं दर्शयति-रोग इति । रोगोऽत्र दकोदरमूत्रवृद्धयादिः । शारीरस्थानोक्त सिराव्यधविधावुद्दिष्टं विधि स्मारयति -- यथोद्देशमिति । तत्र दकोदरोदुद्दिष्टं प्रमाणमङ्गुष्ठोदरप्रमाणमव-गाढम् । विद्रध्यादिपु – " महत्स्वपि च पाकेषु द्वयङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्र-निपातनम् ” इति । अत्र श्लोके निदध्यादित्यन्तेन व्यधनम्, अवशिष्टेन च स्रावण-मिति उपक्रमद्वयमुक्तम् । ८ कीर्तितं = शोणितवर्णनीये सिराव्यधविधौ चोक्तम् । ९ सोवनसन्धानविषयमभिदधाति - अपाकोपद्रुता इति । न पाकेनोपद्रुता अपाकोपद्रुताः पाकोपद्रवरहिता इत्यर्थः । १० यथोक्तम् = अष्टविधशस्त्रकर्मीयाध्यायो-क्तम् । अत्राविशेषेऽपि महति व्रणे सीवनम् अलीयसि च सन्धानमित्यध्य व सेयमिति सुश्रुतार्थसन्दीपनम् । ११ पीडनविषयमाख्याति – पूयेति । १२ यथोक्तैः = मिश्र-
पृष्ठ 670
पाठ पढ़ें पाठ छिपाएँ
५१२ by Arya Samaj F ततं व्हिलायांiTand eGangotri [ अ ० १
शुष्यमाणमुपेक्षेत प्र॑दे॒हं पीडनं प्रति ।
न चाभिमुखमालिम्पेत्तथा दोष: २ प्रसिच्यते ॥ ४७ ॥
` तैस्तैर्निमित्तैबेहुधा शोणिते प्रस्रुते भृशम् ।
कार्यं यथोक्तं वैद्येन । शोणितास्थापनं भवेत् ॥ ४८ ॥
दाहपाकज्वरवतां व्रणानां पित्तकोपतः ।
रक्तेन चाभिभूतानां कार्यं निर्वापणं भवेत् ॥ ४ ९ ॥
यथोक्तैः शीतलद्रव्यैः क्षीरपिष्टैर्धृतप्लुतैः ।
दिह्यादबहलान् सेकान् सुशीतांश्चावचारयेत् ॥ ५० ॥
व्रणेषु क्षीणमांसेषु तनुत्राविष्वपाकिषु ।
तोदकाठिन्यपारुष्यशूलवेपथुमत्सु च ॥ ५१ ॥
वार्तघ्नवर्गेऽम्लगणे काकोल्यादिगणे तथा ।
स्नैहिकेषु च ' बीजेषु पचेदुत्कारिकां शुभाम् ॥ ५२ ॥
तेषां च स्वेदनं कार्यं स्थिराणां वेदनावताम् ।
" दुर्गन्धानां क्लेदवतां पिच्छिलानां विशेषतः ॥ ५३ ॥
कषायैः शोधनं कार्यं शोधनैः " प्रागुदीरितैः । काध्याये “ द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् " इत्याद्युक्तैरित्यर्थः । १ प्रदेहं = प्रलेपनम् । २ दोषः = पूयः, प्रसिच्यते = स्वयमेव प्रक्षरति । ३ शो-णितास्थापनं निर्दिशति - तैरिति । तैस्तैः - सिराच्छेदादिभिः । ४ यथोक्तं = शोणितवर्णनीयाध्यायोक्तम् । शोणितास्थापनं = रक्तातिप्रवृत्तिस्तम्भनमित्यर्थः । तच्च — सन्धानं स्कन्दनं चैव पाचनं दहनम् तथा " इति भेदाच्चतुर्विधम् । ५ निर्वापणविषयमभिधत्ते -- दाहेति । ६ यथोक्तैः = मिश्रकाध्यायोक्तद्र्वा -ऽऽदिभिः । श्रनेन श्लोकेन सेकलेपाविति निर्वापणद्वयमुक्तम् । ७ उत्कारिकाविषयं प्रतिपादयति -- त्रणेष्विति । वातन्नवर्गः - संशोधन संशमनीयाध्याये भद्रदारु-कुष्ठहरिद्रावरुणेत्यादिनोक्तः, अम्लवर्ग: - दाडिमादिः, काकोल्यादिगणः = द्रव्य सङ्ग्रह-णीयाध्याये काकोलोक्षीरकाकोलीत्यादिनोक्तः । ९ बीजेषु = तिलात सी सर्षपैरण्डा-दिवीजेष्वित्यर्थः । वातघ्नवर्गकाकोल्यादिगणस्नैहिकवीजानि समभागानि तच्चतुर्गुणम-ग्लानां गृहीत्वा नातिघनां नातिसान्द्रां पेयाऽनुकारिणीमुत्कारिकां पचेदिति ढल्हणः । १० शोधन कषायविषयं दर्शयति - दुर्गन्धानामिति । ११ प्रागुदीरितैः = मिश्र • CC - 0. Gurukul Kangri Collection, Haridwar