सुश्रुत संहिता चौखम्बा — पृष्ठ 661–670

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 661–670

पृष्ठ 661

सुश्रुत संहिता चौखम्बा, पृष्ठ 661 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by An, चक्कित्स ai: Sama Chennai and eGangotri ५०३ पवनपित्तकफशोणितेभ्यः । जिहीतलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्यवस्थितो निरास्रावश्चेति शुद्धो व्रण इति ॥ ७ ॥

तस्य रणस्य षष्टिरुपक्रमा भवन्ति । तद्यथा - अपतर्पणमालेपः १ अधुना शुद्धव्रणलक्षणं ब्रवीति - जिह्वेति । जिह्वातलवदामा प्रभा यस्य सः । अत्राभा वर्णः, तलशब्दः स्वरूपवचनः । जिह्वातलाभशब्दस्य मृदुस्निग्धश्लक्ष्णश-ब्दैस्सह प्रत्येकं सम्बन्धः । २ सुव्यवस्थितः = समतलत्वेन शोभनाकारः । उत्सन्नो-सङ्गित्वरहित इत्यर्थः । ३ व्रणस्य षष्टिमुपक्रमान्निर्दिशति —– तस्येति । अपतर्पणम् = अभोजनम्, लङ्ङ्घनमिति यावत्, आलेप: = यथोक्तौषधिभिरुप लेपनम्, परिषेकः = यथास्वौष-थसिद्धोष्णजलाद्यवसेचनम्, श्रभ्यङ्गः = तैलादिना मर्दनम्, स्वेदः = पार्थिवद्रव्याणां तापेन क्लेदरूपः, विम्लापनं = अङ्गुष्ठादिनाऽवमर्दनम्, उपनाहः = व्रणालेपनपिण्डः, पाचनं = शोथोपरि शणमूलकवीजादिद्रव्यबन्धनेन दोषपाचनम्, विस्रावणं = जलौ-कोभिः प्रच्छानैर्वा शोणितमोक्षणम्, स्नेहः = श्रोषधिसिद्धघृतपानन्, वमनं = प्रच्छर्द-नम्, | विरेचनं = हरीतक्याद्योषधिभिर्विरेकः, छेदनं = शस्त्रेण द्विधाकरणम्, भेदनं = शस्त्रेण विदारणम्, दारणं = चिरबिलादि दारणीय द्रव्यैः क्षारेण वा दारणम्, लेख-नं = दुष्टमांसापनयनार्थं रेखा कारिशस्त्रानुशस्त्रोपयोगेन प्रतिकरणम्, एषणं = शलाका-शस्त्रादिनाऽन्वेषणम्, श्राहरणं = शल्याद्यानयनम्, व्यधनं = शस्त्रेण वेधनम्, वि-स्रावणं = दुष्टशोणितादिनिस्सारणम्, सीवनं सन्धानं च = व्रणौष्ठादीनां संयोजनम्, पीडनं = यथोक्तपीडनद्रव्यैश् चम्पनम् 1 शोणितास्थापन = सिराच्छेदादिजन्य रुधिराव-रोधनम्, निर्वापणं = पित्तरक्तव्रणस्य पच्यमानस्य ' ज्वरेणाभिभूतस्य दूर्वाद्यौषधादि • भिर्दाहोपशमनम्, उत्कारिका = तिलालसी सर्षपैरण्डादिस्नै दिकवी जपाचितलप्सिका-ss कारो घनीभूतः कल्को लप्सिकाकारा । कषायादयः सप्त शोधनरोपणाः । तत्र कषायः = मिश्र काध्यायोक्त शङ्खिन्यङ्कोठसु-मनादिशोधनद्रव्यकृतक्वाथः, वर्तिः = मिश्र काध्यायोक्ताजगन्धाज शृङ्गयादिशोधनद्रव्य-कृता, कल्कः = श्रजगन्धादिशोधनद्रव्यसाधितः सर्पिः = श्रर्कमूल त्रिफलाऽऽदिभिः पूर्वो-क्तशोधनवर्तिनिर्दिष्टैर्द्रव्यैश्च संस्कृतघृतम्, तैलम् = अपामार्गादिभिः शोधनवर्तिनिर्दि ष्टैद्रव्यैश्च साधितं तैलम्, शोधनरोपणकर्मद्वय कर्तृतया द्वित्वमेव तैलघृतयोर्गणनीयम् । रसक्रिया = सालसारादिगणद्रव्यैरन्यैश्च शोधकद्रव्यैः साधितो घनीभूतः क्वाथः, अवचू-र्णनं = चूर्णावकीर्णम्, व्रणधूपनं = श्रीवेष्टकादिभिर्धूपनम्, उत्सादनं = परिशुष्का-ल्पमांसानां व्रणानामुत्सादनीयापामार्गाश्वगन्धादिभिरुन्नमनम्, मांसाभिवर्द्धनमिति यावत्, निम्ननणोत्थापनमित्यर्थः । अत्र सादनं = दुष्टमांसादीनां विलपनम्, उत्सन्न-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 662

सुश्रुत संहिता चौखम्बा, पृष्ठ 662 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५०४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १ परिषेकोऽभ्यङ्गः स्वेदो विम्लापनमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचनं छेदनं भेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रावणं सीवनं सन्धानं पीडनं शोणितास्थापनं निर्वापणमुत्का-रिका कषायो वर्त्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनं व्रणधूपन-मुत्सादनमवसादनं मृदुकर्म दारुणकर्म क्षारकर्माद्मिकर्म कृष्णकर्म व्रणमांसक्षयकरमित्यर्थः, मृदुकर्म = दारुणानां मृदूकरणम् दारुणकर्म, = तद्विपरीतम् । क्षारकर्म = क्षारपाकविध्यध्याये “ तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य ” इत्या-दिनोक्तम्, अग्निकर्म = अग्निकर्मविध्यध्यायोक्तम्, कृष्णकर्म = पूरणानन्तरं व्रणस्य शुक्लत्वनिराकरणार्थं कृष्णीकरणम्, पाण्डुकर्म – कृष्णानां पाण्डुकरणम् एतदुभयकर्म व्रणस्थानस्य शरीरसमवर्णकरणाथमवगन्तव्यम्, प्रतिसारणं न गण्यते । रोमसञ्जननं = वालोत्पादककर्म, लोमापहरणं = व्रणमभितो रोमाकीर्णत्वाद्यस्य व्रणस्य पूरणं न भवति तदर्थं कर्तर्यादिना रोमशातनकर्म, बस्तिकर्म = वातादिदुष्टत्रणे निरूहस्तैहिक-बस्तिकर्मकरणम्, उत्तरबस्तिकर्म = मूत्राघातादिदोषजन्यत्रणे उत्तरबस्तिकर्मकरणम्, बन्धः = बन्धनम्, पत्रदानं = दोषानुसारेण तत्तदोषधिपत्र बन्धनम् कृमिघ्नं = कृमि • नाशककर्मं, बृंहणं = बृंहणीयकर्म, विषघ्नं कल्पस्थाने वक्ष्यमाणं विषनाशककर्म, शिरोविरेचनं = जत्रूपरिस्थानां कण्डूमतां व्रणानामुपशमाय शिरोविरेचनकर्म, नस्यं = जत्रर्ध्वमुत्पन्नानां रूक्षाणां व्रणानां शान्त्यर्थं नस्यकर्म, कवलधारणं = शीतोष्ण-कवलग्रहकर्म, धूमः = धूमपानकम, मधुसर्पिः व्रणस्योष्णताशान्त्यर्थं सन्धानार्थं च मधुसर्पिःप्रयोगः, सर्पिषो वारद्वयमभिधानं संस्कृतासंस्कृत सर्पिःपरिग्रहार्थम् । यन्त्रं = हस्तेनाक्रष्टुमशक्यत्रणे यन्त्राहरणकर्म, श्राहारः = त्रणितोपासनीयाध्याये जीणंशाल्योदनमित्यादिनोक्तः, रक्षाविधानं = व्रणितोपासनीयाध्यायोक्तमिति । चरके दृढबलेन षट्त्रिंशदेवोपक्रमा उक्ताः – “ यथाक्रममतश्चोर्ध्वं शृणु सर्वानुप-क्रमान् ॥ शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम् । निर्वापणं ससन्धानं स्वेदः शमन • मेषणम् ॥ शोधनौ रोपणीयौ च कषायौ सप्रलेपनौ । द्वे तैले तद्गुणे पत्रं च्छादने द्वे च बन्धने ॥ भोज्यमुत्सादनं दाहो द्विविधः सावसादनः । काठिन्यमार्दवकरे धूप. नालेपने शुभे ॥ व्रणावचूर्णनं वण्यं रोपणं लोमरोहणम् । इति षट्त्रिंशदुद्दिष्टा व्रणानां समुपक्रमाः ॥ ” इति । षष्टिरुपक्रमाः षट्त्रिंशदुपक्रमेष्वन्तर्भावनीयाः । भावप्रकाशे तु “ श्रादौ शोथहरो लेपस्ततस्तु परिषेचनम् । विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाह-नम् ॥ पाचनं भेदनं पश्चात्पीडनं शोधनं तथा । रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः ” इति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 663

सुश्रुत संहिता चौखम्बा, पृष्ठ 663 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Arya अ ० १ ] Digitized by A च्च विकास तथा Chennai and eGangotri ५०५ पाण्डुकर्म प्रतिसारणं रोमसञ्जननं लोमापहरणं बस्तिकर्मोत्तरबस्ति-कर्म बन्धः पत्रदानं कृमिघ्नं बृंहणं विषघ्नं शिरोविरेचनं नस्यं कवलधारणं धूमो मधुसर्पिर्यन्त्रमाहारो रक्षाविधानमिति ॥ ८ ॥

तेषु कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनमिति शोधनरोपणानि तेष्वष्टौ शस्त्रकृत्याः, शोणितास्थापनं क्षारोऽग्नि-यन्त्रमाहारो रक्षाविधानं बन्धविधानं । चोक्तानि स्नेहस्वेदनवम-नविरेचनवत्युत्तरवस्तिशिरोविरेचननस्यधूमकवलधारणान्यन्य २ वक्ष्यामः, यदन्यदवशिष्टमुपक्रमजातं तदिह वक्ष्यते ॥ ९ ॥

१ उपक्रमेषु कषायादीनां शोधनरोपणोभयार्थ कारित्वमभिधत्ते —तेष्विति । तेषु = षष्टयुपक्रमेषु मध्ये । तेषु = अपतर्पणादिषु मध्ये, अष्टौ = दारणवर्ज्याश्छेदनादयः सीवनान्ताः, शस्त्रकृत्याः = शस्त्रेण छेदनाद्युपक्रमोपक्रमणीयाः । उपक्रमा अष्टविधश-स्त्रकर्मीयाध्याये बोद्धव्याः 1 । शोणितास्थापनं चतुर्दशे शोणितवर्णनीयाध्याये “ चतुर्विधं यदेतद्धि रुधिरस्य निवारणम् " इत्यादिना कषायशीत क्रियापचनदहनचतुर्विधभेदेनो-तम् । क्षारः एकादशे क्षारपाकविध्यध्याये प्रतिसारणीयपानीयाख्यद्विविधभेदेनोक्तः । अग्नि: द्वादशेऽग्निकर्म विध्यध्याये प्रोक्तः । यन्त्रं सप्तमे यन्त्रविध्यध्याये कथि. तम् । श्राहारः एकोनविंशे वणितोपासनीयाध्याये " जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् " इत्यादिनोक्तः । रक्षाविधानं पञ्चमेऽग्रो पहरणीयाध्याये " ततो गुग्गुल्व-गुरुसर्जरसवचागौरसर्षपचूर्णैः " इत्यादिना धूपनैः मन्त्रेण च व्रणितोपासनीयाध्याये " छत्रामतिच्छत्रां लाङ्गलीं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुद्दामतिगुहाम् " इत्यादिना शिरस्योषधिधारणेन च द्विविधमुक्तम् । बन्धविधानम् अष्टादशे व्रणालेपनबन्ध विध्य-ध्याये “ तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसङ्कुचितं मृदुपट्ट निवेश्य बध्नीयात् " इत्यादिनोक्तम् । २ अन्यत्र - चिकित्सास्थानस्य वदयमाणतत्तदध्यायेष्वित्यर्थः । यथा स्नेहः एकत्रिंशत्तमे स्नेहोपयौगिकचिकित्सिताध्याये “ अथ लघुकोष्ठायातुराय " इत्यादिना वक्ष्यमाणः । स्वेदो द्वात्रिंशत्तमे स्वेदावचारणीयचिकित्सिताध्याये वच्यमाणः । वमनं विरेचनं च त्रयस्त्रिंशत्तमे वमनविरेचनसाध्योपद्रवचिकित्सिताध्याये वक्ष्यमाणम् । वस्ति: अष्टत्रिंशत्तमे निरूहक्रमचिकित्सिताध्याये वच्यमाणा । उत्तरवस्तिः सप्तत्रिंशत्त-मेऽनुवासनोत्तरवस्तिचिकित्सिताध्याये वदयमाणा । शिरोविरेचन - नस्य- धूम - कवल-धारणानि चत्वारिंशत्तमे घूमनस्य कवलग्रहचिकित्सिताध्याये वच्यमाणानि । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 664

सुश्रुत संहिता चौखम्बा, पृष्ठ 664 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५०६ सुश्रुतसंहितायां— Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १ षड्विधः प्रागुपदिष्टः शोफः, तस्यैकादशोपक्रमा भवन्त्यप-तर्पणादयो विरेचनान्ताः, ते च विशेषेण शोथप्रतीकारे वर्तन्ते,

व्रणभावमापन्नस्य च न विरुध्यन्ते । शेषास्तु प्रायेण व्रणप्रतीकार-हेतव एव ॥ १० ॥

अपतर्पणमाद्य उपक्रमः, एष सर्वशोफानां सामान्यः प्रधान-तमश्च ॥ ११ ॥

भवन्ति चात्र ।

दोषोच्छ्रायोपशान्त्यर्थं दोषानद्धस्य देहिनः ।

अवेक्ष्य दोषं प्राणं चं कार्यं स्यादपतर्पणम् ॥ १२ ॥

ऊर्ध्वं मारुततृष्णाक्षन्मुखशोषश्रमान्वितैः ।

न कार्यं गर्भिणीबृद्धबालदुर्बलभीरुभिः ॥ १३ ॥

" शोफेषूत्थितमात्रेषु ' व्रणेषूप्ररुजेषु च । १ शोफस्योपचारान्निर्दिशन्नाह - षड्विध इति । षड्विधः = वातपित्तकफ-शोणितसन्निपात।गन्तुनिमित्तः, प्राक् = सप्तदशे श्रामपक्कैषणीयाध्याये । २ अपतर्पणादय इत्यत्रातद्गुणसंविज्ञानो बहुव्रीहि:, तेनापतर्पणातिरिक्ता एकादश ग्राह्याः । ३ व्रण. भावमापन्नस्य शोफस्येत्यर्थः । अर्थाच्छोफो यदा व्रणभावमापन्नस्तदैतेऽपतर्पणादि-विरेचनान्ता एकादश उपक्रमा न श्रेष्ठाः । तदा तु एकादशभ्योऽवशिष्टा उपक्रमा बोद्धया इति भावः । ४ उपक्रमेषु मध्ये प्रथममपतर्पणं विवेचयति – अपतर्पणमिति । श्रद्यः = प्रागा-द्यत्वेनोपदिष्टादालेपादपि पूर्वं प्रयुज्यत्वादाद्यतर इत्यर्थः । उपक्रमः = उपचारः, भावे घञ्, ‘ नोदात्तोपदेशस्य मान्तस्यानाचमेः ' इति वृद्धिनिषेधः । सर्वशोफानाम् = आग-न्तुकातिरिक्तानां पञ्चदशानामित्यर्थः । सामान्यः - शोफस्य सर्वशहितकरत्वेन सामा · न्यः, प्रधानतमः = शीघ्ररोगहरत्वेनात्यन्तश्रेष्ठ इत्यर्थः । ५ अपतर्पणस्य फलं विषयं च निर्दिशति - दोषोच्छ्रायेति । ६ चकारादवस्थाप्रकृत्यादीनां ग्रहणम् । ७ येष्वपतर्पणनिषेघस्तन्निर्दिशति – ऊर्ध्वमारुतेति । ऊर्ध्वमारुताः = श्वासकासादि · रोगिणः । सुश्रुतार्थसन्दीपनकारस्तूर्ध्वमारुतपदेन वातविकारमाह । तल्लक्षणं यथा— " यथा भुक्ते तथाऽभुक्ते यस्योद्गारो भृशं भवेत् । तस्योर्ध्ववातं तं विद्यादुदानव्यानसम्भ-वम् ॥ ” इति । ८ श्रालेपनविषयं प्रतिपादयति-- शोफेष्विति । उत्थितमात्रेषु = अ • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 665

सुश्रुत संहिता चौखम्बा, पृष्ठ 665 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Aryafsचिकित्सास्थानम् prai Chennai and eGangotri ५०७ यथास्वैरौषधैर्लेप प्रोत्ये कश्येन कारयेत् ॥ १४ ॥

यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम् ।

क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः ॥ १५ ॥

प्रह्लादने शोधने च शोफस्य हरणे तथा ।

उत्सादने रोपणे च लेपः स्यात्तु तदर्थकृत् ॥ १६ ॥

वातशोफे तु वेदनोपशमार्थं सर्पिस्तैलधान्याम्लमांसरसवातह-रौषधनिःक्काथैरशीतैः परिषेकान् कुर्वीत, पित्तरक्ताभिघातविषनि-मित्तेषु क्षीरघृतमधुशर्करोद के क्षुर समधुरौषधचीरवृक्ष निष्काथैरनु-ष्णैः परिषेकान् कुर्वीत, श्लेष्मशोफे तु तैलमूत्रक्षारोदकसुराशुक्त-क नौषधनिःक्काथैरशीतैः परिषेकान् कुर्वीत ॥ १७ ॥

यथाऽम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति ।

दोषाग्निरेवं सहसा परिषेकेण शाम्यति ॥ १८ ।

चिरोत्थितेषु, जातमात्रेष्विति यावत् । १ यथास्वैः = वातादिदोषानुसारेण समुदितै-मिंश्रकोक्तैर्वक्ष्यमाणैश्च द्विपञ्चमूल्यादिभिरौषधैरित्यर्थः । २ प्रात्येकश्येन = एकैकेन, प्रत्येकश इत्यस्माच्छब्दात् ' चतुर्वर्णादीनां स्वार्थे उपसंख्यानम् ' इति ष्यञ बोध्यः । ' प्रत्येकश्येन ' ‘ प्रत्येकं चैव ' इति पाठान्तरम् । प्रत्येकश्येनेति पाठो विचारणीयः । ३ दृष्टान्तप्रदर्शनैनालेपस्य फलमाख्याति -- यथेति । वेदनोप-४ प्रह्लादने शमनेन शान्त्यवस्थापने, शोधने = व्रणस्य दोषप्रकोपस्फोटनादिति भावः । तथा शोफ-स्य हरणे विलयनै, उत्सादने = निम्नर्व्रणोत्थापने, रोपणे = मांससञ्जनने, चकारादव-सादनसवर्णंकरणादीनि बोध्यानि ॥ तदर्थकृत् = प्रह्लादनादिप्रयोजनकारीत्पर्थः । आलेपस्य रात्रौ निषेधमाह भाव प्रकाशे - " तमसा पिहितोऽत्युष्मा रोमकूपमुखोत्थितः । विना लेपेन निर्याति रात्रौ नालेपयेदतः " || रात्रिलेप निषेधाविषयमप्याह-- " रात्रा-वपि प्रलेपस्तु विधातव्यो विचक्षणैः । पाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे ॥ ” इति । ५ वातादिशोफेषु परिषेकस्य फलं प्रयोगं चाचष्टे - वातेत्यादिना । ६ धान्येष्व-भिषुतमम्लं धान्याम्लं काञ्जिकम्, शाकपार्थिवादिः । " धान्याम्लं शालिचूर्णाच्छकोद्रवादि-कृतं भवेत् ” इति बोध्यम् । वातइरौषधानि = भद्रदार्वादीनि । ७ मधुरौषधानि = का. कोल्यादीनि, क्षीरित्रृक्षाः = क्षीरियुक्तवृक्षपञ्चकम् । तदुक्तम् – - ' " न्यग्रोधोदुम्बराश्वत्थपा-रिशप्लक्षपादपाः । पश्चैते क्षीरिणो वृक्षास्तेषां त्वकू पञ्चवल्कलम् ॥ केचित्तु पारिश-स्थाने शिरीषं वेतसं परे । " इति । ८ कफघ्नौषधानि = कालेय कागुर्वादीनि । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 666

सुश्रुत संहिता चौखम्बा, पृष्ठ 666 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५०८ Digitized by Arya Sama सुतसंहिता and Gangotri That [ अ ० १ अभ्य॑ङ्गस्तु दोषमालोक्योपयुक्तो दोषोपशमं मृदुतां च करोति ॥१ ९ ॥

स्वेदविम्लापनादीनां क्रियाणां प्राक् स उच्यते ।

पश्चात् कर्मसु चादिष्टः स च विस्रावणादिषु ॥ २० ॥

रुजावतां । दारुणानां कठिनानां तथैव च ।

शोफानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः ॥ २१ ॥

स्थिरौणां रुजतां मन्दं काय विम्लापनं भवेत् ।

अभ्यज्य स्वेदयित्वा तु वेणुनाड्या ततः शनैः ॥ २२ ॥

विमर्दयेद्भिषक् प्राज्ञस्तलेनाङ्गुष्ठकेन वा ।

शोफयोरुपनाहं तु कुर्यादामविदग्धयोः ॥ २३ ॥

अविदग्धः शमं याति विदग्धः पाकमेति च ।

निर्वर्त्तते न यः शोफो विरेकान्तैरुपक्रमैः ॥ २४ ॥

तस्य सम्पाचनं कुर्यात् समाहृत्यौषधानि तु " दधितक्रसुराशुक्तवान्याम्लैयजितानि तु ॥ २५ ॥

१२ स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुभाम् । १ अभ्यङ्गस्य फलं प्रयोगं चाभिधत्ते - अभ्यङ्गस्त्विति । श्रभ्यङ्गस्तैलादिना मर्द्दनम्, तच्च वाते कफे च तैलेन, वित्तं रक्ते विषादिषु च शतधौतादिघृतेन कार्यम् । २ श्रभ्यङ्गस्य समयनिर्धारणं निर्दिशति – स्वेदेति । सोऽभ्यङ्गः स्नेहवर्जितानां स्वेद ' विम्लापनादिविरेचनान्तानां सप्तोपक्रमाणां प्रागुच्यते । स्नेहवमनविरेचनरहितेषु विस्रा-वणादिसेचनान्तेषु कर्मसु पश्चादादिष्ट इत्यर्थः । ३ स्वेदनविषयमभिदधाति - रुजावतामिति । रुजावतां = वातकफवेदनायुक्ता-नामित्यर्थः । स्वदप्रयोगं स्वेदावचारणीयचिकित्सिते वक्ष्यति । ४ विम्लापनस्य विषयं प्रयोगं च दर्शयति- स्थिराणामिति । स्थिरायां = कठोराणाम् । ५ वेणुनाढ्या = वंशनलिकयेत्यर्थः । ६ उपनाहविधिमभिदधाति - शोफयोरिति । उपनादः = सोष्ण-बद्दललेपः । ७ श्रविदग्धः = श्रमः । ८ विदग्धः किचित्पक्कः । ९ पाचनप्र योगमभिषत्ते - निवर्तत इति । १० औषधानि = शणमूलकशिचूणामित्यादिमिश्र-कोक्तानि समभागप्रमाणानि । ११ दध्यादीनि द्रवद्रव्याणि चतुर्गुणानि बोध्यानि । १२ स्निग्धानि = घृताप्लुता-नीत्यर्थः । लवणीकृत्य लवणेन संसृष्टानि ' लवणाल्लुक् ' इति ठको लुक्, लवणेन CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 667

सुश्रुत संहिता चौखम्बा, पृष्ठ 667 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Ary विर्वकित्सास्थानम् and eGangotri ५० ९ सैरण्डपत्रया शोफं नाहयेदुष्णया तया ॥ २६ ॥

* हितं सम्भोजनं चापि पाकायाभिमुखो यदि ।

वेदनोपशमार्थाय तथा पाकशमाय च ॥ २७ ॥

अचिरोत्पतिते शोफे कुर्याच्छोणितमोक्षणम् ।

सोफे कठिने श्यामे सरक्ते वेदनावति ॥ २८ ॥

संरब्धे विषमे वाऽपि ब्रणे विस्रावरणं हितम् ।

सविषे च विशेषेण जलौकोभिः पदैस्तथा ॥ २ ९ ॥

वेदनायाः प्रशान्त्यर्थं पाकस्याप्राप्तये तथा ॥

सोपद्रवाणां रूक्षाणां कृशानां व्रणशोपिरणाम् ॥ ३० ॥

यथास्मौषधैः सिद्धं स्नेहपानं विधीयते ।

" उत्सन्नमांसशोफे तु कफजुष्टे विशेषतः ॥ ३१ ॥

77 " सङक्लिष्टश्यामरुधिरे व्रणे " प्रच्छर्दनं हितम् ।

१३ वातपित्तप्रदुष्टेषु दीर्घकालानुबन्धिषु ॥ ३२ ॥

विरेचनं प्रशंसन्ति व्रणेषु व्रणकोविदाः ।

G अपाकेषु तु रोगेषु कठिनेषु स्थिरेषु च ॥ ३३ ॥

संसृज्येत्यर्थः । उत्कारिकां = लप्सिकाऽऽकृतिम् । १ सैरण्डपत्रया एरण्डपत्रोपरिविन्यस्तया उष्णया तयोत्कारिकया शोफ नाहयेद् बध्नीयादित्यर्थः । २ हितं = हितकारि भोजनमि-त्यर्थः।श्रत्रोष्णानुषङ्गाद् भोजनमप्युष्णमेव वोध्यम् । तदुक्तं त्रणितोपासनीये " जीर्णशा-त्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् । भुञ्जानो जाङ्गलैर्मासैः शीघ्रं व्रणमपोहति ॥ " इति । ३ विस्रावणकर्म निर्दिशति - वेदनेत्यादिना । ४ अचिरोत्पतिते = तत्कालप्रा-दुर्भूते । ५ श्यामे = हरिद्वर्णे, ' त्रिषु श्यामौ हरिकृष्णौ ' इत्यमरः । सरक्ते = रक्त-वर्णे, वेदनावति = बहुवेदनायुक्ते । भूम्नि वतुप् । ६ संरब्धे = दाहरागसङ्कुले, विशा-लमूले इति डल्हणः । विषमे नतोन्नत त्यर्थः । ७ पदैः = प्रच्छानैरित्यर्थः । ८ स्ने-हपानविषयं दर्शयति - सोपद्रवाणामिति । सोपद्रवाणां = वेपथुपक्षवधादियुक्ताना-मित्यर्थः, न तु गन्धवर्णस्राव वेदनाऽऽकृतीनां पञ्चत्रणोपद्रवाणाम् । ९ वातादेर्यस्य यदात्मीयमौषधं तैरित्यर्थः । १० वमनविषयमभिधत्ते — उत्सन्नेति । उत्सन्नम् = उन्नतम् । ११ सङ्क्लिष्टं = दूषितम् । १२ प्रच्छर्दनं - वमनम् । १३ विरेचनविषयमभिदधाति - वातेत्यादिना । अत्र वातेन सहितं पित्तमिति समासो बोध्यः, न तु वातश्च पित्तं चेति । १४ छेदनवि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 668

सुश्रुत संहिता चौखम्बा, पृष्ठ 668 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सुश्रुतसंहितायां-५१० Digitized by Arya Samaj Foundation Chennai and eGangotri

स्नायुकोथादिषु तथा छेदनं प्राप्तमुच्यते ।

अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्स्वपि ॥ ३४ ॥

गतिमत्सु च रोगेषु ' भेदनं प्राप्तमुच्यते ।

बालवृद्धासहक्षीरणभीरूणां योषितामपि ॥ ३५ ॥

मर्मोपरि च जातेषु रोगेषूक्तेषु दारणम् ।

सुँपक्वे पिण्डिते शोफे पीडनैरुपपीडिते ॥ ३६ ॥

पाकोद्वृत्तेषु दोषेषु तत्तु कार्यं विजानता ।

सुपिष्टैर्दारणद्रव्यैर्युक्तः क्षारेण वा पुनः ॥ ३७ ॥

कठिनान् स्थूलवृत्तौष्ठान् दीर्यमाणान पुनः पुनः ।

कठिनोत्सन्नमांसांच " लेखनेनाचरेद्भिषक् ॥ ३८ ॥

समं.19 लिखेत् सुलिखितं लिखेन्निरवशेषतः । [ अ ० १ वर्त्मनां तु प्रमाणेन समं शस्त्रेण निर्लिखेत् ॥ ३ ९ ॥ षयमाख्याति - अपाकेष्विति । अत्र नम् शब्दस्योभयार्थकत्वेन अपाकेषु पाकशून्येषु अधिमासादिषु, अथवा ईषत्पाकेषु वल्मीकादिष्वित्यर्थो बोद्धव्यः । १ कोथ: - -पूतिभावः, आदिशब्दात् सिराधमन्यादिसङ्ग्रहः । २ प्राप्तं युक्तमिति पर्यायौ । ३ भेदनविषयमभिदधाति- अन्तः पूयेष्विति । श्रवक्त्रेषु = वक्त्ररहितेषु ईषद-क्त्रेषु चेत्यर्थः, नञ्शब्दस्योभयार्थकत्वात् । ४ रोगेषु = व्रणेषु । ५ दारणविषयं निर्दिशति -- बालेति । असहाः = स्वभावेनैवासहिष्णवः । ६ दारणीयावस्थाम-भिधत्ते – सुपक्क इति । पिण्डिते = संहतपूयत्वेन पिण्डाकारत्वमापन्ने, पीडनैः = पीडनीयौषधैः । ७ पाकोद्वृत्तेषु = पाकमतिक्रान्तेषु, अत्यन्तं परिपक्वेष्विति तात्प-र्यम् । दारणद्रव्यैः = ‘ चिरबिल्वोऽग्निको दन्ती ” इत्यादिमिश्रकाध्यायोक्तैः । क्षारोऽत्र प्रतिसारणीयाख्यः । अस्य विधिरेकादशे क्षारपाकविध्यध्यायेऽवलोकनीयः । ९ भावप्रकाशे - " क्षारद्रव्यं तथा क्षारो दारणः परिकीर्तितः । हस्तिदन्तो जले पिष्टो बिन्दुमात्रप्रलेपितः । श्रत्यर्थं कठिने शोधे कथितो भेदनः परः ॥ ” इति । लेखनविषयं वर्णयति -- कठिनानिति । १० लेखनेन = दुष्टमांसापनयनार्थं रेखाकारि-शस्त्रानुशस्त्रोपयोगेनेत्यर्थः । ११ समम् = अखिलम्, अधिकमिति यावत् । ' समं साध्यखिलं सदृक् ' इति हेमचन्द्रः । लिखेत् कठिनानिति पूर्वेण सह योजना । एवमेत्र स्थूल वृत्तौष्ठान् सुलिखितम् श्रतिशयलिखितं लिखेत् । पुनः पुनः दीर्यमाणान् निरव-शेषतो मनागप्यपरिहार्य लिखेत् । कठिनोसन्नमांसान् वर्त्मनां प्रमाणेन समं लिखेत् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 669

सुश्रुत संहिता चौखम्बा, पृष्ठ 669 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] ' 1 क चकित्सास्थानम् । ५११ CC - 0. Gurukul Kangri Collection, Haridwar Digitized by Arya Samaj Foundation Chennai and eGangotri

क्षौमं ' प्लोतं पिचुं फेनं यावशूकं ससैन्धवम् ।

कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् ॥ ४० ॥

नाडीव्रणान् शल्यगर्भानुन्मार्ग्यत्सङ्गिनः शनैः ।

करीरबालाङ्गुलिभिरेषण्या वैषयेद्भिषक् ॥ ४१ ॥

नेत्रवर्त्मगुदाभ्यासँ नाड्योऽवक्त्राः सशोणिताः ।

चुच्चूपोदकजैः श्लक्ष्णैः करीरैरेषयेतु ताः ॥ ४२ ॥

संवृतासंवृतास्येषु व्रणेषु मतिमान् भिषक् ।

यथोक्तमाहरेच्छल्यं प्राप्तोद्धरणलक्षणम् ॥ ४३ ॥

रोगें व्यधनसाध्ये तु यथोद्देशं प्रमाणतः ।

शस्त्रं निदध्याद् दोषं च स्रावयेत् कीर्त्तितं यथा ॥ ४४ ॥

पाको द्रुता ये च मांसस्था वि ताश्च ये यथोक्त " सीवनं तेषु कार्यं सन्धानमेव च ॥ ४५ ॥

" पूयगर्भानणुद्वारान् व्रणान्मर्मगतानपि ।

" यथोक्तैः पीडनद्रव्यैः समन्तात् परिपीडयेत् ॥। ४६ ॥

१ क्षौमं क्षुमा अतसी तद्भवं वस्त्रम्, प्लोतं = शणजं वस्त्रम्, पिचु = कार्पासतू-लाम्, फेनं = समुद्रफेनम्, यावशुकं = यवक्षारम्, कर्कशानि पत्राणि = गोजी शे-फालिका शाकपत्र करीरादीनां शस्त्रावचारणीयाध्यायोक्तानि । २ एषणविषयं दर्शयति - नाडीति । ३ बालाः = शल्लकीशूकरादीनाम् । ४ अभ्यासः समीपम् । ५ आहरणविषयं निर्दिशति -- संवृतेति । ६ शल्या-पनयनीयोक्तं विधिमनतिक्रम्येति यथोक्तमित्यर्थः । ७ व्यधनस्रावणविषयं दर्शयति-रोग इति । रोगोऽत्र दकोदरमूत्रवृद्धयादिः । शारीरस्थानोक्त सिराव्यधविधावुद्दिष्टं विधि स्मारयति -- यथोद्देशमिति । तत्र दकोदरोदुद्दिष्टं प्रमाणमङ्गुष्ठोदरप्रमाणमव-गाढम् । विद्रध्यादिपु – " महत्स्वपि च पाकेषु द्वयङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्र-निपातनम् ” इति । अत्र श्लोके निदध्यादित्यन्तेन व्यधनम्, अवशिष्टेन च स्रावण-मिति उपक्रमद्वयमुक्तम् । ८ कीर्तितं = शोणितवर्णनीये सिराव्यधविधौ चोक्तम् । ९ सोवनसन्धानविषयमभिदधाति - अपाकोपद्रुता इति । न पाकेनोपद्रुता अपाकोपद्रुताः पाकोपद्रवरहिता इत्यर्थः । १० यथोक्तम् = अष्टविधशस्त्रकर्मीयाध्यायो-क्तम् । अत्राविशेषेऽपि महति व्रणे सीवनम् अलीयसि च सन्धानमित्यध्य व सेयमिति सुश्रुतार्थसन्दीपनम् । ११ पीडनविषयमाख्याति – पूयेति । १२ यथोक्तैः = मिश्र-

पृष्ठ 670

सुश्रुत संहिता चौखम्बा, पृष्ठ 670 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५१२ by Arya Samaj F ततं व्हिलायांiTand eGangotri [ अ ० १

शुष्यमाणमुपेक्षेत प्र॑दे॒हं पीडनं प्रति ।

न चाभिमुखमालिम्पेत्तथा दोष: २ प्रसिच्यते ॥ ४७ ॥

` तैस्तैर्निमित्तैबेहुधा शोणिते प्रस्रुते भृशम् ।

कार्यं यथोक्तं वैद्येन । शोणितास्थापनं भवेत् ॥ ४८ ॥

दाहपाकज्वरवतां व्रणानां पित्तकोपतः ।

रक्तेन चाभिभूतानां कार्यं निर्वापणं भवेत् ॥ ४ ९ ॥

यथोक्तैः शीतलद्रव्यैः क्षीरपिष्टैर्धृतप्लुतैः ।

दिह्यादबहलान् सेकान् सुशीतांश्चावचारयेत् ॥ ५० ॥

व्रणेषु क्षीणमांसेषु तनुत्राविष्वपाकिषु ।

तोदकाठिन्यपारुष्यशूलवेपथुमत्सु च ॥ ५१ ॥

वार्तघ्नवर्गेऽम्लगणे काकोल्यादिगणे तथा ।

स्नैहिकेषु च ' बीजेषु पचेदुत्कारिकां शुभाम् ॥ ५२ ॥

तेषां च स्वेदनं कार्यं स्थिराणां वेदनावताम् ।

" दुर्गन्धानां क्लेदवतां पिच्छिलानां विशेषतः ॥ ५३ ॥

कषायैः शोधनं कार्यं शोधनैः " प्रागुदीरितैः । काध्याये “ द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् " इत्याद्युक्तैरित्यर्थः । १ प्रदेहं = प्रलेपनम् । २ दोषः = पूयः, प्रसिच्यते = स्वयमेव प्रक्षरति । ३ शो-णितास्थापनं निर्दिशति - तैरिति । तैस्तैः - सिराच्छेदादिभिः । ४ यथोक्तं = शोणितवर्णनीयाध्यायोक्तम् । शोणितास्थापनं = रक्तातिप्रवृत्तिस्तम्भनमित्यर्थः । तच्च — सन्धानं स्कन्दनं चैव पाचनं दहनम् तथा " इति भेदाच्चतुर्विधम् । ५ निर्वापणविषयमभिधत्ते -- दाहेति । ६ यथोक्तैः = मिश्रकाध्यायोक्तद्र्वा -ऽऽदिभिः । श्रनेन श्लोकेन सेकलेपाविति निर्वापणद्वयमुक्तम् । ७ उत्कारिकाविषयं प्रतिपादयति -- त्रणेष्विति । वातन्नवर्गः - संशोधन संशमनीयाध्याये भद्रदारु-कुष्ठहरिद्रावरुणेत्यादिनोक्तः, अम्लवर्ग: - दाडिमादिः, काकोल्यादिगणः = द्रव्य सङ्ग्रह-णीयाध्याये काकोलोक्षीरकाकोलीत्यादिनोक्तः । ९ बीजेषु = तिलात सी सर्षपैरण्डा-दिवीजेष्वित्यर्थः । वातघ्नवर्गकाकोल्यादिगणस्नैहिकवीजानि समभागानि तच्चतुर्गुणम-ग्लानां गृहीत्वा नातिघनां नातिसान्द्रां पेयाऽनुकारिणीमुत्कारिकां पचेदिति ढल्हणः । १० शोधन कषायविषयं दर्शयति - दुर्गन्धानामिति । ११ प्रागुदीरितैः = मिश्र • CC - 0. Gurukul Kangri Collection, Haridwar