सुश्रुत संहिता चौखम्बा — पृष्ठ 671–680

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 671–680

पृष्ठ 671

सुश्रुत संहिता चौखम्बा, पृष्ठ 671 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by चिकित्सास्थानम् Chennai and eGangotri ५१३ अ॑न्तःशल्यानणुमुखान् गम्भीरान् मांससंश्रितान् ॥ ५४ ॥

शोधनेद्रव्ययुक्ताभिर्वर्त्तिभिस्तान् यथाक्रमम् ।

पूतिमांसप्रतिच्छन्नान् महादोषांश्च शोधयेत् ॥ ५५ ॥

कल्कीकृतैर्यथालाभं वर्त्तिद्रव्यैः पुंरोदितैः ।

पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान् ॥ ५६ ॥

कार्पासीफलमिश्रेण जयेच्छोधनसर्पिषा ।

उत्सन्नमांसानस्निग्धान स्रावान् व्रणांस्तथा ॥ ५७ ॥

सर्षपस्नेहयुक्तेन धीमांस्तैलेन शोधयेत् ।

तैलेन शुध्यमानानां शोधनीयां “ रसक्रियाम् ॥ ५८ ॥

व्रणानां स्थिरमांसानां कुर्य्याद् द्रव्यैरुदीरितैः " ।

कषाये विधिवत्तेषां १२ कृते चाधिश्रयेत् पुनः ॥ ५ ९ ॥

सुराष्ट्रजां " सकामीसां दद्याच्चापि मनःशिलाम् । काध्याये शङ्खिन्यङ्को ठसुमनःक ' वीरसुवर्चला इत्यादिनोक्तैः । १ शोधनवर्ति-विषयममिदधाति -- अन्तरिति । २ शोधनद्रव्यैः श्रजगन्धाऽजशृङ्गी च गवाक्षी लाङ्गलाह्वयेत्यादिभिश्रकाध्यायोक्तद्रव्यैः, युक्ताभिः वर्तिभिस्तान् व्रणान् शोधयेदिति शेषः। ३ पित्तदुष्टस्य दोषस्य सर्पिर्विषयत्वादत्र दोषपदेन वातकफौ ज्ञातव्यौ । ४ शोधनसर्पिर्विषयं तत्प्रयोगं च दर्शयति-- कल्कीति । ५ पुरोदितैः = मिश्र. कोक्तैः। ६ शोधनद्रव्यैः कासीसाजगन्धादिभिः सिद्धेन सर्पिषेत्यर्थः । यावन्ति कासी साजगन्धादीनि शोधनद्रव्याणि तावन्मात्रं कार्पासफलम् । एतान्येकी कृत्य कल्कचतुर्गुणं घृतं, घृतचतुर्गुणं जलं च गृहीत्वा घृतं साधनीयमिति निबन्ध-सङ्ग्रहव्याख्याकारः । ७ शोधनतैलविषयं तत्प्रयोगं च दर्शयति- उत्सन्नेति । ८ सर्षपस्नैहयुक्तेन = अधिकसर्षपतैलान्वितेन, तैलेन - तिलतैलेन मिश्र कोक्तकासी सादिपूयादिशोधनद्रव्यसि-द्धेन मयूरकादिसिद्धेन वेति शेषः । ९ शोधनरसक्रियाविषयं तत्प्रयोगं चाभिपत्ते - तैलेने-ति । १० रसक्रियाकल्पना विधिरित्थम् - द्रव्यापेक्षयाऽष्टगुणं षोडशगुणं वा जलं दत्त्वाऽष्ट-· भागावशेषः षोडशभागावशेषो वा क्वाथः कतव्यः । ततः पूतं कषायं पुनस्तावत्पचेद्यावत् फाणिताकृतिः स्यादिति । ११ उदीरितैः = मिश्रकोक्तसालसारादिसारेष्वित्यादिभिर्द्रव्यैरि-त्यर्थः । १२ तेषां = सालसारादीनाम् । १३ सुर ष्ट्रजादीनि मात्र या षोडशांशानि चूि तानि शेषकषायपादे कषायस्य पुनः पाकात् फाणितभावे सत्यावापयेत् । क्षौद्रमातुलु • ङ्गरसावार्द्रत्वसम्पादनार्थमेव ग्राह्यौ । ३२ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 672

सुश्रुत संहिता चौखम्बा, पृष्ठ 672 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५१४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri हरितालं च मतिमांस्ततस्तामवचारयेत् ॥ ६० ॥

मातुलुङ्गरसोपेतां सक्षौद्रामतिमर्दिताम् । [ अ ० १ व्रणेषु दत्त्वा तां तिष्ठेत् त्रींस्त्रींश्च दिवसान् परम् ॥ ६१ ॥

" मेदोजुष्टानगम्भीरान् दुर्गन्धांश्चूर्णशोधनैः ।

उपाचरेत् भिषक् प्राज्ञः श्लक्ष्णैः शोधनवर्तिजैः ॥ ६२ ॥

शुर्द्धंलक्षणयुक्तानां कषायं रोपणं हितम् ।

तत्र कार्यं यथोद्दिष्टैर्द्रव्यैर्वैद्येन जानता ॥ ६३ ॥

अवेदनानां शुद्धानां गम्भीराणां तथैव च ।

हिता रोपणवर्त्यङ्गकृता रोपवर्तयः ॥ ६४ ॥

पेतपूतिमांसानां मांसस्थानामरोहताम् ।

कल्कः संरोहणः कार्यंस्तिलजो मधुसंयुतः ॥ ६५ ॥

स माधुर्यात्तथौष्ण्याच्च स्नेहाच्चानिलनाशनः ।

कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तहृत् ॥ ६६ ॥

औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः ।

शोधयेद्रोपयेच्चापि युक्तः शोधनरोपणैः ॥ ६७ ॥

निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः ।

पूर्वाभ्यां सर्पिषा चापि युक्तश्चाप्युपरोपणः ॥ ६८ ॥

तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः ।

शमयेदविदग्धं च विदग्धमपि पाचयेत् ॥ ६ ९ ॥

१ शोधनचूर्णविषयं तत्प्रयोगं चाचष्टे -मेद इति । श्रगम्भीरान् = उत्तानानित्यर्थः । २ शोधनानि चूर्णानि चूर्णशोधनानि तैश्चूर्णशोधनैः कासीसादिभिरित्यर्थः । ३ शोध-नवतिजैः = अजगन्धाऽजशृङ्गी चेत्यादिभिः । ४ अशुद्ध व्रणस्य कषायादि चूर्णान्तानि शो -धनानि निर्दिश्य श्रधुना शुद्धस्य तानेव रोपणान्निर्दिशति - शुद्धेति । शुद्धलक्षणयुक्तानां व्रणानामित्यर्थः । शुद्धव्रणलक्षणं तु कृत्याकृत्यविध्यध्याये “ त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकीसमः " इत्यादिना श्रस्मिन्नेवाध्याये - " जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः ” इत्यादिना चोक्तम् । ५ यथोद्दिष्टैः = मिश्रकोक्तैर्वटादित्वगात्म-कैर्द्रव्यैरित्यर्थः । ६ रोपणवर्च्यङ्गैः मिश्रकोक्तसोमामृताश्वगन्धाकाकोल्यादिभिः कृतेत्यर्थः । ७ पूर्वाभ्यां = निम्बपत्र मधुभ्याम् । ८ अविदग्धम् = श्रमम्, विदग्धं = किञ्चित्पक्वम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 673

सुश्रुत संहिता चौखम्बा, पृष्ठ 673 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized चिकिश्ता थान in Chennai and eGangotri ५१५.

पक्वं भिनत्ति भिन्नं च शोधयेद्रोपयेत्तथा ।

पित्तरक्तविषागन्तून् गम्भीरानपि च व्रणान् ॥ ७० ॥

रोपयेद्रोपणीयेन क्षीरसिद्धेन सर्पिषा ।

कफवाताभिभूतानां व्रणानां मतिमान् भिषक् ॥ ७१ ॥

कारयेद्रोपणं तैलं भेपजैस्तद्यथोदितैः ।

अबन्ध्यानां चलस्थानां शुद्धानां च प्रदुष्यताम् ॥ ७२ ॥

द्विहरिद्रायुतां कुर्याद्रोपणार्थं रसक्रियाम् ।

समानां स्थिरमांसानां त्वक्स्थानां रोपणं भिषक् ॥ ७३ ॥

चूर्णं विदध्यान्मतिमान् प्रौक्स्थानोक्तो विधिर्यथा ।

शोधनो रोपणश्चैव विधिर्योऽयं प्रकीर्त्तितः ॥ ७४ ॥

सर्वत्रैणानां सामान्येनोक्तो दोषाविशेषतः ।

एष आगमसिद्धत्वात्तथैव फलदर्शनात् ॥ ७५ ॥

मन्त्रवत् सम्प्रयोक्तव्यो न मीमांस्यः कथञ्चन ।

स्वबुद्ध्या चापि विभजेत् कषायादिषु सप्तसु ॥ ७६ ॥

भेषजानि यथायोगं यान्युक्तानि पुरा मया ।

औद्ये द्वे पञ्चमूल्यौ तु गणौ यश्चानिलापहः ॥ ७७ ॥

१ रोपणीयेन = पृथक्पर्ण्यात्मगुप्ता चेत्यादिमिश्र काध्यायोक्तेनेत्यर्थः । २ यथो-दितैः = मिश्र काध्याये कालानुसार्या गुरुणीत्याद्युक्तैः । ३ रोपणरसक्रियाविषयान् प्रयोगं च प्रतिपादयति — अबन्ध्यानामिति । अब-न्ध्यानां = पित्तरक्तविषाभिघातादीनां बन्धनानर्हाणाम्, चलस्थानां = चेष्टावत्सन्धिजा-नाम्, प्रदुष्यतां = दुष्टिमापद्यमानानाम् । रोपणार्थं त्वन्तु न्यग्रोधवर्गस्येत्यादिमिश्र-काध्यायोक्ताम्, रसक्रिया, अत्र कल्पना - न्यग्रोधादिवर्गस्य त्रिफलायाश्च द्रव्यापेक्ष-याऽष्टगुणे चतुर्गुणे वाऽम्भस्यष्टभागावशिष्टे चतुर्भागावशिष्टे वा कषायं पुनरधिसृत्य फा-णितीभावेऽवशिष्टकषायपादमात्रया हरिद्राद्वयचूर्णं प्रक्षिप्य सुमर्दितां मधुयुतामवचार-येत् । अत्र शोधनरसक्रियावत् कलावधिर्नास्त्येव यावत्रणरोपणमेव कार्येति डल्द्दणः । ४ रोपणचूर्णेविषयान् दर्शयति- समानामिति । ५ प्राक् सूत्रस्थाने उक्त इति प्राक्स्थानोक्तः, विधिः = प्रकारः, स च चूर्णविधानप्रकारो मिश्रकाध्याये " कङ्गुका त्रिकला रोधं कासीसं श्रवणाह्वया " इत्यादिना निर्दिष्टः । ६ सर्वव्रणानां = शारीरागन्तूनाम् । ७ श्रागमसिद्धत्वात् = शास्त्रप्रसिद्धत्वात् । ८ विभजेत् = न्यूनाधिक्यं कुर्यादित्यर्थः । ९ उक्त-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 674

सुश्रुत संहिता चौखम्बा, पृष्ठ 674 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५१६ by Arya Samaj सुश्रुतसंहितायां and eGangotri स वातदुष्टे दातव्यः कषायादिषु सप्तसु । [ अ ० १ न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यः स्मृतः ॥ ७८ ॥

तौ पित्तदुष्टे दातव्यौ कषायादिषु सप्तसु ।

आरग्वधादिस्तु गणो यश्चष्णः परिकीर्त्तितः ॥ ७ ९ ॥

तौ देयौ कफदुष्टे तु, संसृष्टे संयुता गणाः ।

वातात्मकानुग्ररुजान् मास्रावानपि च ब्रणान् ॥। ८० ॥

सक्षौमयवसर्पिर्भिर्धूपनाङ्गैश्च धूपयेत् ।

परिशुष्काल्पमांसानां गम्भीराणां तथैव च ॥। ८१ ॥

कुर्यादुत्सादनीयानि सर्पंष्यालेपनानि च ।

मांसाशिनां च मांसानि भक्षयेद्विधिवन्नरः ॥ ८२ ॥

विशुद्धमनसस्तस्य मांसं मांसेन वर्द्धते ।

उत्सन्नमृदुमांसानां व्रणानामवसादनम् ॥ ८३ ॥

कुर्याद् द्रव्यैर्यथोद्दिष्टैश्चूर्णितै ना सह ।

कठिनानाममांसानां दुष्टानां मातरिश्वना ॥ ८४ ॥

मृद्वी क्रिया विधातत्र्या शोणितं चापि मोक्षयेत् ।

वार्तघ्नौषधसंयुक्तान् स्नेहान् सेकांश्च कारयेत् ॥ ८५ ॥

शोधनरोपणविषयं प्रपन्चेनावगमयति - आद्य इति । १ उष्णः उष्णवीर्यः कफघ्ना मुष्ककादिः सुरसाऽऽदिर्वा । २ धूपन विषयमभिदधाति -वातेति । ३ धूपनाङ्गैः = मिश्रकोक्तैः “ श्रीवेष्टके सर्जरसे सरले देवदारुणि " इत्यादिभिः । ४ उत्सादनविषयमभिदधाति - परीति । परिशुष्काल्प मांसानामित्यनेन वातात्मकत्वं गम्भीराणामित्यनेन रक्तपित्तात्मकरवं चोक्तम् । उत्सादनीयानि = मिश्रकाध्यायोक्तानि " अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला ” इत्यादीनि मांसवर्धनीयानि द्रव्याणि । ५ श्राभ्यन्तरमुत्सादनं ब्रवीति - मांसाशिनामिति । मांसाशिनां = व्याघ्रादीनाम् । . चरकेऽपि - " सिंहानृक्षांस्तरक्षूंश्च व्याघ्रानेवंविधांस्तथा । मांसादान् मृगशब्देन दद्यान्मां-साभिवृद्धये ॥ ” इति । ६ अवसादनषियमभिधत्ते - उत्सन्नेति । उत्सन्नमुद्धृतं मृदु · मांसं येषां ते तेषाम् । अवसादनम् = उन्नतव्रणस्य निम्नत्वसम्पादनं मांसस्फोटनं वा । ७ यथोद्दिष्टेः = मिश्रकोदितै: ' कासीस सैन्धव किण्वं कुरुविन्दो मनःशिला " इत्यादिभिः । -मृदुकर्मविषयमभिधत्ते - कठिनानामिति । ९ वातघ्नौषधैः भद्रदार्वादिभिः CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 675

सुश्रुत संहिता चौखम्बा, पृष्ठ 675 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by A चिकित्सास्थानम् phennai and eGangotri ५१७

व्रणेषु मृदुमांसेषु दारुणीकरणं हितम् ।

धवप्रियङ्ग्वशोकानां रोहिण्याश्च त्वचस्तथा ॥ ८६ ॥

त्रिफलाधातकीपुष्परोध्रसर्जरसान् समान् ।

कृत्वा सूक्ष्माणि चूर्णानि व्रणं तैरवचूर्णयेत् ॥ ८७ ॥

उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान् ।

तथैव खलु दुःशोध्याञ् शोधयेत् क्षारकर्मणा ॥ ८८ ॥

स्रवतोऽश्मभवान्मूत्रं ये चान्ये रक्तवाहिनः ।

निःशेषैच्छिन्नसन्धींश्च साधयेदग्निकर्मणा ॥ ८ ९ ॥

दुरूढत्वात्तु शुक्लानां कृष्णकर्म हितं भवेत् ।

भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्रभावितान् ।

ततो द्विधा छेदयित्वा लौहे कुम्भे निधापयेत् ॥ ९ ० ॥

कुम्भेऽन्यस्मिन् निखाते तु तं कुम्भमथ योजयेत् ।

मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः ॥ ९ १ ॥

यः स्नेहश्चयवते तस्माद् ग्राहयेत्तं शनैर्भिषक् ।

ग्राम्यानूपशफान् दग्ध्वा सूक्ष्मचूर्णानि कारयेत् ॥ ९ २ ॥

तैलेनानेन संसृष्टं शुक्लमालेपयेद् व्रणम् । संशोधनसंशमनीयाध्यायोक्तैः संयुक्तान् संसिद्धान् । १ दारुणकर्मविषयं दर्शयति— व्रणेष्विति । प्राग् गम्भीराणामुत्सन्नमृदुमांसानां चोत्साद्यत्वेनावसाथत्वेन चोपदेशा-रद् विधिरयं समतलमृदुमांसविषय इति बोध्यम् । दारुणीकरणं = कठिनीकरणम् । २ रोहिण्याः = कटुतुम्ब्याः । ३ क्षारविषयमभिधत्ते — उत्सन्नेति । ४ श्रग्निकर्मविषयं निर्दिशति स्रवत इति । मूत्रं स्रवत इति सम्बन्धः । श्रश्मभवान् = अश्मरोहरणार्थं कृतान् । ५ निः. शेषं छिन्नाः सन्धानभूमयो येषां ते तान् । ६ अधुना रूढस्य शुक्लस्यैव व्रणस्य प्रकृतिभावार्थं कृष्णीकरणविषयान् प्रयोगं च प्रतिपादयति – दुरूढत्वादिति । शुक्लानां शुक्लवर्णमापन्नानां व्रणानां कृष्ण-. कर्म कृष्णीकरणं हितं भवेत् । पूर्वं भल्लातकान् भल्लातकफलानि सप्तमरात्रं मूत्र-मावितान् रात्रौ गोमूत्रभावितानि कृत्वा " दिवा दिवातपे शुष्कं रात्रौ रात्रौ निवास-येत् " इत्युक्त्या दिवा च आतपे शुष्काणि कृत्वा क्षीरे गोः क्षीरे बासयेत् स्थापयेत् । ततो भल्लातकफलानि द्विधा छेदयित्वा छेदनं विधाय लौहे कुम्भे स्थापयेत् । अथ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 676

सुश्रुत संहिता चौखम्बा, पृष्ठ 676 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५१८ [ अ ० १ Digitized by Arya Samaj | सुश्रुतसंहितायां ande Gangotri भल्लातकविधानेन सारस्नेहांस्तु कारयेत् ॥ ९ ३ ॥

ये च केचित् फलस्नेहा विधानं तेषु पूर्ववत् ।

दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत् ॥ ९ ४ ॥

सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम् ।

तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं हितम् ॥ ९ ५ ॥

नवं कँपालिकाचूर्णं वैदुलं सर्जनाम च ।

कासीसं मधुकं चैव क्षौद्रयुक्तं प्रलेपयेत् ॥ ९ ६ ॥

कपित्थमुद्धृते मांसे मूत्रेणाजेन पूरयेत् ।

कासीसं रोचनां । तुत्थं हरितालं मनःशिलाम् ॥ ९ ७ ॥

वेणुनिर्लेखनं चापि प्रपुन्नाडरसाञ्जनम् ।

अधस्तादर्जुर्नस्यैतन्मासं भूमौ निधापयेत् ॥ ९ ८ ॥

मासादूर्ध्वं ततस्तेन कृष्णमालेपयेद् व्रणम् ।

कुक्कुटाण्डकपालानि कतकं मधुकं समम् ॥ ९९ ॥

' अन्यस्मिन् कुम्भे निखाते खनित्वा स्थापिते तं निहित भल्लातकफलं लौहकुम्भं योज. येत् । ततो मुखेन शरावमुखेन मुखं तल्लौहकुम्भमुखं सन्धाय कृष्णमृत्तिकाभिः संयो · जनं विधाय गोमयैर्दाहयेत् । तस्माद् यः स्नेहस्तैलं च्यवते पतति तं भिषग् वैद्यः शनैः ग्राद्दयेत् सुनिगुप्तं निधापयेदित्यर्थः । अत्र मृन्मयः कुम्भश्चेत्तं निःसृतभल्लातकस्नेह-शोषदुष्टिभयात् स्नेह्रभावितं कर्तव्यमिति विशेषोऽवसेयः । ग्राम्यानूपशफान् = अश्व • महिष । दिखुरानित्यर्थः । ' शफं क्लीवे खुरः पुमान् ' इत्यमरोक्त्या पुंस्त्वमार्षम् 1 । १ सारस्नेइफलस्नेहयोरपि विधिमिममतिदिशति - भल्लातकेति । सारः = देवदार्वादिः, कारयेत् = तत्तद्दग्धशफयोगेन स्नेहं कारयेदित्यर्थः । केचित् = पिण्डितक • विभीतकादयः फलस्नेहास्तेषु पूर्ववद् विधानं कारयेदिति पूर्वेणान्वयः । २ अथ कृष्णानां पाण्डुकर्मणा सवर्णताकारकत्वमाह - दुरूढत्वादिति । कृष्णा-नां = कृ'णवर्णमापन्नानाम् । ३ रोहिणी = कटुतुम्बी, ' वृत्ता सा रोहिणी स्मृता ' इति लक्षणाद् रोहिणी हरीतकीभेदो वा । ४ कपालिका चूर्णं = मृन्मयभाण्डखण्डम्, वैदु · लं = वेतसचूर्णम्, सर्जनाम = सालवृक्षमूलम् । ५ मधुकं = ' मुलहटी ' इति ख्यातम् । ६ मांससदृशत्वाद् मांसे आभ्यन्तरेऽवयवे ‘ गिरि ' इति ख्याते उद्घृते कपित्थक-पालम् । तम् श्राजेन मूत्रेण कासीसादिभिश्च पूरयेत् । रोचना = गोरोचना | ७ वेणु-निर्लेखनं = तक्षित्वोद्धृता वंशस्वमित्यर्थः । प्रपुन्नाडं = चक्रमर्दबीजम् । अर्जुन. -स्य = एतन्नाम्ना | प्रसिद्धस्य वृक्षस्येत्यर्थः । ९ कतकं = ' निर्मली ' इति ख्यातम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 677

सुश्रुत संहिता चौखम्बा, पृष्ठ 677 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized undation Chennai and eGangotri by Ar चिकिस्सास्थानम् ५१ ९

तथा समुद्रमण्डूकी मणिचूर्णं च दापयेत् ।

गुटिका मूत्रपिष्टास्ता व्रणानां प्रतिसारणम् ॥ १०० ॥

हस्तिदन्तमसीं कृत्वा मुख्यं चैव रसाञ्जनम् ।

रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि ॥ १०१ ॥

चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना ।

तैलाक्ता चूर्णिता भूमिर्भवेद्रोमवती पुनः ॥ १०२ ॥

कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत् ।

कपित्थरसपिष्टानि रोमसञ्जननं परम् ॥ १०३ ॥

रोमाकीर्णो व्रणो यस्तु न सम्यगुपरोहति ।

क्षुरकर्तरिसन्दंशैस्तस्य रोमाणि निर्हरेत् ॥ १०४ ॥

शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम् ।

शुक्तेन सह पिष्टानि लोमशातनमुत्तमम् ॥ १०५ ॥

तैलं भल्लातकस्याथ म्नुहोक्षीरं तथैव च ।

प्रगृह्यैकत्र मतिमान् रोमशातनमुत्तमम् ॥ १०६ ॥

कदलीदीर्घवृन्ताभ्यां भस्मालं लवणं शमी- ।

बीजं शीतोदपिष्टं वा रोमशातनमाचरेत् ॥ १०७ ॥

आगारंगोधिकापुच्छं रम्भाऽऽलं बीजमैङ्गुदम् ।

दुग्ध्वा तद्भस्मतैलम्बु सूर्यपक्कं कचान्तकृत् ॥ १०८ ॥

" वातदुष्टो व्रणो यस्तु रूक्षश्चात्यर्थवेदनः । ५१_ अधः काये विशेषेण तत्र " बेस्तिर्विधीयते ॥ १० ९ ॥ १ समुद्रमण्डूकी = शुक्तिः, मणिः = स्फटिकादिः । २ रोमसञ्जननं निर्दिशति - हस्तीति । हस्तिदन्तं भस्मीकृत्य रसाञ्जनेन ' अजा-क्षीरसहितेन ' इति शेषः । ३ नक्तमालस्य = करञ्जस्य, पल्लवान् = कोमलपत्राणी-त्यर्थः । रो-। ४ शस्त्रकृतं रोमशातनं दर्शयति = रोमाकीर्ण इति ५ सन्दंशः-मापहरणो यन्त्रभेदः । ६ औषधकृतं रोमशातनमभिधत्ते – शङ्खति । ७ शुक्तेन = काञ्जिकेन । ८ दीर्घवृन्तः = श्योनाकः, श्रालं = हरितालम् । ९ आगारगोधिका = गृहगोधिका, ब्राह्मणीति यावत्, यस्याः शरीरे रक्तता भवति तत्पुच्छमित्यर्थः । १० समं तैलं जलं च तावतैव परिमाणेन प्रदेयं यावता सर्वस्यार्द्रता स्यात् । ११ बस्तिविषयं ब्रवीति - वातेति । १२ बस्तिः = ' पिचकारी ' स चात्र निरूहः ' CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 678

सुश्रुत संहिता चौखम्बा, पृष्ठ 678 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२० Digitized by Arya Sam सुश्रुतसंहिता aand eGangotri [ अ ० १

मूत्राघाते मूत्रदोषे शुक्रदोषेऽश्मरीत्रणे ।

तथैवार्तवदोषे च बस्तिरप्युत्तरो हितः ॥ ११० ॥

यस्माच्छ्रुध्यति बन्धेन ब्रणो याति च मार्दवम् ।

रोहत्यपि च निःशङ्कस्तस्माद् बन्धो विधीयते ॥ १११ ॥

स्थिरौणामल्पमांसानां रौक्ष्यादनुपरोहताम् ।

पत्रदानं भवेत् कार्यं यथादोषं यथर्त्तु च ॥ ११२ ॥

एरण्डभूर्ज पूतीकरिद्राणां तु वातजे ।

पत्रमाश्वर्बलं यच्च काश्मरीपत्रमेव च ॥ ११३ ॥

पत्राणि क्षीरवृक्षाणामौकानि तथैव च ।

दूषिते रक्तपित्ताभ्यां व्रणे दद्याद्विचक्षणः ॥ ११४ ॥

पाठामूर्वागुडूचीनां काकमाचीहरिद्रयोः ।

पत्रं च शुर्कनासाया योजयेत् कफजे व्रणे ॥ ११५ ॥

' अकर्कशमविच्छिन्नमजीर्णं सुकुमारकम् ।

अजन्तुजग्धं मृदु च पत्रं गुणवदुच्यते ॥ ११३ ॥

' स्नेहमौषधसारं च पट्टः पत्रान्तरीकृतः ।

नादत्ते यत्ततः पत्रं लेपस्योपरि दापयेत् ॥ ११७ ॥

स्नैदिकश्च बोध्यः । “ बस्तिद्विधाऽनुवासाख्यो निरूहश्च ततः परः । यः स्नेहैदीयते स स्यादनुवासननामकः ॥ कषायक्षीरतैलैयों निरूहः स निगद्यते । बस्तिभिर्दीयते यस्मात् तस्माद्वस्तिरिति स्मृतः ॥ ” इति । १ उत्तरबस्तिविषयं प्रतिपादयति - मूत्रा -घात इति । २ व्रणबन्धकरणे कारणमाह - यस्मादिति । ३ निर्गता निर्घात-मक्षिकादिपतनानां शङ्का यस्मिन् सः निःशङ्कः । तस्मात्कारणाद् बन्धो विधीयते व्रणालेपनबन्धविध्यध्यायोक्तेन विधिनेति शेषः । ४ पत्रदानविषयं प्रतिपादयति- स्थिराणामिति । ५ दोषानुसारेण पत्र-विशेषं दर्शयति — एरण्डेति । भूर्जशब्देनात्र पत्रसाम्याद् मृदुत्वादिगुणयोगाच्च भूर्जपत्रत्खगेवाभिप्रेयते । ६ अश्वबला उपोदिका तस्या इदमाश्वबलम्, काश्मरी = गम्भारी ८ कफजन्यत्रणे पत्रदानमाह-॥ ७ औदकानि = कुमुदादिपत्राणि । पाठेति । ९ शुकनासायाः = श्योनाकस्य, शुकनासाचर्मकारवट इति डल्हणः । १० या-। दृशानि पत्राणि बन्धने गुणवन्ति भवन्ति तानि निर्दिशति - अकर्कशमिति । ११ पत्र CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 679

सुश्रुत संहिता चौखम्बा, पृष्ठ 679 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १ ] Digitized by Arya ईम्पिक्रित्सास्थान erai and eGangotri

शैत्यौ॰यंजननार्थाय स्नेहसङ्ग्रहणाय च ।

दत्तौषधेषु दातव्यं पत्रं वैद्येन जानता ॥ ११८ ॥

मक्षिको व्रणमागत्य निःक्षिपन्ति यदा कृमीन् ।

श्वयथुर्भक्षिते तैस्तु जायते भृशदारुणः ॥ ११ ९ ॥

तीव्रा रुजो विचित्राश्च रक्तास्रावश्च जायते ।

सुरसाऽऽदिर्हितस्तत्र धावने पूरणे तथा ॥ १२० ॥

सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः ।

हिता गोमूत्रपिष्टाश्च सेकः क्षौरोदकेन वा ॥ १२१ ॥

प्रच्छाद्य मांसपेश्या च कृमीनपहरेद् व्रणात् ।

विंशतिं कृमिजातीस्तु वक्ष्याम्युपरि भागशः ॥ १२२ ॥

" दीर्घकालातुराणां तु कृशानां व्रणशोषिणाम् ।

" बृंहणीयो विधिः सर्वः कायाग्निं परिरक्षता ॥ १२३ ॥

" विषजुष्टस्य विज्ञानं विषनिश्चयमेव च । ५२१ चिकित्सतं च वक्ष्मामि कल्पे तु प्रतिभागशः ॥ १२४ ॥

कण्डूमन्तः " सशोफाश्च ये च जत्रूपरि व्रणाः ।

शिरोविरेचनं तेषु विदध्यात् कुशलो भिषक् ॥ १२५ ॥

दानप्रयोजनं दर्शयति – स्नेहमिति । १ पित्तरक्तजन्यत्रणे शैत्यस्य वातकफज-न्यत्रणे · औष्ण्यस्य चोत्पादनार्थमित्यर्थः । २ दत्तौषधेषु ' व्रणेषु ' इति शेषः । ३ कृमिघ्नविषयं प्रतिपादयति - मक्षिकेति । ४ भक्षिते ' व्रणे ' इति शेषः । ५ विचित्रा: = तोददाहकण्डवादिनानारूपा रुज इत्यर्थः । ६ सुरसाऽऽदिः = द्रव्य-सङ्ग्रहणीयाध्यायोक्तः । ७ क्षारोदकेन - सप्तकृत्वः परिस्रुनेन पलाशादिक्षारजलेन, सेकः -- परिषेकः । ८ उपरि = उत्तरतन्त्रस्य कृमिप्रतिषेधीयाध्याये इत्यर्थः । R ९ बृंहणविषयमभिधत्ते - दीर्घेति । १० बृंहणीयः = मांसरसादि शरीरपुष्टिका-रको विधिरित्यर्थः । ११ विषघ्नविषयं निर्दिशति - विषेति । विषजुष्टस्यान्नपानादेः विज्ञानं लक्षणं स्थावरजङ्गमादिविषनिश्चयज्ञानं चिकित्सितं च प्रतिभागशः प्रत्येकं कल्पे कल्पस्थानॆ वक्ष्यामीत्यर्थः । १२ शिरोविरचनविषयं ब्रवीति — कण्डूमन्त इति । १३ शिरोविरेचनं = नस्यप्रभेदः, शिरोविरेचन - नस्य- कवलग्रह - धूमविधिरस्यैव स्थानस्य चत्वारिंशत्तमेऽध्याये वक्ष्यमाणः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 680

सुश्रुत संहिता चौखम्बा, पृष्ठ 680 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२२ Digitized by Arya Sama सुश्रुतसंहिताय d eGangotri

रुजावन्तोऽनिलाविष्टा रूक्षा ये चोर्ध्वजत्रुजाः ।

व्रणेषु तेषु कर्त्तव्यं नस्यं वैद्येन जानता ॥ १२६ ॥

दोषप्रच्यावनार्थाय रुजादाहृक्षयाय च ।

जिह्वादन्तसमुत्थस्य हरणाथ मलस्य च ॥ १२७ ॥

शोधनो रोपणश्चैव व्रणस्य मुखजस्य वै 1 [ अ ० १ उष्णो वा यदि वा शीतः कवलग्रह इष्यते ॥। १२८ ॥

' ऊर्ध्वजत्रुगतान् रोगान् व्रणांश्च कफवातजान् ।

शोफस्राव रुजायुक्तान धूमपानैरुपाचरेत् ॥ १२ ९ ॥

क्षतोष्मणो निग्रहार्थं सन्धानार्थं तथैव च ॥

सद्योव्रणेष्वायतेषु क्षौद्रसर्पिर्विधीयते ॥ १३० ॥

अर्वगाढास्त्वणुमुखा ये ब्रणाः शल्यपीडिताः ।

निवृत्तहस्तोद्धर्रणा यन्त्रं तेषु विधीयते ॥ १३१ ॥

लघुमात्रो " लघुश्चैव स्निग्ध उष्णोऽग्निदीपनः ।

सर्वंत्रणेभ्यो देयस्तु सदाऽऽहारो विजानता ॥ १३२ ॥

निशाचरेभ्यो " रक्ष्यस्तु नित्यमेव क्षतातुरः ।

" रक्षाविधानैरुद्दिष्टैर्यमैः सनियमैस्तथा ॥ १३३ ॥

१ नस्यविषयं प्रतिपादयति - रुजावन्त इति । २ कवलग्रहविषयं दर्शयति-दोषेति । त्रिफलाद्राक्षाऽऽदिकषायादिभिर्वातादिदोषप्रच्यावनार्थायेत्यर्थः । ३ शोध-नः = शोधनद्रव्य कृतः, रोपणः - रोपणद्रव्यकृतः । ४ उष्णः = वातकफजन्यत्रणे उष्ण इत्यर्थः शीतः = रक्तपित्तजन्यत्रणे शीत इत्यर्थः । ५ धूमविषयमभिदधाति — वेंति । ६ शोथस्रावरुजापहारकद्रव्याणां धूमपानैरित्यर्थः । ७ मधुसर्पिर्विषयमभिधत्ते - क्षतोष्ण इति । ८ यन्त्रविषयं दर्शयति - अव-गाढा इति । श्रवगाढाः श्रत्यन्तं गम्भीराः । ९ उद्धार्यतेऽनेनेत्युद्धरणं, निवृत्तं इस्ताभ्यामुद्धरणं यत्रेति निवृत्तहस्तोद्धरणाः हस्तेनाहर्तुमशक्याः । १० प्रसङ्गाद् आहारविषयमभिदधाति - लघुमात्र इति । लघुमात्रः = मात्रया लघुरित्यर्थः । विशे-षतस्तु व्रणितोपासनीयाध्याये द्रष्टव्यः । ११ विहारविषयं प्रतिपादयति - निशाचरेभ्य इति । १२ रक्षाविधानैः = धूपब-ल्युपहारादिवणितोपासनीयाध्यायोक्तैरित्यर्थः । यमाः = श्रहिंसाऽऽदयः पञ्च, तदुक्तम्— ' श्रहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । श्रस्तेयमिति पन्चैते यमा वै परिकीर्तिताः ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar