सुश्रुत संहिता चौखम्बा — पृष्ठ 671–680
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 671–680
पृष्ठ 671
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by चिकित्सास्थानम् Chennai and eGangotri ५१३ अ॑न्तःशल्यानणुमुखान् गम्भीरान् मांससंश्रितान् ॥ ५४ ॥
शोधनेद्रव्ययुक्ताभिर्वर्त्तिभिस्तान् यथाक्रमम् ।
पूतिमांसप्रतिच्छन्नान् महादोषांश्च शोधयेत् ॥ ५५ ॥
कल्कीकृतैर्यथालाभं वर्त्तिद्रव्यैः पुंरोदितैः ।
पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान् ॥ ५६ ॥
कार्पासीफलमिश्रेण जयेच्छोधनसर्पिषा ।
उत्सन्नमांसानस्निग्धान स्रावान् व्रणांस्तथा ॥ ५७ ॥
सर्षपस्नेहयुक्तेन धीमांस्तैलेन शोधयेत् ।
तैलेन शुध्यमानानां शोधनीयां “ रसक्रियाम् ॥ ५८ ॥
व्रणानां स्थिरमांसानां कुर्य्याद् द्रव्यैरुदीरितैः " ।
कषाये विधिवत्तेषां १२ कृते चाधिश्रयेत् पुनः ॥ ५ ९ ॥
सुराष्ट्रजां " सकामीसां दद्याच्चापि मनःशिलाम् । काध्याये शङ्खिन्यङ्को ठसुमनःक ' वीरसुवर्चला इत्यादिनोक्तैः । १ शोधनवर्ति-विषयममिदधाति -- अन्तरिति । २ शोधनद्रव्यैः श्रजगन्धाऽजशृङ्गी च गवाक्षी लाङ्गलाह्वयेत्यादिभिश्रकाध्यायोक्तद्रव्यैः, युक्ताभिः वर्तिभिस्तान् व्रणान् शोधयेदिति शेषः। ३ पित्तदुष्टस्य दोषस्य सर्पिर्विषयत्वादत्र दोषपदेन वातकफौ ज्ञातव्यौ । ४ शोधनसर्पिर्विषयं तत्प्रयोगं च दर्शयति-- कल्कीति । ५ पुरोदितैः = मिश्र. कोक्तैः। ६ शोधनद्रव्यैः कासीसाजगन्धादिभिः सिद्धेन सर्पिषेत्यर्थः । यावन्ति कासी साजगन्धादीनि शोधनद्रव्याणि तावन्मात्रं कार्पासफलम् । एतान्येकी कृत्य कल्कचतुर्गुणं घृतं, घृतचतुर्गुणं जलं च गृहीत्वा घृतं साधनीयमिति निबन्ध-सङ्ग्रहव्याख्याकारः । ७ शोधनतैलविषयं तत्प्रयोगं च दर्शयति- उत्सन्नेति । ८ सर्षपस्नैहयुक्तेन = अधिकसर्षपतैलान्वितेन, तैलेन - तिलतैलेन मिश्र कोक्तकासी सादिपूयादिशोधनद्रव्यसि-द्धेन मयूरकादिसिद्धेन वेति शेषः । ९ शोधनरसक्रियाविषयं तत्प्रयोगं चाभिपत्ते - तैलेने-ति । १० रसक्रियाकल्पना विधिरित्थम् - द्रव्यापेक्षयाऽष्टगुणं षोडशगुणं वा जलं दत्त्वाऽष्ट-· भागावशेषः षोडशभागावशेषो वा क्वाथः कतव्यः । ततः पूतं कषायं पुनस्तावत्पचेद्यावत् फाणिताकृतिः स्यादिति । ११ उदीरितैः = मिश्रकोक्तसालसारादिसारेष्वित्यादिभिर्द्रव्यैरि-त्यर्थः । १२ तेषां = सालसारादीनाम् । १३ सुर ष्ट्रजादीनि मात्र या षोडशांशानि चूि तानि शेषकषायपादे कषायस्य पुनः पाकात् फाणितभावे सत्यावापयेत् । क्षौद्रमातुलु • ङ्गरसावार्द्रत्वसम्पादनार्थमेव ग्राह्यौ । ३२ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 672
पाठ पढ़ें पाठ छिपाएँ
५१४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri हरितालं च मतिमांस्ततस्तामवचारयेत् ॥ ६० ॥
मातुलुङ्गरसोपेतां सक्षौद्रामतिमर्दिताम् । [ अ ० १ व्रणेषु दत्त्वा तां तिष्ठेत् त्रींस्त्रींश्च दिवसान् परम् ॥ ६१ ॥
" मेदोजुष्टानगम्भीरान् दुर्गन्धांश्चूर्णशोधनैः ।
उपाचरेत् भिषक् प्राज्ञः श्लक्ष्णैः शोधनवर्तिजैः ॥ ६२ ॥
शुर्द्धंलक्षणयुक्तानां कषायं रोपणं हितम् ।
तत्र कार्यं यथोद्दिष्टैर्द्रव्यैर्वैद्येन जानता ॥ ६३ ॥
अवेदनानां शुद्धानां गम्भीराणां तथैव च ।
हिता रोपणवर्त्यङ्गकृता रोपवर्तयः ॥ ६४ ॥
पेतपूतिमांसानां मांसस्थानामरोहताम् ।
कल्कः संरोहणः कार्यंस्तिलजो मधुसंयुतः ॥ ६५ ॥
स माधुर्यात्तथौष्ण्याच्च स्नेहाच्चानिलनाशनः ।
कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तहृत् ॥ ६६ ॥
औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः ।
शोधयेद्रोपयेच्चापि युक्तः शोधनरोपणैः ॥ ६७ ॥
निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः ।
पूर्वाभ्यां सर्पिषा चापि युक्तश्चाप्युपरोपणः ॥ ६८ ॥
तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः ।
शमयेदविदग्धं च विदग्धमपि पाचयेत् ॥ ६ ९ ॥
१ शोधनचूर्णविषयं तत्प्रयोगं चाचष्टे -मेद इति । श्रगम्भीरान् = उत्तानानित्यर्थः । २ शोधनानि चूर्णानि चूर्णशोधनानि तैश्चूर्णशोधनैः कासीसादिभिरित्यर्थः । ३ शोध-नवतिजैः = अजगन्धाऽजशृङ्गी चेत्यादिभिः । ४ अशुद्ध व्रणस्य कषायादि चूर्णान्तानि शो -धनानि निर्दिश्य श्रधुना शुद्धस्य तानेव रोपणान्निर्दिशति - शुद्धेति । शुद्धलक्षणयुक्तानां व्रणानामित्यर्थः । शुद्धव्रणलक्षणं तु कृत्याकृत्यविध्यध्याये “ त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकीसमः " इत्यादिना श्रस्मिन्नेवाध्याये - " जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः ” इत्यादिना चोक्तम् । ५ यथोद्दिष्टैः = मिश्रकोक्तैर्वटादित्वगात्म-कैर्द्रव्यैरित्यर्थः । ६ रोपणवर्च्यङ्गैः मिश्रकोक्तसोमामृताश्वगन्धाकाकोल्यादिभिः कृतेत्यर्थः । ७ पूर्वाभ्यां = निम्बपत्र मधुभ्याम् । ८ अविदग्धम् = श्रमम्, विदग्धं = किञ्चित्पक्वम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 673
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized चिकिश्ता थान in Chennai and eGangotri ५१५.
पक्वं भिनत्ति भिन्नं च शोधयेद्रोपयेत्तथा ।
पित्तरक्तविषागन्तून् गम्भीरानपि च व्रणान् ॥ ७० ॥
रोपयेद्रोपणीयेन क्षीरसिद्धेन सर्पिषा ।
कफवाताभिभूतानां व्रणानां मतिमान् भिषक् ॥ ७१ ॥
कारयेद्रोपणं तैलं भेपजैस्तद्यथोदितैः ।
अबन्ध्यानां चलस्थानां शुद्धानां च प्रदुष्यताम् ॥ ७२ ॥
द्विहरिद्रायुतां कुर्याद्रोपणार्थं रसक्रियाम् ।
समानां स्थिरमांसानां त्वक्स्थानां रोपणं भिषक् ॥ ७३ ॥
चूर्णं विदध्यान्मतिमान् प्रौक्स्थानोक्तो विधिर्यथा ।
शोधनो रोपणश्चैव विधिर्योऽयं प्रकीर्त्तितः ॥ ७४ ॥
सर्वत्रैणानां सामान्येनोक्तो दोषाविशेषतः ।
एष आगमसिद्धत्वात्तथैव फलदर्शनात् ॥ ७५ ॥
मन्त्रवत् सम्प्रयोक्तव्यो न मीमांस्यः कथञ्चन ।
स्वबुद्ध्या चापि विभजेत् कषायादिषु सप्तसु ॥ ७६ ॥
भेषजानि यथायोगं यान्युक्तानि पुरा मया ।
औद्ये द्वे पञ्चमूल्यौ तु गणौ यश्चानिलापहः ॥ ७७ ॥
१ रोपणीयेन = पृथक्पर्ण्यात्मगुप्ता चेत्यादिमिश्र काध्यायोक्तेनेत्यर्थः । २ यथो-दितैः = मिश्र काध्याये कालानुसार्या गुरुणीत्याद्युक्तैः । ३ रोपणरसक्रियाविषयान् प्रयोगं च प्रतिपादयति — अबन्ध्यानामिति । अब-न्ध्यानां = पित्तरक्तविषाभिघातादीनां बन्धनानर्हाणाम्, चलस्थानां = चेष्टावत्सन्धिजा-नाम्, प्रदुष्यतां = दुष्टिमापद्यमानानाम् । रोपणार्थं त्वन्तु न्यग्रोधवर्गस्येत्यादिमिश्र-काध्यायोक्ताम्, रसक्रिया, अत्र कल्पना - न्यग्रोधादिवर्गस्य त्रिफलायाश्च द्रव्यापेक्ष-याऽष्टगुणे चतुर्गुणे वाऽम्भस्यष्टभागावशिष्टे चतुर्भागावशिष्टे वा कषायं पुनरधिसृत्य फा-णितीभावेऽवशिष्टकषायपादमात्रया हरिद्राद्वयचूर्णं प्रक्षिप्य सुमर्दितां मधुयुतामवचार-येत् । अत्र शोधनरसक्रियावत् कलावधिर्नास्त्येव यावत्रणरोपणमेव कार्येति डल्द्दणः । ४ रोपणचूर्णेविषयान् दर्शयति- समानामिति । ५ प्राक् सूत्रस्थाने उक्त इति प्राक्स्थानोक्तः, विधिः = प्रकारः, स च चूर्णविधानप्रकारो मिश्रकाध्याये " कङ्गुका त्रिकला रोधं कासीसं श्रवणाह्वया " इत्यादिना निर्दिष्टः । ६ सर्वव्रणानां = शारीरागन्तूनाम् । ७ श्रागमसिद्धत्वात् = शास्त्रप्रसिद्धत्वात् । ८ विभजेत् = न्यूनाधिक्यं कुर्यादित्यर्थः । ९ उक्त-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 674
पाठ पढ़ें पाठ छिपाएँ
५१६ by Arya Samaj सुश्रुतसंहितायां and eGangotri स वातदुष्टे दातव्यः कषायादिषु सप्तसु । [ अ ० १ न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यः स्मृतः ॥ ७८ ॥
तौ पित्तदुष्टे दातव्यौ कषायादिषु सप्तसु ।
आरग्वधादिस्तु गणो यश्चष्णः परिकीर्त्तितः ॥ ७ ९ ॥
तौ देयौ कफदुष्टे तु, संसृष्टे संयुता गणाः ।
वातात्मकानुग्ररुजान् मास्रावानपि च ब्रणान् ॥। ८० ॥
सक्षौमयवसर्पिर्भिर्धूपनाङ्गैश्च धूपयेत् ।
परिशुष्काल्पमांसानां गम्भीराणां तथैव च ॥। ८१ ॥
कुर्यादुत्सादनीयानि सर्पंष्यालेपनानि च ।
मांसाशिनां च मांसानि भक्षयेद्विधिवन्नरः ॥ ८२ ॥
विशुद्धमनसस्तस्य मांसं मांसेन वर्द्धते ।
उत्सन्नमृदुमांसानां व्रणानामवसादनम् ॥ ८३ ॥
कुर्याद् द्रव्यैर्यथोद्दिष्टैश्चूर्णितै ना सह ।
कठिनानाममांसानां दुष्टानां मातरिश्वना ॥ ८४ ॥
मृद्वी क्रिया विधातत्र्या शोणितं चापि मोक्षयेत् ।
वार्तघ्नौषधसंयुक्तान् स्नेहान् सेकांश्च कारयेत् ॥ ८५ ॥
शोधनरोपणविषयं प्रपन्चेनावगमयति - आद्य इति । १ उष्णः उष्णवीर्यः कफघ्ना मुष्ककादिः सुरसाऽऽदिर्वा । २ धूपन विषयमभिदधाति -वातेति । ३ धूपनाङ्गैः = मिश्रकोक्तैः “ श्रीवेष्टके सर्जरसे सरले देवदारुणि " इत्यादिभिः । ४ उत्सादनविषयमभिदधाति - परीति । परिशुष्काल्प मांसानामित्यनेन वातात्मकत्वं गम्भीराणामित्यनेन रक्तपित्तात्मकरवं चोक्तम् । उत्सादनीयानि = मिश्रकाध्यायोक्तानि " अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला ” इत्यादीनि मांसवर्धनीयानि द्रव्याणि । ५ श्राभ्यन्तरमुत्सादनं ब्रवीति - मांसाशिनामिति । मांसाशिनां = व्याघ्रादीनाम् । . चरकेऽपि - " सिंहानृक्षांस्तरक्षूंश्च व्याघ्रानेवंविधांस्तथा । मांसादान् मृगशब्देन दद्यान्मां-साभिवृद्धये ॥ ” इति । ६ अवसादनषियमभिधत्ते - उत्सन्नेति । उत्सन्नमुद्धृतं मृदु · मांसं येषां ते तेषाम् । अवसादनम् = उन्नतव्रणस्य निम्नत्वसम्पादनं मांसस्फोटनं वा । ७ यथोद्दिष्टेः = मिश्रकोदितै: ' कासीस सैन्धव किण्वं कुरुविन्दो मनःशिला " इत्यादिभिः । -मृदुकर्मविषयमभिधत्ते - कठिनानामिति । ९ वातघ्नौषधैः भद्रदार्वादिभिः CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 675
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by A चिकित्सास्थानम् phennai and eGangotri ५१७
व्रणेषु मृदुमांसेषु दारुणीकरणं हितम् ।
धवप्रियङ्ग्वशोकानां रोहिण्याश्च त्वचस्तथा ॥ ८६ ॥
त्रिफलाधातकीपुष्परोध्रसर्जरसान् समान् ।
कृत्वा सूक्ष्माणि चूर्णानि व्रणं तैरवचूर्णयेत् ॥ ८७ ॥
उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान् ।
तथैव खलु दुःशोध्याञ् शोधयेत् क्षारकर्मणा ॥ ८८ ॥
स्रवतोऽश्मभवान्मूत्रं ये चान्ये रक्तवाहिनः ।
निःशेषैच्छिन्नसन्धींश्च साधयेदग्निकर्मणा ॥ ८ ९ ॥
दुरूढत्वात्तु शुक्लानां कृष्णकर्म हितं भवेत् ।
भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्रभावितान् ।
ततो द्विधा छेदयित्वा लौहे कुम्भे निधापयेत् ॥ ९ ० ॥
कुम्भेऽन्यस्मिन् निखाते तु तं कुम्भमथ योजयेत् ।
मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः ॥ ९ १ ॥
यः स्नेहश्चयवते तस्माद् ग्राहयेत्तं शनैर्भिषक् ।
ग्राम्यानूपशफान् दग्ध्वा सूक्ष्मचूर्णानि कारयेत् ॥ ९ २ ॥
तैलेनानेन संसृष्टं शुक्लमालेपयेद् व्रणम् । संशोधनसंशमनीयाध्यायोक्तैः संयुक्तान् संसिद्धान् । १ दारुणकर्मविषयं दर्शयति— व्रणेष्विति । प्राग् गम्भीराणामुत्सन्नमृदुमांसानां चोत्साद्यत्वेनावसाथत्वेन चोपदेशा-रद् विधिरयं समतलमृदुमांसविषय इति बोध्यम् । दारुणीकरणं = कठिनीकरणम् । २ रोहिण्याः = कटुतुम्ब्याः । ३ क्षारविषयमभिधत्ते — उत्सन्नेति । ४ श्रग्निकर्मविषयं निर्दिशति स्रवत इति । मूत्रं स्रवत इति सम्बन्धः । श्रश्मभवान् = अश्मरोहरणार्थं कृतान् । ५ निः. शेषं छिन्नाः सन्धानभूमयो येषां ते तान् । ६ अधुना रूढस्य शुक्लस्यैव व्रणस्य प्रकृतिभावार्थं कृष्णीकरणविषयान् प्रयोगं च प्रतिपादयति – दुरूढत्वादिति । शुक्लानां शुक्लवर्णमापन्नानां व्रणानां कृष्ण-. कर्म कृष्णीकरणं हितं भवेत् । पूर्वं भल्लातकान् भल्लातकफलानि सप्तमरात्रं मूत्र-मावितान् रात्रौ गोमूत्रभावितानि कृत्वा " दिवा दिवातपे शुष्कं रात्रौ रात्रौ निवास-येत् " इत्युक्त्या दिवा च आतपे शुष्काणि कृत्वा क्षीरे गोः क्षीरे बासयेत् स्थापयेत् । ततो भल्लातकफलानि द्विधा छेदयित्वा छेदनं विधाय लौहे कुम्भे स्थापयेत् । अथ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 676
पाठ पढ़ें पाठ छिपाएँ
५१८ [ अ ० १ Digitized by Arya Samaj | सुश्रुतसंहितायां ande Gangotri भल्लातकविधानेन सारस्नेहांस्तु कारयेत् ॥ ९ ३ ॥
ये च केचित् फलस्नेहा विधानं तेषु पूर्ववत् ।
दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत् ॥ ९ ४ ॥
सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम् ।
तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं हितम् ॥ ९ ५ ॥
नवं कँपालिकाचूर्णं वैदुलं सर्जनाम च ।
कासीसं मधुकं चैव क्षौद्रयुक्तं प्रलेपयेत् ॥ ९ ६ ॥
कपित्थमुद्धृते मांसे मूत्रेणाजेन पूरयेत् ।
कासीसं रोचनां । तुत्थं हरितालं मनःशिलाम् ॥ ९ ७ ॥
वेणुनिर्लेखनं चापि प्रपुन्नाडरसाञ्जनम् ।
अधस्तादर्जुर्नस्यैतन्मासं भूमौ निधापयेत् ॥ ९ ८ ॥
मासादूर्ध्वं ततस्तेन कृष्णमालेपयेद् व्रणम् ।
कुक्कुटाण्डकपालानि कतकं मधुकं समम् ॥ ९९ ॥
' अन्यस्मिन् कुम्भे निखाते खनित्वा स्थापिते तं निहित भल्लातकफलं लौहकुम्भं योज. येत् । ततो मुखेन शरावमुखेन मुखं तल्लौहकुम्भमुखं सन्धाय कृष्णमृत्तिकाभिः संयो · जनं विधाय गोमयैर्दाहयेत् । तस्माद् यः स्नेहस्तैलं च्यवते पतति तं भिषग् वैद्यः शनैः ग्राद्दयेत् सुनिगुप्तं निधापयेदित्यर्थः । अत्र मृन्मयः कुम्भश्चेत्तं निःसृतभल्लातकस्नेह-शोषदुष्टिभयात् स्नेह्रभावितं कर्तव्यमिति विशेषोऽवसेयः । ग्राम्यानूपशफान् = अश्व • महिष । दिखुरानित्यर्थः । ' शफं क्लीवे खुरः पुमान् ' इत्यमरोक्त्या पुंस्त्वमार्षम् 1 । १ सारस्नेइफलस्नेहयोरपि विधिमिममतिदिशति - भल्लातकेति । सारः = देवदार्वादिः, कारयेत् = तत्तद्दग्धशफयोगेन स्नेहं कारयेदित्यर्थः । केचित् = पिण्डितक • विभीतकादयः फलस्नेहास्तेषु पूर्ववद् विधानं कारयेदिति पूर्वेणान्वयः । २ अथ कृष्णानां पाण्डुकर्मणा सवर्णताकारकत्वमाह - दुरूढत्वादिति । कृष्णा-नां = कृ'णवर्णमापन्नानाम् । ३ रोहिणी = कटुतुम्बी, ' वृत्ता सा रोहिणी स्मृता ' इति लक्षणाद् रोहिणी हरीतकीभेदो वा । ४ कपालिका चूर्णं = मृन्मयभाण्डखण्डम्, वैदु · लं = वेतसचूर्णम्, सर्जनाम = सालवृक्षमूलम् । ५ मधुकं = ' मुलहटी ' इति ख्यातम् । ६ मांससदृशत्वाद् मांसे आभ्यन्तरेऽवयवे ‘ गिरि ' इति ख्याते उद्घृते कपित्थक-पालम् । तम् श्राजेन मूत्रेण कासीसादिभिश्च पूरयेत् । रोचना = गोरोचना | ७ वेणु-निर्लेखनं = तक्षित्वोद्धृता वंशस्वमित्यर्थः । प्रपुन्नाडं = चक्रमर्दबीजम् । अर्जुन. -स्य = एतन्नाम्ना | प्रसिद्धस्य वृक्षस्येत्यर्थः । ९ कतकं = ' निर्मली ' इति ख्यातम् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 677
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized undation Chennai and eGangotri by Ar चिकिस्सास्थानम् ५१ ९
तथा समुद्रमण्डूकी मणिचूर्णं च दापयेत् ।
गुटिका मूत्रपिष्टास्ता व्रणानां प्रतिसारणम् ॥ १०० ॥
हस्तिदन्तमसीं कृत्वा मुख्यं चैव रसाञ्जनम् ।
रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि ॥ १०१ ॥
चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना ।
तैलाक्ता चूर्णिता भूमिर्भवेद्रोमवती पुनः ॥ १०२ ॥
कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत् ।
कपित्थरसपिष्टानि रोमसञ्जननं परम् ॥ १०३ ॥
रोमाकीर्णो व्रणो यस्तु न सम्यगुपरोहति ।
क्षुरकर्तरिसन्दंशैस्तस्य रोमाणि निर्हरेत् ॥ १०४ ॥
शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम् ।
शुक्तेन सह पिष्टानि लोमशातनमुत्तमम् ॥ १०५ ॥
तैलं भल्लातकस्याथ म्नुहोक्षीरं तथैव च ।
प्रगृह्यैकत्र मतिमान् रोमशातनमुत्तमम् ॥ १०६ ॥
कदलीदीर्घवृन्ताभ्यां भस्मालं लवणं शमी- ।
बीजं शीतोदपिष्टं वा रोमशातनमाचरेत् ॥ १०७ ॥
आगारंगोधिकापुच्छं रम्भाऽऽलं बीजमैङ्गुदम् ।
दुग्ध्वा तद्भस्मतैलम्बु सूर्यपक्कं कचान्तकृत् ॥ १०८ ॥
" वातदुष्टो व्रणो यस्तु रूक्षश्चात्यर्थवेदनः । ५१_ अधः काये विशेषेण तत्र " बेस्तिर्विधीयते ॥ १० ९ ॥ १ समुद्रमण्डूकी = शुक्तिः, मणिः = स्फटिकादिः । २ रोमसञ्जननं निर्दिशति - हस्तीति । हस्तिदन्तं भस्मीकृत्य रसाञ्जनेन ' अजा-क्षीरसहितेन ' इति शेषः । ३ नक्तमालस्य = करञ्जस्य, पल्लवान् = कोमलपत्राणी-त्यर्थः । रो-। ४ शस्त्रकृतं रोमशातनं दर्शयति = रोमाकीर्ण इति ५ सन्दंशः-मापहरणो यन्त्रभेदः । ६ औषधकृतं रोमशातनमभिधत्ते – शङ्खति । ७ शुक्तेन = काञ्जिकेन । ८ दीर्घवृन्तः = श्योनाकः, श्रालं = हरितालम् । ९ आगारगोधिका = गृहगोधिका, ब्राह्मणीति यावत्, यस्याः शरीरे रक्तता भवति तत्पुच्छमित्यर्थः । १० समं तैलं जलं च तावतैव परिमाणेन प्रदेयं यावता सर्वस्यार्द्रता स्यात् । ११ बस्तिविषयं ब्रवीति - वातेति । १२ बस्तिः = ' पिचकारी ' स चात्र निरूहः ' CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 678
पाठ पढ़ें पाठ छिपाएँ
५२० Digitized by Arya Sam सुश्रुतसंहिता aand eGangotri [ अ ० १
मूत्राघाते मूत्रदोषे शुक्रदोषेऽश्मरीत्रणे ।
तथैवार्तवदोषे च बस्तिरप्युत्तरो हितः ॥ ११० ॥
यस्माच्छ्रुध्यति बन्धेन ब्रणो याति च मार्दवम् ।
रोहत्यपि च निःशङ्कस्तस्माद् बन्धो विधीयते ॥ १११ ॥
स्थिरौणामल्पमांसानां रौक्ष्यादनुपरोहताम् ।
पत्रदानं भवेत् कार्यं यथादोषं यथर्त्तु च ॥ ११२ ॥
एरण्डभूर्ज पूतीकरिद्राणां तु वातजे ।
पत्रमाश्वर्बलं यच्च काश्मरीपत्रमेव च ॥ ११३ ॥
पत्राणि क्षीरवृक्षाणामौकानि तथैव च ।
दूषिते रक्तपित्ताभ्यां व्रणे दद्याद्विचक्षणः ॥ ११४ ॥
पाठामूर्वागुडूचीनां काकमाचीहरिद्रयोः ।
पत्रं च शुर्कनासाया योजयेत् कफजे व्रणे ॥ ११५ ॥
' अकर्कशमविच्छिन्नमजीर्णं सुकुमारकम् ।
अजन्तुजग्धं मृदु च पत्रं गुणवदुच्यते ॥ ११३ ॥
' स्नेहमौषधसारं च पट्टः पत्रान्तरीकृतः ।
नादत्ते यत्ततः पत्रं लेपस्योपरि दापयेत् ॥ ११७ ॥
स्नैदिकश्च बोध्यः । “ बस्तिद्विधाऽनुवासाख्यो निरूहश्च ततः परः । यः स्नेहैदीयते स स्यादनुवासननामकः ॥ कषायक्षीरतैलैयों निरूहः स निगद्यते । बस्तिभिर्दीयते यस्मात् तस्माद्वस्तिरिति स्मृतः ॥ ” इति । १ उत्तरबस्तिविषयं प्रतिपादयति - मूत्रा -घात इति । २ व्रणबन्धकरणे कारणमाह - यस्मादिति । ३ निर्गता निर्घात-मक्षिकादिपतनानां शङ्का यस्मिन् सः निःशङ्कः । तस्मात्कारणाद् बन्धो विधीयते व्रणालेपनबन्धविध्यध्यायोक्तेन विधिनेति शेषः । ४ पत्रदानविषयं प्रतिपादयति- स्थिराणामिति । ५ दोषानुसारेण पत्र-विशेषं दर्शयति — एरण्डेति । भूर्जशब्देनात्र पत्रसाम्याद् मृदुत्वादिगुणयोगाच्च भूर्जपत्रत्खगेवाभिप्रेयते । ६ अश्वबला उपोदिका तस्या इदमाश्वबलम्, काश्मरी = गम्भारी ८ कफजन्यत्रणे पत्रदानमाह-॥ ७ औदकानि = कुमुदादिपत्राणि । पाठेति । ९ शुकनासायाः = श्योनाकस्य, शुकनासाचर्मकारवट इति डल्हणः । १० या-। दृशानि पत्राणि बन्धने गुणवन्ति भवन्ति तानि निर्दिशति - अकर्कशमिति । ११ पत्र CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 679
पाठ पढ़ें पाठ छिपाएँ
अ ० १ ] Digitized by Arya ईम्पिक्रित्सास्थान erai and eGangotri
शैत्यौ॰यंजननार्थाय स्नेहसङ्ग्रहणाय च ।
दत्तौषधेषु दातव्यं पत्रं वैद्येन जानता ॥ ११८ ॥
मक्षिको व्रणमागत्य निःक्षिपन्ति यदा कृमीन् ।
श्वयथुर्भक्षिते तैस्तु जायते भृशदारुणः ॥ ११ ९ ॥
तीव्रा रुजो विचित्राश्च रक्तास्रावश्च जायते ।
सुरसाऽऽदिर्हितस्तत्र धावने पूरणे तथा ॥ १२० ॥
सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः ।
हिता गोमूत्रपिष्टाश्च सेकः क्षौरोदकेन वा ॥ १२१ ॥
प्रच्छाद्य मांसपेश्या च कृमीनपहरेद् व्रणात् ।
विंशतिं कृमिजातीस्तु वक्ष्याम्युपरि भागशः ॥ १२२ ॥
" दीर्घकालातुराणां तु कृशानां व्रणशोषिणाम् ।
" बृंहणीयो विधिः सर्वः कायाग्निं परिरक्षता ॥ १२३ ॥
" विषजुष्टस्य विज्ञानं विषनिश्चयमेव च । ५२१ चिकित्सतं च वक्ष्मामि कल्पे तु प्रतिभागशः ॥ १२४ ॥
कण्डूमन्तः " सशोफाश्च ये च जत्रूपरि व्रणाः ।
शिरोविरेचनं तेषु विदध्यात् कुशलो भिषक् ॥ १२५ ॥
दानप्रयोजनं दर्शयति – स्नेहमिति । १ पित्तरक्तजन्यत्रणे शैत्यस्य वातकफज-न्यत्रणे · औष्ण्यस्य चोत्पादनार्थमित्यर्थः । २ दत्तौषधेषु ' व्रणेषु ' इति शेषः । ३ कृमिघ्नविषयं प्रतिपादयति - मक्षिकेति । ४ भक्षिते ' व्रणे ' इति शेषः । ५ विचित्रा: = तोददाहकण्डवादिनानारूपा रुज इत्यर्थः । ६ सुरसाऽऽदिः = द्रव्य-सङ्ग्रहणीयाध्यायोक्तः । ७ क्षारोदकेन - सप्तकृत्वः परिस्रुनेन पलाशादिक्षारजलेन, सेकः -- परिषेकः । ८ उपरि = उत्तरतन्त्रस्य कृमिप्रतिषेधीयाध्याये इत्यर्थः । R ९ बृंहणविषयमभिधत्ते - दीर्घेति । १० बृंहणीयः = मांसरसादि शरीरपुष्टिका-रको विधिरित्यर्थः । ११ विषघ्नविषयं निर्दिशति - विषेति । विषजुष्टस्यान्नपानादेः विज्ञानं लक्षणं स्थावरजङ्गमादिविषनिश्चयज्ञानं चिकित्सितं च प्रतिभागशः प्रत्येकं कल्पे कल्पस्थानॆ वक्ष्यामीत्यर्थः । १२ शिरोविरचनविषयं ब्रवीति — कण्डूमन्त इति । १३ शिरोविरेचनं = नस्यप्रभेदः, शिरोविरेचन - नस्य- कवलग्रह - धूमविधिरस्यैव स्थानस्य चत्वारिंशत्तमेऽध्याये वक्ष्यमाणः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 680
पाठ पढ़ें पाठ छिपाएँ
५२२ Digitized by Arya Sama सुश्रुतसंहिताय d eGangotri
रुजावन्तोऽनिलाविष्टा रूक्षा ये चोर्ध्वजत्रुजाः ।
व्रणेषु तेषु कर्त्तव्यं नस्यं वैद्येन जानता ॥ १२६ ॥
दोषप्रच्यावनार्थाय रुजादाहृक्षयाय च ।
जिह्वादन्तसमुत्थस्य हरणाथ मलस्य च ॥ १२७ ॥
शोधनो रोपणश्चैव व्रणस्य मुखजस्य वै 1 [ अ ० १ उष्णो वा यदि वा शीतः कवलग्रह इष्यते ॥। १२८ ॥
' ऊर्ध्वजत्रुगतान् रोगान् व्रणांश्च कफवातजान् ।
शोफस्राव रुजायुक्तान धूमपानैरुपाचरेत् ॥ १२ ९ ॥
क्षतोष्मणो निग्रहार्थं सन्धानार्थं तथैव च ॥
सद्योव्रणेष्वायतेषु क्षौद्रसर्पिर्विधीयते ॥ १३० ॥
अर्वगाढास्त्वणुमुखा ये ब्रणाः शल्यपीडिताः ।
निवृत्तहस्तोद्धर्रणा यन्त्रं तेषु विधीयते ॥ १३१ ॥
लघुमात्रो " लघुश्चैव स्निग्ध उष्णोऽग्निदीपनः ।
सर्वंत्रणेभ्यो देयस्तु सदाऽऽहारो विजानता ॥ १३२ ॥
निशाचरेभ्यो " रक्ष्यस्तु नित्यमेव क्षतातुरः ।
" रक्षाविधानैरुद्दिष्टैर्यमैः सनियमैस्तथा ॥ १३३ ॥
१ नस्यविषयं प्रतिपादयति - रुजावन्त इति । २ कवलग्रहविषयं दर्शयति-दोषेति । त्रिफलाद्राक्षाऽऽदिकषायादिभिर्वातादिदोषप्रच्यावनार्थायेत्यर्थः । ३ शोध-नः = शोधनद्रव्य कृतः, रोपणः - रोपणद्रव्यकृतः । ४ उष्णः = वातकफजन्यत्रणे उष्ण इत्यर्थः शीतः = रक्तपित्तजन्यत्रणे शीत इत्यर्थः । ५ धूमविषयमभिदधाति — वेंति । ६ शोथस्रावरुजापहारकद्रव्याणां धूमपानैरित्यर्थः । ७ मधुसर्पिर्विषयमभिधत्ते - क्षतोष्ण इति । ८ यन्त्रविषयं दर्शयति - अव-गाढा इति । श्रवगाढाः श्रत्यन्तं गम्भीराः । ९ उद्धार्यतेऽनेनेत्युद्धरणं, निवृत्तं इस्ताभ्यामुद्धरणं यत्रेति निवृत्तहस्तोद्धरणाः हस्तेनाहर्तुमशक्याः । १० प्रसङ्गाद् आहारविषयमभिदधाति - लघुमात्र इति । लघुमात्रः = मात्रया लघुरित्यर्थः । विशे-षतस्तु व्रणितोपासनीयाध्याये द्रष्टव्यः । ११ विहारविषयं प्रतिपादयति - निशाचरेभ्य इति । १२ रक्षाविधानैः = धूपब-ल्युपहारादिवणितोपासनीयाध्यायोक्तैरित्यर्थः । यमाः = श्रहिंसाऽऽदयः पञ्च, तदुक्तम्— ' श्रहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । श्रस्तेयमिति पन्चैते यमा वै परिकीर्तिताः ॥ ” CC - 0. Gurukul Kangri Collection, Haridwar