सुश्रुत संहिता चौखम्बा — पृष्ठ 751–760
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 751–760
पृष्ठ 751
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Ary चिकित्सास्थानम् hennai and eGangotri ५ ९ ३ सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटान् श्वित्रे पुण्डरीके च कुर्यात् ॥१५ ॥
द्वैपं ' दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः ।
पूतिः कीटो राजवृक्षोद्भवेन चारेणाक्तः श्वित्रमेको निहन्ति ॥ १६ ॥
कृष्णस्य सर्पस्य सी सुदग्धा वैभीतकं तैलमथ द्वितीयम् ।
एतत् समस्तं मृदितं प्रलेपात् श्वित्राणि सर्वाण्यपहन्ति शीघ्रम् ॥१७ ॥
अध्यर्द्धतोये सुमतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः ।
तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्रयम् ॥ १८ ॥
घृतेन युक्तं प्रपुनाडबीजं कुष्टं च यष्टीमधुकं च पिष्ट्वा ।
श्वेताय दद्याद् गृहकुक्कुटाय चतुर्थभक्तायं वुभुक्षिताय ॥ १ ९ ॥
तस्योपसङ्गृह्य च तत्पुरीषमुत्पाचितं सर्वत एव लिम्पेत् ।
अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ् वित्रमथो निहन्ति ॥ २० ॥
क्षारे सुदग्धे गँजलेण्डजे तु गजस्य मूत्रेण बहुस्रुते च ।
द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्वीजमवल्गुजस्य ं ॥ २१ ॥
निबन्धसङ्ग्रहव्याख्याकारः । सुश्रुतार्थसन्दीपनकारस्तु — भद्रा अनन्ता, उडुम्बरी इस्वोडुम्बरः, मलपूः काकोडुम्बरिका इत्याह । १ सञ्जातभिन्नस्फोटस्य श्वित्रिणः पश्चात्कर्म दर्शयति — द्वैपमिति । श्रधो. २ वायुवत् पूतिगन्धिः कीट इत्यर्थः । राजवृक्षः = ' अमलतास ' इति प्रसिद्धः । ३ पुट. दग्धस्य कृष्णवर्णस्य सर्पस्य कृष्णवर्णक्षारो ' मसी ' इत्युच्यते । ४ अधिकमर्द्धमत्रेत्य -ध्यर्द्धम्, अध्यर्द्धं च तत्तोयं तस्मिन् । अत्र श्लोके कृष्णस्य सर्पस्येत्यस्यानुवृत्तिः । तथा चायमर्थः — कल्पेन क्षारपाकविधिना सप्तकृत्वः सप्तवारान् सुमतिस्रुतस्य सुमत्या स्त्रावितस्य कृष्णसर्पक्षारस्य अध्यर्द्धतोये पाकानन्तरं क्षारापेक्षयाऽर्घाधिकैकभागे तोये चतुर्गुणेन तेन तोयेन शृतं तैलं श्वित्रापदं नक्षणम् उपलेपनमेतदस्यं श्रेष्ठमित्यर्थः । “ स्रावयेत् षड्गुणे तोये केचिदाहुश्चतुर्गुणे " इति क्षारपाकविधिरनुसन्धेयः । ५ चतुर्थभक्ताय यामदशकमुपोषितत्वे नावाप्त चतुर्थभक्तकालाय, विशेषणस्यास्य निःसृतप्राक्तनपुरीषत्वे तात्पर्यमिति सुश्रुतार्थसन्दीपनम् । ६ उत्पाचितं = मलप्वा-दिभिः प्रयोगः स्फोटकादिभिः पाकं नीतमित्यर्थः । ७ अभ्यन्तरं = = धात्वन्तर्गतम् । ८ गजलेण्डजे = हस्तिपुरीषजे । ९ बहुस्रुते = एकविंशतिवारान् गालिते । १ द्रो-णप्रमाणे = सार्द्धद्वादशसेटकप्रमाणे । १० अवल्गुजस्य = सोमराज्याः, ' वाकुची ' इति ३८ CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 752
पाठ पढ़ें पाठ छिपाएँ
५ ९ ४. सुश्रुतसहिताया Digitized by Arya Samaj Foundation Chennai and eGangotri Gangotri [ अ ० ९
एतद्यदा चिक्कैणतामुपैति तदा समस्तं गुटिका विद्ध्यात् ।
श्वित्रं प्रलिम्पेदथ सम्प्रघृष्य, तेया व्रजेदाशु सवर्णभावम् ॥ २२ ॥
कषयकल्पेन सुभावितां तु, जलं त्वचं चूतहरीतकीनाम् ।
तां ताम्रदीपे प्रणिधाय धीमान् वत्तिं वटक्षीरसुभावितां तु ॥ २३ ॥
आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याऽम्भसि भावयित्वा ।
सम्म्रक्षितं तद् बहुशः किलासं, तैलेन सिक्तं कटुना प्रयाति ॥ २४ ॥
आवल्गुजं बीजमग्र्यं ' नदीजं, काकाह्वानोदुम्बरी या च लाक्षा ।
लौहं चूर्णं मागधी तार्क्ष्यशैलं, तुल्याः कार्याः कृष्णवर्णास्तिलाश्च ॥ २५ ॥
वर्त्तिं कृत्वा तां गवां पित्तपिष्टां, लेपः कार्य्यः श्वित्रिणां श्वित्रहारी ।
लेपात् पित्तं शैखिनं श्वित्रहारि, होवेरं वा दग्धमेतेन युक्तम् ॥ २६ ॥
तुालकटुकाव्योषसिंहार्कह्यमारकाः ।
कुष्ठावल्गुजभल्लातक्षीरिणी सर्षपाः स्नुही ॥ २७ ॥
ख्यातस्येत्यर्थः । १ चिक्कणतां = स्निग्धताम् । २ किलासचिकित्सां ब्रवीति- कषायकल्पेनेति । चूतहरीतकीनां स्वचं छित्त्वा कषायकल्पेन क्वाथकल्पनया जलं यत्काथ:, तेन सुभावितां पिचुवर्ति कटु तैलेन सिक्त्वा तां ताम्रदीपे प्रणिधाय श्रादीप्य च तज्जातमसी गृहीत्वा वटक्षीरसुभावितां कृत्वा तामेव पथ्याऽम्भसि इरोतकीक्वाथेन भावयिवा कटुना तैलेन सिक्त्वा किलाशं बहुशः सम्म्रक्षितं कोऽर्थः? उपलेपितं सद् श्रपयाति । तन्त्रान्तरेऽपि - " पथ्याऽऽम त्वक्कषायेण पिचुवर्तिः सुभाविता । क्डतैलयुते तामपात्रे प्रज्ज्वालयेत्ततः ॥ मसीं तत्र वटक्षीरप-थ्याक्वाथेन भावयेत् । म्रक्षितं कटुतैलाक्तं तेन श्वित्रं प्रणश्यति ॥ ” इति । सुश्रुतार्थसन्दीपनकारस्तु - ‘ जलं खचम् ' इत्यत्र ' दलत्व जम् ' इति पठित्वा व्याख्या-ति — कश्चिदत्र दलसहिता वक् दलत्वक् तां दलत्वचमित्याचष्टे । एतत्त्वगतिकानां गतिरित्यश्रद्दधानाः ‘ दलमुत्सेधखण्डयोः ' इति कोषान्तर स्मरणाद् दल त्वचमुत्सन्नां त्वच-मित्याचक्षते । तथा च चूतहरीतकीनां घनां त्वचं कषायकल्पेन " भाग्यद्रव्यसमं क्वा · थ्यम् ” इत्याद्युक्तेन विधिना प्रकृतत्वात्तासामेव कषायेण सुभावितां सप्तकृ! वो भावितां कृत्वेति शेष इति । ३ नदीजं = तापीनदीसमुद्भूतो माक्षिकधातुः, काकाह्वानोदुम्बरी = काकोदुम्बरिका, ‘ कठूमर ' इति लोके । ४ तार्यशैलं = रसाञ्जनम् । ५ शिखिन इदं शैखिनं मयूरपित्तमित्यर्थः । ६ प्रथमलेपमाद्द — तुत्थेति । श्रालं = हरितालम् CC - 0. Gurukul Kangri Collection, Haridwar , ... सिंहः = रक्तशियुः ।
पृष्ठ 753
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Ary चिकिस्सास्थानम् hennai and eGangotri ५ ९ ५
तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य वा ।
बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम् ॥ २८ ॥
आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः ।
वायँसी फल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक् ॥ २ ९ ॥
द्वे लोहरजसः प्रस्थे त्रिफलाच्याढकं तथा ।
त्रिद्रोणेऽपां पचेद् यावद्भागौ द्वार्वंसनादपि ॥ ३० ॥
शिष्टं च विपचेद् भूय एतैः श्लक्ष्णप्रपेषितैः ।
कल्कैरिन्द्रयवव्योषत्वग्दारुचतुरङ्गलैः ॥ ३१ ॥
पारावतपदीदन्तीबाकुची केशराह्वयैः ।
कण्टकार्य्या च तत्पक्कं घृतं कुष्ठिषु योजयेत् ॥ ३२ ॥
दोषधात्वाश्रितं पानादद्भ्यङ्गात्त्वग्गतं तथा ।
अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति ॥ ३३ ॥
त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका ।
वायस्यारग्वधाश्चैषां तुलां कुर्य्यात् पृथक् पृथक् ॥ ३४ ॥
काकमाच्यर्क वरुणदन्तीकुटज चित्रकात् ।
दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा ॥ ३५ ॥
त्रिद्रोणेऽपां पचेद्यावत् षट्प्रस्थं परिशेषितम् ।
कृद्रसदधिक्षीरमूत्राणां पृथगाढकम् ॥ ३६ ॥
तद्वद् घृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः । १ द्वितीयं लेपमाह - तिल्वकेति । तिल्वकः = लोधः, श्ररिष्टः = निम्बः । २ श्रश्व-इन्ता = करवीरकः । ३ कुष्ठे नीलघृतं ब्रवीति - वायसीति । वायसी = ‘ मकोय ' इति, फल्गुः = ' कठूमर ' इति, तिक्ता = कटुकी, एषां पृथक् पृथक् शतं पलानीत्यर्थः । ४ असनाद् विजयसाराद् अपां त्रिद्रोणे द्वौ भागौ यावदर्द्धावशिष्टं तावद्विपचेदित्यर्थः । अत्र सपिंश्चतुर्भागं, सर्पिषश्चतुर्थभाग इन्द्रयवादिकल्को बोद्धव्यः । ५ पारावतपदी = हंसपदीभेदः । ६ नीलयति सवर्णयति कुष्ठमिति नीलं नाम । ७ महानीलघृतमभिधत्ते - त्रिफलात्वगिति । मदयन्तिका -'मेइदो ' इति ख्याता । ८ निदिग्धिका = कण्टकारिका । ९ शकृद्रसः = गोमयस्वरसो द्वित्रिर्वा CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 754
पाठ पढ़ें पाठ छिपाएँ
* $ Iitized by Arya Samaj Found भुत संहितायां reGangotri करञ्जफलनीलिकोश्यामाऽवल्गुजपीलुभिः ॥ ३७ ॥
" नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम् । म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम् । [ अ ० ९ भगन्दरं कृमीनर्शो महानीलं नियच्छति ॥ ३८ ॥
मूत्रं गव्यं चित्रकव्योषयुक्तं सर्पिः कुम्भे क्षौद्रयुक्तं स्थितं हि । पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत्कुर्य्याच्चास्मिन्कुष्ठदिष्टं विधानम् || ३ ९ ||
पूती कार्क ' नुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च ।
लेपः श्वित्रं हन्ति दद्रूर्ब्रणांश्च दुष्टान्यशस्येष नाडीव्रणांश्च ॥ ४० ॥
अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जाप्राणं सर्पिषा स्नेहयित्वा ।
तीक्ष्णैर्योगैश्छंदेयित्वा प्रगाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः ॥ ४१ ॥
दुर्वान्तो वा दुविरिक्तोऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः ।
निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात्कृत्स्नान्निर्हरेत्तस्य दोषान् ॥ ४२ ॥
पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम् । स्राव्यं र ं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात् त्रिरात्रात् ॥ ४३ ॥
पथ्या " व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात् ।
धात्रीपथ्या १२ ` क्षोपकुल्याविडङ्गान्क्षौद्राज्याभ्यामेकतो वाऽवलिह्यात् ॥४४ ॥
वस्त्रगालितः । १ नीलिका = ' काली निसोत ' इति ख्याता । २ नीलिनी = ' नील ' इति ख्याता । ३ नरेन्द्रद्रुमः = ‘ अमलतास ' इति ख्यातः । ४ सुमनाया इमे सौमनाः मालतीपल्लवा इत्यर्थः । सुमना = लोके ' चमेली ' इति । ५ पूर्वं कृतवमनस्य कृतविरेचनस्यापि कुष्ठिनो दोषप्राबल्यात् पुनः पुनः शोधन · शोणितावसेकयोः कर्तव्यतामुपदिशति - अस्मादिति । ६ जातप्राणं = प्राप्तपराक्र-ममित्यर्थः । ७ छर्दयित्वा = वामयित्वा, निर्हरेत् = विरेचयेत् । ८ केन क्रमेण शो. धनशोणितावसेचनं कार्यमिति दर्शयति- पक्षादिति । प्रतिपक्षमतीत्येति पक्षात् पक्षात्, त्यब्लोपे पञ्चमी । ९ स्रंसनं = विरेचनम् । १० वत्सरे वर्षे द्विः वारद्वयं षड्भिः षड्भिर्मासैरित्यर्थः । वाग्भटोऽपि - " पक्षात्पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनान्य • प्यधस्तात् । शुद्धिर्मूर्ध्नि स्यात्त्रिरात्रास्त्रिरात्रात् षष्ठे षष्ठे मास्यसृङ्मोक्षणानि ॥ ” इति । ११ प्रायोगिक योगान्निर्दिशति - पथ्येति । सेक्षुजातं = सगुडम् । तैलगुडयोः कुष्ठकारित्वेऽपि हरीतकीत्रिकटु संयुक्तयोः कुष्ठहारित्वं, संयोगशक्तेरचिन्त्यत्वादिति उल्हणः । १२ अक्षः = बिभीतकः, ' अक्षशब्दः स्मृतोऽष्टासु सौवर्चलबिभीके । कर्षप-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 755
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Ar संप Chennai and eGangotri २ ९ ७
पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोस्य गच्छेत् ।
एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः ॥ ५५ ॥
तद्वत्तोर्ध्यं मासमात्रं च पेयं तेनाजस्रं देहमालेपयेच्च ।
आरिष्टृत्वक् साप्तपर्णी च तुल्या लाक्षामुस्तं पञ्चमूल्यौ हरिद्रे ॥ ४६ ॥
मञ्जिष्ठाऽक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रो विडङ्गम् ।
सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन् ॥४७ ॥
कुष्टाज्जन्तुर्मुच्यते त्रै “ लं वा सपर्द्रोणं व्योषयुक्तं च युञ्जन् ।
गोमूत्राम्बु द्रोणसिद्धेऽक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम् ॥ ४८ ॥
आरग्वधे सप्तपर्णे पटोले सर्वृक्ष के नक्तमाले सनिम्बे ।
जीर्णं पक्वं तद्धरिद्राद्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः ॥४ ९ ॥
रोधारिष्टं पद्मकं " रक्तसारः सप्ताह्वाक्षौ वृक्षको बीजकश्च ।
योज्याः स्नाने दह्यमानस्य जन्तोः पेया वा स्यात्क्षौद्रयुक्ता त्रिभण्डी " ॥
खादेत् कुष्ठी मांसशाते पुराणान् मुद्गान् सिद्धान् निम्बताये सतैलान् ।
निम्बक्काथं ` जातसत्त्वः पिबेद्वा काथं वाऽर्कालर्क सप्तच्छदानाम् ॥५१ ॥
" जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गः समूत्रैः ।
मूत्रैश्चैनं सेचयेद् भोजयेच्च सर्वाहारान् सम्प्रयुक्तान् विडङ्गैः ॥ ५२ ॥
कारञ्जं वा सार्षपं वा क्षतेषु क्षेव्यं तैलं शिशुकोशाम्रयोर्वा ।
पक्कं सर्वैर्वा कटूष्णैः सतिक्तैः शेषं च स्याद् “ दुष्टवत् संविधानम् ॥५३ ॥
द्माक्षरुद्राक्षशकटेन्द्रियपाशके ॥ ” इति कोशः । उपकुल्या = पिप्पली । १ पापरोगस्य = कुष्ठस्य । २ तार्यं = रसाञ्जनम् । एतत्परिमाणं प्रत्यहं पलम् । ३ तेन = अनन्त • रोक्तेन रसाञ्जनैनेत्यर्थः । ४ श्ररिष्टत्वक् = निम्बत्वक् । ५ वह्निः: ≡ चित्रकः । ६ पूर्वोक्तचूर्णसमविडङ्गेरित्यर्थः । ७ त्रिफलाक्काथकल्कसिद्धं फलमित्यर्थः । ८ गोमूत्रमेवाम्बु गोमूत्राम्बु तद्द्रोणसिद्धे । गोमूत्रेणैव क्वाथोऽयं निष्पाद्य इत्यर्थः । ९ वृक्षकः ‘ कुड़ा ' इति ख्यातस्तेन सहिते सवृक्षके । १० रक्तसारः = रक्तचन्दनम्, सप्ताह्वः = सप्तपर्णः, अक्षः = बिभीतकः, वृक्षकः = कुटजः, बीजक: - ' विजयसार ' इति ख्यातः । ११ त्रिभण्डी = त्रिवृत् । १२ जातसत्त्र: = उत्पन्नकृमि: । १३ जग्धेषु = कृमिजग्धेषु । १४ दुष्टवत् = दुष्टव्रणवत् । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 756
पाठ पढ़ें पाठ छिपाएँ
inar and eGangotri [ अ ० ९ ९ Sigitized by Arya Samaj Foulla सुश्रुतसंहितायां
सप्तपर्णकरञ्जक मालतीकरवीरजम् ।
स्नुहीशिरीषयोर्मूलं चित्रकास्फोतयोरपि ॥ ५४ ॥
विषैलाङ्गलवज्राख्यकासीसालमनःशिलाः ।
करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम् ॥ ५५ ॥
सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत् ।
मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम् ॥ ५६ ॥
एतद्वज्रकमभ्यङ्गान्नाडीदुष्टत्ररणापहम् ।
सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम् ॥। ५७ ॥
कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी ।
लाक्षा सर्जरसोऽर्कश्च सास्फोताऽऽरग्वधौ स्नुही ॥ ५८ ॥
शिरीषस्तुव राख्यस्तु कुटजारुष्करौ वचा ।
कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा ॥ ५ ९ ॥
मालती कंटुतुम्बी च गन्धाह्वा मूलकं तथा ।
सैन्धवं करवीरच गृहधूमं विषं तथा ॥ ६० ॥
कँम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये ।
समभागानि सर्वाणि कल्कपेष्याणि कारयेत् ॥ ६१ ॥
गोमूत्रं द्विगुणं दद्यात्तिलतैलाचतुर्गुणम् ।
कारञ्जं वा महावीर्य्यं सार्षपं वा महागुणम् ॥ ६२ ॥
अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान् ।
नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः ॥ ६३ ॥
महावज्रकमित्येतन्नाम्ना तैलं महागुणम् । १ कुष्ठेषु बहिःशोधकवजकतैलं ब्रवीति - सप्तपर्णेति । । २ श्रस्फोता = सा • रिवा ४ महावज्रकतैलं नि · । ३ विषं वत्सनाभः, वज्राख्यः = निष्पत्रा स्नुही । दिशति - सिद्धार्थक इति । सिद्धार्थकः = श्वेतसर्षपः । ५ मृगादनी = इन्द्रवा • -रुणी । 8 गन्धाह्वा = गन्धकः । ७ कम्पिल्लकं = ' कबीला ' इति, तेजोह्वा = चव्यम् । ८ स्नेद्दचतुर्थांशो भेषजकल्कः, स्नेहचतुर्गुणो द्रव्य इति न्यायः । द्रवार्थमत्र पूर्वसाह-चर्याद् गोमूत्रमेव ग्राह्यम् । ९ तिलतैलाच्चतुर्गुणं गोमूत्रं द्विगुणं दद्यादिति योजना । एतेन श्रष्टगुणं दद्यादि-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 757
पाठ पढ़ें पाठ छिपाएँ
Foundation Chennai and eGangotri ५ ९९ अ ० ९ ] Digitized by Arya चिकित्सास्थानम् in पित्तावापैर्मूत्रपिष्टैस्तैलं लाक्षादिकैः कृतम् ॥ ६४ ॥
सप्ताहं कटुकाऽलाब्वां निदधीत चिकित्सकः ।
पीतवन्तं ततो मात्रां तेनाभ्यक्तं चं मानवम् ॥ ६५ ॥
शोषयेदातपे तस्य दोषा गच्छन्ति सर्वशः ।
स्रुतदोपं समुत्थाप्य स्नातं खदिरवारिणा ॥ ६६ ॥
यवागूं पाययेदेनं साधितां खदिराम्बुना ।
एवं संशोधने वर्गे कुष्ठध्नेष्वोषधेषु च ॥ ६७ ॥
कुर्य्यात् तैलानि सर्पषि प्रदेहो घर्षणानि च ।
प्रातः प्रातश्च सेवेत योगान् वैरेचनान् शुभान् ।
पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति ॥ ६८ ॥
कारभं वा पिवेन्मूत्रं जीर्णे तत्क्षोरभोजनम् ।
जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति ॥ ६ ९ ॥
दिदृक्षुरन्तं कुष्टस्य खदिरं कुष्ठपीडितः ।
सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु ॥ ७० ॥
यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा ।
तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा ॥ ७१ ॥
नीर्च रोमनखः श्रान्तो हिताश्यौषधतत्परः ।
योषिन्मांससुरावर्जी कुष्ठटो कुष्ठमपोहति ॥ ७२ ॥
इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम नवमोऽध्यायः ॥ ९ ॥
त्य।यातम् । १ पित्तावापैः = गोपित्तयुक्तैः, मूत्रपिष्टै = गोमूत्रपिष्टैः, तैलं = तिलतैलम्, लाक्षादिकैः = अनन्तरोक्तैर्महावज्रकतै लाङ्गसम्भूतैर्लाक्षा सर्जरसादिभिरित्यर्थः । शो-२ षयेत् = स्वेदयेत्, सर्वशः = ऊर्ध्वमधस्तिर्यक्, गच्छन्ति = स्वेदरूपेण परिणम्य या-न्तीत्यर्थः । ३ दोषनिस्सरणानन्तरं कर्तव्यतामुपदिशति - स्रुतदोषमिति । ४ करभा उष्ट्री तरसम्बन्धि मूत्रं कारभम् । ५ खदिरसारस्योत्कृष्टतामाचष्टे - यथेति । ६ कुष्ठिनः कर्तव्यतामुपदिशति— नीचेति । नीचकेशनखः = क्लृप्तकेशनखः, श्रान्तः = जितेन्द्रियः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 758
पाठ पढ़ें पाठ छिपाएँ
६०० Digitized by Arya Samaj सुश्रुतसंहिता and eGangotri i दशमोऽध्यायः । [ अ ० १० अथातो महाकुष्ठचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
कुष्ठेषु मेहेषु कफामयेषु सर्वाङ्गशोफेषु च दारुणेषु ।
कृशत्वमिच्छत्सु च मेदुरेषु ' योगानिमानग्र च मतिर्विदध्यात् ॥ ३ ॥
क्षुण्णान्यवान्निष्पूतान् रात्रौ गोमूत्रपर्थ्यापितान् महति किंलि. ब्जे शोषयेत्, एवं सप्तरात्रं भावयेच्छोषयेच्च । ततस्तान् कपो-लभृष्टान् शक्तून् कारयित्वा प्रातः प्रातरेव कुष्ठिनं प्रमेहिणं वा सालसारादिकषायेण कण्टकिवृक्षकषायेण वा पाययेद् भल्ला-तकप्रपुन्नाडावल्गुजार्कचित्रकविडङ्गमुस्त चूर्णं चतुर्भागयुक्तान् । एव-मेव सालसारादिकषायपरिपीतानामारग्वधादिकषायपरिपीतानां वा गोशृकृद्भूतानां वा यवानां शक्तून कारयित्वा भल्लातकादीनां चूर्णान्यावाप्य खदिराशननिम्बराज " वृक्ष रोहितक गुडूचीनामन्यतम-स्य कषायेण शर्करामधुमधुरेण द्राक्षायुक्तेन दाडिमवेतसाम्लेन वाग्भटे — ' ' व्रतयमदमसेवात्यागशीलाभियोगो द्विजसुरगुरुपूजा सर्वसत्त्वेषु मैत्री । शिव • शिवसृतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति || " इत्युक्तमपि ध्येयम् । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां नवमोऽध्यायः । दशमोऽध्यायः । १ महतां धात्वनुप्रविष्टानां कुष्ठानां चिकित्सितमित्यर्थः । २ मेदुरेषु = सान्द्रेषु, कठिनेष्विति तात्पर्यम् । ' सान्द्रस्निग्धस्तु मेदुरः ' इत्यमरः । ३ कुष्ठे यवकल्पं निर्दि-शति - क्षुण्णानिति । क्षुण्णान् = उलूखले कुट्टितान्, निष्पूतान् = तुषादिना विरहितान् । ४ किलिओ = वंशादित्वग्ग्रथितपिटकादौ । ५ कपाले घटादिकर्परे भृष्टान् । ६ सालसारादिर्द्रव्यसङ्ग्रहणीयाध्यायोक्तो गणः । कण्टकिवृक्षाः खदिर-· विकङ्कतकरमर्दादयस्तेषां कषायेण क्वाथेनेत्यर्थः । ७ अवल्गुज: = ' बाकुची ' इति । = परिपीतान् = भावितान् । ९ गोशकृद्भूः तानां = गोपुरीषस्वरसभावितानामित्यर्थः । गोभिरक्षुण्णभक्षितत्वेनापरिणतगोमयरूपाणा-मिति हाराणचन्द्रः । १० राजवृक्षः = आरग्वधः, रोहितकः - ' गुलनार ' इति ख्यातः । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 759
पाठ पढ़ें पाठ छिपाएँ
Chennai and eGangotri अ ० १० ] Digitized by Ary चकित्सास्थान her ६०१
सैन्धवलवणान्वितेन पाययेत् । एष सर्वमन्थकल्पः ॥ ४ ॥
याव॑कांश्च भक्ष्यान् धानो लुम्बक कुल्माषापूपपूर्ण कोशोत्कारिका-शष्कुलिकाकुरणावीप्रभृतीन् सेवेत । यवविधानेन गोधूमवेणुयवानु-पयुञ्जीत ॥ ५ ॥
अरिष्टानतो वक्ष्यामः - पूतीक चव्यचित्र कसुरदारुसारिवाद • न्तीत्रिवृत्त्रिकटुकानां प्रत्येकं षट्पलिका भागा बदरकुडवस्त्रिफलाकु-डव इत्येतेषां चूर्णानि, ततः पिप्पलीमधुघृतैरन्तःप्रलिप्ते घृतभा • जने प्राक्कृतसंस्कारे सप्तोदककुडवानयोरजोऽर्द्धकुडवमर्द्धतुलां च गुडस्याभिहितानि चूर्णान्यावाप्य स्वनुगुप्तं कृत्वा यवपल्ले सप्त-रात्रं · वासयेत्, ततो यथाबलमुपयुञ्जीत, एषोऽरिष्टः कुष्ठमेहमेदः-पाण्डुरोगश्वयथूनपहन्ति । एवं सालसारादौ न्यग्रोधादावारग्व-धादौ चारिष्टान् कुर्वीत ॥ ६ ॥
आसवानतो वक्ष्यामः — पलाशभस्मपरिस्रुतस्योष्णोदकस्य शीतीभूतस्य त्रयो भागा द्वौ फाणितस्यैकध्यम रिष्टकंल्पेन विदध्यात् । एवं तिलादीनां क्षारेषु सालसारादौ न्यग्रोधादावारग्वधादौ मूत्रेषु चासवान् विद्ध्यात् ॥ ७ ॥
अथ सुरा वक्ष्यामः– शिंशपाखदिरयोः सारमादायोत्पाट्य चोत्तमारणीत्राह्मीकोशातकी स्तत्सर्वमेकतः कषायकल्पेन विपाच्यो-दकमाददीत " मण्डोदकार्थं, किण्वपिष्टमभिषुणुयाच्च यथोक्तम् । एवं सुराः सालसारादौ न्यग्रोधादावारग्वधादौ च विदध्यात् ॥ ८ ॥
१ सर्वमन्थे पथ्यान्निर्दिशति - यावकानिति । धानाः = शुष्क भृष्टयवाः, उलु • म्बका: सरसा भृष्टयवाः । २ कुणावी = यवपर्पटी । ३ वेणुयवः = वंशबीजम् । ४ “ पक्कौषधाम्बुसिद्धं यन्मद्यं तत्स्यादरिष्टकम् " इति । ५ यवपल्ले = यवकुसूले । ६ " सीधुरिक्षुरसैः पक्कैरपक्कैरासवो भवेत् ” इति वचनादपक्कौवधाम्बुभ्यां सिद्ध मद्यं स श्रसवः प्रोच्यते । ७ अरिष्टकल्पेन = अनन्तरोक्त पूतीकाद्यरिष्टस्य यवपल्ले स्थाप-नवद्दित्यर्थः । ८ क्षारेषु - क्षारोदकेषु । ९ उत्पाट्य = सङ्कटथेत्यर्थः । १० मण्डोद · कार्थे = सुरोदकार्थम्, किण्व पिष्टं = मधूकपुष्पबीजमिश्रितम्, " श्रभिषुणुयात् = सुरार्थं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 760
पाठ पढ़ें पाठ छिपाएँ
६०२ by Arya Samaj F सुश्रुतसंहिवास and eGangotri [ अ ० १० अतोऽवलेहान् वक्ष्यामः - खदिरासन निम्बराजवृक्षसालसार-क्वाथे तत्सारपिण्डान् श्लक्ष्णपिण्डान् प्रक्षिप्य विपचेत्, ततो नाति-द्रवं नातिसान्द्रमवतार्य तस्य पाणितलपूर्णमप्रातराशो मधुमिश्र लिह्यात् । एवं सालसारादौ न्यग्रोधादावारग्वधादौ च लेहान् कारयेत् ॥ ९ ॥
अतश्चूर्णक्रियां वक्ष्यामः - सालसारादीनां सार चूर्णप्रस्थमाहृत्या-रग्वधादिकषायपरिपीर्तमनेकशः सालसारादिकषायेणैव पाययेत् । एवं न्यग्रोधादीनां फलेषु, पुष्पेष्वारग्वधादीनां चूर्ण क्रियां कारयेत् ॥ अत ऊर्ध्वमयस्कृतीर्वक्ष्यामः - तीक्ष्णलोहपत्राणि तंनूनि लवण-वर्गप्रदिग्धानि गोमयाग्निप्रतप्तानि त्रिफलासालसारादिकषायेण निर्वापयेत् षोडशवारान् " ततः खदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्मचूर्णानि कारयेद्र्घनतान्तवपरिस्रावितानि, ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संरज्योपयुञ्जीत, जीर्णे यथाव्याध्यनम्लमल-वणमाहारं कुर्वीत | एवं " तुलामुपयुज्य कुष्ठमेह मेदः श्वयथु पाण्डु-रोगोन्मादापस्मारानपहत्य वर्षशतं जीवति । तुलायां तुलायां " वर्षे-शतगुणोत्कर्षः । एतेन “ सर्वलौहेष्वयम्कृतयो व्याख्याताः ॥ ११ ॥
१० II " त्रिवृच्छयामाऽग्निमन्थसप्तलाकेवुकशङ्खिनी तिल्वक त्रिफलाप-लाशशिंशपानां स्वरसमादाय पालाश्यां द्रोण्यामभ्यासिच्य १४ खदिरा-सन्दध्यात्, यथोक्तं सूत्रस्थाने विरेचनाधिकारे इति शेषः । ५ पाणितलं पूरितमनेनेति पाणितलपूर्णे, पाणितलप्रपूरकमिति यावत्; अप्रातः .राशः = अकृतप्रातर्भोजनः । ६ सालसारादिसारचूर्णप्रस्थसमपरिमाणेनैव आरग्वधादि-कषायप्रस्थभावितमित्यर्थः । ७ तनूनि = तिलोत्सेधमात्राणीति तात्पर्यम् । लवण-वर्ग: सैन्धव सौवर्चलोद्भिदविड सामुद्रस्तत्कल्केन लिप्तानि । घनतान्तवं घनवस्त्रं तेन परिस्रावितानि गालितानीत्यथः । ९ संसृज्य = लौद्दमयपात्रे लौहदण्डमर्दनेन सम्यगेकीभावं कृत्वा । तुलां = १० तोलकम् । ११ वर्षशतगुणोत्कर्षः वर्षशतमायुः । १२ सर्वलौहेषु = सर्वधातुषु, ‘ सर्वं स्यात्तैजसं लोहम् ' इत्यमरः । १३ श्रौषधायस्कृतिमभिधत्ते - त्रिवृदिति । १४ अ. भ्यासिच्य = निःक्षिप्य, अयःपिण्डं स्वरसप्रमाणमभिसमीक्ष्य पञ्चाशत्पलप्रमाणं ग्राह्यम् । CC - 0. Gurukul Kangri Collection, Haridwar