सुश्रुत संहिता चौखम्बा — पृष्ठ 751–760

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 751–760

पृष्ठ 751

सुश्रुत संहिता चौखम्बा, पृष्ठ 751 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ९ ] Digitized by Ary चिकित्सास्थानम् hennai and eGangotri ५ ९ ३ सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटान् श्वित्रे पुण्डरीके च कुर्यात् ॥१५ ॥

द्वैपं ' दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः ।

पूतिः कीटो राजवृक्षोद्भवेन चारेणाक्तः श्वित्रमेको निहन्ति ॥ १६ ॥

कृष्णस्य सर्पस्य सी सुदग्धा वैभीतकं तैलमथ द्वितीयम् ।

एतत् समस्तं मृदितं प्रलेपात् श्वित्राणि सर्वाण्यपहन्ति शीघ्रम् ॥१७ ॥

अध्यर्द्धतोये सुमतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः ।

तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्रयम् ॥ १८ ॥

घृतेन युक्तं प्रपुनाडबीजं कुष्टं च यष्टीमधुकं च पिष्ट्वा ।

श्वेताय दद्याद् गृहकुक्कुटाय चतुर्थभक्तायं वुभुक्षिताय ॥ १ ९ ॥

तस्योपसङ्गृह्य च तत्पुरीषमुत्पाचितं सर्वत एव लिम्पेत् ।

अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ् वित्रमथो निहन्ति ॥ २० ॥

क्षारे सुदग्धे गँजलेण्डजे तु गजस्य मूत्रेण बहुस्रुते च ।

द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्वीजमवल्गुजस्य ं ॥ २१ ॥

निबन्धसङ्ग्रहव्याख्याकारः । सुश्रुतार्थसन्दीपनकारस्तु — भद्रा अनन्ता, उडुम्बरी इस्वोडुम्बरः, मलपूः काकोडुम्बरिका इत्याह । १ सञ्जातभिन्नस्फोटस्य श्वित्रिणः पश्चात्कर्म दर्शयति — द्वैपमिति । श्रधो. २ वायुवत् पूतिगन्धिः कीट इत्यर्थः । राजवृक्षः = ' अमलतास ' इति प्रसिद्धः । ३ पुट. दग्धस्य कृष्णवर्णस्य सर्पस्य कृष्णवर्णक्षारो ' मसी ' इत्युच्यते । ४ अधिकमर्द्धमत्रेत्य -ध्यर्द्धम्, अध्यर्द्धं च तत्तोयं तस्मिन् । अत्र श्लोके कृष्णस्य सर्पस्येत्यस्यानुवृत्तिः । तथा चायमर्थः — कल्पेन क्षारपाकविधिना सप्तकृत्वः सप्तवारान् सुमतिस्रुतस्य सुमत्या स्त्रावितस्य कृष्णसर्पक्षारस्य अध्यर्द्धतोये पाकानन्तरं क्षारापेक्षयाऽर्घाधिकैकभागे तोये चतुर्गुणेन तेन तोयेन शृतं तैलं श्वित्रापदं नक्षणम् उपलेपनमेतदस्यं श्रेष्ठमित्यर्थः । “ स्रावयेत् षड्गुणे तोये केचिदाहुश्चतुर्गुणे " इति क्षारपाकविधिरनुसन्धेयः । ५ चतुर्थभक्ताय यामदशकमुपोषितत्वे नावाप्त चतुर्थभक्तकालाय, विशेषणस्यास्य निःसृतप्राक्तनपुरीषत्वे तात्पर्यमिति सुश्रुतार्थसन्दीपनम् । ६ उत्पाचितं = मलप्वा-दिभिः प्रयोगः स्फोटकादिभिः पाकं नीतमित्यर्थः । ७ अभ्यन्तरं = = धात्वन्तर्गतम् । ८ गजलेण्डजे = हस्तिपुरीषजे । ९ बहुस्रुते = एकविंशतिवारान् गालिते । १ द्रो-णप्रमाणे = सार्द्धद्वादशसेटकप्रमाणे । १० अवल्गुजस्य = सोमराज्याः, ' वाकुची ' इति ३८ CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 752

सुश्रुत संहिता चौखम्बा, पृष्ठ 752 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५ ९ ४. सुश्रुतसहिताया Digitized by Arya Samaj Foundation Chennai and eGangotri Gangotri [ अ ० ९

एतद्यदा चिक्कैणतामुपैति तदा समस्तं गुटिका विद्ध्यात् ।

श्वित्रं प्रलिम्पेदथ सम्प्रघृष्य, तेया व्रजेदाशु सवर्णभावम् ॥ २२ ॥

कषयकल्पेन सुभावितां तु, जलं त्वचं चूतहरीतकीनाम् ।

तां ताम्रदीपे प्रणिधाय धीमान् वत्तिं वटक्षीरसुभावितां तु ॥ २३ ॥

आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याऽम्भसि भावयित्वा ।

सम्म्रक्षितं तद् बहुशः किलासं, तैलेन सिक्तं कटुना प्रयाति ॥ २४ ॥

आवल्गुजं बीजमग्र्यं ' नदीजं, काकाह्वानोदुम्बरी या च लाक्षा ।

लौहं चूर्णं मागधी तार्क्ष्यशैलं, तुल्याः कार्याः कृष्णवर्णास्तिलाश्च ॥ २५ ॥

वर्त्तिं कृत्वा तां गवां पित्तपिष्टां, लेपः कार्य्यः श्वित्रिणां श्वित्रहारी ।

लेपात् पित्तं शैखिनं श्वित्रहारि, होवेरं वा दग्धमेतेन युक्तम् ॥ २६ ॥

तुालकटुकाव्योषसिंहार्कह्यमारकाः ।

कुष्ठावल्गुजभल्लातक्षीरिणी सर्षपाः स्नुही ॥ २७ ॥

ख्यातस्येत्यर्थः । १ चिक्कणतां = स्निग्धताम् । २ किलासचिकित्सां ब्रवीति- कषायकल्पेनेति । चूतहरीतकीनां स्वचं छित्त्वा कषायकल्पेन क्वाथकल्पनया जलं यत्काथ:, तेन सुभावितां पिचुवर्ति कटु तैलेन सिक्त्वा तां ताम्रदीपे प्रणिधाय श्रादीप्य च तज्जातमसी गृहीत्वा वटक्षीरसुभावितां कृत्वा तामेव पथ्याऽम्भसि इरोतकीक्वाथेन भावयिवा कटुना तैलेन सिक्त्वा किलाशं बहुशः सम्म्रक्षितं कोऽर्थः? उपलेपितं सद् श्रपयाति । तन्त्रान्तरेऽपि - " पथ्याऽऽम त्वक्कषायेण पिचुवर्तिः सुभाविता । क्डतैलयुते तामपात्रे प्रज्ज्वालयेत्ततः ॥ मसीं तत्र वटक्षीरप-थ्याक्वाथेन भावयेत् । म्रक्षितं कटुतैलाक्तं तेन श्वित्रं प्रणश्यति ॥ ” इति । सुश्रुतार्थसन्दीपनकारस्तु - ‘ जलं खचम् ' इत्यत्र ' दलत्व जम् ' इति पठित्वा व्याख्या-ति — कश्चिदत्र दलसहिता वक् दलत्वक् तां दलत्वचमित्याचष्टे । एतत्त्वगतिकानां गतिरित्यश्रद्दधानाः ‘ दलमुत्सेधखण्डयोः ' इति कोषान्तर स्मरणाद् दल त्वचमुत्सन्नां त्वच-मित्याचक्षते । तथा च चूतहरीतकीनां घनां त्वचं कषायकल्पेन " भाग्यद्रव्यसमं क्वा · थ्यम् ” इत्याद्युक्तेन विधिना प्रकृतत्वात्तासामेव कषायेण सुभावितां सप्तकृ! वो भावितां कृत्वेति शेष इति । ३ नदीजं = तापीनदीसमुद्भूतो माक्षिकधातुः, काकाह्वानोदुम्बरी = काकोदुम्बरिका, ‘ कठूमर ' इति लोके । ४ तार्यशैलं = रसाञ्जनम् । ५ शिखिन इदं शैखिनं मयूरपित्तमित्यर्थः । ६ प्रथमलेपमाद्द — तुत्थेति । श्रालं = हरितालम् CC - 0. Gurukul Kangri Collection, Haridwar , ... सिंहः = रक्तशियुः ।

पृष्ठ 753

सुश्रुत संहिता चौखम्बा, पृष्ठ 753 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ९ ] Digitized by Ary चिकिस्सास्थानम् hennai and eGangotri ५ ९ ५

तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य वा ।

बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम् ॥ २८ ॥

आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः ।

वायँसी फल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक् ॥ २ ९ ॥

द्वे लोहरजसः प्रस्थे त्रिफलाच्याढकं तथा ।

त्रिद्रोणेऽपां पचेद् यावद्भागौ द्वार्वंसनादपि ॥ ३० ॥

शिष्टं च विपचेद् भूय एतैः श्लक्ष्णप्रपेषितैः ।

कल्कैरिन्द्रयवव्योषत्वग्दारुचतुरङ्गलैः ॥ ३१ ॥

पारावतपदीदन्तीबाकुची केशराह्वयैः ।

कण्टकार्य्या च तत्पक्कं घृतं कुष्ठिषु योजयेत् ॥ ३२ ॥

दोषधात्वाश्रितं पानादद्भ्यङ्गात्त्वग्गतं तथा ।

अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति ॥ ३३ ॥

त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका ।

वायस्यारग्वधाश्चैषां तुलां कुर्य्यात् पृथक् पृथक् ॥ ३४ ॥

काकमाच्यर्क वरुणदन्तीकुटज चित्रकात् ।

दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा ॥ ३५ ॥

त्रिद्रोणेऽपां पचेद्यावत् षट्प्रस्थं परिशेषितम् ।

कृद्रसदधिक्षीरमूत्राणां पृथगाढकम् ॥ ३६ ॥

तद्वद् घृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः । १ द्वितीयं लेपमाह - तिल्वकेति । तिल्वकः = लोधः, श्ररिष्टः = निम्बः । २ श्रश्व-इन्ता = करवीरकः । ३ कुष्ठे नीलघृतं ब्रवीति - वायसीति । वायसी = ‘ मकोय ' इति, फल्गुः = ' कठूमर ' इति, तिक्ता = कटुकी, एषां पृथक् पृथक् शतं पलानीत्यर्थः । ४ असनाद् विजयसाराद् अपां त्रिद्रोणे द्वौ भागौ यावदर्द्धावशिष्टं तावद्विपचेदित्यर्थः । अत्र सपिंश्चतुर्भागं, सर्पिषश्चतुर्थभाग इन्द्रयवादिकल्को बोद्धव्यः । ५ पारावतपदी = हंसपदीभेदः । ६ नीलयति सवर्णयति कुष्ठमिति नीलं नाम । ७ महानीलघृतमभिधत्ते - त्रिफलात्वगिति । मदयन्तिका -'मेइदो ' इति ख्याता । ८ निदिग्धिका = कण्टकारिका । ९ शकृद्रसः = गोमयस्वरसो द्वित्रिर्वा CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 754

सुश्रुत संहिता चौखम्बा, पृष्ठ 754 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

* $ Iitized by Arya Samaj Found भुत संहितायां reGangotri करञ्जफलनीलिकोश्यामाऽवल्गुजपीलुभिः ॥ ३७ ॥

" नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम् । म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम् । [ अ ० ९ भगन्दरं कृमीनर्शो महानीलं नियच्छति ॥ ३८ ॥

मूत्रं गव्यं चित्रकव्योषयुक्तं सर्पिः कुम्भे क्षौद्रयुक्तं स्थितं हि । पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत्कुर्य्याच्चास्मिन्कुष्ठदिष्टं विधानम् || ३ ९ ||

पूती कार्क ' नुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च ।

लेपः श्वित्रं हन्ति दद्रूर्ब्रणांश्च दुष्टान्यशस्येष नाडीव्रणांश्च ॥ ४० ॥

अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जाप्राणं सर्पिषा स्नेहयित्वा ।

तीक्ष्णैर्योगैश्छंदेयित्वा प्रगाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः ॥ ४१ ॥

दुर्वान्तो वा दुविरिक्तोऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः ।

निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात्कृत्स्नान्निर्हरेत्तस्य दोषान् ॥ ४२ ॥

पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम् । स्राव्यं र ं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात् त्रिरात्रात् ॥ ४३ ॥

पथ्या " व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात् ।

धात्रीपथ्या १२ ` क्षोपकुल्याविडङ्गान्क्षौद्राज्याभ्यामेकतो वाऽवलिह्यात् ॥४४ ॥

वस्त्रगालितः । १ नीलिका = ' काली निसोत ' इति ख्याता । २ नीलिनी = ' नील ' इति ख्याता । ३ नरेन्द्रद्रुमः = ‘ अमलतास ' इति ख्यातः । ४ सुमनाया इमे सौमनाः मालतीपल्लवा इत्यर्थः । सुमना = लोके ' चमेली ' इति । ५ पूर्वं कृतवमनस्य कृतविरेचनस्यापि कुष्ठिनो दोषप्राबल्यात् पुनः पुनः शोधन · शोणितावसेकयोः कर्तव्यतामुपदिशति - अस्मादिति । ६ जातप्राणं = प्राप्तपराक्र-ममित्यर्थः । ७ छर्दयित्वा = वामयित्वा, निर्हरेत् = विरेचयेत् । ८ केन क्रमेण शो. धनशोणितावसेचनं कार्यमिति दर्शयति- पक्षादिति । प्रतिपक्षमतीत्येति पक्षात् पक्षात्, त्यब्लोपे पञ्चमी । ९ स्रंसनं = विरेचनम् । १० वत्सरे वर्षे द्विः वारद्वयं षड्भिः षड्भिर्मासैरित्यर्थः । वाग्भटोऽपि - " पक्षात्पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनान्य • प्यधस्तात् । शुद्धिर्मूर्ध्नि स्यात्त्रिरात्रास्त्रिरात्रात् षष्ठे षष्ठे मास्यसृङ्मोक्षणानि ॥ ” इति । ११ प्रायोगिक योगान्निर्दिशति - पथ्येति । सेक्षुजातं = सगुडम् । तैलगुडयोः कुष्ठकारित्वेऽपि हरीतकीत्रिकटु संयुक्तयोः कुष्ठहारित्वं, संयोगशक्तेरचिन्त्यत्वादिति उल्हणः । १२ अक्षः = बिभीतकः, ' अक्षशब्दः स्मृतोऽष्टासु सौवर्चलबिभीके । कर्षप-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 755

सुश्रुत संहिता चौखम्बा, पृष्ठ 755 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० ९ ] Digitized by Ar संप Chennai and eGangotri २ ९ ७

पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोस्य गच्छेत् ।

एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः ॥ ५५ ॥

तद्वत्तोर्ध्यं मासमात्रं च पेयं तेनाजस्रं देहमालेपयेच्च ।

आरिष्टृत्वक् साप्तपर्णी च तुल्या लाक्षामुस्तं पञ्चमूल्यौ हरिद्रे ॥ ४६ ॥

मञ्जिष्ठाऽक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रो विडङ्गम् ।

सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन् ॥४७ ॥

कुष्टाज्जन्तुर्मुच्यते त्रै “ लं वा सपर्द्रोणं व्योषयुक्तं च युञ्जन् ।

गोमूत्राम्बु द्रोणसिद्धेऽक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम् ॥ ४८ ॥

आरग्वधे सप्तपर्णे पटोले सर्वृक्ष के नक्तमाले सनिम्बे ।

जीर्णं पक्वं तद्धरिद्राद्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः ॥४ ९ ॥

रोधारिष्टं पद्मकं " रक्तसारः सप्ताह्वाक्षौ वृक्षको बीजकश्च ।

योज्याः स्नाने दह्यमानस्य जन्तोः पेया वा स्यात्क्षौद्रयुक्ता त्रिभण्डी " ॥

खादेत् कुष्ठी मांसशाते पुराणान् मुद्गान् सिद्धान् निम्बताये सतैलान् ।

निम्बक्काथं ` जातसत्त्वः पिबेद्वा काथं वाऽर्कालर्क सप्तच्छदानाम् ॥५१ ॥

" जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गः समूत्रैः ।

मूत्रैश्चैनं सेचयेद् भोजयेच्च सर्वाहारान् सम्प्रयुक्तान् विडङ्गैः ॥ ५२ ॥

कारञ्जं वा सार्षपं वा क्षतेषु क्षेव्यं तैलं शिशुकोशाम्रयोर्वा ।

पक्कं सर्वैर्वा कटूष्णैः सतिक्तैः शेषं च स्याद् “ दुष्टवत् संविधानम् ॥५३ ॥

द्माक्षरुद्राक्षशकटेन्द्रियपाशके ॥ ” इति कोशः । उपकुल्या = पिप्पली । १ पापरोगस्य = कुष्ठस्य । २ तार्यं = रसाञ्जनम् । एतत्परिमाणं प्रत्यहं पलम् । ३ तेन = अनन्त • रोक्तेन रसाञ्जनैनेत्यर्थः । ४ श्ररिष्टत्वक् = निम्बत्वक् । ५ वह्निः: ≡ चित्रकः । ६ पूर्वोक्तचूर्णसमविडङ्गेरित्यर्थः । ७ त्रिफलाक्काथकल्कसिद्धं फलमित्यर्थः । ८ गोमूत्रमेवाम्बु गोमूत्राम्बु तद्द्रोणसिद्धे । गोमूत्रेणैव क्वाथोऽयं निष्पाद्य इत्यर्थः । ९ वृक्षकः ‘ कुड़ा ' इति ख्यातस्तेन सहिते सवृक्षके । १० रक्तसारः = रक्तचन्दनम्, सप्ताह्वः = सप्तपर्णः, अक्षः = बिभीतकः, वृक्षकः = कुटजः, बीजक: - ' विजयसार ' इति ख्यातः । ११ त्रिभण्डी = त्रिवृत् । १२ जातसत्त्र: = उत्पन्नकृमि: । १३ जग्धेषु = कृमिजग्धेषु । १४ दुष्टवत् = दुष्टव्रणवत् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 756

सुश्रुत संहिता चौखम्बा, पृष्ठ 756 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

inar and eGangotri [ अ ० ९ ९ Sigitized by Arya Samaj Foulla सुश्रुतसंहितायां

सप्तपर्णकरञ्जक मालतीकरवीरजम् ।

स्नुहीशिरीषयोर्मूलं चित्रकास्फोतयोरपि ॥ ५४ ॥

विषैलाङ्गलवज्राख्यकासीसालमनःशिलाः ।

करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम् ॥ ५५ ॥

सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत् ।

मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम् ॥ ५६ ॥

एतद्वज्रकमभ्यङ्गान्नाडीदुष्टत्ररणापहम् ।

सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम् ॥। ५७ ॥

कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी ।

लाक्षा सर्जरसोऽर्कश्च सास्फोताऽऽरग्वधौ स्नुही ॥ ५८ ॥

शिरीषस्तुव राख्यस्तु कुटजारुष्करौ वचा ।

कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा ॥ ५ ९ ॥

मालती कंटुतुम्बी च गन्धाह्वा मूलकं तथा ।

सैन्धवं करवीरच गृहधूमं विषं तथा ॥ ६० ॥

कँम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये ।

समभागानि सर्वाणि कल्कपेष्याणि कारयेत् ॥ ६१ ॥

गोमूत्रं द्विगुणं दद्यात्तिलतैलाचतुर्गुणम् ।

कारञ्जं वा महावीर्य्यं सार्षपं वा महागुणम् ॥ ६२ ॥

अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान् ।

नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः ॥ ६३ ॥

महावज्रकमित्येतन्नाम्ना तैलं महागुणम् । १ कुष्ठेषु बहिःशोधकवजकतैलं ब्रवीति - सप्तपर्णेति । । २ श्रस्फोता = सा • रिवा ४ महावज्रकतैलं नि · । ३ विषं वत्सनाभः, वज्राख्यः = निष्पत्रा स्नुही । दिशति - सिद्धार्थक इति । सिद्धार्थकः = श्वेतसर्षपः । ५ मृगादनी = इन्द्रवा • -रुणी । 8 गन्धाह्वा = गन्धकः । ७ कम्पिल्लकं = ' कबीला ' इति, तेजोह्वा = चव्यम् । ८ स्नेद्दचतुर्थांशो भेषजकल्कः, स्नेहचतुर्गुणो द्रव्य इति न्यायः । द्रवार्थमत्र पूर्वसाह-चर्याद् गोमूत्रमेव ग्राह्यम् । ९ तिलतैलाच्चतुर्गुणं गोमूत्रं द्विगुणं दद्यादिति योजना । एतेन श्रष्टगुणं दद्यादि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 757

सुश्रुत संहिता चौखम्बा, पृष्ठ 757 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Foundation Chennai and eGangotri ५ ९९ अ ० ९ ] Digitized by Arya चिकित्सास्थानम् in पित्तावापैर्मूत्रपिष्टैस्तैलं लाक्षादिकैः कृतम् ॥ ६४ ॥

सप्ताहं कटुकाऽलाब्वां निदधीत चिकित्सकः ।

पीतवन्तं ततो मात्रां तेनाभ्यक्तं चं मानवम् ॥ ६५ ॥

शोषयेदातपे तस्य दोषा गच्छन्ति सर्वशः ।

स्रुतदोपं समुत्थाप्य स्नातं खदिरवारिणा ॥ ६६ ॥

यवागूं पाययेदेनं साधितां खदिराम्बुना ।

एवं संशोधने वर्गे कुष्ठध्नेष्वोषधेषु च ॥ ६७ ॥

कुर्य्यात् तैलानि सर्पषि प्रदेहो घर्षणानि च ।

प्रातः प्रातश्च सेवेत योगान् वैरेचनान् शुभान् ।

पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति ॥ ६८ ॥

कारभं वा पिवेन्मूत्रं जीर्णे तत्क्षोरभोजनम् ।

जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति ॥ ६ ९ ॥

दिदृक्षुरन्तं कुष्टस्य खदिरं कुष्ठपीडितः ।

सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु ॥ ७० ॥

यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा ।

तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा ॥ ७१ ॥

नीर्च रोमनखः श्रान्तो हिताश्यौषधतत्परः ।

योषिन्मांससुरावर्जी कुष्ठटो कुष्ठमपोहति ॥ ७२ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम नवमोऽध्यायः ॥ ९ ॥

त्य।यातम् । १ पित्तावापैः = गोपित्तयुक्तैः, मूत्रपिष्टै = गोमूत्रपिष्टैः, तैलं = तिलतैलम्, लाक्षादिकैः = अनन्तरोक्तैर्महावज्रकतै लाङ्गसम्भूतैर्लाक्षा सर्जरसादिभिरित्यर्थः । शो-२ षयेत् = स्वेदयेत्, सर्वशः = ऊर्ध्वमधस्तिर्यक्, गच्छन्ति = स्वेदरूपेण परिणम्य या-न्तीत्यर्थः । ३ दोषनिस्सरणानन्तरं कर्तव्यतामुपदिशति - स्रुतदोषमिति । ४ करभा उष्ट्री तरसम्बन्धि मूत्रं कारभम् । ५ खदिरसारस्योत्कृष्टतामाचष्टे - यथेति । ६ कुष्ठिनः कर्तव्यतामुपदिशति— नीचेति । नीचकेशनखः = क्लृप्तकेशनखः, श्रान्तः = जितेन्द्रियः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 758

सुश्रुत संहिता चौखम्बा, पृष्ठ 758 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६०० Digitized by Arya Samaj सुश्रुतसंहिता and eGangotri i दशमोऽध्यायः । [ अ ० १० अथातो महाकुष्ठचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

कुष्ठेषु मेहेषु कफामयेषु सर्वाङ्गशोफेषु च दारुणेषु ।

कृशत्वमिच्छत्सु च मेदुरेषु ' योगानिमानग्र च मतिर्विदध्यात् ॥ ३ ॥

क्षुण्णान्यवान्निष्पूतान् रात्रौ गोमूत्रपर्थ्यापितान् महति किंलि. ब्जे शोषयेत्, एवं सप्तरात्रं भावयेच्छोषयेच्च । ततस्तान् कपो-लभृष्टान् शक्तून् कारयित्वा प्रातः प्रातरेव कुष्ठिनं प्रमेहिणं वा सालसारादिकषायेण कण्टकिवृक्षकषायेण वा पाययेद् भल्ला-तकप्रपुन्नाडावल्गुजार्कचित्रकविडङ्गमुस्त चूर्णं चतुर्भागयुक्तान् । एव-मेव सालसारादिकषायपरिपीतानामारग्वधादिकषायपरिपीतानां वा गोशृकृद्भूतानां वा यवानां शक्तून कारयित्वा भल्लातकादीनां चूर्णान्यावाप्य खदिराशननिम्बराज " वृक्ष रोहितक गुडूचीनामन्यतम-स्य कषायेण शर्करामधुमधुरेण द्राक्षायुक्तेन दाडिमवेतसाम्लेन वाग्भटे — ' ' व्रतयमदमसेवात्यागशीलाभियोगो द्विजसुरगुरुपूजा सर्वसत्त्वेषु मैत्री । शिव • शिवसृतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति || " इत्युक्तमपि ध्येयम् । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां नवमोऽध्यायः । दशमोऽध्यायः । १ महतां धात्वनुप्रविष्टानां कुष्ठानां चिकित्सितमित्यर्थः । २ मेदुरेषु = सान्द्रेषु, कठिनेष्विति तात्पर्यम् । ' सान्द्रस्निग्धस्तु मेदुरः ' इत्यमरः । ३ कुष्ठे यवकल्पं निर्दि-शति - क्षुण्णानिति । क्षुण्णान् = उलूखले कुट्टितान्, निष्पूतान् = तुषादिना विरहितान् । ४ किलिओ = वंशादित्वग्ग्रथितपिटकादौ । ५ कपाले घटादिकर्परे भृष्टान् । ६ सालसारादिर्द्रव्यसङ्ग्रहणीयाध्यायोक्तो गणः । कण्टकिवृक्षाः खदिर-· विकङ्कतकरमर्दादयस्तेषां कषायेण क्वाथेनेत्यर्थः । ७ अवल्गुज: = ' बाकुची ' इति । = परिपीतान् = भावितान् । ९ गोशकृद्भूः तानां = गोपुरीषस्वरसभावितानामित्यर्थः । गोभिरक्षुण्णभक्षितत्वेनापरिणतगोमयरूपाणा-मिति हाराणचन्द्रः । १० राजवृक्षः = आरग्वधः, रोहितकः - ' गुलनार ' इति ख्यातः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 759

सुश्रुत संहिता चौखम्बा, पृष्ठ 759 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Chennai and eGangotri अ ० १० ] Digitized by Ary चकित्सास्थान her ६०१

सैन्धवलवणान्वितेन पाययेत् । एष सर्वमन्थकल्पः ॥ ४ ॥

याव॑कांश्च भक्ष्यान् धानो लुम्बक कुल्माषापूपपूर्ण कोशोत्कारिका-शष्कुलिकाकुरणावीप्रभृतीन् सेवेत । यवविधानेन गोधूमवेणुयवानु-पयुञ्जीत ॥ ५ ॥

अरिष्टानतो वक्ष्यामः - पूतीक चव्यचित्र कसुरदारुसारिवाद • न्तीत्रिवृत्त्रिकटुकानां प्रत्येकं षट्पलिका भागा बदरकुडवस्त्रिफलाकु-डव इत्येतेषां चूर्णानि, ततः पिप्पलीमधुघृतैरन्तःप्रलिप्ते घृतभा • जने प्राक्कृतसंस्कारे सप्तोदककुडवानयोरजोऽर्द्धकुडवमर्द्धतुलां च गुडस्याभिहितानि चूर्णान्यावाप्य स्वनुगुप्तं कृत्वा यवपल्ले सप्त-रात्रं · वासयेत्, ततो यथाबलमुपयुञ्जीत, एषोऽरिष्टः कुष्ठमेहमेदः-पाण्डुरोगश्वयथूनपहन्ति । एवं सालसारादौ न्यग्रोधादावारग्व-धादौ चारिष्टान् कुर्वीत ॥ ६ ॥

आसवानतो वक्ष्यामः — पलाशभस्मपरिस्रुतस्योष्णोदकस्य शीतीभूतस्य त्रयो भागा द्वौ फाणितस्यैकध्यम रिष्टकंल्पेन विदध्यात् । एवं तिलादीनां क्षारेषु सालसारादौ न्यग्रोधादावारग्वधादौ मूत्रेषु चासवान् विद्ध्यात् ॥ ७ ॥

अथ सुरा वक्ष्यामः– शिंशपाखदिरयोः सारमादायोत्पाट्य चोत्तमारणीत्राह्मीकोशातकी स्तत्सर्वमेकतः कषायकल्पेन विपाच्यो-दकमाददीत " मण्डोदकार्थं, किण्वपिष्टमभिषुणुयाच्च यथोक्तम् । एवं सुराः सालसारादौ न्यग्रोधादावारग्वधादौ च विदध्यात् ॥ ८ ॥

१ सर्वमन्थे पथ्यान्निर्दिशति - यावकानिति । धानाः = शुष्क भृष्टयवाः, उलु • म्बका: सरसा भृष्टयवाः । २ कुणावी = यवपर्पटी । ३ वेणुयवः = वंशबीजम् । ४ “ पक्कौषधाम्बुसिद्धं यन्मद्यं तत्स्यादरिष्टकम् " इति । ५ यवपल्ले = यवकुसूले । ६ " सीधुरिक्षुरसैः पक्कैरपक्कैरासवो भवेत् ” इति वचनादपक्कौवधाम्बुभ्यां सिद्ध मद्यं स श्रसवः प्रोच्यते । ७ अरिष्टकल्पेन = अनन्तरोक्त पूतीकाद्यरिष्टस्य यवपल्ले स्थाप-नवद्दित्यर्थः । ८ क्षारेषु - क्षारोदकेषु । ९ उत्पाट्य = सङ्कटथेत्यर्थः । १० मण्डोद · कार्थे = सुरोदकार्थम्, किण्व पिष्टं = मधूकपुष्पबीजमिश्रितम्, " श्रभिषुणुयात् = सुरार्थं CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 760

सुश्रुत संहिता चौखम्बा, पृष्ठ 760 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६०२ by Arya Samaj F सुश्रुतसंहिवास and eGangotri [ अ ० १० अतोऽवलेहान् वक्ष्यामः - खदिरासन निम्बराजवृक्षसालसार-क्वाथे तत्सारपिण्डान् श्लक्ष्णपिण्डान् प्रक्षिप्य विपचेत्, ततो नाति-द्रवं नातिसान्द्रमवतार्य तस्य पाणितलपूर्णमप्रातराशो मधुमिश्र लिह्यात् । एवं सालसारादौ न्यग्रोधादावारग्वधादौ च लेहान् कारयेत् ॥ ९ ॥

अतश्चूर्णक्रियां वक्ष्यामः - सालसारादीनां सार चूर्णप्रस्थमाहृत्या-रग्वधादिकषायपरिपीर्तमनेकशः सालसारादिकषायेणैव पाययेत् । एवं न्यग्रोधादीनां फलेषु, पुष्पेष्वारग्वधादीनां चूर्ण क्रियां कारयेत् ॥ अत ऊर्ध्वमयस्कृतीर्वक्ष्यामः - तीक्ष्णलोहपत्राणि तंनूनि लवण-वर्गप्रदिग्धानि गोमयाग्निप्रतप्तानि त्रिफलासालसारादिकषायेण निर्वापयेत् षोडशवारान् " ततः खदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्मचूर्णानि कारयेद्र्घनतान्तवपरिस्रावितानि, ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संरज्योपयुञ्जीत, जीर्णे यथाव्याध्यनम्लमल-वणमाहारं कुर्वीत | एवं " तुलामुपयुज्य कुष्ठमेह मेदः श्वयथु पाण्डु-रोगोन्मादापस्मारानपहत्य वर्षशतं जीवति । तुलायां तुलायां " वर्षे-शतगुणोत्कर्षः । एतेन “ सर्वलौहेष्वयम्कृतयो व्याख्याताः ॥ ११ ॥

१० II " त्रिवृच्छयामाऽग्निमन्थसप्तलाकेवुकशङ्खिनी तिल्वक त्रिफलाप-लाशशिंशपानां स्वरसमादाय पालाश्यां द्रोण्यामभ्यासिच्य १४ खदिरा-सन्दध्यात्, यथोक्तं सूत्रस्थाने विरेचनाधिकारे इति शेषः । ५ पाणितलं पूरितमनेनेति पाणितलपूर्णे, पाणितलप्रपूरकमिति यावत्; अप्रातः .राशः = अकृतप्रातर्भोजनः । ६ सालसारादिसारचूर्णप्रस्थसमपरिमाणेनैव आरग्वधादि-कषायप्रस्थभावितमित्यर्थः । ७ तनूनि = तिलोत्सेधमात्राणीति तात्पर्यम् । लवण-वर्ग: सैन्धव सौवर्चलोद्भिदविड सामुद्रस्तत्कल्केन लिप्तानि । घनतान्तवं घनवस्त्रं तेन परिस्रावितानि गालितानीत्यथः । ९ संसृज्य = लौद्दमयपात्रे लौहदण्डमर्दनेन सम्यगेकीभावं कृत्वा । तुलां = १० तोलकम् । ११ वर्षशतगुणोत्कर्षः वर्षशतमायुः । १२ सर्वलौहेषु = सर्वधातुषु, ‘ सर्वं स्यात्तैजसं लोहम् ' इत्यमरः । १३ श्रौषधायस्कृतिमभिधत्ते - त्रिवृदिति । १४ अ. भ्यासिच्य = निःक्षिप्य, अयःपिण्डं स्वरसप्रमाणमभिसमीक्ष्य पञ्चाशत्पलप्रमाणं ग्राह्यम् । CC - 0. Gurukul Kangri Collection, Haridwar