सुश्रुत संहिता चौखम्बा — पृष्ठ 741–750
सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 741–750
पृष्ठ 741
पाठ पढ़ें पाठ छिपाएँ
अ ० ८ ] Digitized by Arya ईचिकित्सा Sarhaj undation या नाम hai and eGangotri ५८३ वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा ॥ १३ ॥
कषायं सुकृतं कृत्वा स्नेहकुम्भे निषेचयेत् ।
नोडीस्वेदेन तेनास्य तं व्रणं स्वेदयेद्भिषक् ॥ १४ ॥
तिलैरण्डातसीमाषयवगोधूमसर्षपान् ।
लवणान्यम्लवर्गञ्च स्थाल्यामेवोपसाधयेत् ॥ १५ ॥
आतुरं स्वेदयेत्तेन तथा सिध्यति कुर्वतः ।
स्विन्नं च पाययेदेनं कुष्ठं च लवणानि च ॥ १६ ॥
वचाहिङ्ग्वजमोदं च समभागानि सर्पिषा ।
मार्द्वीकेनाथवाऽम्लेन सुरासौवीरकेण वा ॥ १७ ॥
ततो मधुकतैलेन तस्य सिञ्चेद्भिषगू व्रणम् ।
परिषिञ्चेद् गुदं चास्य तैलैर्वातरुजापहैः ॥ १८ ॥
विधिनाऽनेन विण्मूत्रं स्वमार्गमधिगच्छति ।
अन्ये चोपद्रवांस्तीब्राः सिध्यन्त्यत्र न संशयः ॥ १ ९ ॥
शतपोनक आख्यात उष्ट्रग्रीवे क्रियां शृणु ।
अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत् ॥ २० ॥
पूतिमांसव्यपोहार्थमग्निरत्र न पूजितः ।
अथैनं घृतसंसृष्टैस्तिलैः पिष्टैः प्रलेपयेत् ॥ २१ ॥
बन्धं ततोऽनुकुर्वीत परिषेकं तु सर्पिषा । II तृतीये दिवसे मुक्त्वा " यथास्वं शोधयेद्भिषक् ॥। २२ ॥ षणं विष्किरेषु लावस्यैव विशेषेणौपयौगिकत्वबोधनार्थम् । विल्वादि गणं = बृहत्पञ्चमूलम् । १ वृश्चादनी = वन्दाकः, २ नाडीस्वेदविधानं चिकित्सास्थानस्य द्वात्रिंशत्तमे स्वेदावचारणीयाध्याये द्रष्ट-व्यम् । ३ एनं = भगन्दरातुरम् । ४ माद्दकेन = द्राक्षामद्येनेत्यर्थः । ५ मधुक • क्वाथकल्कसिद्धं तैलं मधुकतैलं तेन । ६ वातव्याधिनिर्दिष्टैर्वातरुजाप है स्तैलैरित्यर्थः । ७ उपद्रवाः = आध्मान गुदभ्रंशादयः । ८ उष्ट्रग्रीवाख्यभगन्दरचिकित्सां निर्दिशति - अथेति । क्षारनिपातनं पूतिमांसा-पकर्षणार्थम् । ९ बन्धं - गोफणाख्यं कौपीनाकारबन्धमित्यर्थः I । १० यथास्वं = य • CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 742
पाठ पढ़ें पाठ छिपाएँ
५८४ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० ८
ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम् ।
उत्कृत्यास्रावमार्गं तु परिस्राविणि बुद्धिमान् ॥ २३ ॥
क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा ।
सुखोष्णेनाणुतैलेन सेचयेद् गुदमण्डलम् ॥ २४ ॥
उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः ।
वार्मंनीयौषधैः कार्याः परिषेकाश्च मात्रैया ॥ २५ ॥
मृदुर्भूतं विदित्वैनमल्पस्रावरुगन्वितम् । थादोषं द्विव्रणीयोक्तानुसारेण । १ द्वित्रणीयोक्तं क्रममनतिक्रम्येति यथाक्रमम् । २ उ-त्कृत्य = शस्त्रेण छित्त्वा । ३ अणुतैलं प्राक् चतुर्थाध्याये कथितं, सुखोष्णेन तेन गुद-मण्डलं सेचयेत् । ४ वामनीयौषधै र्मंदनफलादिभिः संशोधनसंशमनीयाध्यायोक्तैरुपनाहादयः परि ० षेकाः प्रक्षालनार्थाः क्काथाश्च मूत्रक्षारसमन्विताः कार्या इत्यर्थः । ५ व्याध्यादिबलम. भिसमीक्ष्य यत्र यादृशी मात्रा उचिता तत्र तादृश्या मात्रयेत्यर्थः । ६ परिस्राविभगन्दरे शस्त्रक्रियाविधिमभिधत्ते - मृदुभूतमिति । एनं परिस्राविणं भगन्दरं मृदुभूतं दोषदुष्टतया सञ्जीतमृदु मां सत्वेनावाप्तमृदुभावम्, अल्पस्रावरुगन्वितं प्राक्छिन्नतया दोषाणामल्पीयस्त्वेन अल्पतरस्राववेदनं विदित्वा गतिं नाडीमन्विष्य खर्जूर्रपत्रादिकं निश्शेषं छिन्द्यादित्यर्थः । ढल्हणः – खर्जूरपत्रमिव पत्रकं यस्य तत् खर्जूरपत्रकम्, तच्च मध्यनाढीच्छेदस्य पार्श्वद्वयस्थानां मुखानां तिर्यक्छेदेन पङ्क्तिद्व · येन भवति । मध्यवक्रनाढ्यनुलोमच्छेद स्यार्धं चन्द्रतुल्यत्वादर्धचन्द्रः । मध्यरूढव्रणपद-स्यैकमूलपार्श्वद्वयगतनाडीद्वयेनैकमुखेन बहिर्मुखेन चन्द्रमण्डलतुल्यत्वाच्छेदस्य चन्द्रम-ध्पतनीयस्याभग्नकूलयोविंशालायां वा नाडयनुरोधे मध्यैकच्छेदेन मूलाग्रयोस्त्रिशिष्ये-ऽवच्छेदेन चक्राकारसादृश्याच्चक्रम् । अन्तर्मुखे स्थूलं मूलेऽणु तेन सूचीमुखं, तदेव श्र • वाङ्मुखमधोमुखमिति । हारण चन्द्रस्तु —खर्जूरपत्रकादीनि तु संस्थान विशेषभिन्नानां भगन्दराणां नामा-नि । अत्र खर्जेरपत्रकमिति संज्ञायां कः । सा च काकपक्षकादिवत् सादृश्यमूला । तथा च खर्जूरपत्राणि यथा नालस्योभयपार्श्वतः प्रसरन्तितथैव प्रसृताभिर्नाडीभिरुपनि-बद्धा प्रधाननाडी यत्राविर्भवति स खर्जूरपत्रको नाम भगन्दरः, चन्द्रस्यार्धमिवेति चन्द्रार्धम्, चन्द्र चक्रं चन्द्रमण्डलाकारम्, सूचीमुखं सूक्ष्मवक्त्रम्, अवाङ्मुखमधो-सुखमिति । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 743
पाठ पढ़ें पाठ छिपाएँ
अ ०८ ] Digitized by Arya बिकित्सा राज hennai and eGangotri ५८५ गतिमन्विष्य शस्त्रेण छिन्द्यात् खर्जूरपत्रकम् ॥ २६ ॥
चन्द्रार्द्धं चन्द्रचक्रञ्च सूचीमुखमवाङ्मुखम् ।
छित्त्वाऽग्निना दहेत् सम्यगेवं क्षारेण वा पुनः ॥ २७ ॥
ततः संशोधनैरेवं मृदुपूर्वैर्विशोधयेत् ।
बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः ॥ २८ ॥
तम्याहितं विरेकाग्निशस्त्रक्षारावचारणम् ।
यद्यन्मृदुचं तीक्ष्णं च तत्तत्तत्स्यावचारयेत् ॥ २ ९ ॥
आरग्वैधनिशाकालाचूर्णं मधुघृताप्लुतम् ।
अवर्त्तिप्रणिहितं व्रणानां शोधनं हितम् ॥ ३० ॥
योगोऽयं नाशयत्याशु गतिं मेघमिवानिलः ।
आगन्तुजे भिषङ्नाडीं शस्त्रेणोत्कृत्य यत्नतः ॥ ३१ ॥
जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया ।
दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ॥ ३२ ॥
कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च ।
प्रत्याख्यायैष चारभ्यो वर्ज्यश्चापि त्रिदोषजः ॥ ३३ ॥
एतत् कर्म समाख्या ं सर्वेषामनुपूर्वशः । १ मृदुपूर्वैः संशोधनैः पूर्वं मृदुसंशोधनैः क्रूरकोष्ठं चेत् पश्चात् तीच्णैः संशोधनैः शोधयेदित्यर्थः । २ शिशूनां भगन्दरविशेषे विरेकाग्निशस्त्रक्षारनिषेधं दर्शयति-बहिरिति । ३ मृदु च तीक्ष्णं च = नातितीक्ष्णं नातिमृद्वित्यर्थः । यथा नात्युष्ण-शीताः काकमाच्यादयः । ४ भगन्दरे आरग्वधादिवर्तिमाह – आरग्वधेति । भार-ग्वधः = ‘ अमलतास’इति, निशा - हरिद्रा, काला = ' काली निसोत इति ख्याता । मधु. घृताप्लुतम्, सामान्येनोक्तेऽपि चूर्णाद् द्विगुणं मधु पक्त्वाऽतितरां तन्तुलीभूते तस्मिन् चूर्णमेतत् प्रक्षिप्य घृताक्ते ताम्रपात्रेऽवतार्योष्णावस्थायां वर्तिः कार्येत्युपदिशन्ति प्राञ्चः । अर्वाञ्चस्तु मधुघृताप्लुतेन चूर्णेनाक्तं वस्त्रखण्डमेव वर्तीकृत्योपयुज्जन्तीति सुश्रुतार्थसन्दीपनम् । ५ अग्रवर्तिः नातिश्लथखरत्वेन घनवर्तिता सूत्रमयी बर्तिस्तया प्रणिद्दितमित्यर्थः । ६ शल्यनिमित्तभगन्दरचिकित्सां निर्दिशति - आगन्तुज इति । ७ जम्ब्वोष्ठेन = जम्बूफलसदृशसूक्ष्माग्रकृष्णपाषाणरचितया वर्त्या । ८ एषः = श्रागन्तुजः, प्रत्या-ख्याय = प्रायेणासाध्य इत्यभिधायेत्यर्थः । ९ सर्वभगन्दरेषु शस्त्रजनितवेदनाशमनो-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 744
पाठ पढ़ें पाठ छिपाएँ
५८६Digitized by Arya Samaj -सुश्रुतसंहितायां and eGangotri एषान्तु शस्त्रपतनाद्वेदना यत्र जायते ॥ ३४ ॥
तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते । [ अ ० ८ वातघ्नौषध सम्पूर्णां स्थालीं छिद्रशराविकाम् ॥ ३५ ॥
स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सबाष्पिकाम् ।
नाड्या वाऽस्याहरेत् स्वेदं शयानस्य रुजापहम् ।
उष्णोदकेऽवगाह्यो वा तथा शाम्यति वेदना ॥ ३६ ॥
कंदलीमृगलोपाकप्रियकाजिनसम्भृतान् ।
कारयेदुपनाहांश्च शाल्वणादीन् विचक्षणः ॥ ३७ ॥
कटुत्रिकं वचाहिङ्गुलवणान्यथ दीप्यकम् ।
पायये चामल कौलत्थ सुरासौवीरकादिभिः ॥ ३८ ॥
ज्योतिष्मतीलाङ्गकीश्यामादन्तीत्रिवृत्तिलाः ।
कुष्ठं शताह्वा ' गोलोमी तिल्वको गिरिकर्णिका ॥ ३ ९ ॥
कासीसं काञ्चनक्षय्य वर्गः शोधन इष्यते ।
त्रिवृत्तिला नागदन्ती मञ्जिष्ठा पयसा सह ॥ ४० ॥
उत्सादनं भवेदेतत् सैन्धवक्षौद्रसंयुतम् ।
रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः ॥ ४१ ॥
त्रिवृत्तेो C तीदन्तीकल्को नाडीव्रणापहः । पायं दर्शयति - एतदिति । १ वातघ्नौषधसम्पूर्णां = भद्रदार्वाधैरण्डादिवातहरौष-धक्काथपूर्णामित्यर्थः । स्थाल कथम्भूतां? छिद्र शराविकां छिद्रीकृतशरावाच्छन्नमुखाम् । २ सबाष्पिकां = बाष्पमुद्गिरन्तीम् । ३ वातकफजे भगन्दरे वेदनोपशमनार्थमुपनाहं दर्शयति - कदलीमृगेति । कद ॰ लीमृगो मृगविशेषः, लोपाकः शृगालभेदः, प्रियको मृगविशेषः । ' कदलीकन्दलीचीन-श्वमूरुप्रियकावपि इत्यमरः । ४ भगन्दरे त्रिकटुकादियोगं वक्ति - कटुत्रिकमिति । ५ भगन्दरशोधनवर्गमभिधत्ते - ज्योतिष्मतीति । ज्योतिष्मती = ' मालकाङ्गनी ' इति, लाङ्गलकी = ' कलिहारी ' इति, श्यामा = ' कालीनि सोत ' इति । ६ गोलोमी = दूर्वा, गिरिकर्णिका = अपराजिता । ७ भगन्दरोत्सादनद्रव्याण्याह - त्रिवृदिति । ८ भगन्दरे कल्कमभिदघाति – रसाञ्जनमिति । ९ तेजोवती - ' तेजबल ' इति CC - 0. Gurukul Kangri Collection, Haridwar रोपणशोधन. ख्याता ।
पृष्ठ 745
पाठ पढ़ें पाठ छिपाएँ
ऋ ० ८ ] Digitized by Arya चिकित्सा मान ehnai and eGangotri ५८७ कुष्ठं त्रिवृत्तिला दन्ती मागध्यः सैन्धवं मधु ॥ ४२ ॥
रजनी त्रिफला तुत्थं हितं स्याद् व्रणशोधनम् ।
मागध्यो मधुकं रोत्रं कुष्ठमैला हरेणवः ॥ ४३ ॥
समङ्गा धातकी चैव सारिवा रजनीद्वयम् ।
प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम् ॥ ४२ ॥
सुधा वचा लाङ्गलकी मधूच्छिष्टं ससैन्धवम् ।
एतत् सम्भृत्य सम्भारं तैलं धीरो विपाचयेत् ॥ ४५ ॥
एतद्वै गण्डमालासु मण्डलेष्वथ मेहिषु ।
रोपणार्थं हितं तैलं भगन्दरविनाशनम् ॥ ४६ ॥
न्यग्रोधादिगणश्चैव हितः शोधनरोपणे ।
तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम् ॥ ४७ ॥।
त्रिवृद्दन्तीहरिद्रार्कमूलं लो श्वमारकौ ।
विडङ्गसारं त्रिफला स्नुह्यर्कपयसी मधु ॥ ४८ ॥
मधूच्छिष्टसमायुक्तैस्तैलमेतैर्विपाचयेत् ।
भगन्दरविनाशार्थमेतद्योज्यं विशेषतः ॥ ४ ९ ॥
चित्रकार्कौ त्रिवृत्पाठे मलैं हृयमारकम् ।
सुधां वचां लाङ्गलकीं सप्तपर्णं सुवर्चिकाम् ॥ ५० ॥
ज्योतिष्मतीं च सम्भृत्य तैलं धीरो विपाचयेत् ।
एतद्धि स्यन्दनं तैलं भृशं दद्याद्भगन्दरे ॥ ५१ ॥
शोधनं रोपणं चैव सवर्णकरणं तथा ।
द्विव्रणीयमवेक्षेत व्रणावस्थासु बुद्धिमान ॥ ५२ ॥
छिद्रादूर्ध्वं हरेदोष्ठमर्शोयन्त्रस्य यन्त्रवित् । १ मागध्यादिरोपणतैलमभिधत्ते - मागध्य इति । कल्पनाप्रकारस्तु - यावन्ति तैलानि तच्चतुर्थांशो भेषजानां करकः, तैल चतुर्गुणं जलमिति । २ न्यग्रोधादिगणो द्रव्यसङ्ग्रहणीयाध्याये प्राग् द्रष्टव्यः । ३ लोहम् = अगुरु, अश्वमारकः = करवीरः । विडङ्गसारं 13 ' वायभिरङ्ग ' इति ख्यातम् । ४ स्यन्दनतैलं निर्दिशति - चित्रकेति । मलपूः = कठूमर ' इति 1 । ५ स्यन्दनं = स्यन्दनाख्यं तैल-मित्यर्थः । ६ अर्शोयन्त्रं तु सोष्ठत्वेन नैवोपयोगा गुदोष्ठादेव छेद्यत्वात्तदिदं CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 746
पाठ पढ़ें पाठ छिपाएँ
५८८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri ततो भगन्दरे दद्यादेतदर्धेन्दुसन्निभम् ॥ ५३ ॥
व्यायामं मैथुनं कोपं पृष्ठयानं गुरूणि च ।
संवत्सरं परिहरेदुपरूढव्रणो नरः ॥ ५४ ॥
[ अ ० ९ इति सुश्रुतसंहितायां चिकित्सास्थाने भगन्दरचिकित्सितं नाम अष्टमोऽध्यायः ॥ ८ ॥
नवमोऽध्यायः ।
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः ॥ १ ॥
यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥
विरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादोनां चायथारम्भैः पापक्रियया पुराकृतकर्मयोगाच्च त्वग्दोषा भवन्ति ॥ ३ ॥
तंत्र, त्वग्दोषो मांसवसादुग्ध दधितैलकुलत्थमापनिष्पावेक्षुपिष्ट-विकाराम्लविरुद्धाध्यशनाजीर्णविदाद्यभिष्यन्दीनि दिवास्वप्नं व्य-वायं च परिहरेत् ॥ ४ ॥
ब्रवीति — छिद्रादिति । १ भगन्दरे आसंवत्सरं वर्ज्याणि निर्दिशति - व्यायाम-मिति भोजनानीत्यर्थः ॥ २ गुरूणि इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाख्यटिप्पन्यामष्टमोऽध्यायः । नवमोऽध्यायः । ३ ‘ म्रियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत् । नातो निन्द्यतरो रोगो यथा कुष्ठं प्रकीर्तितम् ॥'इति स्मरणात् क्रमागतत्वेन कुष्ठचिकित्सिाऽऽरभ्यते - अथेति । ४ पुरा-कृतकर्मयोगात् = प्राक्तनकर्मसम्बन्धात् । " साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः । पाप्मभिः, कर्मभिः सद्यः प्राक्तनैः प्रेरिता मलाः ॥ त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमु • शन्ति तत् । ” इत्यष्टाङ्गहृदयम् । खग्दोषाः = कुष्ठाः । ५ कुष्ठिनां वर्ज्याणि निर्दिशति — तत्रेति । ६ निष्पावः = राजशिम्बी, ' भट-वासु ' इति भाषा | ७ विरुद्धं = " न मत्स्यान् पयसाऽभ्यवहरेत् " इत्यादिनोक्तम्, अध्यशनं = “ अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते " इति, श्रजीर्णम् = आममन्नम्; CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 747
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by An किस्सास्थानम् undation Chen Chennai and eGangotri -५८ ९ ततः शालिषष्टिकयवगोधूमकोर दूषश्यामाकोद्दालकादीननवान् भुञ्जीत मुद्गाढक्योरन्यतरस्य यूषेण सूपेन वा निम्बपत्रारुष्कर-व्यामिश्रेण, मण्डूकपर्ण्य वल्गुजाटरूषकरूपिकापुष्पैः सर्पिः सिद्धैः सर्षपतैलसिद्धैर्वा, तिक्तवर्गेण वाऽभिहितेन । मांससात्म्याय वा जाङ्गलमांसममेदैस्कं वितरेत् । तैलं वज्रकमभ्यङ्गार्थे । आधा-दिकषायमुत्सादनार्थे । पानपरिषेकावगाहादिषु च खदिरकषायम् । इत्येष आहाराचारविभागः ॥ ५ ॥
६ तत्र ' पूर्वरूपेषूभयतः संशोधनमासेवेत । तत्र त्वसम्प्राप्ते शोधनालेपनानि । शोणितप्राप्ते संशोधनालेपनकषायपानशोणिता-वसेचनानि । मांसप्राप्ते शोधनालेपनकषायपानशोणितावसेचना-रिष्टमन्थप्राशाः । “ चतुर्थ कर्मगुणप्राप्तं याप्यमात्मवतः " संविधानव-. I अपक्कमिति यावत् विदारि = परिणामेऽम्लपाक कारि, " विदाहि द्रव्यमुद्द्वारमम्लं कुर्यात्तथा तृषाम् । हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात् ॥ इति, अभिष्यन्दि = श्लेष्मप्र कोपि, “ पैच्छिल्याद् गौरवाद् द्रव्यं रुध्वा रसवहाः सिराः । धत्ते यद् गौरवं तत्स्यादभिष्यन्दि यथा दधि ॥ ” इति, गुणसाधर्म्याच्छ्लेष्माऽपि पिच्छिलगौरवादिगुणयुक्तः । १ कुष्ठे विहितानि निर्दिशति - तत इति । २ वस्त्रगालितः क्वाथो यूषः, अगा-लितः सूपः । श्ररुष्करः - भल्लातकफलम् । श्रवल्गुजा - ' वाकुची ' इति, अटरूषकः = ' अडूसा ' इति, रूपिकापुष्पम् = श्रर्कपुष्पम् । ३ प्रपुन्ना डावल्गुजपटोलवार्ताकादिना तिक्तत्रर्गेणेत्यर्थः । ४ थमेदस्कं = मेदोरहितम् । ५ वज्रकतैलं = " सप्तपर्णंकरआर्कमा-' लतीकरवीरजम् " इत्यादिनाऽस्मिन्नेवाध्याये वक्ष्यमाणम् । ६ श्रारग्वधादिर्द्रव्यसङ्ग्र-इणीयाध्यायोक्तस्तस्य कषायः कल्क इत्यर्थः, कषायशब्दस्य चरके स्वरसादिषु पञ्चसु परिभाषणात् । तथाहि - " पञ्चविधं कषायकल्पनमिति । तद्यथा - - स्वरप्तः, कल्कः, शृतः शीतः, फाण्टः, कषाय इति " इति । उत्सादनार्थे - उद्वर्तनार्थे । ७ ‘ अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः । दाहः कण्डूस्त्वचि स्वापस्तोदः कोष्ठोन्नतिर्भ्रमः ॥ व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः । रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽतिकोपनम् ॥ रोमहर्षोऽसृजः कायै कुष्ठलक्षणमग्रजम् । " इति च कुष्ठपूर्वरूपलक्षणमुन्नेयम् । उभयतः संशोधनं = वमनं विरेचनं च । ८ वक. संप्राप्ते - रसप्राप्ते । ९ अत्रारिष्टशब्दस्योपलक्षणत्वादास सुरयोरपि परिग्रहः कार्यः । १० चतुर्थं = मे-दोगतम् । ११ आत्मवतः = समीचीनाहाराचारस्य, संविधानवतः = कर्मानुष्ठानसाधनपर-CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 748
पाठ पढ़ें पाठ छिपाएँ
५ ९ Bigitized by Arya Samaj Fo सुश्रुतसंहिता Gangotri [ अ ० ९ तश्च । तत्र संशोधनाच्छोणितावसेचनाच्चोर्ध्वं भल्लातशिलाजतुधा-तुमाक्षीकगुग्गुल्वगुरुतुवरकखदिरासनायस्कृतिविधानमासेवेत । पञ्चमं नैव चोपक्रमेत् ॥ ६ ॥
तत्र प्रथममेव कुष्ठिन स्नेहपानविधानेनोपपादयेत् । मेशृङ्गी-श्वदंष्ट्राशाष्टागुडूची द्विपञ्चमूलीसिद्धं तैलं घृतं वा वातकुष्ठिनां पानाभ्यङ्गयोविदध्यात् । धवाश्वकर्णककुभ पलाशपिचुमईपर्पटकमधु-करोध्रसमङ्गासिद्धं सर्पिः पित्तकुष्ठिनाम् । प्रियालशालारग्वधनिम्ब-सप्तपर्णचित्रकमरिचवचाकुष्ठसिद्धं श्लेष्मकुष्ठिनाम् । भल्लातकाभ-याविडङ्गसिद्धं वा सर्वेषाम् । तुवरकतैलं भल्लातकतैलं वेति ॥ ७ ॥
सप्तर्पर्णारग्वधातिविषेक्षुरपाठाकटुरोहिण्यमृतात्रिफलापटोलपि-कस्येत्यथः । १ भल्लातकविधानमर्शश्चिकित्सिते, गुग्गुलोर्महावातव्याधिचिकित्सिते, 1. शिलाजतुतुवरक विधानं प्रमेहपिडकाचिकित्सितेषु, खदिरासनायस्कृतिविधानं च मद्दा. कुष्ठविधौ निर्दिष्टमिति तत एत्रावगन्तव्यम् । २ पञ्चमम् = अस्थ्य । दिगत कुष्ठमित्यर्थः । ३ तन्त्रान्तरेऽपि— “ कुष्ठिनं स्नेहपानेन पूर्वं सर्वमुपाचरेत् " इति । अपि च- " स्ने-हैराप्याययेच्चैनं कुष्ठध्नैरन्तरान्तरा ” इति । ४ वातानुबन्धकुष्ठचिकित्सां दर्शयति-मेषशृङ्गीति । मेषशृङ्गी = मेढासिंगी ' इति, श्वदंष्ट्रा = गोक्षुरकः, शार्ङ्गष्टा - ' काकजंघा ’ इति गुञ्जति सुश्रुतार्थ सन्दीपनम् । द्विपञ्चमूली = दशमूलम् । ५ पित्तानुबन्धकुष्ठचिकित्सां निर्दिशति - घवेति । अश्वकर्णः - शालभेदः, ` ककुभः = अर्जुनः, पिचुमर्दः = निम्ब:, अस्य स्वग् ग्राह्या । तदुक्तम् — “ सारः स्यात् खदिरादीनां निम्बादीनां त्वचस्तथा । फलं तु दाडिमादीनां पटोलादेर्दलं तथा ॥ " इति । एतद्वचनं यत्र पत्रादिशब्देन विशेषो नोक्तस्तत्रैव बोद्धव्यम् । पर्पटकः - ' पित्त-पापड़ा ' इति, समङ्गा = लज्जालुः, ' लजौनी ' इति भाषा । ६ श्लेष्मानुबन्धकुष्ठचिकित्सामाह – प्रियालेति । प्रियालः = ' चिरौंजी ' इति प्रसिद्धः । ७ त्रिदोषजनितकुष्ठ चिकित्सामाह - भल्लातकेति । श्रभया = हरीतकी । ८ महातिक्तघृतं निर्दिशति - सप्तपर्णेति । सप्तपर्णः = ' सतवन ' इति ख्यातः, आरग्बधः = ‘ अमलतास ' इति, अतिविषा = ' अतीस ' इति, कटुरोहिणी = ‘ कुटकी ’ इति, अमृता = ‘ गुडूची ' इति, त्रिफला, पटोल:, पिचुमर्दः = निम्बः, पर्पटकः - ' पित्त-पापड़ा ' इति, दुरालभा = ' जवासा ' इति, पद्मकः = ' पद्माख ' इति, हरिद्रापदेन ' हलदी ' ' दारूहल्दी ' इति द्वयं ग्राह्यम्, उपकुल्यापदेन ' पिप्पली- गजपिप्पली ' इति द्वयं च CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 749
पाठ पढ़ें पाठ छिपाएँ
अ ० ९ ] Digitized by Ary चकित्सास्था hennai and eGangotri ५ ९ १ चुमर्द पर्पटकदुरालभात्रायमाणामुस्ता चन्दनपद्मकरिद्रोपकुल्यावि-शालामूर्वाशतावरीसारिवेन्द्रय वाटरूपक षड्यन्थामधुकभूनिम्बगृष्टिका इति समभागाः कल्कः स्यात्, कल्काच्चतुर्गुणं सर्पिः प्रक्षिप्य तद् द्विगुणो धात्रीफलरसस्तच्चतुर्गुणा आपस्तदैकध्यं समालोड्य विपचेत्, एतन्महातिक्तकं नाम सर्पिः कुष्ठविषमज्वररक्तपित्तहृ-द्रोगोन्मादापस्मारगुल्मपिडकाऽसृग्दरगलगण्डगण्डमालाश्लीपदपा-ण्डुरोगविसर्पपाण्ढ्यकण्डूपामादिञ्छमयेदिति ॥ ८ ॥
त्रिफलापटोलपिच मन्दाटरूषक कटुरोहिणी दुरालभात्रायमाणाः पर्पटकश्चैतेषां द्विपलिकान् भागान् जलद्रोणे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि भेषजान्यर्द्धपलिकानि त्रायमा-रणामुस्तेन्द्रयवचन्दन किराततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समवाप्य विपचेत्, एततिक्तकं नाम सर्पिः कुष्ठविषमज्वरगु · ल्मार्शोग्रहणी दोषशोफपाण्डुरोगविसर्पषाण्ठ्यशमनं चेति ॥ ९ ॥
अतोऽन्यतमेन घृतेन स्निग्धस्विन्नस्यैकां द्वे तिस्रश्चतस्रः पञ्च वा सिरा त्रिध्येत्; मण्डलानि चोत्सन्नान्यवलिखेदभीक्ष्णं, प्रच्छ · येद्वा, समुद्रफेणशाकगोजीका कोदुम्बरिका पत्रैर्वाऽववृष्यालेपयेल्ला-क्षासर्जरसरसाञ्जनप्रपुन्नाडा वल्गुज तेजोवत्यश्वमार कार्ककुटजारेव-तमूलकल्कैर्मूत्रपिष्टैः पित्तपिष्टैर्वा, स्वौजका तुत्थकासीसविडङ्गागार-ग्राह्यम्, तन्त्रान्तरे दर्शनात् । विशाला = इन्द्रवारुणी, मूर्वा = ' मरोरफली ' इति, ' षड्ग्रन्था == वचा, मधुकः = ' मुलहठी ' इति, भूनिम्बः = ' चिरायता ' इति, गृष्टिका = ' वाराहीकन्द ' इति ख्याता । १ तिक्तवृतविधानं ब्रवीति — त्रिफलेति । २ द्विपलिकान् = अष्टौ तोलकान्, द्रोणे = सार्द्धद्वादशसेटके जले इत्यर्थः । ३ कल्कार्थं दृषदि पेषणीयानि कल्कपेष्याणि, । इमानि = वक्ष्यमाणानि त्रायमाणादीनीत्यर्थः । ४ समावाप्य = निःक्षिप्येत्यर्थः । ५ उत्सन्नानि = उद्गतानि । ६ कुष्टेषु प्रथमलेपमाइ- समुद्रफेणेति । शाकः == ' सागौन ' इति ख्यातो महाखरपत्रः । ७ प्रपुन्नाड: = चक्रमर्दः, श्रवल्गुजः ' वाकुची ' इति ख्यातः । ८ गोपित्तपिष्टैरित्यर्थः । ९ द्वितीयलेपं निर्दिशति – स्वर्जिकेति । स्वर्जिका = ' सज्जीखार ' इति ख्याता । CC - 0. Gurukul Kangri Collection, Haridwar
पृष्ठ 750
पाठ पढ़ें पाठ छिपाएँ
५ ९ २ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri धूमचित्रककटुकसुधाहरिद्रासैन्धवकल्कैर्वा, [ अ ० ९ एतान्येवावाप्य क्षार-कल्पेन निःस्रुते पालाशे क्षारे ततो विपाच्य फोणितमिव सञ्चातम-बतार्य लेपयेत्, ज्योतिष्क फलला क्षामरिच पिप्पली सुमनःपत्रैर्वा, हैंरितालमनःशिलाऽर्कक्षीरतिलशिग्रुमरिचकल्कैर्वा, स्वैजिकाकुष्ठतु-त्थकुटजचित्रकविडङ्गमरिचमनःशिला कल्कैर्वा, हरीतकीकरञ्जिका-विडङ्गसिद्धार्थकलवणरोचनावल्गुजहरिद्राकल्कैर्वा ॥ १० ॥
सर्वे कुष्ठापहाः सिद्धा लेपाः सप्त प्रकीर्त्तिताः ।
वैशेषिकानतस्तूर्ध्वं दद्रूश्वित्रेषु मे शृणु ॥ ११ ॥
लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं रात्रिव्र्योषं चक्रमर्दस्य बीजम् ।
कृत्वैकस्थं तक्रपिष्टः प्रलेपो दद्रूषूक्तो मूलकाद्वीजयुक्तः ॥ १२ ॥
सिन्धूभूतं चक्रमर्दस्य बीजमिक्षुद्भूतं केशरं तार्क्ष्यशैलम् ।
पिष्टो लेपोऽयं कपित्थाद्रसेन दस्तूर्णं नाशयत्येष योगः ॥ १३ ॥
हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्जो वत्सकः साजकर्णः ।
शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्धर्षणेषु प्रयुक्ताः ॥ १४ ॥
भैद्रासंज्ञोदुम्बरीमूलतुल्यं दत्त्वा मूलं क्षोदयित्वा मलप्वाः । १ तृतीयलेपमभिधत्ते - एतानीति । एतानि = स्वर्जिकाऽऽदीनि दशैत्यर्थः । २ फाणितमिव = मत्स्यण्डीव, फाणितं लोके ' राब ' इति ख्यातम् । ३ चतुर्थले-पमाचष्टे - ज्योतिष्केति । ज्योतिष्कफलं = ' मकोयफल ' इति, सुमनाः = ' चमेली ' ४ पञ्चमलेपमाख्याति — हरितालेति । ५ षष्ठलेपं दर्शयति-तरपत्रैरित्यर्थः । स्वर्जिकेति । ६ सप्तमलेपं वक्ति-- हरीतकीति । सिद्धार्थकः - सर्षपः । ७ दद्रुनाशकले प-माह-: - लाक्षेति । श्रीनिकेतं = ' नवनीत ' इति, रात्रिः हरिद्रा । ८ सिन्धूद्भूतं = सैन्धवम्, इक्षूद्भूतं = गुढादिकम्, केशरं = नागकेसरम्, ता = रसाञ्जनम् । ९ हेमक्षीरी = स्वर्णक्षीरी, व्याधिघातः = ' अमलतास ' इति, वत्सकः = कुढा, अजकर्यः = ' बड़ा साल ' इति । १० श्वित्रचिकित्सामभिदधाति — भद्रेति । उदुम्बरी भद्रनामा काष्ठोदुम्बरिका महती, मलपूः सैवाल्पविटपा, तयोर्मूलं पलं षोडशभिः सलिलपलैः पक्कं चतुर्भागाव-शिष्टमुष्णकाले कोष्णं पोतमातपसंस्थस्य कटुतैलाभ्यक्तस्य च श्वित्रे स्फोटजननमिति CC - 0. Gurukul Kangri Collection, Haridwar