सुश्रुत संहिता चौखम्बा — पृष्ठ 771–780

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 771–780

पृष्ठ 771

सुश्रुत संहिता चौखम्बा, पृष्ठ 771 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Foundation Chennai and eGangotri ६१३ अ ० १२ ] Digitized by Ary चिकित्सास्थानम् " " भवन्ति ॥ ११ ॥

सार्लसारादिनिर्गृहे चतुर्थांशावशेषिते ।

परिस्रुते ततः शीते मधु माक्षिकमावपेत् ॥ १२ ॥

भावमापन्नं गुंडं शोधितमेव च ।

श्लक्ष्णपिष्टानि चूर्णानि पिप्पल्यादिगणस्य च ॥ १३ ॥

ऐकध्यमावपेत् कुम्भे संस्कृते घृतभाविते ।

पिप्पलीचूर्णमधुभिः प्रलिप्तेऽन्तः शुचौ दृढे ॥ १४ ॥

श्लक्ष्णानि तीक्ष्णलोहस्य तत्र पत्राणि बुद्धिमान् ।

खदिराङ्गारतप्तानि बहुशः सन्निपातयेत् ॥ १५ ॥

सुपिधानं तु तं कृत्वा यवपल्ले निधापयेत् ।

मासांस्त्रींश्चतुरो वाऽपि यावदालोहसङ्क्षयात् ॥ १६ ॥

ततो जातरसं तन्तु प्रातः प्रातर्यथाबलम् ।

निषेवेत यथायोगमाहारं चास्य कल्पयेत् ॥ १७ ॥

कार्श्यकृद् बलिनामेष सन्नस्याग्नेः प्रसाधकः ।

शोफनुद् गुल्महृत कुष्ठमेहपाण्ड्वामयापहः ॥ १८ ॥

प्लीहोदर हरः शीघ्रं विषमज्वरनाशनः ।

अभिष्यन्दापहरणो लोहारिष्टो महागुणः ॥ १ ९ ॥

प्रमेहिणो यदा मूत्रमपिच्छिलमनाविलम् । १ महागु " शालिनं लोहारिष्टं वर्णयनि - सालसारादिति । शालसारादिनिर्यूहे -द्रव्य सङ्ग्रहणीयाध्यायोक्तशालसारादिक्काथे इत्यर्थः । शालसारादिद्रव्यस्य पलशतम्, चतुर्द्रोणजले पाचनम् । २ परिस्रुते = वस्त्रेण गालिते । ३ मधु पञ्चाशत्पलप्रमाणम् । माक्षिकं मध्वासवमित्यर्थः । ४ गुडः पञ्चाशत्पलप्रमाणः । पूर्वोक्तकषाये विलायित--स्तृणादिनिस्सारणेन पवित्रीकृतो गुडः शोषितो बोध्यः । ५ पिप्पल्यादिगणचू-र्णस्य पञ्चविं- तिपलानि । ६ तीक्ष्णलोहस्य श्लक्ष्णानि पत्राणीति सम्बन्धः । पत्राणि तिलोत्सेधप्रमाणानि बोध्यानि । लोहचूर्णानां पञ्चविंशतिपलानि ग्राह्याणि । ७ यवपल्ले = यवपूर्णकुसूले । अत्र लोहारिष्टे चूर्णमाक्षिकगुडाः काथात् षोड--शाष्टमतुरीयांशा एवावाप्या इति सुश्रुतार्थ सन्दीपनम् । ८ प्रमेदनिवृत्तिलक्षणमभि-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 772

सुश्रुत संहिता चौखम्बा, पृष्ठ 772 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ by Arya Samaj Founda Chennai and eGangotri [ अ ० १३ विशदं तिक्तकटुकं तदाऽऽरोग्यं प्रचक्षते ॥ २० ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहपिडकाचिकित्सितं नाम द्वादशोऽध्यायः ॥ १२ ॥

त्रयोदशोऽध्यायः ।

अथातो मधुमेहचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम्! योगेनानेन मतिमान् प्रमेहिणमुपाचरेत् ॥ ३ ॥

मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः ।

जंतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ॥ ४ ॥

शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम् ।

वादीनां तु लोहानां पण्णामन्यतमान्वयम् ॥ ५ ॥

धत्ते - प्रमेहिण इति । श्रपिच्छिलम् - विजिलम् । ' स्यात्पिच्छिलं तु विजिलम् ' इत्यमरः । अनाविलं = प्रसन्नम्, विशदं = रूक्षमित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाख्य टिप्पन्यां द्वादशोऽध्यायः । त्रयोदशोऽध्यायः । १ “ स मारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः । दर्शयत्याकृतिं गत्वा क्षयमा • प्यायते पुनः । उपेक्षयाऽस्य जायन्ते पिडकाः " इति पिडकाः प्रायेण मधुमेहिनामेव भवन्तीति पिडकाचिकित्साऽनन्तरं मधुमेह चिकित्सितमारभ्यते — अथेति । २ शुक्रे H ज्येष्ठे मासि, शुचौ = श्राषाढे मासि । तदुक्तमन्यत्रापि — " निदाघघर्मसन्तप्ता धातुसारं धराधराः । निर्यासवत्प्रमुञ्चन्ति तच्छिलाजतु कोर्तितम् ॥ ” इति । यद्यपि मासान्तरेऽपि शिल जतुप्रस्रवणं दरीदृश्यते, तथाऽप्येतन्मासद्वयाभिधानमतिशयगु. -बोधनार्थम् । ३ जतुप्रकाशं = लाक्षाप्रभमित्यर्थः । शिलाभ्यः = त्रप्वादिधात्वनुगतोपलेभ्यः । ४ त्रपु = वङ्गम्, ‘ वङ्गसीसकयोस्त्रपु ' इति रुद्रः । आदिना सीसतामरूप्यसुवर्णकृष्ण--लौहानि बोध्यानि । लोहानां = तैजसधातूनाम्, ' लोहोऽस्त्री शस्त्र के लोहं जोङ्गके CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 773

सुश्रुत संहिता चौखम्बा, पृष्ठ 773 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १३ Pigitized by Arya Sa फिरखास्थान pi and eGangotri

ज्ञेयं स्वगन्धतश्चापि पंड्योनि प्रथितं क्षितौ ।

लोहाद्भवति तद् यस्माच्छिलाजतु जतुप्रभम् ॥ ६ ॥

तस्य लोहस्य तद्वीर्य्यं रसं चापि बिभर्त्ति तत् ।

पुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ॥ ७ ॥

यथा तथा प्रयोगेऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः ।

तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ॥ ८ ॥

कटुपाक्युष्णवीर्य्यं च शोषैणं छेदनं तथा ।

तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत् ॥ ९ ॥

गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते ।

तद्भावितं सारगणैर्हृतदोषो दिनोदये ॥ १० ॥

पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम् ।

जाङ्गलेन रसेनान्नं तस्मिन् जीर्णे तु भोजयेत् ॥ ११ ॥

उपयुज्य तुलामेवं गिरिजादमृतोपमात् । ६१५ सर्वतॆजसे ” इति मेदिनी । “ पुरा लोमिनदैत्यानां निहितानां सुरैर्युधि । उत्पन्नानि शरी-रेभ्यो लोहानि विविधानि च ॥ ” इति तन्त्रान्तरम् । श्रन्यतमान्वयम् = एकतमान्वयम् । १ षड्योनि = पट्कारणम् । “ सौवर्णं राजतं ताम्रमायसं च चतुर्विधम् ” इति तन्त्रान्तरीयवचनं चतुर्णामपि मुख्यानां तेषां गुणख्यापनार्थमिति बोध्यम् । २ तत् पुनः शिलाजतु न केवलं स्वस्वगन्धं विभति, किन्तहिं रसवीर्ये श्रपीत्याह- लोहा-दिति । तत् जतुप्रभं शिलाजतु यस्माल्लोहाद् भवत्युत्पद्यते तस्य लोहस्य तद-नपानाध्यायोपदिष्टं वीर्य रसं च वत्तस्मात् तत्तल्लोहसम्भूतत्वादिति यावत्, बिभर्ति कारणारूपं कार्यमिति कृत्वेत्याकूतमिति सुश्रुतार्थसन्दीपनम् । चकाराद् वर्णप्रभावं च बिभतीति समुच्चयः । = ३ शिलाजतूनामुत्तरोत्तरं श्रेष्ठयं निर्दिशति - त्रप्विति । त्रपुसीसायसादीनि = वङ्गसीसकताम्ररजतसुवर्णकृष्णलोहजानीत्यर्थः । ४ शिलाजतुसामान्यगुणान् दर्श • यति - तत्सर्वमिति । ५ दुष्टरक्तादेः शोषणमित्यथः । छेदनं = कफग्रन्थ्यादिछेद-नकृत् । ६ प्रधानशिलाजतुलक्षणं ब्रवीति -- तेष्विति । ७ शिलाजतुप्रयोगविधिमभिधत्ते --तद्भावितमिति । भावना दशदिनानि विंश-तिदिनानि त्रिंशद्दिनानि वा कार्या । सारगणैः = शालसारादिगणैः । हृतदोषः = वम • नादिना संशुद्धदेहः । = सारोदकेन = सालसारादिक्काथेनेत्यर्थः । ९ तुलां = पश्ञ्च • CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 774

सुश्रुत संहिता चौखम्बा, पृष्ठ 774 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६१६ by Arya Samaj सुश्रुतसंहितायां and Gangotri वपुर्वर्णबलोपेतो मधुमेहविवर्जितः ॥ १२ ॥

जीवेद्वर्षशतं पूर्णमजरोऽमरसन्निभः । अ ० १३ शतं शतं तुलायां तु सहस्रं दर्शतौ लके ॥ १३ ॥

भल्लातकविधानेन परिहारविधिः स्मृतः ।

मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् ॥ १ ॥

शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम् ।

अपोहत्यचिरात् कालाच्छिलाजतु निषेवितम् ॥ १५ ॥

न सोऽस्ति रोगो यं चापि निहन्यान्न शिलाजतु ।

शर्करां चिरसम्भूतां भिनत्ति च तथाऽश्मरीम् ॥ १६ ॥

भावनालोडने चास्य कर्त्तव्ये भेषजैर्हितैः ।

एवं च माक्षिकं धातुं तापीजममृतोपमम् ॥ १७ ॥

मधुरं काञ्चनाभासमम्लं वा रजतप्रभम् ।

पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान् ॥ १८ ॥

तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत् ।

पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम ॥ १ ९ ॥

योगेनानेन मतिमान् साधयेदपि कुष्ठिनम् । सेटकपरिमाणाम् । गिरिजात् = शिलाजतुन: । १ दशनौलिके = पञ्चाशत्सेटकसम्मते शिलाजतुनि सेविते इत्यर्थः । २ भल्लातकविधानं चिकित्सास्थानस्य षष्ठाध्याये ' भ · ल्लातकानि परिपक्कान्यनुपहतान्याहृत्य " इत्यादिनोक्त द्रष्टव्यम् । ३ मधुमेहे स्वर्णमाक्षिकधातु विधानमतिदिशति - एवञ्चेति । तापो विन्ध्याद्रि-प्रसिद्धा पश्चिमवाहिनी नदी तस्यां जातं स्वर्णमाक्षिकं रजतमाक्षिकं चेत्यर्थः । ४ काञ्च नाभासं सुवर्णसदृशं मधुरं, रजतप्रभं रजतसदृशमम्लं वा सुवर्णमाक्षिकं भवतीत्यर्थः । ५ तद्भावितः, ताभ्यां शिलाजतुस्वर्णमाक्षिकधातुभ्यां भावितो व्याप्तदॆहः कपोतान् कुलत्थांश्च यावज्जीवं वर्जयेदित्यर्थः । ६ पञ्चकर्मगुणैरतीतं दीनम् । श्रत्र डल्हण ः– पन्चशब्देन पञ्चमधारवस्थिस्थितं कुष्ठमुक्तम्, तत्र कर्माणि संशोधन संशमनाभ्यङ्गगुग्गुलु शिलाजतुप्रभृतीनि तेषां गुणाः फलानि तान्यतीतम् । एतदुक्तं भवति — अस्थिगत कुष्ठं संशोधनादिभिरप्रा-सविशेषं साधयेदिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 775

सुश्रुत संहिता चौखम्बा, पृष्ठ 775 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १३ | Digitized by Ary चिकित्सास्थानम् Foundation Chennai । and eGangotri वृक्षौस्तुवरका ये स्युः पश्चिमार्णवभूमिषु ॥ २० ॥

वीचीतरङ्गविक्षेपमारुतोद्धूतपल्लवाः ।

तेषां फलानि गृह्णीयात् सुपक्कान्यम्बुदागमे ॥ २१ ॥

मज्जां तेभ्योऽपि संहृत्य शोषयित्वा विचूर्ण्य च ।

तिलवत् पीडयेद् द्रोण्यां स्रावयेद्वा कुसुम्भवत् ॥ २२ ॥

तत् तैलं संहृतं भूयः पचेदातोयसङ्क्षयात् ।

अवतार्य्य कॅरीषे च पक्षमात्रं निधापयेत् ॥ २३ ॥

स्निग्धः स्विन्नो हृतमैलः पक्षादूर्ध्वं प्रयत्नवान् ।

चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे ॥ २४ ॥

मन्त्रपूतस्य तैलस्य पिवेन्मात्रीं यथाबलम् ।

तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्रयते ॥ २५ ॥

“ मज्जसार! महावीय्यँ! सर्वान् धातून् विशोधय । शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः ॥ २६ ॥ ”

तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत् ततः ।

अस्नेहलवणां सायं यवागूं शीतलां पिबेत् ॥ २७ ॥

पञ्चाहं प्रपिबेत् तैलमनेन विधिना नरः ।

पक्षं ' रिहरेच्चापि मुद्द्भूयूषौदनाशनः ॥ २८ ॥

पञ्चभिदिवसैरेवं सर्वकुष्ठैर्विमुच्यते " । ६१७ १ तुवरकरसायनस्य षड्विधप्रयोग विधानं दर्शयति - वृक्षा इति । २ तेभ्यः = फलेभ्यः । ३ स्रावयेत् = कुसुम्भपुष्पवद् गालयेदित्यर्थः । - ४ करीषे = शुष्कगोमये, ' तत्तु शुष्कं करीषोऽस्त्री ' इत्यमरः । ५ हृतं मलं पुरीषं कफादयोऽपि यस्य स हृत. मलः । ६ चतुर्थभक्तेनान्तरितस्तिरस्कृत इति चतुर्थभक्तान्तरितः चतुःसन्ध्याभोजन रहित इत्यर्थः । पक्षादूर्ध्वं प्रथमेऽह्नि सायं प्रातर्भोजनं कृत्वा द्वितीयेऽह्नि प्रातर्भुक्त्वा सायङ्काले भोजनं न कर्तव्यम्, अथवा सायं भोजनस्थाने फलाम्लमुष्णोदकं वा पाययेत् । ततस्तृतीयेऽह्नि लघुकोष्ठाय कुष्ठिने स्नेहं दद्यात् । एवं चतुर्थभक्तमन्तरितं भवतीति निष्कर्षः । . ७ मात्रां = कर्षप्रमाणाम् । ८ नञ् ईषदर्थे, तेन अल्पस्नेहलवणामित्यर्थो बो-ध्यः । ९ क्रोधादी निति शेषः । १० एतत्पर्यन्तं पचादिकप्रयोगेण तुवरकमज्जतैलस्य CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 776

सुश्रुत संहिता चौखम्बा, पृष्ठ 776 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Pritzed by Arya Samaj Foundar कुश्रुतसंहितायां angotri [ अ ० १४ तदेव खदिरक्काथे त्रिगुणे साधु साधितम् ॥ २ ९ ॥

निहन्ति पूर्ववत् पक्वं पिबेन्मासमतन्द्रितः ।

तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम् ॥। ३० ॥

भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम् ।

अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ॥ ३१ ॥

सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना ।

पक्षिमांसरसाहारं करोति द्विशतायुषम् ॥ ३२ ॥

तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम् ।

वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम् ॥ ३३ ॥

शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया ।

महावीर्य्यस्तुवरकः कुष्ठमेहापहः परः ॥ ३४ ॥

सान्तैर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च ।

पैल्ल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन ॥ ३५ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने मधुमेह चिकित्सितं नाम त्रयोदशोऽध्यायः ॥ १३ ॥

चतुर्दशोऽध्यायः ।

अथात उदराणां चिकित्सितं व्याख्यास्यामः ॥ १ ॥

कुष्ठ इरः प्रथमो योगः । १ इत आरभ्य खदिराम्बुसिद्धस्य तस्यैव तैलस्य विशिष्टा-वस्थकुष्ठे द्वितीयो योगः । २ इ आरभ्य सर्पिर्मधुखदिरकषायविधिना तस्यैव तृती • यो योगः । ३ इत आरभ्य पञ्चाशदाहिको नस्यप्रयोगश्चतुर्थः । ४ मज्जप्रप्रोगः पञ्चम इत आरभ्यते । ५ इतोऽअनप्रयोगः षष्ठ आरभ्यते । ६ अनं = स्रोतोञ्जनम् । ७ प्रस्तार्य्यर्म्म शुक्लार्म्मरक्तामांसार्म्मस्नाय्वर्म्मभेदादमः पञ्चविधः । श्रर्मादि • यो नेत्ररोगभेदाः । एषां लक्षणानि उत्तरतन्त्रे स्वयमेव व्यक्तीकरिष्यति । तानि विस्तर-भिया नेह प्रतन्यन्ते । इति सुश्रुतसंहितायाश्चिकित्सास्थानीय सुधाऽऽख्यटिप्पन्यां त्रयोदशोऽध्यायः । चतुर्दशोऽध्यायः । ८ उदरशब्देन उदरस्थो रोगो बोद्धव्यः, " अर्थतो धर्मतः साम्यात्तत्समीपतयाऽपि CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 777

सुश्रुत संहिता चौखम्बा, पृष्ठ 777 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Imaj Digitized by Arya Campi Foundation Chennai and eGangotri यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

६१ ९ अष्टावुदराणि ' पूर्वमुद्दिष्टानि । तेष्वसाध्यं बद्धगुदं परि-स्रावि च । अवशिष्टानि कुच्छ सोध्यानि सर्वाण्येव प्रत्याख्यायोप-क्रमेत । तेष्वाद्यश्चतुर्वर्गो भेषजसाध्यः, कालप्रकर्षात् सर्वाण्येव शस्त्रसाध्यानि वर्जयितव्यानि वा ॥ ३ ॥

उदरी तु गुर्वभिष्यन्दरूक्ष विदा हिस्निग्धपिशितपरिषेकावगा-हान् परिहरेत् । शालिषष्टिकयवगोधूमनीवारान् नित्यमश्नीयात् ॥४ ॥

तंत्र वातोदरिणं विदारिगन्धादिसिद्धेन सर्पिषा स्नेहयित्वा तिल्वं कविपक्वेनानुलोम्य, चित्राफलतैलप्रगाढेन विदारिगन्धाक-पायेणास्थापयेदनुवासयेच शाल्वणेन चोपनाहयेदुदरम्, भोज-येच्चैनं विदारिगन्धादिसिद्धेन क्षीरेण जाङ्गलरसेन चाभीक्ष्णं स्वेदयेत् ॥ ५ ॥

पित्तोर्दरिणं तु मधुरगणविपक्वेन सर्पिषा स्नेहयित्वा च । तत्साहचर्याच्छन्दानां वृत्तिरुक्ता चतुर्विधा ॥ " इत्युक्तत्वात् । १ पूर्वं प्राक् निदानस्थाने– “ पृथक् समस्तैरपि चेह दोष: प्लीहोदरं बद्धगुदं तथैव । भागन्तुकं सप्तममष्टमं च दकोदरं चेति वदन्ति तानि ॥ " इत्युक्तानीत्यर्थः । तत्र भ्रष्टसंख्यापूर-णावसरे प्लीहोदरयकृद्दाल्युदर योरैक्यमेव ज्ञातव्यम् । २ कृच्छ्रसाध्येष्वपि यथोत्तरं कृच्छ्रकृच्छ्रतरत्वमुक्तं तन्त्रान्तरे - " वातपित्तकफप्ली-इसन्निपातोदकोदरम् । कृच्छ्र ं यथोत्तरम् " इति । प्रत्याख्याय = " अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् " इति निराकृत्य । ३ चतुर्णी दोषजानां वर्गश्वतुर्वर्गः वातपित्तकफदूषीविषनिमित्तः, उत्तरः = प्लीहोदर बद्धगुद च्छिद्रोद को दराख्यः । ४ कालप्रकर्षात् भेषजसाध्य कालातिक्रमाच्छस्त्रसाध्यकालातिक्रमाच्च सर्वाण्येवोद. राणि शस्त्रसाध्यानि वर्जयितव्यानि । ५ अभिष्यन्दि = दोषधातुमलस्रोतसां क्लेद-प्राप्तिजनकम् । शार्ङ्गधरे - " पैच्छिल्याद् गौरवाद् द्रव्यं रुद्ध्वा रसवहाः सिराः । धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि ॥ ” इति । विदादि = धान्याम्लादिकम् । ६ वासोदरिणश्चिकित्सामभिधत्ते तत्रेति । ७ तिल्वकः - रोधः, अनुलोम्य = विरेच्य, चित्रा = दन्ती । ८ “ काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः । सानू-पौदकमांसस्तु सर्वस्नेहसमन्वितः । सुखोष्णः स्पष्टलवणः शाल्वणः परिकीर्तितः ” इति वातव्याधिनिदानोक्तः । ९ पित्तोदरिणश्चिकित्सामाचष्टे - पित्तोदरिणमिति । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 778

सुश्रुत संहिता चौखम्बा, पृष्ठ 778 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६by Arya Samaj Founda सुश्रुतसंहिता angotri [ अ ० १४ श्यामा त्रिफलात्रवृद्विपक्वेनानुलोम्य, शर्करामधुघृतप्रगाढेन न्य-ग्रोधादिकषायेणास्थापयेदनुवासयेच्च, पायसेनोपनाहयेदुदरं, भोज-येच्चैनं विदारिगन्धादिसिद्धेन पयसा ॥ ६ ॥

श्लेष्मोदैरिणं पिप्पल्यादिकषायसिद्धेन सर्पिषोपस्नेह्य स्नुही-क्षीरविक्वेनानुलोम्य, त्रिकटुकमू क्षारतैलप्रगाढेन मुष्ककादिक-पायेणास्थापयेदनुवासयेच्च, शणातसीधातकीकिण्वं सर्पपमूलकबो-जकल्कैश्चोपनाहयेदुदरं, भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलत्थयूषेण पायसेन वा, खेदयेच्चाभीक्ष्णम् ॥ ७ ॥

दूष्योदरिणं तु प्रत्याख्याय सप्तलाशङ्खिनीस्वरससिद्धेन सर्पिषा विरेचयेन्मासमर्द्धमासं वा, महावृक्षक्षीरसुरागोमूत्र सिद्धेन वा शुद्धकोष्ठं तु मद्येनाश्वमारक गुञ्जाकाकादनीमूलकल्कं पाययेत; इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्षयेद् वल्लीफलानि वा, मूलजं कन्दजं वा विषमासेवयेत्, तेनागदो भवत्यन्यं वी “ भावमापद्यते ॥ ८ ॥

भवति चात्र ।

" कुपितानिलमूलत्वात् सचितत्वान्मलस्य च ।

सर्वोदरेषु शंसन्ति बहुशस्त्वनुलोमनम् ॥ ९ ॥

अत ऊर्ध्वं सामान्ययोगान् वक्ष्यामः । तद् यथा - एरण्डतैल-महरहर्मासं द्वौ वा केवलमूत्रयुक्तं क्षीरयुक्तं वा सेवेतोदकवर्जी, मधुरगणः = काकोल्यादिमधुरवर्ग इत्यर्थः । १ श्यामा = ' निसोत ' इति । २ कफो. दरिणश्चिकित्सां निर्दिशति - श्लेष्मोदरिणमिति । ३ मुष्ककादिर्द्रव्यसङ्ग्रहणीया. ध्यायोक्तः । ४ किण्वं = मधूकपुष्पवीजमित्यर्थः । ५ सान्निपातिकचिकित्सामाख्याति - दूष्योदरिणमिति । दूष्योदरिणं = त्रिदोषो -दरिणम् | प्रत्याख्याय = " अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् " इति सूचयित्वा, शङ्खिनी = ' शंखाहुली ' इति ख्याता । ६ महावृक्षः सेहुण्डस्तत्क्षीरम् । ' विरेचयेत् ' इति शेषः । ७ काकादनी = ' काकजंघा ' इति ख्याता । वल्ली. फलानि = कर्कटीप्रभृतीनि । ९ वा अथवा अन्यं भावं मृत्यु मित्यर्थः । १० तन्त्रान्तरेऽपि— “ दोषातिमात्रोपचयात्स्रोतोमार्गनिरोधनात् । सम्भवत्युद CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 779

सुश्रुत संहिता चौखम्बा, पृष्ठ 779 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १४ ] Digitized by Ana " चिकिट सास्थानम् in Foundation Chennai and eGangotri ६२१ माहिषं वा मूत्रं क्षीरेण निराहारः सप्तरात्रम्, उष्ट्रीचीराहारो वाऽ-नवारिवर्जी पक्षं, पिप्पलीं वा मासं पूर्वोक्तेन विधानेनासेवेत, सैन्धवाजमोदायुक्तं वा निकुम्भतैलैम्, आर्द्रकैशृङ्गवेररसपाः न्रशतसिद्धं वा वातशूलेऽवचार्य्यम्, शृङ्गवेररसविपक्वं क्षीर-मासेवेत चव्यशृङ्गवेरकल्कं वा पयसा सरलदेवदारुचित्र-कमेव वा, मुरैङ्गीशालपर्णीश्यामापुनर्नवा कल्कं वा, ज्यो-तिष्कफलतैलं वा क्षीरेण स्वजिकाहिङ्गुमिश्रं पिवेत्, गुडद्वि-तीयां वा हरीतकीं भक्षयेत्, स्नुहीची भावितानां वा पिप्प-लीनां सहस्रं कालेन पथ्याकृष्णाचूर्णं वा स्नुहीभावितमुत्कारिकां पक्वां दापयेत्; हरीतकीचूर्णं प्रस्थमाढके घृतस्यावाप्याङ्गारेष्वभि-विलाय खजेनाभिमध्यानुगुप्तं कृत्वाऽर्द्धमासं यवँ पल्ले वासयेत्, ततश्चोद्धृत्य परिस्राव्य हरीतकी क्वाथाम्लदधीन्यावाप्य विपचेत्, तद् यथायोगं मासमर्द्धमासं वा पाययेत्; " गव्ये पयसि महावृक्षक्षी-रमावाप्य विपचेत्, विपक्वं चावताय्र्य शीतीभूतं मन्थानेनाभिमथ्य नवनीतमादाय भूयो महावृक्षक्षीरेणैव विपचेत्, तद्यथायोगं मासं मासार्द्धं वा पाययेत्; चव्यचित्रकदन्त्यतिविषा II कुष्टरिवात्रि-लाजमोदहरिद्राशङ्खिनीत्रिवृत्त्रिकटुकानामर्द्ध कार्षिका भागा राजवृ-क्ष फलमज्ज्ञानामष्टौ कर्षा महावृक्ष क्षीरपले द्वे गवां क्षीरमूत्रयोरष्टा-वष्टौ पलानि एतत् सर्वं घृतप्रस्थे समावाप्य विपचेत्, तद् यथा-योगं मासमद्धमासं वा पाययेत; एतानि " तिल्वकघृतचतुर्थानि सपष्युदर गुल्म विद्रध्यष्ठीलाऽऽनाह कुष्ठोन्मादापस्मारेषूपयोज्यानि तस्मान्नित्यमेनं विरेचयेत् ॥ ” इति । १ पूर्वोक्तेन = चिकित्सास्थानस्य पञ्चमा · ध्यायोक्तेन । २ निकुम्भतैलं = दन्तीतैलम् 1 । ३ श्रर्द्रशृङ्गवेरम् = श्रार्द्रकम् । श्रत्र निकुम्भतैलमनुकृष्यते । ४ मुरङ्गी - रक्तशोभाञ्जनः । ' सुरङ्गी ' इति पाठान्तरम् । ५ ज्योतिष्कः = ‘ मालकाङ्गनी ' इति ख्यातः । ६ स्नुहीक्षीरभावना त्रिसप्तवारान् ७ उत्कारिका = लप्सिकाकारा । ८ खजेन = मन्धानेन । ९ यवपल्ले = यवपूर्णकुसूले । १० आढकप्रमाणे गव्ये पयसि महावृक्षक्षीरं सेहुण्डदुग्धम् । ११ अतिविषा = ' अतीस ' इति । १२ एतानि = CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 780

सुश्रुत संहिता चौखम्बा, पृष्ठ 780 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ by Arya Samaj Found un सुश्रुतसंहिसा jeGangotri [ अ ० १४ विरेचनार्थम् मूत्रासवारिष्ट सुराश्चाभीक्ष्णं महावृक्षक्षीरसम्भृताः सेवेत; विरेचनद्रव्यकषायं वा शृङ्गवेरदेवदारुप्रगाढम् ॥ १० ॥

वैमनविरेचनद्रव्याणां पालिका भागाः पिप्पल्यादि - बचादि-हरिद्रादि- परिपठितानां च द्रव्याणां श्लक्ष्ण पिष्टानां यथोक्तानां च लवणानां तत्सर्वं ' मूत्रगणे प्रक्षिप्य महावृक्षक्षीरप्रस्थं च मृद्वग्नि-ना घट्टयन् विपचेदप्रदग्धकल्कं तत्साधुसिद्धमवतार्य्य शीतीभूत-मर्त्तमात्रा गुटिका वर्त्तयेत्, तासामेकां द्वे तिस्रो वा गुटिका बला-पेक्षया मासांस्त्रींश्चतुरो वा सेवेत, एषाऽऽनाहवर्तिक्रिया विशेषेण महाव्याधिषूपयुज्यते कोष्ठजांश्च कृमीनपहन्ति कासश्वास कृमिकुष्ठ-प्रतिश्यायारोचकाविपाकोदावर्त्ताश्च नाशयति ॥ ११ ॥

मदैनफलमज्जकुटजजीमूतकेक्ष्वाकुधामार्गचत्रिवृत्त्रिकटुस -पलवणानि महावृक्ष क्षीरमूत्रयोरन्यतरेण पिट्टाङ्गुष्ठमात्रां वत्ति कृत्वोदरिण आनाहे तैललवरणाभ्यक्तगुदस्यैकां द्वे वा योनिद ध्यात् । एषाऽऽनाहवर्त्तिक्रिया वातमूत्रपुरीषोदावर्त्ता मानानाहेषु विधेया ॥ १२ ॥

प्लीहोदरिणः स्निग्धस्विन्नस्य दना भुक्तवतो वामवाहौ कूर्प राभ्यन्तरतः सिरां विध्येत्, विमर्दयेत् पाणिना प्लीहानं रुधिर-स्यन्दनार्थ, ततः संशुद्धदेहं समुद्रशुक्तिकाक्षारं पयसा पाययेत्, हिङ्गुसौवर्चिकाक्षारेण स्रुतेन पलाशचारेण वा यवक्षारं किंशुकक्षा-हरीतकीमारभ्योक्तानि, तिल्वकघृतं वातव्याधिनिदाने प्रोक्तम् । १ उदरे आनाइमू. त्रवर्तिक्रियामुपदिशति - वमनेति । पालिका भागाः = चत्वारि चत्वारि तोलकानि । पिप्पल्यादयस्त्रयो गणा द्रव्य सङ्ग्रहणीयाध्यायेऽवलोकनीयाः । २ मूत्रगणे = मूत्र · वर्गे । गवादीनां मूत्रेण व्यस्तसमस्तेन पिष्ट्वा चतुर्गुणैर्विपाच्यम् । ३ अक्षमात्रा = तोलकपरिमाणा । ४ प्रमेहादिमहाव्याधिष्वित्यर्थः । ५ श्रानाद्दवर्तिक्रियामुपदिशति - मदनेति । ' कडूतोरई ' इति, धामार्गवः = ' तोरई ' इति । श्चिकित्सां ब्रवीति — प्लीहोदरिण इति । जीमूतकः = देवदाली, ईक्ष्वाकु: = ६ पायौ = गुदे । ७ प्लीहोदरिण कूपरो भुजमध्यग्रन्थिस्तदाभ्यन्तरत इत्यर्थः । ‘ कफोणिः कूर्परोऽरस्नेः पृष्ठम् ' इति नाममाला । ९ संशुद्ध देहं = वम-CC - 0. Gurukul Kangri Collection, Haridwar