सुश्रुत संहिता चौखम्बा — पृष्ठ 781–790

सुश्रुत संहिता चौखम्बा · Chaukhamba · पृष्ठ 781–790

पृष्ठ 781

सुश्रुत संहिता चौखम्बा, पृष्ठ 781 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १४ ] Digitized by Ary बुकित्सास्थान Samaj मु hennai and eGangotri ६२३ रोदकेन वा बहुशः स्रुतेन यवक्षारं पारिजातकेक्षुरकापामार्गक्षारं वा, तैलसंसृष्टं शोभाञ्जनकषायं वा, पिप्पली सैन्धवचित्रकयुक्तं पूतिकरञ्जक्षारं वाऽम्लस्स्रुतं विडलवणपिप्पलीप्रगाढम् ॥ १३ ॥

पिप्पलीपिप्पलीमूलचित्रकशृङ्गवेरयवक्षारसैन्धवानां पालिका भागा घृतप्रस्थं तत्तुल्यं क्षीरं तदैकध्यं विपाचयेत् । एतत् षट्पलकं नाम सर्पिः प्लीहाग्निसङ्गगुल्मोदरोदावर्त्तश्वयथुपाण्डुरोगकासश्वा-सप्रतिश्यायोर्ध्ववातविषमज्वरानपहन्ति । मन्दाग्निर्वा हिंग्वादिकं चूर्णमुपयुञ्जीत ॥ १४ ॥

यैकृद्दाल्येऽप्येष एव क्रियाविभागः । विशेषतस्तु दक्षिणबाहौ सिराव्यधः ॥ १५ ॥

मँरिणबन्धं सकृन्नाम्य वामाङ्गुष्ठसमीरिताम् ।

ददेत् सिरां शरेणाशु प्लीह्नो वैद्यः प्रशान्तये ॥ १६ ॥

बंद्धगुदे परित्राविति च स्निग्धस्विन्नस्याभ्यक्तस्याधोनाभे-वमतश्चतुरङ्गुलमपहाय रोमराज्या उदरं पाटयित्वा चतुरङ्गुलप्रमा-नविरेचनाभ्यां संशुद्धशरीरम् । समुद्रजा क्षुद्रा शुक्तिः समुद्रशुक्तिका । १ इक्षुरकः = कोकिलाक्षः । २ ' चिरविल्वो नक्तमालः करजश्च करके ' इत्यमरः । कण्टकिक. रञ्जक्षारमर्धपलमात्रं षड्गुणाम्लकाञ्जिकेन बहुशः परिस्रुतं, पिप्पलीविडलवणप्रक्षेप इति डल्हणः । ३ षट्पलकघृतं दर्शयति- पिप्पलीति । ४ पालिका भागाः = चरखारि चत्वारि तोलकानि । ५ यकृद्दाल्युदरिणश्चिकित्सामाचष्टे - यक्कृद्दालय इति । ६ द ० क्षिणबाहौ भुजमध्यस्थ सिराव्यध इत्यर्थः । ७ प्लीहः सिरादाहं वर्णयति – मणिबन्धमिति । ' मणिबन्धः पाणिमूलम् ' इति हलायुधः । मणिबन्धं सकृत् किचिन्नाम्य, कोऽर्थः? उन्नामयित्वा वामाङ्गुष्ठं प्रति सम्यगीरितां गतामिति वामाङ्गुष्ठसमीरितां सिरां शरेण अग्नौ प्रतप्तेन आशु दहेदित्यर्थः । ८ बद्धगुदोदरिणः परिस्राव्युदरिणश्च चिकित्सामुपदिशति — बद्धगुद इति । ९ नाभेरधस्ताद् वामतः वामभागे रोमराज्या रोमराजीतश्चतुरङ्गुलमपहाय चतुर-ङ्गुलप्रमाणं पाटयित्वा तिर्यक् छित्त्वाऽन्त्राणि निष्कृत्येति सम्बन्धः । नाभेरघश्चतुर • ङ्गुलमपहायेति सिरासन्निकर्षपरिहारार्थं बोध्यम् । लोग्नि तिर्यगवस्थितेऽनुलोमगं शस्त्रपातनम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 782

सुश्रुत संहिता चौखम्बा, पृष्ठ 782 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

Digitized by Arya Samaj Foundation Chennai and eGangotri ६२४ सुश्रुतसहिताया- [ अ ० १४ णमन्त्राणि निष्कृष्य निरीक्ष्य बद्धगुदस्यान्त्रप्रतिरोधकरमश्मानं बालं वाऽपोह्य मलजातं वा ततो मधुपर्थ्यामभ्यज्यान्त्राणि यथा-स्थानं स्थापयित्वा बाह्यं व्रणमुदरस्य सीव्येत 1 । परिस्राविण्यप्ये-वमेव शल्यमुद्धृत्यान्त्रस्रावान् संशोध्य, तच्छिद्रमन्त्रं समाधाय कालपिपीलिकाभिर्दशयेत, दष्टे च तासां कायानपहरेन्न शिरांसि, ततः पूर्ववत् सीव्येत्, सन्धानं च यथोक्तं कारयेत्, यष्टोमधुक • मिश्रया च कृष्णमृदाऽवलिप्य बन्धेनोपचरेत् । ततो निवातमा-गारं प्रवेश्याचारिकमुपदिशेद्वासयेच्चैनं तैलद्रोण्यां वा पेयो-वृत्तिमिति ॥ १७ ॥

उर्दैकोदरिणस्तु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्य स्थित-स्याप्तैः सुपरिगृहीतस्याकै क्षात्परिवेष्टितस्याधोनाभेर्वा मतञ्चतुरङ्गुल-मपहाय | रोमराज्या व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत्, तत्र त्रप्वादीनामन्यतमस्य नाडीं द्विद्वारां पक्षनाडीं वा संयोज्य दोषोदकमवसिञ्चेत्, ततो नाडीमपहृत्य तैललवणेनाभ्यज्य व्रणं बन्धेनोपचरेत्, न चैकस्मिन्नेव दिवसे सर्वं दोषोदकमपहरेत्, सहसा ह्यपहृते तृष्णाज्वराङ्गमदतीसारश्वासपाददाहा उत्पद्येर-न्नापूर्यते वा भृशतरमुदरमसञ्जातप्राणस्य, तस्मात् तृतीयचतुर्थप-ञ्चमषष्टाष्टमदशमद्वादशषोडशरात्राणामन्यतममन्तरीकृत्य दोषोद-कमल्पाल्पमवसिञ्चेत् । निःस्रुते च दोषे गाढतरमाविककौशेयच-र्मणामन्यतमेन परिवेष्टयेदुदर, तथा नाध्मापयति वायुः षण्मा-१ पूर्ववत् सीव्येद् बाह्यं व्रणमिति शेषः । यथोक्तम् = ग्रोपहरणीयोक्तं सद्योत्र. योक्तं च विधानं कारयेदित्यर्थः । २ पयोवृत्ति = दुग्धाहारम् । ३ उदकोदरिण-श्चिकित्सां वक्ति- - उदकोदरिण इति । वातपित्तोपद्रवशान्त्यर्थं वातहरतैलाभ्यक्तस्ये-त्यर्थः । ४ श्रकक्षात् = कक्षपर्यन्तम् । ५ वाग्भटेन तु वाससैव परिवेष्टनमुक्तम् - " अथास्य नाडीमाकृष्य तैलेन लवणेन च । व्रणमभ्यज्य बध्वा च वेष्टयेद् वाससोदरम् ॥ ' इति । ६ वाग्भटेन तु– “ स्यात् क्षीरवृत्तिः षण्मासांस्त्रीन् पेयां पयसा पिवेत् । त्रींश्चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा ॥ अल्पशः स्नेहलवणं जीर्णं श्यामाककोद्रवम् । प्रयतो वत्सरेणैवं विजयेत्त. CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 783

सुश्रुत संहिता चौखम्बा, पृष्ठ 783 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १५ ] चिकित्सास्थानम् alai: Digitized by Arya Sama ] Foundation Chennai and eGangotri ६२५ सांश्च पयसा भोजयेज्जाङ्गलरसेन वा, ततः त्रीन्मासानर्द्धादकेन पयसा फलाम्लेन जाङ्गलरसेन वा, अवशिष्टं मासत्रयमन्नं लघु हितं वा सेवेत । एवं संवत्सरेणागदो भवति ॥ १८ ॥

भवति चात्र ।

आस्थापने चैव विरेचने च पाने तथाऽऽहारविधिक्रियासु ।

सर्वोदरिभ्यः कुशलैः प्रयोज्यं तीरं शृतं जङ्गलजो रसो वा ॥१ ९ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने उदरचिकित्सितं नाम चतुर्दशोऽध्यायः ॥ १४ ॥

पञ्चदशोऽध्यायः ।

अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

नार्तैः कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम् । अत्र हि योनि-यकृत्प्लीहान्त्रविवरगर्भाशयानां मध्ये कर्म कर्त्तव्यं स्पर्शेन, उर्क-ज्जलोदरम् ॥ ” इति क्षीरेणैवोक्तम् । १ कृतकर्मणः सर्वोदरिणः क्षीरजाङ्गलमांसर सप्र--योगं ब्रवीति - आस्थापन इति । २ शृतम् = उष्णीकृतं क्षीरमित्यर्थः । इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां चतुर्दशोऽध्यायः । पञ्चदशोऽध्यायः । ३ क्रमागतत्वादुदरचिकित्सानन्तरं मूढगर्भचिकित्सितमारभ्यते - अथेति । मूढः - स्वाभाविकप्रसूतिविधिविपरीतेन निरुद्धगतिः स चासौ गर्भस्तस्य चिकित्सितम् । -स्वाभाविकप्रसूतिविधिश्व के वर्णितः - " गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्ध्वशिराः -सङ्कुच्याङ्गान्यास्तेऽन्तःकुक्षौ । स चोपस्थितकाले जन्मनि प्रसूतिमारुतयोगात् परिवृत्या वाक्शिरा निष्क्रामत्यपत्यपथेन, एषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा ' इति । ४ मूढगर्भस्य कष्टतमत्वं प्रतिपादयति - नात इति । ५ गर्भाशयः = गर्भ-शय्यानाम योनेस्तृतीय श्रावर्तः । तदुक्तं शारीरे स्वयमेव – “ तस्यास्तृतीये आवर्ते गर्भशय्या प्रतिष्ठिता " इति । ६ उत्कर्षणम् = अधोगतगर्भस्थ बालकस्योध्वींकरणम्, अपकर्षणम् = ऊर्ध्वगतस्याधःकर्षणम्, स्थानापवर्तनं = गर्भशय्यात उत्तानस्यावा-४० CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 784

सुश्रुत संहिता चौखम्बा, पृष्ठ 784 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२६ Digitized by Arya सुश्रुतसहिता आ ichennai and eGangoli अ ० १५ रणापकर्षणस्थानापवर्त्तनोत्कर्त्तन भेदनच्छेदन पीडनर्ज करादारणा-नि चैकहस्तेन गर्भं गर्भिणीं चाहिँसता, तस्मादधिपतिमापृच्छ परं च यत्नमास्थायोपक्रमेत ॥ ३ ॥

तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टो । स्वभावगता अपि त्रैयः सङ्गा भवन्ति - शिरसो वैगुण्यादंसयोर्जघनस्य वा ॥ ४ ॥

जीवति तु गर्भे सूतिकागर्भनिर्हरणे प्रयतेत । निर्हर्त्तुमशक्ये

च्यावनान् मन्त्रानुपशृणुयात् । तान् वक्ष्यामः ॥ ५ ॥

' इहामृतं च सोमश्च चित्रभानुश्च भामिनि! ।

उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते ॥ ६ ॥

इदममृतमपां समुद्धृतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि ।

तदनल पवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ ७ ॥

मुक्ताः पशोविपाशाश्च मुक्ताः सूर्येण रश्मयः । मुक्तः सर्वभयाद् गर्भ एह्येहि विरमावितः ॥ ८ ॥ '

औषधानि च विदध्याद् यथोक्तानि । मृते चोत्तानाया आभु ङ्मुखीकरणम्, उत्कर्तनम् = ऊर्ध्वस्य कस्यचिदङ्गस्य छेदनम्, भेदनं = = गर्भकुदया-देराध्मातस्य विदारणम्, छेदनं = तत्तरस्थानासक्तस्य तस्याङ्गस्य द्वैधीकरणम्, पीड.. नं = वलनम्, ऋजूकरणं = वक्रस्य प्राञ्जलीकरणम्, दारणं = विदारणम् । १ अहिंसता = वघयोग्यव्यापारमकुर्वता । २ उद्दिष्टा = निदानस्थानस्याष्टमा ध्याये “ कश्चिद् द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते " इत्यादिना कथितेत्यर्थः । असंख्येयमूढगर्भगतिषु कश्चिद् द्वाभ्यामित्याद्यष्टविधा गतयः प्रायः व्यवहारोपयोगिन्य इत्युन्नेयम् । ३ अष्टाङ्गसङ्ग्रहे तु - " समासतस्तु त्रिविधा गतिः - ऊर्ध्वा तिर्यङ् न्युब्जा च ” इति । एतदष्टाङ्गसङ्ग्रोक्तं वर्गीकरण माधुनिक पाश्चात्य वर्गीकरणं च समानं प्रतिभातीति बोद्धव्यम् । ४ उच्चैःश्रवाः = समुद्रमन्थनोत्पन्नः शक्रस्य श्वेतघोटकः । ५ यथोक्तानि = शारीरस्थानस्य दशमाध्यायें " गर्भसङ्गे तु योनि धूपयेत् कृष्णस निर्मोकेण पिण्डीतकेन वा " इत्यादिनोदितानीत्यर्थः । मृते चेति चकारेण मन्त्र तन्त्र-प्रसूतिजननव्यापारेष्वफलीभूतेषु जीवितेऽपीत्यनुक्तसमुच्चयः । श्राभुग्नसक्थ्याः = ऊर्ध्व-जानुकत्वेन सङ्कुचीकृत सक्थ्याः, वस्त्राधारकोन्नमितकट्याः = वस्त्र धारको परिशयानाया इत्यर्थः । वस्त्राधारको वस्त्रनिर्मितोऽन्तः शुषिरो वस्त्रवलयस्तेनोन्नमिता कटिर्यस्याः सा तस्या इति समासः । धन्वननगवृत्तिका शाल्न लीमृत्स्नघृताभ्यां धन्वनो धनुवृक्षः, CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 785

सुश्रुत संहिता चौखम्बा, पृष्ठ 785 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १५ Digitized t ६२७. Digitized by Arya Samaj Foundation Chennai and eGangotri नसक्थ्या वस्त्राधारकोन्नमितकट्या धन्वननगवृत्तिका शाल्मलीमृ-त्सघृताभ्यां म्रक्षयित्वा हस्तं योनौ प्रवेश्य गर्भमुपहरेत् । तंत्र सक्थि--भ्यामागतमनुलोममेवाञ्छेत् । एकैसक्थ्नाप्रपन्नस्येतरसक्थि प्रसा-पहरेत् । स्फिग्देशेनागतस्य स्फिग्देशं प्रपीड्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्यापहरेत् । तिर्यगाँगतस्य परिघस्येव तिरश्चीनस्य पश्चादर्द्धमूर्ध्वमुत्क्षिप्य पूर्वार्द्धमपत्यपथं प्रत्यार्जवमानीयापहरेत् । पापवृत्तशिरसमं सम्प्रपीड्योर्ध्वमुत्क्षिप्य शिरोऽर्पत्यपथमानीया-पहरेत् । बाहुर्द्वयप्रतिपन्नस्योर्ध्वमुत्पीड्यांस शिरोऽनुलोममानीया. ' धन्वनः धामनि इति भाषाप्रसिद्धे धनुवृक्षे ' इति शब्दार्थचिन्तामणिः । नगवृत्तिका शल्लकी, शाल्मली प्रसिद्धा, यद्यपि मृत्स्नशब्दः प्रशस्तायां मृदि वर्तते, तथाऽप्यत्र धनुवृक्षशल्लकी शाल्मलीनां पिच्छिलेष्वेव मृत्स्नशब्दो बोद्धव्य इति डल्हणः । श्रीहारा--णचन्द्रस्तु —‘धन्वनगवृत्तिकशाल्मली मृत्स्न घृताभ्याम् ' इति पाठ मनुते, व्याख्याति च - शाल्मलीषु मध्ये मरुदेशीयपर्वतस्था हि नितरां पिच्छिलनिर्यासा भवन्ति तदिद-मुच्यते — धन्वेति । धन्वा मरुदेशः, मृत्स्नमत्र पिच्छिलो भागः, ' विविक्तं मृत्स्नं च ** इस्योजोलक्षणं च । तन्त्रान्तरेऽप्युक्तम् - ' इस्तमभ्यज्य योनिं च साज्यशास्मलिपि-च्छया'इति सुश्रुतार्थसन्दीपनै । १ निदानस्थानोक्तेष्षष्टविधेषु मूढगर्भेषु मध्ये " कश्चिद् द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते ” इति प्रथमस्य विधि प्रतिपादयति - तत्रेति । भान्छेत् = आकर्षेदित्यर्थः । २ “ कश्चिदाभुग्नैकसक्थिरेकेन " इति द्वितीयस्य विधिमुपपादयति - एकेति । द्वितीय--सक्थि सङ्कुचीकृत्य एकसक्थ्नाऽऽगतस्य प्रगुणीभूतसक्थिद्वयप्रसारणं कृत्वाऽऽकर्षेदि-त्यर्थः । सक्थि = जङ्घा । ३ " कश्चिदाभुग्न सक्थिशरीरः स्फिग्देशेन तियंगागतः ” इति तृतीयस्य विधि--मभिधत्ते - स्फिगिति । ४ " कश्चिद्दुरः पार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावति. छते " इति चतुर्थस्य विधिमभिदधाति तिर्यगिति । ५ तिरश्चीनस्य = तिर्यग्भूत.. स्य । ६ श्रार्जवम् = ऋजुभावम् । ७ " अन्तःपाश्र्वापवृत्तशिराः कश्चिदेकेन बाहुना " इति पञ्चमस्य विधि वक्ति-पाश्र्वेंति । पार्श्वपवृत्तशिरसं = पार्श्वाभिमुखशिरसम् । ८ अपत्यपथं = योनिन् । ९ “ कश्चिदामुग्नशिरा बाहुद्वयेन " इति षष्ठस्य विधिं ब्रवीति - बाहुद्वयेति । बाहुद्वय. प्रतिपन्नस्य = बाहुद्वयमात्रेण निर्गतस्येत्यर्थः । श्रद्यं मूढगर्भत्रितयं पादाभ्यामादरणीयं. तदितरन्मूढगर्भत्रयं शिरसेति निष्कर्षः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 786

सुश्रुत संहिता चौखम्बा, पृष्ठ 786 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२८ सुश्रुतसंहितायां-Digitized by Arya Samaj Foundation Chennai and eGangotri [ अ ० १५

पहरेत् । द्वावन्त्यावसाध्यौ मूढगर्भी । एवमशक्ये शस्त्रमवचारयेत् ॥ ९ ॥

सचेतनं च शस्त्रेण न कथञ्चन दारयेत् ।

दायमाणो हि जननीमात्मानं चैव घातयेत् ॥ १० ॥

अविषह्ये विकारे तु श्रेयो गर्भस्य पातनम् ।

नगभिण्या विपर्यासः प्राप्तकालं न हापयेत् ॥ ११ ॥

ततः स्त्रियमाश्वास्य मण्डलाग्रेणावङ्गुलीशस्त्रेण वा शिरो वि-दार्य, शिरःकपालान्याहृत्य शङ्कुना गृहीत्वोरसि कक्षायां वाऽपह-रेत् । अभिन्ने शिरसि चाक्षिकूटे गण्डे वा, अंससंसक्तम्यांस-देशे बाहुं छित्त्वा, र्हतिमिवाततं वातपूर्णोदरं वा विदार्य निर--स्यान्त्राणि शिथिलीभूतमाहरेत् । जघनसक्तस्य वा जघनकपा-लानीति ॥ १२ ॥

यद्यदङ्गं हि गर्भस्य तस्य संजति तद्भिषक् ।

सम्यग् विनिहेरेच्छित्त्वा रक्षेन्नारीं च यत्नतः ॥ १३ ॥

गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः ।

तत्रानल्पमतिर्वैद्यो वर्त्तेत विधिपूर्वकम् ॥ १४ ॥

नोपेक्षेत मृतं गभ मुहूर्त्तमपि पण्डितः ।

सें ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा ॥ १५ ॥

१ " कश्चिदाभुग्नमध्यो हस्तपादशिराभिः " इति सप्तमस्य, " कश्चिदेकेन सक्थ्ना योनिमुखं प्रतिपद्यतेऽपरेण पायुम् " इत्यष्टमस्य च असाध्यत्वं प्रतिपादयति - द्वाविति । २ दार्यमाणः = छेद्यमानः जननी = शस्त्रजनितदुःखा सहिष्णुत्वेन इस्तपादादेर्विषमवि-क्षेपाद् मातरं घातयेदित्यर्थः । ३ शस्त्रमन्त्राद्युपायासिद्धौ गर्भिणीरक्षार्थं गर्भपातनस्य श्रेयोऽभिदधाति -अविषह्य इति यतोऽनन्तरमेव वक्ष्यति - " नोपेक्षेत मृतं । ४ न हापयेत् = नोल्लङ्घयेत् । गर्भ मुहूर्तमपि पण्डितः । स ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा ॥ ” इति । ५ मूढगर्भाहरणार्थं शस्त्रावचारणं निर्दिशति तत इति । मण्डलाग्रलक्षणमुक्तं भोजेन-“ द्वे मण्डलाग्रे ये प्रोक्ते एकं वृत्तमुखं तयोः । तीक्ष्णधारं दृढं कार्यमेकं तच्च क्षुराकृति ॥ ” - इति । ६ शङ्कुना = अ'कुञ्चिताकारवटिशविशेषेण । ७ श्रक्षिकूटे = चक्षुर्गोलके । शङ्कुनाऽपइरणम् । ८ ' दृतिश्चपुटे मत्स्ये ' इति -मेदिनी । ९ सजति = कर्तेतीति तात्पर्यम् । ' षक्ष सङ्गे ' इति धातुः । १० सः गर्भः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 787

सुश्रुत संहिता चौखम्बा, पृष्ठ 787 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ ० १५ D ] gitized by Arya Sai and eGangotri ६२ ९:

मण्डलाग्रेण कर्त्तव्यं छेद्यमन्तर्विजानता ।

वृद्धिपत्रं हि तो॒क्ष्णाग्रं नारीं हिंस्यात् कदाचन ॥ १६ ॥

अथापतन्तीमपेरां पातयेत् पूर्ववद्भिषक् ।

हस्तेनापहरेद्वाऽपि पार्श्वभ्यां परिपीड्य वा ॥ १७ ॥

धुनुयाच्च मुहुर्नारीं पीडयेद्वांऽसैपिण्डिकाम् ।

तैलाक्तयोनेरेवं तां पातयेत् मतिमान् भिषक् ॥ १८ ॥

एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा ।

ततोऽभ्यक्तशरीराया योनौ स्नेह ' निधापयेत् ॥ १ ९ ॥

एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति ।

कृष्णौतन्मूलशुण्ठ्ये लाहिङ्गुभार्गीः सदीप्यकाः ॥ २० ॥

वचामतिविषां रास्नां चव्यं सञ्चूर्ण्य पाययेत् ।

स्नेहेन दोषस्यन्दार्थं वेदनोपशमाय च ॥ २१ ॥

क्वाथं चैषां तथा कल्कं चूर्णं वा स्नेहवर्जितम् ।

शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः ॥ २२ ॥

तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक् ।

त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिवेत् ॥ २३ ॥

पाययेद्वा ss सवं नक्तमरिष्टं वा सुसंस्कृतम् ।

शिरीषककुभाभ्यां च तोयमाचमने हितम् ॥ २४ ॥

उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत् । १ " वृद्धिपत्रं क्षुराकार छेदभेदनपाटने । ऋज्वग्रमुन्नतं शोथे गम्भीरे च तदन्यथा । नताग्रं पृष्ठतः " इति वाग्भटोक्तं लक्षणं वृद्धिपत्रस्य । २ श्रपरां = गर्भावरकजरायु-मित्यर्थः । पूर्ववत् = शारीरस्थानीयगर्भिणीव्याकरणोक्तविधिनेत्यर्थः ॥ ३ श्रीहाराणचन्द्रस्तु ' पीडयेद्वा सपिण्डिकाम् ' इति पाठ पठिखा व्याख्याति-' पीडयेन्मर्दयेत्, सपिण्डिकामपरासन्निहित मांसपिण्डिका सहितामपरामित्यर्थः ' इति । ४ स्नेहं = योनिसन्तर्पणे प्राधान्याद् वच्यमाणं बलातैलमित्यर्थः । ५ प्रसवकाले जातमूढगर्भायाः कृतकर्मणाऽपहृतापरायाः पार्श्वयोनिशूल का ठि. न्यशान्त्यर्थं रक्तक्लेदादिदोषप्रसेकार्थे च तैलाक्तयोनेस्तैलेन कृष्णादिपानं निर्दिशति-कृष्णेति पिप्पलीमूलम् दीप्यकः = अजमोदा: । कृष्णा = पिप्पली, तन्मूलं ६ तेजोवती = चव्यम् । ७ श्राचमनै = प्रक्षालने । ८ उपद्रवाः = वातरोगज्वराद्याः । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 788

सुश्रुत संहिता चौखम्बा, पृष्ठ 788 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६३० Digitized by Arya सुश्रुतसंहितायां hennai and eGangoirl अ ० १५ सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना ॥ २५ ॥

स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता ।

पयो वार्तहरैः सिद्धं दशाहं भोजने हितम् ॥ २६ ॥

रसं दशाहं शेषे तु यथायोगमुपाचरेत् ।

व्युपद्रवां विशुद्धां च ज्ञात्वा च बलवर्णिनीम् ॥ २७ ॥

ऊर्ध्वं चतुर्भ्यो मासेभ्यो विसृजेत् परिहारतः ।

योनिसन्तर्पणेऽभ्यङ्गे पाने बस्तिषु भोजने ॥ २८ ॥

बलातैलमिदं चास्यै दद्यादनिलवारणम् ।

बलामूलकषायस्य दशमूलीकृतस्य च ॥ २ ९ ॥

यवकोलकुलत्थानां क्वाथस्य पयसस्तथा ।

अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः ॥ ३० ॥

पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् ।

तथाऽगुरुं सर्जरसं सरलं देवदारु च ॥ ३१ ॥

मञ्जिष्ठां चन्दनं कुष्ठमेलां कौलानुसारिवाम् ।

मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम् ॥ ३२ ॥

शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् ।

तत् साधुसिद्धं सौवर्णे राजते मृन्मयेऽपि वा ॥ ३३ ॥

प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत् ।

बलातैलमिदं ख्यातं सर्ववातविकारनुत् ॥ ३४ ॥

यथाबलमतो मात्रां सूतिकायै प्रदापयेत् ।

या च गर्भार्थिनी नारी क्षीणशुक्रश्व यः पुमान् ॥ ३५ ॥

वातक्षीणे मर्महते मथितेऽभिहते तथा ।

भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते ॥ ३६ ॥

१ वातहरैः = शतपुष्पादिभिः । २ सूतिकारोगे. बलातैलं प्रतिपादयति - योनि. सन्तर्पण इति । बलामूलक्काथस्य यवकोलकुलत्थक्काथस्य पयसश्च प्रत्येकमष्टावष्टौ भागाः, तैलस्यैको भागः सर्वमेकीकृत्य काकोल्यादिमधुरगणं सैन्धवादिकं च भेषज-कल्कं स्नेहचतुर्थाशं प्रक्षिप्य श्रग्नौ पचेदिति ३ कालानुसारिवा = तगरम् । CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 789

सुश्रुत संहिता चौखम्बा, पृष्ठ 789 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

* अ ० १५ ] Digitized by Arya चिकित्सास्थान epnai and eGangotri ६३१

एतदाक्षेपकादीन वै वातव्याधीनपोहति ।

हिक्कां कासमधीर्मन्थं गुल्मं श्वासं च दुस्तरम् ॥। ३७ ॥

षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति ।

प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः ॥ ३८ ॥

राज्ञामेतद्धि कर्त्तव्यं राजमात्राश्च ये नराः ।

सुखिनः सुकुमारश्च धनिनश्चापि ये नराः ॥ ३ ९ ॥

बलाकषाय पीतेभ्यस्तिलेभ्यो वाऽप्यनेकशः ।

तैलमुत्पाद्य तत्काथशतपाककृतं शुभम् ॥ ४० ॥

निवाते निभृतागारे प्रयुञ्जीत यथाबलम् ।

जीर्णेऽस्मिन् पयसा स्निग्धमश्नीयात् षष्टिकौदनम् ॥४१ ॥

अनेन विधिना द्रोणमुपयुज्यान्नमीरितम् ।

भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः ॥ ४२ ॥

सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत् ।

शतं शतं तथोत्कर्षो द्रोणे ५ द्रोणे प्रकीर्त्तितः ॥ ४३ ॥

बैलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु ।

सैरेयके वीरतरौ शतावर्य्यां त्रिकण्टके ॥ ४४ ॥

तैलानि मधुके कुर्य्यात् प्रसारण्यां च बुद्धिमान् ।

नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत् ॥ ४५ ॥

शतपाकं ततस्तेन तिलतैलं पचेद्भिषक् ।

बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत् ॥ ४६ ॥

१ अधीमन्थः = प्रभिष्यन्दपूर्वकोऽक्षिरोगः । २ प्रत्यग्रधातुः = संशुद्धधातुरित्यर्थः । ३ शतपाकं बलातैलं निर्दिशति - बलेति । बलाकषायपोतेभ्यः = बलाक्काथभावि-` तेभ्यः । अनैकशः = सप्तवारानित्यर्थः । ४ प्रयुन्जीत = पाययेत । ५ द्रोणे द्रोणे प्रतिद्रोणं तैले प्रयुक्ते शतं शतमुत्कर्षः श्रायुषो वृद्धिरित्यर्थः । ६ द्रव्यान्तरेषु बला-· तैलविधानमतिदिशति - बलाकल्पेनेति । ७ सैरेयक = झिण्टी, वीरतरुः = अर्जुनः, " नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः ' इत्यमरः । ८ अतिबलादितैलेषु तैलोक्त--भेषजकल्कं प्रक्षिप्य कुर्यादित्यर्थः । ९ नीलोत्पलादितैलं प्रतिपादयति-- नीलोत्पलमिति । वरीमूलं = शतावरीमू-CC - 0. Gurukul Kangri Collection, Haridwar

पृष्ठ 790

सुश्रुत संहिता चौखम्बा, पृष्ठ 790 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६३२ Digitized by Arya s अनुभुक्तसंहितायां mai and eGangotri [ अ ० १६

सर्वेषामेव जानीयादुपयोगं चिकित्सकः ।

बलातैलवदेतेषां गुणांश्चैव विशेषतः ॥ ४७ ॥

इति सुश्रुतसंहितायां चिकित्सास्थाने, मूढगर्भचिकित्सितं नाम पञ्चदशोऽध्यायः ॥ १५ ॥

षोडशोऽध्यायः ।

अथातो विद्रधीनां चिकित्सितं व्याख्यास्यामः ॥ १ ॥

यथोवाच भगवान् धन्वन्तरिः ॥ २ ॥

उक्त विद्रधयः पड्ये तेष्वसाध्यस्तु सर्वजः ।

शेषेष्वामेषु कर्त्तव्या त्वरितं शोफवत् क्रिया ॥ ३ ॥

वातघ्न मूलकल्कैस्तु घृततैलवसायुतैः ।

सुखोष्णो ' बहलो लेपः प्रयोज्यो वातविद्रधौ ॥ ४ ॥

सानूपौदकमांसस्तु काकोल्यादिः सतर्पणः ।

स्नेहालसिद्धो लवणः प्रयोज्यश्चोपनाहने ॥ ५ ॥

वेशंवारैः सकृशरैः पयोभिः पायसैस्तथा ।

स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम् ॥ ६ ॥

स चेदेवमुपक्रान्तः पाकायाभिमुखो यदि ।

तं पाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत् ॥ ७ ॥

लम् । नामेकदेशे नामग्रहणमिति वरीशब्देन शतावया बोधः ।

इति सुश्रुतसंहितायाश्चिकित्सास्थानीयसुधाऽऽख्यटिप्पन्यां पञ्चदशोऽध्यायः ॥

षोडशोऽध्यायः । १ निदानस्थानप्रक्रमोपस्थितं विद्रधिचिकित्सितमधिकरोति - अथेति । २ उक्ताः = निदानस्थानस्य नवमाध्याये कथिताः सर्वजः सन्निपातजन्यः । ३ आमेषु विद्रधिषु व्रणशोथवच्चिकित्सार्थमुपदिशति - शेषेष्विति । ४ क्रिया = द्विव्रणीयोक्तापतर्पण-दिविरेचनान्ता । ५ वातविद्रधिचिकित्सामाचष्टे - वातघ्नेति । ६ सुखोष्णः = ईषदुष्णः । ७ वेशवारो नाम— “ मसिं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् । पिप्पलीशुण्ठि. मरिचगुढसर्पिःसमन्वितम् । ऐकध्यं विपचेत् सम्यग् वेशवार इति स्मृतः ॥ ” इति । CC - 0. Gurukul Kangri Collection, Haridwar