वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 251–254

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 251–254

पृष्ठ 251

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 251 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६२ ] वेदार्थपारिजातभाष्य सहिता २४१ तथा च सन्ध्या सन्ध्यांशसहितस्य कृतयुगस्य १७२८००० मानुषवर्षाणि कालः । अष्टाविंशति सहस्रोत्तर-। सप्तदशलक्षमानववर्षाणि यावत् कृतयुगस्य कालः । युगस्य पूर्व सन्ध्याकालः, युगस्यानन्तरं सन्ध्यांशकालः तदुक्तं विष्णुपुराणे-तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते । सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि सः ॥ सन्ध्या सन्ध्यांशयोरन्तर्यः कालो मुनिसत्तमः । युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥ इति । ( १।३।१३-१४ ) इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ ( १1७० ) अन्येषु त्रेता द्वापर - कलियुगेषु सन्ध्यासन्ध्यांशसहितेषु एकहान्या सहस्राणि शतानि च भवन्ति । तथा च देववर्षाणि ३००० ( अर्थात् ३००० x ३६० - १०८०००० मानुषवर्षाणि ) त्रेताकालः । तस्य सन्ध्याकालः ३०० दैववर्षाणि ( अर्थात् ३०० x ३६० = १०८००० मानुषवर्षाणि ), सन्ध्यांशकालश्च ३०० दैववर्षाणि । द्वापरस्य ( अर्थात् ३०० x ३६० = १०८००० मानुषवर्षाणि सम्भूय १२ ९ ६००० मानुषवर्षाणि ) त्रेताकालः च २००० दैववर्षाणि ( अर्थात् २००० x ३६० = ७२०००० मानुषवर्षाणि ) कालः । तस्य सन्ध्याकालः २०० दैववर्षाणि ( अर्थात् २०० x ३६० = ७२००० मानुषवर्षाणि ), सन्ध्यांशकालश्च तावत्परिमाण एव, सम्भूय ८६४००० वर्षाणि द्वापरकालः । कलयुगस्य च १००० देववर्षाणि ( अर्थात् १००० x ३६० = ३६०००० मानुषवर्षाणि ) । तस्य सन्ध्याकाल: १०० देववर्षाणि ( अर्थात् १०० x ३६० = ३६००० मानुषवर्षाणि ),, सन्ध्यांशकालश्चैतावानेव । सम्भूय ४३२००० वर्षाणि कलियुगस्य कालः । तथा च ४३२०००० वर्षाणि विंशतिसहस्रोत्तरत्रिचत्वारिंशल्लक्षवर्षाणि चतुर्युगीसमथः । यदेतत्परिसंख्यातमादावेव चतुर्युगम् । एतद् द्वादशसाहस्रं देवानां युगमुच्यते ॥ ( १७१ ) शतानि यदेतच्चतुर्युगं परिसंख्यातं देवानां वर्षमानेन कृतस्य चत्वारि शतानि सन्ध्या चत्वारि सहस्राणि त्रेताया सन्ध्यांशश्चत्वारि सहस्राणि कृत्स्य भोगः, त्रेतायास्त्रिशती सन्ध्या त्रिशती च सन्ध्यांशस्त्रीणि सन्ध्या शतमेकं भोगः, द्वापरस्य द्वे शते सन्ध्या द्वे शते सन्ध्यांशो द्वे सहस्रे च द्वापरस्य भोगः, शतमेकं सन्ध्याशः सहस्रमेकं च कलेर्भोगः, तदेतत् सम्भूय देवानां मानेन द्वादशसहस्रवर्षाणि चतुर्युगीमानम् । मानुषं यच्चतुर्युगं तदेव देवानां युगमिति । देविकानां युगानां तु सहस्रं परिसंख्यया । ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च ॥ ( १।७२ ) देवयुगानां सहस्रम् अर्थान्मानुषचतुर्युगसहस्रं मानवर्षसंख्यया ४३२००००००० द्वात्रिंशत्कोटयुत्तर-चतुरर्बुदवर्षाणि यावद् ब्राह्ममेकमहः । एतावन्त्येव मानववर्षाणि यावद् रात्रिः । तदेवं ८६४०००००००

पृष्ठ 252

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 252 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४२ शुक्लयजुर्वेद संहिता [ अ ० ३ चतुःषष्टिकोटयुत्तराष्ट्रार्बुदवर्षपरिमितं ब्रह्मणोऽहोरात्रं भवति । ब्रह्मण एकस्मिन् दिने चतुर्दशमनवो व्यतियन्ति । तदेवं साग्रमेकसप्ततिदैवयुगमेकस्य मनोर्भोगकालः । तथा च मनुः --यत्प्राग्द्वादशसहस्रमुदितं दैविकं युगम् । तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ ( ११७ ९ ) कृतयुगे निरुपद्रवा अरोगाश्च मनुष्या जायन्ते । तथा च मनुः-अरोगाः सर्वंसिद्धार्थाश्चतुवर्षशतायुषः । कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादश: ॥ ( १।८३ ) इत्येतान्युपरि निर्दिष्टानि मनुसंहितायाः प्रथमाध्यायगतानि प्रमाणानि । एवं तु ब्रह्मणो वर्षं तथा वर्षशतं भवेत् । गते वर्षशते ब्रह्मा परमात्मनि लीयते ॥ ( अग्निपु ० ) ब्रह्मा विष्णुदिने चैकः पतत्येवं वदन्ति ते । मनीषिणस्तथा विष्णुरहन्युग्रस्य शङ्करः ॥ ईश्वरस्य तथा चासौ स सांख्यप्रकृतेस्तथा । अतः परं परे धाम्नि कालसंख्या न विद्यते ॥

इति शब्दकल्पद्रुमे ।

चतुर्युगसहस्रेण ब्रह्मणो दिनमुच्यते । पितामहसहस्रेण विष्णोश्च घटिका स्मृता ॥

विष्णोर्द्वादशलक्षाणि कलाधं रौद्रमुच्यते । रुद्रस्यार्बुदसंख्यानां ततो ब्रह्माक्षरं भवेत् ॥ इति पञ्चाङ्गेषु । शिवमहापुराणरीत्या तु-चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते । रात्रिश्च तावती तस्य मानमेतत् क्रमेण ह ॥ तेषां त्रिंशद्दिनैर्मासो द्वादशैस्तैश्च वत्सरः । शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम् ॥

ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते । सोऽपि वर्षशतं यावदात्ममानेन जीवति ॥

वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद् ध्रुवम् । हरो वर्षशते याते नररूपेण संस्थितः ॥ ( रुद्रसंहिता सृष्टिखण्डे १०।१६-१९ ) ' श्रीकृष्णस्य निमेषेण ब्रह्मणः पतनं भवेत् ' ( १ | १४ | १ ९ ) इति च नारदपञ्चरात्रे । यद्यप्यायुर्वेदेषु तन्त्रेषु च त्रिगर्भं कुटीरप्रवेशपूर्वक तत्तद्रसायन सेवनेन ब्रह्मविष्ण्वायुष्ट्वमान कन्दादो वर्णितम्, परं प्रकृतमन्त्रे तादृशी चर्चापि नास्ति । यदपि च – ' अपि वा चतुर्थचरणस्य नः अस्माकं चतुर्वक्त्र चतुर्भुज - पश्चवक्त्राणां त्रि इति लुप्तषष्ठी । त्रयाणां रजःसत्त्वतमोगुणानां हरेर्ब्रह्मणः शिवस्य आयुरेव त्र्यायुषम्, स्वार्थिकोऽण् ' इति, तदप्यसत्, यत्तदोः सम्बन्धविच्छेदापत्तेः, यज्जमदग्न्यादिषु त्र्यायुषं तत् त्र्यायुषं नोऽस्त्वित्यस्यैव श्लिष्टत्वात् । यथाश्रुतसमस्त-पदार्थानुपपत्तावेव त्रीत्यस्य लुप्तषष्ठीकत्वं कल्पनीयम् । न चात्रानुपपत्तिः, सायणादिरीत्याप्युपपन्नत्वात् । कथञ्चित्तदभ्युपगमेऽपि त्रयाणामित्युपस्थितत्वात् प्रथमं बाल्यादीनामेवोपस्थितिर्न गुणानाम्, तेषामप्रत्यासन्नत्वात्,

पृष्ठ 253

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 253 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६२-६३ ] वेदार्थपारिजातभाष्यसहिता २४३ गुणानामपि स्वीकारे ततो विष्ण्वादिग्रहणे लक्षितलक्षणाप्रसङ्गात्। यदपि च-- - ' ' ब्राह्माहोरात्रपरिमाणेन वर्षशतं द्विपरार्ध परिमितं यद् ब्राह्ममहस्तत्ते भूयात् ' इति, तदतीव मन्दम्, त्र्यायुषमित्य सम्बद्धत्वात् । यदपि च- ' तो देवानां प्रत्यबुद्धयत स एव तदभवत् तथर्षीणां तथा महर्षीणामित्यत्र ऋषिमनुष्याभ्यां सह देवस्य पाठो दृष्टः तस्माद्यदेवेष्वित्यस्मिन् मन्त्रे देवसहचरिता मनुष्या ऋषयश्च ग्राह्याः । तदेवं जमदग्निपदेन मनुष्यस्य कश्यपपदेन ऋषेश्चोपलक्षणान्मानुषमाषं देवं चतुर्थं च ब्राह्ममायुः पर्यवस्यति । आषं मानुषादधिकं दशसहस्रपरिमितम् । मानुषाणां शतं दिनानि ऋषीणामेकं दिनमित्युक्तमेव । युक्तं चैतद् यत्सुवर्णकारस्य प्रहरणं शतं तदेकमयस्कारस्येति न्यायेनाल्पशक्तेर्यच्छतं तत्तुल्यं बलवत एकमिति लोकप्रसिद्धेः ' इति, तदपि निर्मूलमेव, यतो हीदृशेन न्यायेनायस्कारस्य स्वर्णकारापेक्षया शतगुणायुष्ट्वापत्तेः । तेन मानुषा-युषापेक्षया ऋष्यायुषः शतगुणितत्वे किमप्याषं वचनमपेक्षितम् । तदस्ति चेदुपस्थापयितव्यम् । चतुर्थस्य ब्राह्मायुषः सत्त्वेऽपि प्रकृतमन्त्रेण तस्य कः सम्बन्धः? तस्मात् सर्वमेतत् प्रलापमात्रमेव । भवनत्रयकल्पनमपि निर्मूलमेव, ' प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि । अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥ ' ( तन्त्रवार्त्तिके, २१२ ) इत्युक्तेः । यच्च सम्प्रति तपस्यता तेन षट्पदार्थान् शिवो याचित इत्याह, अथवा युधि शौर्यानुरूपात् शिवं प्रति साक्षेपवचनान्न सोऽकुप्यदित्यत आह- नमस्कुर्वन्निति, तत्त्वसम्बद्धमेव ॥ ६२ ॥

शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु मा मा॑ हिंसीः । निव॑र्तया॒म्यायु॑षे॒ ऽन्नाद्य य प्र॒जन॑नाय रायस्पोषध सुप्रजास्त्वाय॑ स॒वोर्या॑य ॥ ६३ ॥

[ अस्य मन्त्रस्य स्वामिपादविरचितं भाष्यं नोपलब्धमिति तत्स्थाने उब्वट - महीधरभाष्ये दीयेते । उव्वटभाष्यम् लोहक्षुरमादत्ते -- शिवो नामासि । हे क्षुर! यतस्त्वं शान्तनामासि, यस्य च तव स्वधितिः पिता । स्वधितिः वज्रः । तस्मै नमः ते तुभ्यं भवतु । मा मां मा हिंसीः मा विनाशय । वपति - निवर्तयामि । निपूर्वो वपतिरिह मुण्डनार्थः । मुण्डयामि त्वाम् । आयुरर्थम्, अन्नाद्यर्थम् धनस्य पोषार्थम्, शोभनापत्यताय, शोभन-वीर्याय च ॥ ६३ ॥

महीधर भाष्यम् क्षुरदैवतं यजुः । ' शिवो नामेति लोहक्षुरमादाय ' ( का ० श्री ० ५।२।१७ ) । हे क्षुर! त्वं नाम नाम्ना शिवः शान्तोऽसि । स्वधितिः वज्रं ते तव पिता । ते तुभ्यं नमोऽस्तु । मां मा हिंसीः । ' निवर्तयामीति वपति ' ( का ० श्र ० ५।२।१७ ) । यजमानदैवतं यजुः । निपूर्वो वृतिर्मुण्डनार्थः । हे यजमान! त्वां निवर्तयामि

पृष्ठ 254

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 254 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४४ शुक्लयजुर्वेदसंहिता [ अ ० ३ मुण्डयपि । किमर्थम्? आयुषे जीवनाय, अन्नाद्यायान्नभक्षणाय, प्रजननाय सन्तानाय, रायो धनस्य पोषाय पुष्ट्यै, सुप्रजास्त्वाय शोभनापत्यताय, सुवीर्याय शोभनसामर्थ्याय ॥ ६३ ॥

॥ इति तृतीयोऽध्यायः ॥ मन्त्रार्थ - हेर! तुम्हारा नाम ' शान्त ' है । तुम्हारा पिता वज्र है । मैं तुम्हें नमस्कार करता हूँ । तुम हिसा मत करना | हे यजमान! बहुत दिनों तक जीवित रहने के लिये, अन्न भक्षण करने के लिये, सन्तति के लिये, द्रध्यवृद्धि के लिये तथा उत्तम अपत्य उत्पन्न होने के लिये और उत्तम सामर्थ्यं की प्राप्ति के लिये मैं तुम्हारा वपन ( मुण्डन ) करता हूँ । ' शिवो नामासि ' इस मन्त्र से लौह क्षुर ( उस्तरे ) का ग्रहण करे और ' निवर्तयामि ' इस मग्न से वपन करे ॥ ६३ ॥

॥ इति तृतीयोऽध्यायः समाप्तः ॥