वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री — पृष्ठ 241–250

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री · पृष्ठ 241–250

पृष्ठ 241

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 241 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ५८-५९ ] वेदार्थपारिजातभाष्यसहिता २३१ प्रकारेण नो व्यवसाययात् सर्वेषु कार्येषु निश्चययुक्तान् कुर्यात्, तथैवैनं भजामः । यद्वा अवयुत्य अन्याभ्यो सू ० देवताभ्यः पृथक्कृत्य रुद्रं अदीमहि आदयामो भोजयामः । ' अद् भक्षणे ' इत्यस्मात् ' छन्दस्युभयथा ' ( पा ० ३ | ४ | ११७ ) इत्यार्धधातुकत्वाल्लिङि णिचो लोप । अवगम्य त्र्यम्बकमादयामः । यथा नो वस्यसः वस्तुतरान् अतिशयेन वसनशीलान् दीप्तिमत्तमान् वा करत् कुर्यात्, सर्वकार्येषु निश्चययुक्तान् कुर्यात्, तथैवैनं जपामः । धनपुत्रादिभिर्दीप्तिमत्तमान् स्थितिशीलान् प्रशस्यतमान् व्यवसितमतीन् यथा भगवान् कुर्यात्तथा जपामः । अध्यात्मपक्षे - रुद्रं सर्वदुःखद्रावकं दुष्टरोदकं वा देवं जगद्रूपेण क्रीडमानं द्योतमानं वा त्र्यम्बकं त्रिनेत्रं त्रिकालज्ञं वा भगवन्तं शिवं परप्रेमास्पदप्रत्यगात्मत्वेनावगम्य अदीमहि सर्वदुःखमयं संसारं नाशयामः, आत्मानं रक्षयामो वा । यथा भगवान् नो वस्यसो ब्रह्मणि स्थितिशीलान् करत् कुर्यात्, यथा नः श्रेयसो ब्रह्मात्मरूपान् करत्, यथा सोऽस्मान् परावरे ब्रह्मणि व्यवसितमतीन् करत्, तथा तमनुक्कुलयामः I दयानन्दस्तु – ' वयं त्र्यम्बकं देवं रुद्रं जगदीश्वरमुपास्य दुःखान्यवादीमहि अवक्षयायेम स यथा व्यवसायप्रदं नोऽस्मान् वस्यसोऽवकरत्, यथा नोऽस्मान् श्रेयसोऽकरत्, यथा नो व्यवसाययेत्, तथा तं वसीयांसं श्रेयांस परमेश्वरमेव प्रार्थयामः ' इति, तदपि न क्षोदक्षमम्, त्रिषु कालेष्वेकरसं ज्ञानं यस्येत्यत्र कालाद्यध्याहारापेक्षया त्रयम्बकानि यस्येति व्युत्पत्तेर्लाघवयुक्तत्वात् । शतपथरीत्या तु मन्त्रस्य रुद्रदेवपरत्वमेव युक्तम् ॥ ५८ ॥

भ॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सुखं मे॒धाय॑ मे॒ध्यै ॥ ५ ९ ॥

हे रुद्र! त्वं स्वरूपेणैव भेषजम् औषधमसि, सर्वरोगमूलदुरितनिबर्हणहेतुत्वात् । अतस्त्वं सुखं सुप्राप्तं भेषजम् अस्मदीयेभ्यो गवाश्वादिभ्यो देहि । यद्वा भेषजवत् सर्वोपद्रवनिवारकोऽसि, अतोऽस्मदीयेभ्यो गवाश्व-पुरुषेभ्यः सुखं प्राप्तुं शक्यं यद् भेषजं सर्वव्याधिनिवारकमस्ति तद्देहि, ' यावन्त एव ग्राम्याः पशवस्तेभ्यो भेषजं करोति ' ( तै ० ब्रा ० १।६।१० १४ ) इति तित्तिरिश्रुतेः । मेषाय मेष्यं च सुखं देहि, सु हितं खेभ्यः प्राणेभ्य इति सुखम् । अध्यात्मपक्षे तु — ' हे रुद्र परमेश्वर! त्वं भेषजमसि ब्रह्माकारवृत्तावभिव्यक्तः सन् सर्वस्यैवाविद्यातत्कार्या-त्मकप्रपश्चस्य बाधकत्वाद् अस्मदीयगवे इन्द्रियोपलक्षिताय बाह्यान्तःकरणसमूहाय भेषजमसि भवदीयध्यानेन अध्यात्मपक्ष में-- भक्त भगवान् से प्रार्थना करता है कि वह हमारी बुद्धि को परावर ब्रह्म में स्थिर कर दे । स्वामी दयानन्द ने शतपथ के विपरीत ही अर्थ किया है, अतः उसे अप्रामाणिक ही कहा जायगा ॥ ५८ ॥

मन्त्रार्थ हे रुद्र! तुम औषधि के तुल्य समस्त अपद्रवों के निवारक हो । अतः हमारे गाय, अश्व और नृत्य आदि को सर्वव्याधिनिवारक औषधि दो और मेव तथा मेबी के प्राणों की हितकारक औषधि को दो ॥ ५ ९ ॥ भाष्यसार — रुद्रदेवता स्वरूपतः ही औषधिरूप हैं, क्योंकि वे समस्त रोगों के मूलभूत पापों के नाशक हैं । अतः तुम सुप्राप्त औषध हमारे गवाश्वादिकों को दो । अध्यात्मपक्ष में हे रुद्र परमेश्वर! तुम ब्रह्माकारवृत्ति में अभिव्यक्त होकर सम्पूर्ण अविद्या और उससे उत्पन्न हुए प्रपञ्चके नाशक हो । अतः हमारे बाह्याभ्यन्तर करणसमूह के लिये भेषज ( औषध ) रूप हो, अर्थात् आपके अनुग्रह से समस्त करणों के दोष दूर हो जाते हैं और साद्गुण्य का लाभ होता है ।

पृष्ठ 242

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 242 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३२ शुक्लयजुर्वेदसंहिता [ अ ० ३ भवदनुग्रहेण तस्य सर्वदोषबाधात् साद्गुण्यसम्पत्तेश्च । पुरुषाय प्रत्यगात्मने च भेषजमसि, अविद्यादिदोषनिवर्त-कत्वात् । मेषाय ' मिषु सेचने ' सेक्त्रे सर्वाभीष्टवर्षकाय, मेष्यं सर्वाभीष्टवपित्र्ये बुद्धयै च, अश्वाय व्यापनशीलाय प्राणाय च सुखं देहि स्वात्मतादात्म्यापादनेन स्वात्मरूपान् कुरु । दयानन्दस्तु - ' हे रुद्र जगदीश्वर! यस्त्वं शरीररोगनाशकत्वाद् भेषजमसि, आत्मरोगदूरीकरणाद् भेषजमसि, एवं सर्वेषां दुःख निवारकत्वाद् भेषजमसि, स त्वं नोऽस्माकं गवेऽश्वाय पुरुषाय मेषाय मेष्यं सुखं देहि ' इति, तत्तु श्रुतिसूत्र विनियोगविरुद्धत्वान्न सङ्गतम् ॥ ५ ९ ॥ ८ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव॒ बन्ध॑नान्मृ॒त्योम॒क्षय॒ माऽमृतत् । त्र्यम्बकं यजामहे सुगन्ध प॑ति॒वेदनम् । उर्वारुकर्मव बन्ध॑नादि॒तो सुक्षीय मामु॒तः ॥ ६० ॥

द्वे अनुष्टुभो! उभयोः परिक्रमणार्थे विनियोगः । ' अग्नि त्रिः परियन्ति पितृवत् सव्योरुनाघ्नानास्त्र्यम्बक-मिति ' ( का ० श्र ० ५ | १० | १३ ) । सर्वेऽप्रदक्षिणं दक्षिणेन पाणिना सव्यानुरूंस्ताडयन्तः परियन्ति । ' अथापलवि त्रिः परियन्ति । सव्यातू रूनुपघ्नानास्त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव " मामृतादित्याशी रेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते तदु ह्येव शमिव यो मृत्योर्मुच्यात नामृतात्तस्मादाह मृत्योर्मुक्षीय मामृतादिति ' ( श ० २।६।२।१२ ) । अथाप्रदक्षिणं त्रिरग्नेः परिगमनं विधत्ते - अथापसलवीति । त्र्यम्बकस्य हविषः कर्तारः सर्वे चतुष्पथेऽग्निमपसलवि अपसव्यं त्र्यम्बकमिति मन्त्रेण परियन्ति । किं कुर्वन्तः सव्यान् वामानूरून् उपघ्नाना हस्तेन वादयन्तः । मन्त्रार्थस्तु - त्रीणि अम्बकानि सूर्यशशाङ्कवह्निरूपाणि नेत्राणि यस्य सः, यद्वा स्त्री अम्बिका स्वसा पत्नी यस्य सः । सुगन्धि शोभनो गन्धो यस्यासौ सुगन्धिस्तं दिव्यगन्धोपेतं पुष्टिवर्धनं पुष्टेर्धनधान्य बुद्धिवैभवादे. वर्धयितारं रुद्रं वयं यजामहे पूजयामः । तत्प्रसादादहम् उर्वारुकं कर्कटीफलं परिपक्वं सद् यथा प्रसवबन्धनात् स्वयमेव मुच्यते, तथा मृत्योर् अपमृत्योर् मरणात् संसारमृत्योर्वा मुक्षीय मुक्तो भूयासम् । अमृताद् अमरणात् स्वर्गरूपाद् मुक्तिरूपाद्वा मा मुक्षीय मा वियोगो भवत्विति - आशीरेवैषा । ब्राह्मणं तात्पर्यमाह - मृत्योर् मरणाद् स्वामी दयानन्द की व्याख्या श्रुति - सूत्र प्रतिपादित विनियोग के विरुद्ध होने से असंगत है ॥ ५ ९ ॥ मन्त्रार्थ III I IIII I दिव्यगन्ध से युक्त, मृत्युरहित, धन - धान्यवर्धक, त्रिनेत्र जो रुद्र, उसकी हम पूजा करते हैं । उस कारण हम अपमृत्यु और संसाररूप मृत्यु से मुक्त हो जायेंगे । जिस प्रकार ककड़ी का फल अत्यधिक पक्व होनेपर अपने वृन्त ( दण्ठल ) से टूट जाता है ( मुक्त हो जाता है ), उसी प्रकार हम भी, मृत्यु से छूट ( मुक्त ) जायेंगे । किन्तु अभ्युदय और निःश्रेयसरूप अमृत से मात्र हमारा सम्बन्ध न छूटने पावे । ( अग्रिम वाक्य कुमारिकाओं का है ) पति की प्राप्ति करानेवाला, सुगन्धविशिष्ट त्रिनेत्र जो इन्द्र, उसकी हम पूजा करती हैं! ककड़ी का फल परिपक्व होने पर जैसे अपने दण्डल से छूट जाता है, उसी प्रकार हम कुमारियाँ माता, पिता, भाई आदि मातृगृह के बन्धुजनों से, उस कुल से, उस घर से दूर जायेंगी । किन्तु त्र्यम्बक के प्रसाद से हम अपने पति से दूर न जॉय, अर्थात् पतिगोत्र में ही बनी रहें । के जिस प्रकार पितृमेध में पुत्रादिकों के द्वारा तीन बार उलटी प्रदक्षिणा ( परिक्रमा ) करनी होती है और देवता पूजन ' में तीन बार सीधी प्रदक्षिणा ( परिक्रमा ) करनी होती है, उसी प्रकार यहाँ पर सबको ' त्र्यम्बकम् ' इस मन्त्र

पृष्ठ 243

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 243 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६० ] वेदार्थ पारिजात भाष्यसहिता २३३ मुच्या मुक्तो भवेत् सोऽमृतान्न मुक्तो भवति एतदेव प्राणिनां शमिव सुखं भवति । ' तदु हापि कुमार्यः परीयुः । भगस्य भजामहा इति या ह वै सा रुद्रस्य स्वसा अम्बिका नाम सा ह वै भगस्येष्ठे तस्मादु हापि कुमार्यः परीयु-भंगस्य भजामहा इति ' ( श ० २ | ६ | २ | १३ ) । अस्य परिगमनस्य भगप्रसिद्धिहेतुत्वमुपपादयति - तस्मादिति । तदा कुमार्यस्तमग्निमुक्तप्रकारेण परीयुः । भगस्य सौभाग्यस्य कर्मणि षष्ठी, सौभाग्यं भजामहै प्राप्नुयामहै । अम्बिका नाम या रुद्रस्य स्वसा सा भगस्येष्ठे सौभाग्यस्य स्वामिनी । तस्माद्भगप्राप्तिकामाः कुमार्योऽपि परीयुः । तत्र कुमारीणां परिगमनेऽन्योऽपि मन्त्रस्तमाह - ' तासामुतासां मन्त्रोऽस्ति । त्र्यम्बकं मामुत इति । सा यदित इत्याह ज्ञातिभ्यस्तदाह मामुत इति । पतिभ्यस्तदाह पतयो ह्येव स्त्रियै प्रतिष्ठा तस्मादाह- मामुत इति ' ( श ० २।६।२।१४ ) । त्र्यम्बकं त्रिनेत्रं सूर्यशशाङ्कवह्रिनयनं पतिवेदनं पतिविद्यते लभ्यते ' विद्लृ लाभे ' अनेनेति प्रतिवेदनः पतिलम्भयिता रुद्रस्तम् । अन्यत् पूर्ववदेव । चतुर्थपादस्य तात्पर्यमाह - इत इति । इदंशब्देन पितृकुलं परामृश्यते । अस्मात् पितृकुलाद् ज्ञातिभ्यः सकाशादहं मुक्षीय मुक्ता भूयासम् । अमुतोऽमुष्माद् विवाहादूध्वं पत्युः कुलाद् मा मुक्षीय विप्रयुक्ता न भवेयम् । जनकस्य कुलं गोत्रं च परित्यज्य पत्युर्गेहे गोत्रे सर्वदा वसामीति । अग्निहोत्रादिधर्मे पत्या सहैव स्त्रिया अधिकारः । अतः स्त्रीणां पतय एव प्रतिष्ठा । एतेन नियोगेनैकादशपतिवरणमत्यन्तमेव वेदबाह्यमिति मन्तव्यम् । अध्यात्मपक्षे तु — त्र्यम्बकं त्रिनेत्रं सगुणसाकारं सूर्यंशशाङ्कवह्निनयनं महाविराजं तदुपलक्षितं निर्गुणं निराकारं परमेश्वरं यजामहे भेदेनाभेदेन वा समर्चयामः । सुगन्धि दिव्यगन्धं सुयशसं वा, परमेश्वरस्य सर्वकामसर्व रस सर्वगन्धादिविशिष्टत्वादशेषविशेषातीतत्वाच्च । सर्वाभीष्टानां पुष्टेः पोषणस्य वर्धयितारं प्राणान्तः-करणादेर्विशिष्टरूपेण तस्यैव सर्ववृद्धिहेतुत्वात्, ' जीवापेतं वाव किलेदं म्रियते ' इति छान्दोग्यश्रुतेः । बन्धनाद् वृन्तादुर्वारुकमिवाहं तत्प्रसादात् संसारबन्धनाद् मुक्षीय मुक्तो भूयासम् । तथैव पतिवेदनं जीवानां पत्युः परमेश्वरस्य प्रापकम्, तदनुग्रहादेव तत्प्राप्तिप्रसिद्धेः, ' यमेवैष वृणुते तेन लभ्यः ' ( कठोप ० १ २ २२ ) इति श्रुतेः । इतः कर्मबन्धनाद् देहादिपञ्चकोशबन्धनाद् वृन्तादुर्वारुकमिव मुक्षीय, अमृतात् पत्युः परमेश्वरस्य सान्निध्य-लक्षणादमृतान्न मुक्षीयेति । दयानन्दस्तु – ' वयं सुगन्धि पुष्टिवर्धनं देवं यजामहे नित्यं पूजयेमहि । एतस्य कृपयाहं बन्धनादुर्वारुकमिव मृत्योर्मुक्षीय मुक्तो भूयासम् । अमृतान्मा मुक्षीमहि मा श्रद्धा रहिता भूयास्म वयं सुगन्धिनं पतिवेदनं त्र्यम्बकं जगदीश्वरं यजामहे | एतदनुग्रहेण वयं बन्धनादुर्वारुकमिवेतो मुक्षीय, अमुतो मोक्षसुखात् सर्वस्य सुखफलाद् धर्माद् विरक्ता मा भूयास्म ' इति तदपि शतपथ विरुद्धत्वादुपेक्ष्यमेव । सुगन्धीत्यत्र गन्धपदेन कीर्तिग्रहणं मुख्यार्थ ( गन्ध ) त्यागश्च निर्मूले एव । तस्मात् त्र्यम्बकपदेन त्रिनेत्रः सुगन्धिपदेन दिव्यगन्धोपेतः सगुणः से अग्नि की तीन परिक्रमा उलटी और तीन परिक्रमा सीधी लगानी चाहिये । उसी तरह यजमान के घर की कुमारिकाएँ भी उत्तरार्ध के ' त्र्यम्बकम् ' मन्त्र से अग्नि की तीन प्रदक्षिणा करें ॥ ६० ॥

भाष्यसार - अग्निहोत्रादि धर्मानुष्ठान में पति के सहित ही स्त्री को अधिकार है, अतः पति के रहने में ही स्त्रियों की प्रतिष्ठा है । अध्यात्मपक्ष में ककडी के फल को तरह देहादि पञ्चकोष रूप बन्धन से हमारा छुटकारा हो, किन्तु परमेश्वर के सान्निध्य लक्षण अमृत से हम दूर न हो पावें । ३०

पृष्ठ 244

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 244 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३४ शुक्लयजुर्वेदसंहिता [ अ ० ३ साकारश्च भगवानित्येव सिद्धयति । शतपथे द्वितीयस्य मन्त्रस्य कुमारीणामग्निपरिक्रमणे विनियोग उक्तः । एकस्यैवार्थस्य बोधकत्वे पौनरुक्त्यापातश्च । यत्तु - ' अर्जुनोऽन्ये वा त्र्यम्बकप्रार्थनया मृत्योः संसारभयात् प्रतिज्ञाभङ्गभयाद्वा एतेन भगवन्तं मोक्षात्पुनरावृत्ति- प्रसाद्याभीष्टं प्राप्नुवन्ति । सीतारुक्मिणीसुभद्राद्याः कुमार्योऽपि भगवन्तमभ्यर्थ्यं स्वाभीष्टं पति लभन्ते वेदितव्यः । ॥ ६० ॥

सिद्धान्तो जीवन्तं मृतं वा पतिं पतिकुलं परित्यज्य पत्यन्तरस्वीकरणसिद्धान्तश्चापास्तो एतत्ते रुद्राऽवसं तेन॑ परो मूर्जवतोऽतहि । अव॑ततधन्वा॒ पिकावसुः कृतवासा अहि सन्नः शि॒वोऽहि ॥ ६१ ॥

सर्वे इयमपि रौद्री तारपङ्क्तिश्छन्दः । यस्या अन्त्यो द्वादशाक्षरावाद्यावष्टाक्षरी पादौ सा तारपङ्क्तिः गौर्नोदाप्नुयात् । चैते प्रजापतिदृष्टाश्चातुर्मास्यमन्त्राः । ' अथैतान् यजमानोऽञ्जली समोप्य । ऊर्ध्वानुदस्यति यथा तस्माद्विलिप्सन्त तदात्मभ्य एवैतच्छ्ल्यान् निर्मिमते । तान् विलिप्सन्त उपस्पृशन्ति भेषजमेवैतत्कुर्वते प्रतिपत्ति विधत्ते - अथैतानिति । उपस्पृशन्ति ' ( श ० २६ | २ | १६ ) । अत्र हुतावशिष्टानां त्र्यम्बकानां पुरोडाशानां संवपेत् । यजमानश्च उपयुक्तद्रव्याणां विधिनोत्सर्गः प्रतिपत्तिः । एतान् पुरोडाशान् यजमानस्याञ्जलावध्वर्युः यथा भूमौ न पतन्ति तान् ऊर्ध्वानुत्क्षिपति यथा गौः पृथिवी तान् पुरोडाशान् नोदाप्नुयात् उत्क्षिप्ताः पुरोडाशा लिनोदस्यत्यगोः प्रापणम् ' तथान्तरिक्षे पुनरञ्जलिना धारयेत् । तदुक्तं कात्यायनेन ' रौद्रान् यजमानोऽञ्ज ऋत्विग्यजमानाः स्वस्वशरीरेभ्य ( का ० श्री ० ५/१०/१७ ) । एतेन उदसनेन ( उत्क्षेपणेन ) आत्मभ्य उपस्पर्शनं विधत्ते -- तान् एव शल्यान् निर्मिमते निर्हरन्ति । तेषामुत्क्षिप्तानां पुरोडाशानां पुनर्ग्रहणाशक्तो भूमौ पतितान् विलिप्सन्त इति । लब्धुमिच्छन्तो लिप्सन्तः तद्विपरीता विलिप्सन्तः लब्धुमशक्ताः ० श्र ० ५।१०।१८ ) । तान् पुरोडाशान् पश्चादुपस्पृशन्ति । ' प्रतिगृह्णात्येनानशक्य उपस्पर्शनम् ' ( का वेणुयष्ट्यां अशक्ये अन्तरिक्षात् पततो ग्रहणे भूमौ पतितानुपस्पृशेदिति सूत्रार्थः । ' तान् द्वयोर्मूतकयोरुपना रुद्रावसं वा कुपे वोभयत आबध्योदङ् परेत्य यदि वृक्षं वा स्थाणुं वा वेणुं वा वल्मीकं वा विन्देत्तस्मिन्नासजत्येतत्ते यत्र यत्रास्य चरणं तदन्वत्र ह तेन परो मूजवतोऽतीहीत्यवसेन वा अध्वानं यन्ति । तदेन १७ सावसमेवान्ववार्जति इत्यहि सन्नः वा अस्य परो मूजवद्भयश्चरणम् । तस्मादाह तेन परो मूजवतोऽतीहीत्यवततधन्वा पिनाकावस भी स्वामी दयानन्द ने जो व्याख्या की है, वह शतपथ के विरुद्ध है । मुख्यार्थ का त्याग करने में कोई कारण नहीं है ॥ ६० ॥

है - प्रवास में किसी मन्त्रार्थ -- हे रुद्र! तुम्हारा यह ' अवस ' संज्ञक हविःशेष भोज्य है ( ' अवस ' का अर्थ प्रत्यंचा को एक सरोवर के समीप विश्राम करने पर भक्षण योग्य ओदनविशेष ) । उसके सहित तुम अपने धनुष की हैं ) । प्रवास करते प्रान्तभाग से हटाकर मूजवान् पर्वत के उस पार जाओ । ( मूजवान् पर्वत पर जिससे रुद्र निवास कोई भी करते प्राणी तुम्हारे धनुष को समय तुम अपने ' पिनाक ' नामक धनुष को सब ओर से आच्छाबित कर लेना, देखकर भयभीत नहीं होगा । हे रुद्र तुम चर्माम्बर धारण करके हिंसा न करते हुए हमारी पूजा से सन्तुष्ट हविर्द्रव्य होकर का मूजवान् पर्वत को लाँघ जाओ । व्रीहि और यव को गड्डी बाँधकर बाँस की कावड के दोनों छोंकों दे ॥ में ६१ ॥ अवशिष्ट भाग डालकर उस कावड़ को ऊंचे वृक्ष पर, बाँस पर या बामी पर ' एतत्ते ' इस मन्त्र से रख

पृष्ठ 245

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 245 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६१ ] वेदार्थपारिजातभाष्यसहिता २३५ शिवोऽतीहीत्येवैतदाह कृत्तिवासा इति निष्वापयत्येवैनमेतत्स्वपन्नु हि न कश्चन हिनस्ति तस्मादाह कृत्तिवासा इति ' ( श ० २२६ | २ | १७ ) । द्वयोर्मुतकयोः, यत्र तृणमय आवपने व्रीहियवादिधान्यमाबध्यते तन्मृतम्, मूतमेव मूतकम्, तयोर्द्वयोर्पूतकयोः, रौद्रान् पुरोडाशानुपनह्य वेणुयप्रयामुभयत आबध्य यद्वा कुपे, वेनिर्मित भाजनद्वयुक्तो यज्ञियवृक्षजो दारुविशेषो वीवधापरपर्याय: ( तुलादण्डः ), तस्मिन्नुभयत उभयपार्श्वयो-वैणवभाजनयोस्तान् पुरोडाशानाबद्ध स्कन्धेनादाय उदङ् परेत्य उदङ्मुखो दूरं गत्वा वृक्षस्थाण्वादीनामन्यतम-स्मिन्नुपलब्धे मूतकद्वयोपेतां यष्टिं वीवधं वा आसजति आलगयति । ततो गोभिराघ्रातुमशक्यत्वाद् गावो रोगं न प्राप्नुवन्ति । तदप्युक्तं सूत्रकृता - ' मूतयो कृत्वा वेणुयष्ट्यां कुपे वाऽऽसञ्जोभयतः स्थाणुवृक्ष व ७ शवल्मीकाना-मन्यतमस्मिन्नुत्क्षेपणवदासजत्येतत्त इति ' ( का ० श्र ० ५।१०।१ ९ ) । आसजने मन्त्रमाह - एतत्त इति । मन्त्रार्थस्तु – हे रुद्र! ते तव एतत् तृप्तिकरं हविः शेषाख्यं भोज्यम् असवं पाथेयमन्नं तत्स्वीकृत्य तेन साधनेन मूजवतः परो मूजवान्नामोदीच्यः पर्वतः तस्य परः परस्तात् भागम् अतीहि अतिक्रम्य गच्छ । मास्मानधितिष्ठेति भावः । मूजवान्नाम कश्चित्पर्वतो रुद्रस्य वासस्थानं ' मूजवान् पर्वतः ' ( नि ० ९ १८ ) । अवस-शब्देन देशान्तरं गच्छतो मार्गे तडागादिसमीपे भोक्तव्यो भोज्यविशेष उच्यते । हे रुद्र! एतेन मूतद्वयगतेन हविः -शेषाख्येन भोज्येन सहितस्त्वं भूजवतः परस्ताद्भागमतीहि अतिक्रम गच्छ । कथंभूतस्त्वम्? अवततधन्वा आरोपितधनुष्कः, अस्मद्विरोधिनां निवारितत्वादित ऊध्वं ज्यासमारोपणस्य प्रयोजनाभावादवरोपणमेव युक्तम् । पुनः कीदृश:? पिनाफावसः । ' पिनाक: प्रतिपिनष्टि अनेनेति ' ( नि ० ३।२१ ) पिनाकाख्यं त्वदीयं धनुरावस्ते सर्वत आच्छादयतीति पिनाकावसः । यथा धनुर्दृष्ट्वा प्राणिनो न बिभ्यति तथा त्वदीयं धनुवंस्त्रादिना प्रच्छाद्य गच्छेत्यादि सायणसम्मतोऽर्थः । ' कृत्तिवासा इति । अनपेक्षमेत्योपस्पृशन्त्यपः ( का ० श्र ० ५।१०।२०- २१ ) इति । कृत्तिवासा इति मन्त्रेण आसक्तानवलग्नान् पुरोडाशान् निश्चलीकुर्यात् । उन्नते वृक्षादो मूतद्वयमवसज्य प्रत्यावर्तमाना मूतद्वयस्यावेक्षणमकृत्वा वेदिसमीपे समागत्योदकमुपस्पृशेयुः । शतपथार्थस्तु – हे रुद्र! त्वं कृत्तिवासा हस्तिचर्माम्बरो नोऽस्मानहिंसन् हिंसामकुर्वन् शिवः अस्मदीयपूजया सन्तुष्टः शान्तः कोपरहितो भूत्वा अतीहि पर्वतमतिक्रम्य गच्छ । पूर्वोक्तशतपथब्राह्मणे मन्त्रगतमवसमिति शब्द प्रशंसति - अवसेन वा इति । लोके अवसेन अन्नेन पाथेयेन हि जना दूरमध्वानं यन्ति । वत् तथा सति एनं रुद्रं सावसं वससहितमेव अस्मात् स्थानाद् अन्ववार्जति अनुगमयति रुद्रस्य गन्तव्य प्रदेशम् । यत्र यत्रेति । यस्मिन् यस्मिन् स्थाने अस्य देवस्य चरणं वर्तनं भवति तत्तत्स्थानमनुलक्ष्य मूजवतः परस्ताद् भागमतीहि । परो मूजवत इति भागस्याभिप्रायमाह -- अत्र ह वेति । अस्य रुद्रस्य अत्र मूजवत्पर्वतसम्बन्धिनि परः परस्ताद् भागे चरणं वर्तनं भवति । तस्मात् तेन परो मूजवतः । द्वितीयभागमनूद्य व्याचष्टे - अवततधन्वेति । अवततमनारोपितज्यं धनुर्यस्य स तथोक्तः । पिनाकावसः पिनाक इति तस्य धनुषो नामधेयम् । तस्य अवसो व्यापारो परमो यस्य स तथा एतेन विशेषणद्वयेन फलितमर्थमाह -- अहिंसन्निति । हे रुद्र! नः अस्माकं हिंसामकुर्वन् शिवः सुखकरः सन्नतीहि अतिक्रम्य गच्छेति । अन्तिमं भागमनूद्य तात्पर्यमाह -कृत्तिवासा इति । कृत्तिः त्वग् वास आच्छादनं भाष्यसार - हुतावशिष्ट त्र्यम्बक पुरोडाशों की प्रतिपत्ति का विधान किया गया है । रुद्र के लिये तृप्तिकर पर्याप्त पाथेय के रूप में यह हविःशेष है, उसको स्वीकार कर के उत्तर दिशा में स्थित मूजवान् पर्वत के उस पार चले जाओ । हमारे बीच में मत रहो । अध्यात्मपक्ष में- हे रुद्र परमेश्वर! तुम्हारा जो यह वेदान्त प्रसिद्ध ' रुद्र ' नाम है, वह भक्तों के लिये पाथेय रूप है । भक्तों के लिये तुम स्वात्मतादात्म्य रूप से प्राप्त हो जाओ ।

पृष्ठ 246

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 246 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३६ शुक्लयजुर्वेदसंहिता [ अ ० ३ यस्य सः । निःष्वापयत्येवैतत् स्वपन्नुहि न कञ्चन हिनस्ति । कृत्तिवासा इत्यनेन विशेषणेन कृत्ते मृदुत रत्वेन सुखकरत्वात् रुद्रस्वापो भवति । स्वापोऽपि किमर्थमित्यत आह- स्वपन्नुहीति । अत्र खलु लोके स्वपत् निद्रालुः पुरुषः कश्चन न हिनस्ति । अतो रुद्रकृतबाधाविरहाय तस्य स्वापो युक्तः । अध्यात्मपक्षे तु - हे रुद्र परमेश्वर! ते तव एतत् प्रसिद्धं रुद्रनाम वेदान्तप्रसिद्धं जगदुत्पत्तिस्थितिलयलीलं स्वरूपं वा अवसं पाथेयं भक्तानामिति शेषः । शब्दादिमतो जगतः परः परस्ताद् भागमतीहि अतिक्रम्य प्रपञ्चा -तीतरूपेण इहि भक्तसाक्षात्कारगोचरो भव । शब्दार्थकस्य मुज्धातोश्छान्दसं देर्घ्यम् । सगुणरूपेण अवततधन्वा अवतारितज्यधनुष्क आच्छन्नपिनाकः कृत्तिवासास्त्वं नोऽस्मान् अहिंसन् शिव: कल्याणरूपः सन्नतीहि स्वात्मतादात्म्येन प्राप्तो भव । दयानन्दस्तु – ' हे रुद्र शूरवीर युद्धविद्याविचक्षण सेनाध्यक्ष! अवततधन्वा पिनाकावसः कृत्तिवासाः परः प्रकृष्टसामर्थ्यः संस्त्वं मूजवतः पर्वतात् परं शत्रूनतीह्युल्लङ्घय तस्मात् परं गमय । यदेतत्ते तवावसं पालनमस्ति तेन नोऽस्मान् अहिंसन्नतीहि ' इति, तदसङ्गवमेव, सम्भवति शक्यार्थे भाक्तस्यार्थस्याग्राह्यत्वात् । रुद्रपदस्य वेदेतिहासपुराणप्रसिद्धस्य सेनाध्यक्षपरत्वे मानाभावात् । बहूनां शत्रुरोदकानां मध्ये सेनाध्यक्षस्यैतन्नामत्वे विनिगमनाविरहाच्च । किञ्च, अतीहीत्यत्रापि व्यर्थताङ्गीकारोऽपि निर्मूल एव । पिनाकपदं शिवधनुषि प्रसिद्धम् । तथा चामरसिंह: - ' पिनाकोऽजगवं धनुः ' ( १ | १ | ३५ ) | कृत्तिवद्वास इत्यपि गौणार्थतैव, कृत्तिर्वासो यस्येत्यर्थस्यैव स्वाभाविकत्वात् । शतपथ विरोधस्तु स्पष्ट एव । यत्तु कश्चित् – ' पिनाको रुद्राङ्कुशो रुद्रधनुर्वा, तेनैवावसं रक्षणं कुशलं यस्य सः, स्वधनुष्कृतकुशल-स्त्वमसि । वस्त्रापरपर्यायोऽवसशब्दो महीधराभिप्रेतो न मनोज्ञः ' इति, तत्तुच्छम्, हेत्वनुक्तेः । सङ्कल्पमात्रेण सर्वसंहारकस्य रोगदोषादीनां द्रावकस्य नित्यनिरस्तारात्यादिसमस्तानर्थव्रातस्य कुशलत्वाप्रसक्त्या धनुष्कृत-रक्षणानपेक्षणात्, भक्तानां रक्षणाश्वासनायैव तु धनुरादि धार्यते । भक्तविरोधिनां निवारितत्वेन यथा अवततज्य -धनुष्कत्वमुक्तम्, तथैव लोकभयवारणाय पिनाकावरणस्यैवापेक्षितत्वात् । यत्त- - ' हे रुद्र प्राण! एतद् ब्रह्माण्डं ते अवसमन्नम्, तेन साधनेन परः श्रेष्ठः सन् मूजवतो नाडीवेष्टित. हृदयस्थलस्थोन्नतस्थानमतिक्रम्य भ्रुकुटिं गच्छ ' इति, तदसङ्गतमेव, प्राणस्य जडत्वेन प्रार्थनाप्रेरणयोरविषय-स्वात्, मूजवत्पदेन हृदयोन्नतस्थलग्रहणे प्रमाणाभावाच्च । अवततधन्वा अवरोपित प्रणवधन्वेत्यप्यसङ्गतम्, प्राणस्य प्रणवधन्वत्वाभावात्, साधकस्यैव तत्त्वाद् भ्रुकुटीं प्रति प्राणप्रवेशाय समाततप्रणवधनुष्कत्वापेक्षणात् । पिनाकः प्रणवोऽवसः अन्नं यस्य तथाभूतः स्वात्मनि प्रणवस्य लयस्य कारक इत्यपि बालभाषितम्, प्रणवस्यैव प्राणादीनां लयाधिकरणत्वात्, माण्डूक्यादौ व्यष्टिसमष्टिमयस्य स्थूलसूक्ष्मकारणप्रपञ्चस्य प्रणवे लयप्रतिपादनात् । समष्टिप्राणो हिरण्यगर्भोऽपि तत्रैवान्तर्भूतः यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव ' ( माण्डूक्योप ० १ १ ) इति श्रुतेः । ‘ कृत्तिर्गृहमेव वासो यस्य ' इत्यप्यसङ्गतम्, प्राणस्य पाण्डरवासस्त्वप्रसिद्धेः । अत एवाजातशत्रवे ' बृहन् पाण्डरवासाः सोमो राजेति गार्गेण प्राण उपदिष्टः । पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अप्शरीरत्वात् प्राणस्य । अजातशत्रुणा सुप्तं पुरुषं प्रति बृहत् पाण्डरवासः सोम राजन्नित्यादिभिः प्राणः स्वामी दयानन्द ने जो व्याख्या की है, वह असंगत ही है, क्योंकि शक्यार्थ के संभव रहते भाक्त ( लाक्षणिक ) अर्थं ग्राह्य नहीं होता । यह व्याख्या शतपथ के विरुद्ध भी है, अतः उपेक्षणीय ही उसे समझना चाहिये ।

पृष्ठ 247

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 247 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६१-६२ ] वेदार्थपारिजातभाष्यसहिता २३७ सम्बोधितः ( बृ ० उ ० २ | १ | १५ ) | गगनमण्डलमतिक्रम्य प्राणप्रेषणादिप्रलापोऽपि मूढजनप्रतारणायैव, मन्त्रे तद्बोधकपदाभावात् । एवमेव बाणासुरयुद्धप्रसङ्गे बाणरक्षणायागतं शिवं जृम्भणास्त्रेण मोहयित्वा श्रीकृष्णो भक्तपक्षपातम् रुद्रमाह-- ' इत्यादि ' गच्छ, रुद्र! स्वस्थानं मुञ्जवन्नामपर्वतं ततोऽपि वा परस्ताद् गच्छ शिवमिच्छसि चेत्परित्यज तदुन्मत्तप्रलपितमेव, श्रीमद्भागवतविरुद्धत्वात् । ' यदात्थ भगवंस्त्वं नः करवाम प्रियं तव । भवता भगवता यद् व्यवसितं तन्मे साध्वनुमोदितम् || ' ( भा ० पु ० १०।६३ | ४६ ) इति हि श्रीमद्भागवतीयं पद्यम् । अनेन कृष्णेन भगवन्तं शिवं प्रति श्रद्धैव प्रकटिता ॥ ६१ ॥

त्र्या॒य॒षं ज॒मव॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वेषु॑ त्र्यायु॒षं तन्नों अस्तु त्र्यायुषम् ॥ ६२ ॥

आशीर्देवतोष्णिक् । यस्याश्चत्वारः पादाः सप्ताक्षराः सोष्णिक् । ' त्र्यायुषमिति यजमानो जपतीति ' ( का ० श्र ० ५।२।१६ ) । जपश्चायं वपनकालिकः । मन्त्रार्थस्तु – कश्यपस्य कश्यपनाम्नः प्रजापतेः सम्बन्धि त्र्यायुषं त्रयाणां बाल्य - यौवन- स्थविररूपाणामायुषां समाहाररूपम् । तथा जमदग्नेस्तन्नामकस्यर्षेस्त्र्यायुषं चरितं देवानामिन्द्रादीनां च यत् त्र्यायुषमस्ति तत् त्र्यायुषं सर्वं ममास्तु । अर्थात् कश्यपादीनां बाल्यादिषु यादृशं तादृशं चरितं मम भूयात् । अध्यात्मपक्षेऽपि साधका भगवन्तं प्रति जमदग्न्यादीनामिव ब्रह्मात्मसाक्षात्कारोपयोगिबहिरङ्गान्त-रङ्गसर्वविधसाधनमुक्तं त्र्यायुषं प्रार्थयन्ते । योगाभ्यासेन तपस्यया दीर्घायुष्ट्वं भवत्येव, ' ऋषयो स्मर्यते दीर्घसन्ध्यत्वाद् । दीर्घमायुरवाप्नुयुः ' ( म ० स्मृ ० ४ ९ ४ ) इत्यादिस्मरणात् । मार्कण्डेयादीनां दीर्घायुष्ट्वमपि यत्तु कश्चित् – ' आयुषां पूर्णत्वमभिप्रेतम् ' इति, तत्तुच्छम् तथात्वे कश्यपस्य जमदग्नेर्देवेष्विति प्रयोगवैयर्थ्यापत्तेः । न च कश्यपादीनामिवायुष्ट्वं सम्भवति, मनुष्येषु तादृङ्मन्त्रपरायणानामपि तादृशायुष्ट्वादर्शनात् । दयानन्दस्तु – ' हे रुद्र जगदीश्वर! तव कृपया यद् देवेषु त्र्यायुषं यज्जमदग्नेस्त्रायुषं यत्कश्यपस्य त्र्यायुषं तन्नोऽस्तु. ' इति, भावार्थवर्णनप्रसङ्गे तूक्तम् — ' अत्र चक्षुरिन्द्रियाणां कश्यप ईश्वरः स्रष्टृणामुत्तमोऽस्तीति जगदीश्वरं प्रार्थ्य विज्ञेयम् | त्र्यायुषमित्यस्य चतुरावृत्या त्रिगुणादधिकं चतुर्गुणमप्याहुः । संगृह्येतत्प्राप्त्यर्थं स्वेन पुरुषार्थश्च कर्तव्यः । तद्यथा - हे जगदीश्वर! भवत्कृपया यथा विद्वांसो विद्यापरोपकारधर्मानुष्ठानेनानादितया त्रीणि शतानि वर्षाणि यावत् तावदायुर्भुञ्जते । तद्वयं प्राप्य त्रिशतवर्षं चतुःशतवर्षं वायुः सुखेन भुञ्जीमहि ' इति, , मन्त्रे तदेतत्सर्वं मूर्खजनव्यामोहनमेव, प्रकृते चक्षुष इन्द्रियोत्तमत्वस्य कश्यपस्य स्रष्ट्र तमत्वस्य चाप्रसक्तत्वात् है । मन्त्र किसी अन्य व्याख्य | कार ने भी जो मनमानी व्याख्या की है, वह भी ' हेतु ' पूर्वक न रहने से निःसार संवादपरक व्याख्या में तदर्थबोधक कोई शब्द ही नहीं हैं । शब्द के बिना भी अर्थ बताना प्रतारणा मात्र है । श्रीकृष्ण - रुद्र

की गई ॥। ६१ ॥

तो उन्मत्तप्रलाप के समान ही में जो मन्त्रार्थ - जमदग्नि, कश्यप और इन्द्रादि देवताओं ने अपनी बाल्य, योवन और वार्धक्य अवस्थाओं प्रशंसनीय चरित्र किये, वैसे चरित्र हमसे भी सम्पन्न हों । ' त्र्यायुषम् ' इस मन्त्र का जप यजमान करे ॥ ६२ ॥

पृष्ठ 248

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 248 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३८ शुक्लयजुर्वेदसंहिता [ अ ०१३ तादृशार्थबोधकपदाभावाच्च । न चात्र जमदग्निकश्यपपदाभ्यां चक्षुरीश्वरयोविवक्षा, तयोस्त्र्यायुषत्वाप्रसिद्धेः । कश्यपस्य प्रजापतेर्महर्षेर्जमदग्नेर्देवानां च बाल्ययौवनवार्धक प्रसिद्धिः । देवानाममरत्वमिव निर्जरत्वमप्यापेक्षिकमेव | यदुक्तम्– ' चक्षुर्वे जमदग्निर्ऋषिर्यदेनेन जगत्पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्नि ऋषिः ' ( श ० ८ | १ | २ | ३ ), ' जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा तैरभिहुतो भवति ' ( नि ० ७ २४ ) । अनेनापि प्रमाणेन रूपगुणग्राहकं चक्षुर्गृह्यते । कश्यपस्य आदित्यस्येश्वरस्य । ' प्रजापतिः प्रजा असृजत यदसृजताकरोत्तद्यदकरोत्तस्मात् तत्कुर्मः । कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति ' ( श ० ७ ५। ११५ ) । अनेन प्रमाणेनेश्वरस्य कश्यपसंज्ञा । एतन्निमितं त्रिगुणमायुर्लभेमहि ' इति, तदपि न सङ्गतम्, प्रकृतमन्त्रे तदसङ्गतेरुक्तत्वात् । न च नित्यस्येश्वरस्यायुः परिमितम्, नित्यत्वेनैवेश्वरस्यानन्तत्वात् । अत एव त्रिगुणितत्वमपि न तस्य सम्भवति, अनन्ते त्रिगुणत्वायोगात् । न चेश्वरेण त्रिगुणं किञ्चिदायुर्निमितमित्यत्र प्रमाणमस्ति । न चायमेव मन्त्रस्तत्र प्रमाणम्, तस्य प्रसिद्धप्रजापते स्त्र्यायुषानुवादेनापि सार्थकत्वोपपत्तेः । किन, नात्र वस्तुतश्चक्षुरेब जमदग्निः, किन्तु गुणवृत्त्यैव चक्षुषि जमदग्नित्वारोप एव त्वदुद्धृतनिरुक्त-विरोधात् । तत्र हि जमदग्नेर्होतृत्वं प्रज्वलिताग्नित्वं चोक्तम् । न च तच्चक्षुषि सम्भवति, शतपथोक्तिविरोधात् । तथाहि शतपथस्याष्टमः काण्डश्चितिनाम्ना प्रसिद्धः । तत्र प्रथमाध्यायारम्भ एव प्राणभृत्संज्ञकानामिष्टकानामुपधानं विहितम् । तत्र प्राणभृतां प्राणरूपत्वमुक्तम् । तत्प्रशंसार्थानि -- ' प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ' ( ० ८ | १ | १ | १ ) इत्यादीनि वचनानि । याः प्राणभृदाख्या इष्टकास्ताश्चक्षुरादिप्राणात्मिकाः । एतेन प्राणभृदुप-धानेनाग्नौ प्राणनेवोपदधाति । ताश्च प्राणभृदाख्या इष्टकाः पञ्चाशत्संख्याका दश दश उपधेया इत्यपि तत्रैवोक्तम् । ' ता दश दशोपदधाति ( श ० ८ | १ | १ | २ ) । दशसंख्याकाः प्राणाः सप्त शीर्षण्या द्वाववाञ्चनाभिर्दशमीवि संख्यासामान्यात् वासां प्राणरूपता सिद्धेति । ताश्च दशदशसंख्याका इष्टकाः पञ्चकृत्व उपदधाति । तेनाध्वर्युः पञ्चसंख्याकान् पशूनुपदधाति । एकैकस्मिन् पशो दश दश प्राणान् स्थापितवान् भवति । तत एव तासामुपहितानां पशुशीर्षाणां समीप उपधानं विहितम् । ' अनन्तर्हिताः पशुभ्य उपदधाति ' ( श ० ८ | १ | ११२ ) इति । तत्रैव तृतीयकण्डिकायां प्राणभृदुपधानेन प्रजापतेवित्रस्त प्राणानामुपधानमुक्तम् । पृष्ठसाम्नो वशिष्ठ उत्पन्न इत्युक्तम् । ' पृष्ठं निरमिमीत ' ( श ० ८ | १ | १ | ५ ) । तत्रैव प्रसङ्गेन ' वशिष्ठ ऋषिः । प्राणो वै वशिष्ठ ऋषिः । यद्वै नु श्रेष्ठस्तेन वशिष्ठोऽयो यद्वस्तृतमो वसति तेनो एव वसिष्ठः ' ( श ० ८ | १ | १ | ६ ) इति श्रष्ठययोगेन प्राणो वसिष्ठ उक्तः । तथैव ' मनो वै भरद्वाज: ' ( श ० ८ | १ | ११ ९ ), तथैव - ' यदेनेन जगत्पश्यत्ययो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः ' ( श ० ८ | १ | २ | ३ ) इति । तेन गोण्या वृत्त्यैव चक्षुषो जमदग्नित्वमुक्तम् । यथा योषाया अग्नित्वम् । न तावता प्रसिद्धजमदग्न्यादिमहर्षीणामपलापः सम्भवति । जमदग्निप्रसङ्गस्तु निरुक्ते ( ७ | २४ ) इत्थं प्रतिपादितो दुर्गाचार्येण -' छन्दोभयज्ञेषु दाशरात्रि केषु यत्सूक्तं तत्सोर्यवैश्वानरम्, तदस्यैवाग्नेः । कुतस्तत्र ह्येतद्विशिष्टं पार्थिवाग्नेर्वाचकं लिङ्गं भवति -- ' जमदग्निभिराहुतः ' ( आ ० श्री ० ८ ९ ) इति । जमदग्नयो ह्येनमाहुतिभिर्जुह्वति नादित्यम-विधानादसम्भवाच्च । तस्मादत्रापि वैश्वानर लिङ्गं तदप्यस्य पार्थिवस्याग्नेर्व्यञ्जकं भवति । भाष्यसार - भाष्यार्थ सुबोध है । अध्यात्मपक्ष में - साधक मनुष्य भगवान् से प्रार्थना कर रहा है कि जमदग्नि आदि के समान ब्रह्मसाक्षात्कारोप-योगी बहिरङ्ग - अन्तरङ्ग सर्वविध साधनयुक्त त्र्यायुष हमें प्राप्त हो । योगाभ्यास से दीर्घायुष्ट्र प्राप्त होता है । किसी व्याख्याकार ने आयु की पूर्णता अभिप्रेत बताई है, किन्तु वह व्याख्या ठीक नहीं है ।

पृष्ठ 249

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 249 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ६२ ] वेदार्थपारिजातभाष्यसहिता २३ ९ ' वृषा पावक दीदिहि ' इति मन्त्रभागः । वृषा वर्षिता हे वैश्वानर पावक! घुमद् दीप्तिमद् यस्त्वं जमदग्निभिराहुतः अभिहतः स त्वमस्माकं कर्मसु नित्यं दीदिहि दीप्यस्य । के जमदग्नय इत्यत आह-- नित्यं प्रजमिताग्नयः प्रभूताग्नयः प्रज्वलिताग्नयो वा । इत्येवमत्र न जमदग्निपदेन चक्षुरुच्यते, किन्तु ये प्रभुताग्नय ऋषयो ये यज्ञाथं नित्यं प्रज्वलिताग्नयस्त एवात्र जमदग्निपदेनोच्यन्ते । तैरेवाग्नेरभिहुतत्वमपि सम्भवति । नात्र जमदग्निपदेन चक्षुषो ग्रहणं सम्भवति, तस्याहुतिकर्तृत्वासम्भवात् । तथैव कश्यपस्य प्रजापतेः कर्मत्वोक्त्यापि न तत्स्वरूपापलापः सम्भवति । अत्रापि ' कूर्ममुपदधाति रसो वै कूर्मः ' ( श ० ७ | ५ | १ | १ ) इत्यादिना कुर्मोपधानमुक्तम् । तत्रैव कूर्मस्य पृथिव्यादिलोकत्रयात्मकत्वमुक्तम् । ' तस्य यदधरं कपालम् । अय स लोकः यदुत्तर सा द्यौः यदन्तरा तदन्तरिक्षम् ' ( श ० ७१५/१२ ) । अतः कुर्मोपधानेन लोकत्रयस्योपधानं सम्पद्यते । अथ कूर्म इति नाम्नः प्रवृत्तिनिमित्तं दर्शयति - ' स यत्कुर्भो नाम । एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत । यदसृजताकरोत्तद्यदकरोत्तस्मात् कर्मः । कश्यपो वै कूर्मस्मादाहुः सर्वाः प्रजाः काश्यप्य इति ' ( श ० ७ | ५ | ११५ ) । एतत्कूर्मसम्बन्धिरूपात्मनः कृत्वा प्रजापतिः प्रजा असृजत | असृजतेत्यस्य व्याख्यानमकरोदिति । तेन कर्मरूपेणाकरोत् । यस्मात्तदकरोत्तस्मात् कर्म इति नामधेयम् । करोतेरोणादिके ' इषुयुधीन्दि ० ' ( उ ० सू ० ११० ) इति मक्प्रत्यये ' बहुलं छन्दसि ' ( पा ० सू ० ७७१ १०३ ) इत्युत्वे ' हलि च ' ( पा ० सू ० ८२७७ ) इति दीर्घे कर्म इति रूपं भवति । कर्मशब्दस्य करणप्रवृत्तिनिमित्तकत्वात् कश्यपस्य प्रजापतिखेन प्रजाकारकत्वात् कश्यपः कूर्मः खलु । अत एव सर्वाः प्रजाः काश्यप्य इत्याहुः । अतश्च कूर्मस्य कश्यपात्मकत्वात् कर्मोपधानं प्रशस्तमिति निर्गलितार्थः । तेन नात्र कश्यपप्रजापतेरपलापः । परमेश्वरस्य सर्वाधिपत्वेऽपि प्रजापतिशब्देनावान्तरसृष्टिकर्तार एव विवक्ष्यन्ते । तेन मन्त्रे कश्यपप्रजापतेर्यंत् त्र्यायुषं जमदग्ने -ऋषेर्यत् त्र्यायुषं तथा देवेषु यत् त्र्यायुषं तादृशं सुचरितं त्र्यायुषं ममास्त्वित्येवं प्रार्थ्यते । नात्र त्रीणि चत्वारि वा वर्षाणां शतानि प्रार्थ्यन्ते, ताहगर्थबोधने प्रमाणाभावात् तादृशायुष्मतामदर्शनाच्च । ईश्वरस्य नित्यत्वादनन्त-वायुर्भवति । न तस्य त्रिगुणितत्वं सम्भवति । तस्माद्यत्किञ्चिदेव तादृशं व्याख्यानम् । अत एव ' जमदग्नेर्महर्षेर्यत्प्रमाणं त्र्यायुषं कश्यपनाम्नः प्रजापतेर्यत्प्रमाणं त्र्यायुषमिन्द्रादिदेवेषु यत्प्रमाणं त्र्यायुषं तत् तावत्प्रमाणमस्माकं यजमानसहितानां त्र्यायुषं बाल्यतारुण्यवार्धकानामायुषां पूर्णत्वमस्तु ' इति यत्, तदप्यसङ्गतम् केषाञ्चिदपि यजमानानामृत्विजां च देवप्रमाणायुष्ट्वादर्शनात् । सम्भावितमेव प्रार्थ्यते नासम्भावितम् । तस्माद्यादृशं जमदग्नेर्महर्षेस्तपोमयं सुचरितं शास्त्रसम्मतं त्र्यायुषं यादृशं च कश्यपस्य दैत्यदानवकाद्रवेयवैनतेयादिविविध प्रजावत्त्वेऽपि सहिष्णुत्व - सामरस्य सर्वहितकारित्व - ब्रह्मात्मनिष्ठत्वयुक्तं त्र्यायुषम्, यादृशं च देवेष्विन्द्रादिषु विविधैश्वर्यवत्त्वेऽपि सत्त्वमयं भगवदाश्रितं त्र्यायुषम्, तथैवास्माकमपि धर्मं ब्रह्मभावोपेतं शास्त्रीयसदाचारधैर्यंविवेकसमत्वाद्युपेतं त्र्यायुषमस्त्वित्येव तु युक्तम् । यद्यपि मार्कण्डेयादीनां दीर्घायुष्ट्वमपि स्मर्यते, तथाप्यनेन मन्त्रेण त्रिगुणितायुःप्राप्त्यर्थं जपो विधीयत इति निर्मूलमेव, तादृग्विधानस्यादर्शनात् । यत्तु - ' पुरा भारते बभूवुस्त्रीण्यायुर्वर्धन प्रयोगभवनानि - जमदग्नेः कश्यपस्य, इन्द्रादिदेवस्य च । प्रथमे भवने शतायुषे पुरुषाय अपरे द्वे आयुषी शतवर्षपरिमिते स्वाविष्कारप्रभावात्प्रदाय शतत्रयपरिमितजीवनं तं नरं विधातुं क्षमन्ते । तद्भवनानुगृहीता जनास्त्रीणि शतानि वर्षाणि जीवन्ति स्म । द्वितीयभवने एकमायुर्दश-स्वामी दयानन्द ने जो अर्थ किया है, वह भी मूर्खों के लिये व्यामोहन मात्र ही है, क्योंकि उस अर्थ के बोधक कोई शब्द यहां नहीं हैं ॥ ६२ ॥

पृष्ठ 250

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - २ - स्वामी करपात्री, पृष्ठ 250 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४० शुक्लयजुर्वेदसंहिता [ अ ० ३ सहस्रपरिमितं प्राकृतजनानां शतं दिनानि दशाधिकास्त्रयो मासास्तेषामेकदिनमासीत् । एकमायुर्दशसहस्रपरिमितं प्राकृतजनानां शतं दिनानि दशाधिकास्त्रयो मासास्तेषामेकं दिनमासीत् । अतस्तत्परिमाणानुरूपं तदीयं वर्षशतं प्राकृतजनानां वर्षदशसहस्रम् । तस्मात्तेष्वाश्रितं जनं त्रिशद्वर्षपरिमितायुष्कं कर्तुं शेकिरे । तृतीये भवने मानवानां षट्त्रिंशद्वर्षसहस्रात्मकं तरित्रगुणितं षट्सहस्राधिकंलक्षपरिमितं जायते । तदेवं तद्भवनं प्रपन्नास्तावद्दोघं जीवितं समापेदिरे ' इति, तदप्यविचारितरमणीयम् तद्बोधक श्रुतिस्मृतिपुराणादिवचसां प्रमाणत्वेनोपस्थापयितव्यत्वात् । न चोपस्थापितम् । प्रमाणमन्तरा सुसूक्ष्मस्यापि कल्पयितुमशक्यत्वात् । तादृशानि भवनानि भारते बभूवुरिति तथ्यापेतं वचः । किञ्च, प्रकृतमन्त्रे तु प्रथमो जमदग्निद्वितीयः कश्यप-तृतीय कोटी देवाः समायान्ति । कश्यपस्तु प्रजापतिर्देवानामपि जनकत्वेन प्रसिद्धः । उपनिषत्सु देवानन्दापेक्षया प्राजापत्यानन्दस्योत्कर्षं उक्तः । इति द्वितीयापेक्षया तृतीयस्य दीर्घायुष्ट्वमसङ्गतमेव । देवानां षण्मासा दक्षिणायनं रात्रिः । षण्मासा उत्तरायणं दिनम् । कृष्णपक्षः पितॄणां दिनम् । शुक्लपक्षश्च रात्रिः । अथ प्रसङ्गप्राप्तं कालविभागनिरूपणं प्रस्तूयते । तद्यथा मनुस्मृती-निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला । त्रिंशत्कला मूहूर्तः स्यादहोरात्रं तु तावतः । ( १ ६४ ) अक्षिपक्ष्मणोः स्वाभाविकस्योन्मेषस्य सहकारी निमेषः । तेऽष्टादश काष्ठानाम कालः । त्रिंशच्च काष्ठाः कलासंज्ञकः कालः । त्रिंशत्कला मुहूर्ताख्यः कालः । त्रिंशन्मुहूर्तेरहोरात्रं भवति । अहोरात्रे विभजते सूर्यो मानुषदैविके । रात्रिः स्वप्नाय भूतानां चेष्टायं कर्मणामहः || ( १६५ ) मानुषदेवसम्बन्धिनौ दिवसरात्रिकाली सूर्यः पृथक्करोति । तयोर्मध्ये भूतानां स्वप्नार्थं रात्रिर्भवति, कर्मानुष्ठानार्थं चाहो भवति । पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ ( १।६६ ) मानुषाणां मासः पितॄणामहोरात्रे भवतः । कर्मानुष्ठानाय कृष्णपक्षोऽहः 1 । स्वापार्थं शुक्लपक्षो रात्रिः । देवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् || ( १/६७ ) मानुषाणां वर्षं देवानामहोरात्रे । तयोरप्येवं विभागः - नराणामुत्तरायणं देवानामहः, दक्षिणायनं तु रात्रिः । ब्राह्मस्य तु क्षयाहस्य यत्प्रमाणं समासतः । एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ ( ११६८ ) ब्रह्मणोऽहोरात्रस्य प्रत्येकं युगानां कृतादीनां च यत्प्रमाणं तत्संक्षेपतः प्रवक्ष्यामि शृणुतेत्यर्थः । चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छ्ती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ( ११६ ९ ) देवानां मानेन त्रिशता अहोरात्रर्मासः, द्वादशभिश्च मासैर्वर्षः । अर्थान्मानुषाणां त्रिशता वर्षेर्देवानां मासः । षष्ट्युत्तरशतत्रयवर्षैश्च ( ३६० वर्षं ) देवानां वर्षः । एतेन मानेन कृतयुगस्य चतुर्वर्षसहस्राणि, अर्थान्मानुष-वर्षप्रमाणेन ४०० × ३६० = १४४००० वर्षाणि कृतयुगस्य काल:, अर्थाच्चत्वारिंशत्सहस्रेोत्तरचतुर्दशलक्षवर्षाणि । तथा देवानां मानेन चतुर्वर्षशतानि 1 अर्थान्मानुषवर्षेण ४०० x ३६० = १४४००० सन्ध्याकालः । एतावानेव च सन्ध्यांशकालः, अर्थाच्चतुश्चत्वारिंशत्सहस्रोत्तरलक्षैकवर्षेमितः सन्ध्याकालः । तावानेव सन्ध्यांशकालः ।