वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 301–306
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 301–306
पृष्ठ 301
पाठ पढ़ें पाठ छिपाएँ
म. ३४-३५ ] वेदार्थपारिजातभाष्यसहिता ७७ उपसृजति । श्वात्रा स्थ वृत्रतुर इति शिवा ह्यापस्तस्मादाह श्वात्रा स्थेति वृत्रतुर इति वृत्र ह्येता अघ्नन् राधो गूर्ता अमृतस्य पत्नीरित्यमृता ह्यापस्ता देवीर्देवत्रेमं यज्ञं नयतेति नात्र तिरोहितमिवास्त्युपहूताः सोमस्य पिबतेति तदुपहूता एव प्रथमभक्ष सोमस्य राज्ञो भक्षयन्ति ' ( श. ३ | ९ | ४ | १६ ) | श्वात्रमिति क्षिप्रनाम ( निरु. ५/३ ) । यदि ह्यापी अमृता न भवेयुस्तदा तादृशीनामपां स्वामित्वं नोपपद्येतेत्यनया प्रसिद्ध्या अमृता ह्याप इति ब्राह्मणम् | अध्यात्मपक्षे – हे आपः! पूर्वोक्ता देवताः, यूयं देव्यो द्योतमाना श्वात्रा भक्तानुग्रहार्थं शीघ्रगामिन्यो वृत्रतुरं वृत्रमाच्छादकमज्ञानप्रमादकरं लोभाहङ्कारादिकं तुर्वन्ति हिंसन्तीति वृत्रतुरः, राधोगूर्ता राधो धनमुद्गिरन्तीति तथोक्ताः, अमृतस्य अमृतत्वस्य पालयित्र्यः, तथाविधा यूयम् इममुपासनालक्षणं यज्ञं, देवत्रा तांस्तान् देवान् प्रति नयत । देवानां कृपाशक्त्यैव तेभ्यः समर्पितं वस्तु तान् प्रति प्राप्नोति । तथा उपहूता भक्तैराहूताः सत्यः सोमस्यास्माभिः समर्पितं सोमं प्रेमरसपरिप्लुतं विविधं नैवेद्यं पिबत स्वीकुरुतेत्यर्थः । ' पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ' ( भ.गी. ९ ।२६ ) इति श्रीमद्भगवद्गीतोक्तेः । " दयानन्दस्तु – ' हे देवीर्देव्यः पल्यः स्त्रियः, यूयं वृत्रतुर इव राधोगूर्ता एंव सत्यः पत्नीर्यज्ञसहकारिण्यः श्वात्रा स्थ ता देवत्रेमं यज्ञं नयत । उपहूता इवामृतस्य सोमस्यातिस्वादिष्ठं सोमाद्योषधिरसं पिबत ' इति, तदपि यत्किञ्चित् वाचकलुप्तोपमालङ्कारस्य प्रकृते निर्मूलत्वात् । स्त्रियः कथं धनवर्धयित्र्यः? दृष्टान्तभूता विद्युतश्च कथं धनवर्धिका इत्यपि वक्तव्यमासीत् । यज्ञशब्दस्य सिद्धिरर्थ इत्यपि निर्मूलम् । किञ्च सोमपानाय स्त्रियः पुरुषैराहूताः पिबन्ति? किं क्वचिदेवं विधानमुपलब्धमायुष्मता? यदि दैनन्दिनकृत्यवर्णनमिष्टं स्यात्तदा भोजनादिनिर्माणवस्त्रप्रक्षालनादिकमपि वर्णनीयमासीत् । कथं चाज्ञातज्ञापके वेदे तद्वर्णनं स्यात्? || ३४ ||
मा भेर्मा संवि॑िक्थ ऊर्जं धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वडयेथा॒मूर्जं॑ दधाथाम् ।
पा॒प्मा हसो न सोम॑ः ॥३५ ॥
अध्यात्मपक्ष में मन्त्र का अर्थ इस प्रकार है - हे व्यापनशील जल देवताओं, आप लोग विद्योतमान, भक्त पर अनुग्रह करने के लिये शीघ्रगामी, आच्छादक अज्ञान तथा प्रमाद के कारण लोभ, अहंकार आदि को नष्ट करने वाले, धन उगलने वाले एवं अमृतत्व के रक्षक हैं । आप इस उपासना रूपी यज्ञ को उन उन देवताओं के लिये ले जाइये । देवताओं की कृपाशक्ति से ही उनके लिये समर्पित वस्तु उनके पास पहुँचती है । भक्तों के द्वारा आहूत आप लोग हमारे द्वारा समर्पित प्रेमरस से परिप्लुत नैवेद्य को स्वीकार कीजिये | स्वामी दयानन्द द्वारा वर्णित अर्थ में इस मन्त्र में वाचकलुप्तोपमा अलंकार के लिये कोई मूल प्रमाण न होने के कारण अग्राह्यता है । दृष्टान्त के रूप में प्रस्तुत विद्युत् कैसे धन को बढाती हैं, यह भी कहना चाहिये था । यज्ञ शब्द का ' सिद्धि ' अर्थ करना भी अप्रामाणिक है । यदि इस मन्त्र में प्रतिदिन के कार्य का वर्णन करना अभिप्रेत होता, तो खाना बनाने तथा कपड़ा धोने का भी वर्णन होना चाहिये था । अज्ञात पदार्थ का ज्ञान कराने वाले वेद में वह वर्णन कैसे हो सकता है || ३४ || मन्त्रार्थ - हे सोमसमूह, तुम आघात से भयभीत न हो, कम्पित न हो, रस को धारण करो । हे द्यावापृथिवी, दृढ़ता को प्राप्त हुए इस उपांशु सवन के आघात को और सोमसवन को दृढ़ करो । इस सोम के रस में वृद्धि कर बल प्रदान करो । इस वज्राघात से यजमान के सम्पूर्ण पाप नष्ट हो जाते हैं और सोम को कोई हानि नहीं पहुँचती, किन्तु वह संस्कारयुक्त हो जाता है ॥ ३५ ॥
पृष्ठ 302
पाठ पढ़ें पाठ छिपाएँ
७८ शुक्लयजुर्वेदसंहिता [ अ. ६ मानुषं ब्राह्मणध् ' अथ प्रहरिष्यन् । यं द्विष्यात्तं मनसा ध्यायेदमुष्मा अहं प्रहरामि न तुभ्यमिति यो न्वेवेमं घ्नन्ति तथा त उदेति हन्ति तं न्वेवं परिचक्षतेऽथ किं यएतं देवो हि सोमो घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन भवति ' ( श. ३।९ ।४।१७ ) । तथा सञ्जीवति तथानेनस्यं भवति यद्यु न द्विष्यादपि तृणमेव मनसा ध्यायेत्तथोऽनेनस्यं । प्रहरामि प्रक्षिपामि, पाषाणरूपं अथ प्रहरिष्यन् यं द्विष्यात्तं मनसा ध्यायेत् । अत्र द्वेष्टुर्नाम मनसा गृह्णीयात् चेत्तत्राह - यो न्वेवेमं मानुषं वज्रमिति शेषः । हे सोम, न तुभ्यमिति । ननु नैवं प्रहरणं स्यात्तदा को बाध इति अहं प्रहरामि न तुभ्यमित्येवैतदाह.... धिषणे वीड्वी सती ब्राह्मणमिति । ‘ मा त्वं भैषीर्मा संविक्था अमुष्मा फलके भिन्द्यादिमे ह वै द्यावा-वीडयेथामूर्जं दधाथामितीने एवैतत्फलके आहुरित्यु हैक आहुः किं नु तत्र योऽप्येते शमयति तथेमे शान्तो न हिनस्त्यूर्जं पृथिवी एतस्माद्वज्रादुद्यतात् स रेजेते तदाभ्यामेवैनमेतद् द्यावापृथिवीभ्या ' ( श. ३ | ९ | ४ | १८ ) । मा भेरिति पदं दधाथामि.... त्येवैतदाह पाप्मा हतो न सोम इति तदस्य सर्वं पाप्मान हन्ति । मा त्वं भैषीर्मा संविक्था व्याकुर्वन् द्वेष्यभावनायां यत्प्रयोजनं प्रागुक्तं तदेव मा भेरिति मन्त्रभागस्यापि तात्पर्यम् ) । अत्र अन्नसारो रसो. अमुष्मै अहं प्रहरामि न तुभ्यमित्येवैतदाह, ऊर्कुशब्दस्य अन्ननामसु पाठात् ( निघ. २/७/१५ धिषणफलके अर्थ इति विवक्षित इति व्याचष्टे - रसं धत्स्वेत्येवैतदाह । धिषणे विड्वी इति मन्त्रभागस्य इमे सोमाधारभूते फलके केषाञ्चिन्मतमपाकरोति – इमे एवैतत्फलके आहुरित्यु हैक इति । एतद् एतस्मिन् वाक्ये । तत्र स्वमतमाह - ' इमे इत्याहुः । तत्र यद्येते च द्वे स्यातां तर्हि कदाचिद् भग्ने स्याताम्, तदा तत्र किं । नु तच्च स्यादिति सति शैथिल्यकारणे उपपद्यते, ह वै द्यावापृथिवी ' इत्यादिना । अत्र धिषणे अनूद्य तयोर्दामाशास्यते अभिषवायोद्यत शस्त्रसकाशाद् इमे अतस्तत्प्रसक्तिमाह - – एतस्माद् वज्राद् उद्यतात् संरेजेते वज्रवद्धिंसकाद् इदानीमाभ्यामर्थाय एनं यज्ञं द्यावापृथिवी संरेजेते कम्पेते । द्यावापृथिवीभ्यामिति चतुर्थीद्विवचनम् । एतद् तथा करोति । तथा सति शमयति शान्तं करोति, यथाऽसौ उत्सेकावक्षेपाभ्यां द्यावापृथिव्यौ न हिनस्ति न हिनस्ति, प्रोत्साहनेन धिषणे वीड्वी सती वीडयेथाम् इत्यभिधाने सति शान्तोऽसौ यज्ञ इति । तदस्य इमे द्यावापृथिव्यौ सर्वं पाप्मानं हन्तीत्यार्थवादिकं फलं तयोर्दृढत्वस्य प्राप्तत्वात् । एवमूर्गर्थवादः ' पाप्मा हतो न सोमः ' इति इति तस्यैव मन्तव्यम् । मा मां सन्ताप्तमिति च देवताभूतस्य सोमाभिषवरूपो वधोऽध्वर्योरेव सम्भावित भयचलनयो: ' इति मन्त्रार्थस्तु - हे सोम, त्वं मा भैः मा भैषीः, मा संविथाः कम्पनं मा कृथाः, धत्स्व ' ओविजी धेहि । एवं सोमं सम्बोध्य धातुः सम्पूर्वकः कम्पनार्थः । यतो देवतातर्पणार्थमहं त्वामभिषुणोमि, अत उर्जं रसं, अस्माद् ग्राव्ण द्यावापृथिव्यौ सम्बोधयति – हे धिषणे द्यावापृथिव्यौ, युवां वीड्वी सती, वीलुशब्दो अनेनैवं दृढवचनः वज्रसंस्तुतेन ग्राव्णा उद्यताद् दृढे सत्यौ आत्मानं वीडयेथां दृढीकुरुतम् । किञ्च, ऊर्जं रसं दधाथाम् । यजमानस्य पाप्मा हतो न सोमो हतः । व्यञ्जनादिः अध्यात्मपक्षे – तत्तदङ्गोपाङ्गसहिताय भगवते परमात्मने संस्क्रियमाणः सोमो कम्पनं घृताज्यपरिप्लुतो च मा कृथाः । धिषवणे सम्बोध्यते - हे सोम, मा भैर्मा च संविक्थाः कण्डनपेषणपाचनादिभ्यो भयं के रस को प्राप्त करने के लिये उस पर प्रहार किया भाष्यसार - शतपथ ब्राह्मण के अनुसार ' मा भे: ' इत्यादि कण्डिका से सोम । जाता है । याज्ञिक विनियोग के अनुकूल व्याख्या ' शतपथ श्रुति में उपदिष्ट है के लिये संस्कृत किये जाने वाले घृतादि अध्यात्मपक्ष में अर्थयोजना इस प्रकार है - अंग, उपांगों से समन्वित भगवान् परमात्मा एवं कम्पित मत , प्रहार, पेषण तथा पकाने आदि की क्रियाओं से भयभीत से परिप्लुत नैवेद्य को संम्बोधित किया गया है । हे नैवेद्य
पृष्ठ 303
पाठ पढ़ें पाठ छिपाएँ
म. ३५-३६ ] वेदार्थपारिजातभाष्यसहिता ७ ९ द्यावापृथिव्यौ तत्स्थानीयौ दृषदुपलस्थाल्यौ च सम्बोद्धयोच्येते - हे धिषवणे, युवां वीड्वी दृढ़े सत्यौ ऊर्जं रसं देवतर्पणाय दधाथां धारयेथाम् आत्मानं दृढे कुरुतम् । पेषणकण्डनादिभिः पाप्मा हत उपासकानाम्, न सोमादिर्हतः । देवतार्थं सोमबीजाद्युपघातेनापि पाप्मैव हन्यते, न सोमबीजाद्युपघातो भवतीत्यर्थः । दयानन्दस्तु – हे स्त्रि, त्वं वीड्वी बलवती सती ( निघ ०२ / ९ ) पत्युः सकाशाद् मा मैर्मा संविक्या ऊर्जं स्वशरीरात्मबलं पराक्रमं वा धत्स्व । हे पुरुष, त्वमप्येवं भव, युवां धिषवणे इवोर्जं सन्तानादिभ्यो बलं पराक्रमं वा दधाथां वीडयेथाम् । एवमनुवर्तिनोर्युवयोः पाप्मा हतो भवतु सोमो न चन्द्र इवाह्लादककान्त्यादिवृन्दः प्रकाशितो भवतु ' इति, तदपि यत्किञ्चित्, स्त्रीपुंसयोः सम्बोधने मानाभावात्, स्त्रियाश्च पत्युः सकाशात् कम्पनाद्यसम्भवाच्च । इवादिकल्पनमपि निर्मूलमेव ॥ ३५ ॥ 4
प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दश॒ आधा॑वन्तु । अम्य॒ निष्पु॑र॒ सम॒रीवि॑दाम् ॥ ३६ ॥
' अथ यन्निग्राभमुपैति ।.... स. उपैति । प्रागुपागुदगधरेति ' ( श. ३ ९ ४ २०-२१ ) ' प्रतिवर्गं निग्राभं वाचयति होतृचमसेऽल्पान शू नवधाय प्रागपागिति ' ( का. श्री. ९ ।४।१७ ) । प्रतिप्रहारवर्गं होतृचमसमध्येऽल्पानंशून्निधाय प्रागपागिति निग्राभसंज्ञं मन्त्रं यजमानं वाचयेत् । अष्टप्रहारात्मक एको वर्गः । एकादशप्रहारात्मको द्वितीयः । द्वादशप्रहारात्मकस्तृतीयः । द्वाभ्यामृभ्यामुष्णिग्बृहतीभ्यां निग्राभं वाचयति । सोमदेवत्योष्णिग् द्वितीया त्वैन्द्री । यत्र वा एषोऽग्रे देवाना हविर्बभूव तद्धेमा दिशोऽभिदध्यावाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना स स्पर्शयति तमेतद्देवा आभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना समस्पर्शयन् यन्निग्राभमुपायंस्त तथा एवैनमेष एतदाभिर्मिथुनेन धाम्ना स स्पर्शयति यन्निग्राभमुपैति ' यत्र काले एषोऽग्रे सोमो देवानां हविर्बभूव तत्तदा इमा दिशोऽभिदध्यौ । अभिध्यानं चेर्दं मिथुनविषयम् । तत्प्रकारमाह - आभिर्दिग्भिर्मिथुनेन तद्योगेन प्रियेण दिशामभिमतेन धाम्ना मम शरीरेण संस्पृशेयेति । यद्वा दिग्भिर्मिथुनेन प्रियेण धाम्ना समस्पर्शयन् संयोगमकारयन् । निग्राभोपायनमेव संस्पर्शः । तथा एवैनमिति दान्तिकवाक्यं दृष्टान्तवद् व्याख्येयम् । होना | द्यावापृथिवी तथा तत्स्थानीय दृषद्, उपल ( सिल तथा लोढ़ी ) को सम्बोधित किया जाता है कि तुम दोनों दृढ़ होती हुई देवताओं की तृप्ति के लिये रस का धारण करो तथा स्वयं को दृढ़ करो । इस पीसने आदि के द्वारा आराधकों का पाप नष्ट हो गया । सोम आदि द्रव्य नहीं हिंसित हुए । देवताओं के लिये सोम, बीज आदि को कूटने पर भी पाप ही नष्ट होता है, सोम, बीज आदि की हिंसा नहीं होती, यह इस मन्त्र का तात्पर्य है । स्वामी दयानन्द द्वारा वर्णित अर्थ, स्त्री तथा पुरुष को सम्बोधित करने में कोई प्रमाण न होने के कारण, अग्राह्य है । पति से स्त्री का कम्पित आदि होना अव्यावहारिक, असम्भव है । ' इव ' आदि शब्दों के द्वारा कल्पना करना भी अप्रामाणिक ही है || ३५ || मन्त्रार्थ - पूर्व, पश्चिम, उत्तर, दक्षिण आदि सम्पूर्ण दिशाएँ सब ओर से तुम्हारे संमुख धावमान हों । हे माता, अपने भावों से सोम को पूर्ण करो, सारी प्रजा इस यज्ञ से परिचित हो जाय ॥ ३६ ॥
भाष्यसार - कात्यायन श्रौतसूत्र ( ९ / ४ / १८ ) में उल्लिखित याज्ञिक प्रक्रिया के अनुसार ' प्रागपाक् ' इस ' निग्राभ ' नामक मन्त्र का पाठ अध्वर्यु यजमान से कराता है । शतपथ ब्राह्मण में याज्ञिक विनियोग के अनुकूल मन्त्रार्थ उपदिष्ट है ।
पृष्ठ 304
पाठ पढ़ें पाठ छिपाएँ
८० शुकुयजुर्वेदसंहिता अ. ६ [ अ. उदकू उदगञ्चना मन्त्रार्थस्तु - हे सोम त्वा त्वां प्राक् प्रागञ्चना अपाग् अपागञ्चना दक्षिणाः पश्चिमाश्च प्रतियोगिनी दक्षिणा दिक् । प्रागादयो उत्तरा अधराक् अधराञ्चनाः, अपाञ्चतीत्यपाक् प्रतीची, अधराग् उदक् परस्परं भाषमाणाः । दिशस्तदभिमानिन्यो देवताः सर्वतः सर्वस्मात् स्वस्वप्रदेशाद् आधावन्तु आभिमुख्येनागच्छन्तु वदन्त्यः । निष्परेति ‘ पृ किं भाषमाणाः? हे अम्ब हे योषे, निष्पर स्वैः स्वैर्भोगैः सोमस्य कामं पूरयेति दिशः संविदां संविदन्तु पालनपूरणयोः ' विकरणव्यत्यये लोटि रूपम् । किञ्च, एवंविधं सोममरीरागच्छन्त्यो सोमं विदन्ताम् । यद्वा किं सम्यग्जानन्तु, यद्वा अर्यः प्रजाः पुत्रादिरूपाः संविदां विप्रकृष्टमपि गच्छन्तीत्यर्यः प्रजाः । उक्तमर्थं प्रयोजनमित्याकाङ्क्षायामाह - अरीः अर्यः प्रजाः । इयर्ति पुत्रादिप्रवाहरूपेण ताः सञ्जानत एव । संविदां व्यवहारप्रसिद्ध्या समर्थयतिं तस्मात् पितुर्विदूरमिव दूरदेशेऽपि प्रजा भवन्ति नानादिग्वासिनो जना जानन्त्विति संविदताम्, ' प्रजा वा अरी ' ( श. ३ । ९ । ४ । २१ ) इति श्रुतेः । सोमसमागमं ' आत्मनेपदेष्वनतः ' ( पा.सू. ७।१।५ ) इति भाषमाणास्त्वामागच्छन्तु | ' विद् ज्ञाने ' अस्माल्लटि तङि प्रथमाबहुवचने ९ ) इत्यादिना तङ् । तदेतद् ब्राह्मणं ' झकारस्याति तकारलोपे सवर्णदीर्घे विदामिति रूपम् । ' समो गम ' ( पा. सू. १।३।२ निष्पर समरीर्विदामिति व्याचष्टे – दिश आधावन्त्विति तदेनमाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना सस्पर्शयत्यम्ब प्रजा वा अरीः सम्प्रजा जानतामित्येवैतदाह योषा वा अम्बा योषा दिशस्तस्मादाहाम्ब निष्परेति समरीर्विदामिति । तस्माद्या अपि विदूरमिव प्रजा भवन्ति समेव ता जानते ' ( श. ३ | ९ | ४ | २१ ) हे अम्ब निष्पर एतस्य अध्यात्मपक्षे - हे साधक, प्रागादयः सर्वा दिशस्तदभिमानिन्यस्तद्वासिन्यश्च प्रजास्त्वा । अर्यः सर्वाः प्रजाश्च त्वां संविदां साधकस्य सर्वान् कामान् पूरयेति वदन्त्य आधावन्तु आभिमुख्येनागच्छन्तु पूरयन्ति, सर्वाश्च प्रजास्तं संजानन्ति । संविदन्तु | यस्य भगवदुपास्तिनिष्ठा सुदृढा भवति, सुरादयस्तत्कामान् १८ | १२ ) इति श्रीमद्भागवतवचनात् । ‘ यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः ' ( भा.पु. ५ । दिशस्त्वानुधावन्तु, तास्त्वं दयानन्दस्तु – ‘ हे अम्ब, या अरीः सुखप्रापिकाः प्रजास्ते प्रागपागुदगधराक् , श्रुतौ योषासामान्यस्याम्बपदार्थत्वोक्तेः सर्वतो । निष्पर नितरां रक्ष, ता अपि त्वा संविदां जानन्तु ' इति, तदपि श्रुतिविरुद्धमेव । श्रुतिसूत्रानुसारेण तु किञ्चात्र प्रागादिदिशामाधावनमुक्तं न प्रजानाम्, प्रथमोपस्थितसम्बन्धत्यागे मानाभावात् सोमोऽत्र सम्बोधनीयः ॥ ३६ ॥
दिशाएँ, तदधिष्ठात्री अथवा उनमें निवास करने वाली अध्यात्मपक्ष में मन्त्र का अर्थ इस प्रकार है - हे साधक, पूर्व आदि सभी करती हुई तुम्हारे अभिमुख आवें । समस्त प्रजाएं प्रजाएं ' हे जननि, इस उपासक की सभी कामनाएं पूरी करो ' इस प्रकार आह्वान, उसकी भगवदुपासना तथा निष्ठा सुदृढ़ होती है तुमको अनुमत करें । श्रीमद्भागवत ( ५/१८/१२ ) के वचन के अनुसार जिसकी भांति जानती हैं । सम्पूर्ण कामनाओं को देवगण पूर्ण करते हैं तथा समस्त प्रजाएं उसको भली ' अम्बा ' शब्द से कहा गया है । इसी तरह मन्त्र में स्वामी दयानन्द का अर्थ श्रुतिविरुद्ध ही है, क्योंकि श्रुति में स्त्रीमात्र को नहीं विद्यमान पदार्थ से सम्बन्ध छोड़ने में कोई प्रमाण पूर्व आदि दिशाओं का धावन कहा गया है, प्रजाओं का नहीं । पूर्व से ही चाहिये || ३६ || है । श्रुति तथा सूत्रवचनों के अनुसार तो यहाँ सोम को सम्बोधित करना
पृष्ठ 305
पाठ पढ़ें पाठ छिपाएँ
म. ३७ ] वेदार्थपारिजातभाष्यसहिता त्वम॒ङ्ग प्रशंसिषो दे॒वः शविष्ठ मर्त्यम् ॥ न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वर्चः ॥३७ ॥
इति षष्ठोऽध्यायः ॥ ८१ ‘ अथ यस्मात् सोमो नाम ' ( श. ३ | ९ | ४ | २२ ) इत्यादि सोमस्य प्रसङ्गात्तन्नामनिर्वचनम् - यत्र वा एषोऽग्रे देवानां हविर्बभूव तद्धेक्षाञ्चक्रे मैव सर्वेणेवात्मना देवानां हविर्बभूवमिति तस्य जुष्टतमा तनूरास तामपनिदधे अपगमय्यान्यत्र स्थापितवान् । तद्वै देवा अस्पृण्वत ज्ञातवन्तः । ते होचुः - उपैवैतां बृहस्व एतामपसारितां तनुमुपप्रबृहस्व तव समीपे प्रापय । एतया तन्वा सहैव नो हविरेधि भव । एवमुक्तः सोमस्तां दूरतर इवात्यन्तं दूरदेश एवोपाबृहत उपागमयत् । किं कुर्वन्? स्वा वै म एषेति वदन् एषा तनूर्मे स्वकीया आत्मीयेति वदन् । स्वा मे इत्युक्तत्वात् सोमनाम सम्पन्नम् । पृषोदरादित्वाद् रूपसिद्धिः । ' अथ यस्माद्यज्ञो नाम ' ( श. ३ / ९ / ४ / २३ ) इत्यादिना यज्ञनामनिर्वचनम् । यस्मात् प्रवृत्तिनिमित्ताद् यज्ञस्य यज्ञ इति नामाभूत्, तदप्याह - अभिषवेन हतमेनं सोमं तन्वते सम्भरणग्रहणहोमादिना विस्तारयन्तीत्यर्थः । स सोमस्तायमानः सन् जायते यत्परम्परया आहुतिभावं गच्छन् जायते पुनः पुनः सम्भवति, अतो यन् जायत इति यञ्जः । अतो वस्तुतो यञ्ज इति तस्य नाम तद् यज्ञ इति परोक्षेण व्यवहरति । ‘ तत्रैतामपि वाचमुवाद त्वमङ्ग ' ( श. ३ / ९ / ४ / २४ ) उक्तार्थसंवादत्वेन सोमप्रार्थनारूपं मन्त्रसंवादमाह - तत्र तस्मिन्नभिषवकाले एतां प्रार्थनारूपां वाचमुवाद - हे शविष्ठ अतिशयेन बलवन् अङ्ग हे इन्द्र देव, त्वं मर्त्यं मरणधर्माणं मां सोमं प्रशंसिषः प्रशस्तं कुरु, आहुत्यात्मना विस्तारय, देवात्मना पुनरुत्पादयेत्यर्थः । ' शंसु स्तुतौ ' ' सिब्बहुलं लेटि ' ( पा. सू. ३ | १ | ३४ ) इति सिप आर्धधातुकत्वादिट्, ' इतश्च ' ( पा. सू. ३ | ४ / ९ ७ ) इतीकारलोपः, ' लेटोऽडाटी ' ( पा. सू. ३ / ४ / ९ ४ ) इत्यडागमः । नन्वन्योऽपि देवोऽस्ति किमिन्द्रप्रार्थनयेति तत्राह - हे मघवन्, त्वत्तोऽन्यो मर्डिता सुखयिता नास्ति, यत एवमतस्ते तुभ्यं वचः प्रशंसा ( प्रार्थना ) रूपं ब्रवीमि । यद्वा हे इन्द्र, यत्वस्त्वम् अङ्ग अङ्गेति क्षिप्रनाम । क्षिप्रं प्रशंसिषः प्रशंससि देवः सन् शविष्ठं बलिष्ठं मर्त्यं मनुष्यं यजमानं प्रशंससि, अतस्त्वत्तोऽन्यो हे मघवन् नास्ति न विद्यते मर्डिता सुखयिता, ' मृड सुखने ', यजमानानाम् । इन्द्रं ब्रवीमि ते तुभ्यमत्यद्भुतं वचो वचनम् । मन्त्रार्थ - हे सर्वत्र व्याप्त अतिशय बलवान् सुखकारी धनवान् परमैश्वर्य सम्पन्न परमात्मन्, आप इस मनुष्य यजमान को प्रशंसा दिलाते हो | आपके सिवाय दूसरा कोई सुख देने वाला नहीं है । केवल आप ही सुखरूप हैं, यह बात मैं आपसे कहता हूँ ॥३७ ॥
भाष्यसार - ' त्वमङ्ग ' इस ऋचा का भी याज्ञिक विनियोग पूर्व ऋचा की भांति ही यजमान को वाचन कराने हेतु किया गया है । शतपथ श्रुति में याज्ञिक विनियोग के अनुरूप व्याख्या वर्णित है ।
पृष्ठ 306
पाठ पढ़ें पाठ छिपाएँ
८२ शुक्लयजुर्वेदसंहिता [ अ. ६ अध्यात्मपक्षे - हे इन्द्र परमैश्वर्यपूर्ण परमेश्वर, हे शविष्ठ अतिशयेन बलवन्निन्द्र, मर्त्यं मनुष्यमप्युपासकं प्रशंससि स्तौषि, ' ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ' ( भ.गी. ४ | ११ ) इति प्रतिज्ञानात्, भीष्मयुधिष्ठिरार्जुनादीनां तथैव तत्कर्तृकस्तवनदर्शनात् । हे मघवन्! आधिभौतिकाध्यात्मिकाधिदैविकसर्वविधधनसम्पन्न, त्वत् त्वत्तः सकाशादन्यो मर्डिता सुखयिता जनानां कोऽपि नास्ति, ' एष ह्येवानन्दयाति ' ( तै. २७ ) इति श्रुतेः । हे इन्द्र, त्वमेव सुखयितेत्येवंरूपं ते त्वदीयं वचो वचनमहं ब्रवीमि । अनुपचारेणाध्यात्मपक्ष एवायं मन्त्रः सामञ्जस्यमश्नुते । दयानन्दस्तु – ' हे अङ्ग शविष्ठ मघवन्निन्द्र सभापते, त्वं प्रशंसिषः, न त्वदन्यो मर्डिता देवोऽस्त्यतोऽहं तुभ्यं वचो ब्रवीमि ' इति, तदपि न किञ्चित्, देवमघवदादिशब्दानां प्रसिद्धार्थपरत्वे सम्भवति गौणार्थाश्रयणे मानाभावात् । तत्र त्वदन्यो मर्डिता देवो नास्तीत्युक्तिः कथं सङ्गच्छते? तत्कृतप्रशंसाया अपि किं फलमिति नोक्तम् || ३७ || इति वेदार्थपारिजाते वाजसनेयिसंहिताभाष्ये षष्ठोऽध्यायः ॥ अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है- हे परमैश्वर्य से परिपूर्ण परमेश्वर, हे अतिशय बलसम्पन्न, आप अपने मानव उपासक की भी प्रशंसा करते हैं । श्रीमद्भगवद्गीता ( ४ | ११ ) की प्रतिज्ञा के अनुसार तथा भीष्म, युधिष्ठिर आदि की भगवान् के द्वारा की गई प्रशंसा दृष्टिगोचर होने के कारण यह सिद्ध है । आधिभौतिक, आध्यात्मिक तथा आधिदैविक सभी प्रकार के धन से सम्पन्न हे देव, आपके अतिरिक्त दूसरा कोई भी प्राणियों को सुख देने वाला नहीं है । ' आप ही सुख प्रदान करने वाले हैं । इस प्रकार आपका स्तुतिवचन से मैं गुणगान करता हूँ । स्वामी दयानन्द द्वारा प्रतिपादित अर्थ उचित नहीं है, क्योंकि देव, मघवा आदि शब्दों के प्रसिद्ध अर्थ के सम्भव रहने पर उनका गौण अर्थ करने में कोई प्रमाण नहीं है । उस अर्थ में ' तुम्हारे अतिरिक्त कोई दूसरा सुख प्रदान करने वाला देव नहीं है ' यह कथन कैसे संगत होगा? इस प्रशंसा का क्या फल है? यह भी नहीं बताया गया है ॥ ३७ ॥
इति षष्ठोऽध्यायः ॥