वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री — पृष्ठ 291–300

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री · पृष्ठ 291–300

पृष्ठ 291

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 291 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. २ ९ ] वेदार्थपारिजातभाष्यसहिता ६७ अग्निष्टोमोक्थ्याभ्यामन्यत्र षोडशिन्यतिरात्रे च हविर्धानं प्रविशेदेवानेन मन्त्रेण न होमं नापि परिध्यालम्भनं वा कुर्यात् । तदेवोक्तं श्रुतौ - ' आग्नेय्या जुहोत्यग्निर्वा अग्निष्टोमस्तदग्नावग्निष्टोमं प्रतिष्ठापयति मर्तवत्या पुरुषसम्मितो वा अग्निष्टोम एवं जुहुयाद्यद्यग्निष्टोमः स्यात् ' ( श. ३ | ९ | ३ | ३२ ) | मन्त्रास्याग्नेयत्वं प्रकृते ज्योतिष्टोमकर्मणि संगतमित्याह - आग्नेय्या जुहोतीति । यज्ञायज्ञियस्यान्तिमस्तोत्रस्याग्निदेवताकत्वादग्निष्टोमो ऽग्निः, ततोऽग्न्यात्मकमग्निष्टोममाग्नेय्या होमेनाग्नावेव प्रतिष्ठापितवान् भवति । मन्त्रे यन्मर्त्यलिङ्गकत्वं तत्प्रशंसति – मर्तवत्येति । ' पुरुषसम्मितो वा एष यज्ञः ' ( तै.सं.७।१।१।१ ) इति श्रुतत्वात् पुरुषसम्मितत्वमस्य यतः, अत एवैतया मर्तवत्या होमो युक्तः । निगमयति - यद्यग्निष्टोमः स्याद् यद्युक्थ्यः स्यान्मध्यमं परिधिमुपस्पृशेत्, त्रयः परिधयस्त्रीण्युक्थ्यान्येतैरु हि तर्हि यज्ञः प्रतितिष्ठति यद्यु अतिरात्रो वा षोडशी वा स्यान्नैवं जुहुयान्न मध्यमं परिधिमुपस्पृशेत् समुद्यैव तूष्णीमेत्य प्रपद्येत तद्यथायथं यज्ञक्रतून् व्यावर्तयति ' ( श.३।९ ।३।३३ ) । उक्थ्यसंस्थायां तु कथमित्यत आह - ' यद्युक्थ्यः स्यात् । मध्यमं परिधिमुपस्पृशेत् ' इति । अग्नेः परितो निधीयमानाः परिधयः । प्राच्यां दिशि सूर्यस्यैव परिधित्वात् ते त्रय एवाउक्थ्यान्यग्निष्टोमादुपर्यक्थसंस्थे क्रतौ स्तोतव्यानि त्रीण्युक्थ्यस्तोत्राणि । अस्तु त्रित्वं किं तत् इत्यत आह- ' एतैरु हि तर्हि यज्ञः प्रतितिष्ठति ' इति । यत एतैरुक्थ्यैर्यज्ञः प्रतितिष्ठति, अतस्त्रिषु परिधिषु मध्यमं परिधिं पश्चाद्दिग्गतप्रचरण्या स्पृशेत् प्रकृतमन्त्रेण । अतिरात्रषोडशिनोस्तु होममुपस्पर्शनं च न कुर्यात्, किन्तु समुद्यैव ' यमग्ने पृत्सु इति मन्त्रमुक्त्वैव तूष्णीमेत्य देवयजनं प्रपद्येत । तत् तथा सति क्वचिद्धोमः, क्वचिच्च परिधिस्पर्शः, चित् तूष्णीम्, यथायथं पृथक् पृथक् प्रकारेण यज्ञक्रतून् अग्निष्टोमादिकान् व्यावर्तयति परस्परं व्यावृत्तान् करोति । तैत्तिरीयकेऽपि - ' यद्यग्निष्टोमो जुहोति यद्युक्थः परिधौ निर्मार्ष्टि यद्यतिरात्रं यजुर्वदन् प्रपद्यते यज्ञक्रूतनां व्यावृत्त्यै ' ( तै. सं. ६।४ / २ / ५ ) | कात्यायनस्तु - ' रराट्यालम्भनं वा षोडशिनि ' ( का.श्रौ. ९ ।३।१६ ) इति षोडशिसंस्थे यज्ञे प्रवृत्ते रराट्याः स्पर्शं कुर्यात् प्रवेशनं वा यमग्न इति मन्त्रेण, ' छदिरतिरात्रे ' ( का.श्रौ. ९ ३ | १७ ) अथवा रात्रिसंस्थे यज्ञे छदिरालभेत प्रविशेद्वा यमग्न इति मन्त्रेण । अध्यात्मपक्षे – हे अग्ने परमेश्वर, यं मर्त्यं त्वं पृत्सु बाह्येषु सङ्ग्रामेषु, आन्तरेषु कामक्रोधादिसंघर्षेषु वा अवा रक्षसि । पञ्चपुरुषं वाजेषु हविर्लक्षणेष्वन्नेषु निवेदनीयेषु बहुविधेषु मधुरमनोहरपक्वान्नादिष्वन्नेष्वभ्युद्यतेषु जुना अभिगच्छसि, स पुरुषस्त्वदनुग्रहेण शाश्वतीर्नित्यानि इषोऽन्नानि धनानि ज्ञानविज्ञानरूपाणि वा यन्ता नियंस्यति, प्राप्स्यतीत्यर्थः । दयानन्दस्तु - हे अग्ने सर्वगुणवर, त्वं पृत्सु सङ्ग्रामेषु मर्त्यम् अवा रक्षेः । वाजेषु अन्ननिमित्तेषु क्षेत्रादिषु यं जुना गमयेः, स शाश्वतीर् इष इष्यन्ते यास्ताः प्रजाः स्वाहा उत्साहिकया वाचा यन्ता नियन्ता स्यात् ' इति, विनियोग कात्यायन श्रौतसूत्र ( ९।३।१२- १६ ) में वर्णित है । शतपथ एवं तैत्तिरीय श्रुतियों में याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है- हे अग्नि परमेश्वर, जिस मानव की आप बाह्य संग्रामों में अथवा काम क्रोध - आदि के आन्तरिक संघर्षों में रक्षा करते हैं, तथा जिस पुरुष के प्रति हवि आदि अन्नों से निवेदन के योग्य नाना प्रकार के मधुर मनोहर पक्वान्न आदि भक्ष्यों के सन्नद्ध होने पर पधारते हैं, वह व्यक्ति आपके अनुग्रह से शाश्वत अन्न को अथवा ज्ञानविज्ञानरूपी धन को प्राप्त करेगा । स्वामी दयानन्द द्वारा वर्णित अर्थ अनिश्चय के कारण अग्राह्य है । वह कौन है, जो संग्रामों में मनुष्य की रक्षा करता है । यदि

पृष्ठ 292

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 292 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६८ शुक्लयजुर्वेदसंहिता [ अ. ६ तदपि न किञ्चित्, अनिर्धारणात् । कोऽयं गुणवरो यो मर्त्यं सङ्ग्रामेषु रक्षति क्षेत्रादिषु च युनक्ति? यश्च सङ्ग्रामेषु गुरुः रक्षितः क्षेत्रादिषु च नियुक्तः, स प्रजा उत्साहिकया वाचा नियच्छतीति सोऽपि कः? यदि तु भावार्थानुसारेण न राजा । प्रजाश्च प्रेरकः, यन्ता राजा, तदप्यसम्यक्, सङ्ग्रामेषु तस्य रक्षकत्वानुपपत्तेः । क्षेत्रादिषु तु प्रजा नियुज्यन्ते || २ ९ || कथं प्रजा नियंस्यन्ति? इष्यन्ते च वस्त्रभूषणादीनि अन्नपानादीन्यपीति कुतः प्रजा इषः? दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ रावा॑ऽसि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् । उत्त॒मेन॑ प॒विनोज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तं निग्रा॒भ्या॒ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा॒ ॥३० ॥

३ | ९ | ४ | १ ) । ' अयुङ्गा अयुङ्गा एकधना भवन्ति ' ( श. ३ | ९ | ३ | ३४ ) । ' अथाधिषवणे पर्युपविशन्ति ' ( श. पर्युपविशन्तिः ' अथ. ग्रावाणमादत्ते.... ' ( श. ३ | ९ | ४ | २ ) । ' एकधनस्थान उभयशेषं निधायाधिषवणे पश्चाद् यलेन स्थापयित्वा ( का.श्रौ.९ | ४ | १ ) । एकधनशेषं वसतीवरीशेषं च उत्तरस्य हविर्धानस्याधस्तादक्षस्य देवस्य त्वेत्यद्रिमादाय अधिषवणचर्मणः समीपे सर्वत उपविशेयुरध्वर्यु - प्रतिप्रस्थातृनेष्टृउन्नेतृ - यजमानाः । ' अभिषवणार्थं नियच्छति वाचं यच्छति प्राग्धिङ्काराद् ' ( का.श्रौ. ९ १४१४ ) | देवस्य त्वेत्यध्वर्युरश्मानं गृहीत्वा प्राग् हिङ्काराद् वाचं सोमः पवते ' ( का.श्रौ. ९ ६ १६ ) । तस्य हिङ्कारस्य प्राग् ' दशापवित्रेणाग्रयणमुपगृह्य त्रिर्हिङ्कृत्य कुर्युः । ' स उपांशुसवनः ’ ( का.श्रौ. ९ ।४।५ ) । यो अध्वर्युर्ग्रावद्वयाहरणम् इतरे त्रयो ग्रावत्रयस्याहरणं सः, हे ग्रावविशेष, ग्रावाऽध्वर्युणा गृहीतः स उपांशुसवनसंज्ञको भवति । उपांशुग्रहार्थं सोमः सूयते यस्मिन् । सवितुर्देवस्य प्रसवे सवितृप्रसूते जगति, अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे पूषा तथैव श्रुतिराह - ' अश्विनावध्वर्यू ततयोरेव बाहुभ्यामादत्ते न स्वाभ्यां पूष्णो हस्ताभ्यामिति न मनुष्यो भर्ता भागदुघस्तत्तस्यैव हस्ताभ्यामादत्ते न स्वाभ्याम् । कुत एतदित्याह - वज्रो वा एष तस्य दक्षिणानां तमेताभिर्देवताभिरादत्ते ' ( श. ३ | ९ | ४ | ३ ) | हे अभिषणवसाधनपाषाण, त्वं रावा ' रा दाने ' आहुतीनां वज्रसदृशेन त्वया च रावा दाता भवसि । ततो गभीरमिमं मदीयमध्वरं यज्ञं कृधि कुरु । उत्तमेनोत्कृष्टेन पविना अहं सोममिन्द्रायेन्द्रार्थं सुषूतमं सुष्ठु अभिषुततमम्, सुष्ठु सूयत इति सुषुतः, अतिशयेन सुषुतः सुषुततमः तं पयः सुष्ठु अभिषुतम् । तकारलोपश्छान्दसो दीर्घत्वं च । ऊर्जस्वन्तं मधुमन्तं मधुरस्वादुत्वोपेतं पयस्वन्तं पयोविशेषवन्तं असिद्ध है । क्षेत्र आदि में तो भावार्थ के अनुसार गुरु प्रेरक, यन्ता राजा है, तो भी असंगति है, क्योंकि संग्राम में उसका रक्षकत्व होते हैं, अतः केवल प्रजाएँ ही ' इषः ' प्रजाएँ नियुक्त की जाती हैं, राजा नहीं । वस्त्र, आभूषण, अन्न, पान आदि भी अभिलषित कैसे मानी जा सकती हैं ॥ २ ९ ॥ से मैं तुमको मन्त्रार्थ - हे उपांशु सवन, सविता देवता की प्रेरणा से, अश्विनीकुमारों की बाहु तथा पूषा देवता के दृढ़ हाथों और श्रेष्ठ हो । ग्रहण करता हूँ । तुम अभीष्ट फल देने वाले हो । हमारे इस यज्ञ को महान् बनाओ । तुम वज्रसदृश भरे सोम को अभिषुत तुम्हारे द्वारा इन्द्र देवता के निमित्त प्रीतियुक्त बलवर्धक स्वादिष्ट मधुर रसयुक्त दुग्ध के स्वादुरस मध्य से में चिरप्रसिद्ध हो । इस करते हैं । हे जल देवता, हमने तुमको सम्यक् प्रकार से ग्रहण किया है । तुम देवताओं के प्रकार बहुत मान से युक्त तुम इस समय इस यज्ञ में हमें तृप्त करो ॥३० ॥

धारण करता भाष्यसार – ' देवस्य त्वा ' इस कण्डिका के मन्त्रों से सोमाभिषव के लिये पाषाण हाथ में ग्रहण करके अध्वर्यु मौन -

पृष्ठ 293

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 293 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३० ] वेदार्थपारिजातभाष्यसहिता ६ ९ स्वादुना रसेनोपेतमेवंविधं सोमं त्वयाहं करोमीति शेषः । यद्वा गभीरं महान्तमिममध्वरं यज्ञं कृधि कुरु, इन्द्रार्थं सुषुतम् साधु अभिषुतम्, अतिशयेन उत्तमेन पविना पावनेन सोमेन पवनशीलेन ऊर्जस्वन्तं रसवन्तं मधुमन्तं मधुस्वादुना रसेनोपेतम्, पयस्वन्तं पयःस्वादुना रसेनोपेतम्, अध्वरं कृधीति सम्बन्धः । श्रुतिरपि तथैव व्याख्याति -' यदा वा एनमेतेनाभिषुण्वन्त्यथाहुतिर्भवति यदाहुतिं जुहोत्यथ दक्षिणा ददात्येतद्धयेष द्वय रासत, आहुतीश्च दक्षिणाश्च तस्मादाह रावासि ' ( श. ३ | ९ | ४ | ४ ) । गभीरमिममध्वरं कृधीत्यंशोऽपि तथैव श्रुत्या व्याख्यातः - ' अध्वरो वै यज्ञो महान्तमिमं यज्ञं कृधीत्येवैतदाहेन्द्राय सुषूतममितीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रायेति सुषूतममिति सुसुततममित्येवैतदाहोत्तमेन पविनेत्येष वा उत्तमः पविर्यत्सोमस्तस्मादाहोत्तमेन पविनेत्यूर्जस्वन्तं मधुमन्तं पयस्वन्तमिति रसवन्तमित्येवैतदाह यदाहोर्जस्वन्तं मधुमन्तं पयस्वन्तमिति ' ( श. ३ | ९ | ४ | ५ ) | मन्त्रभागं व्याचष्टे - योऽयमध्वरः स यज्ञः । उभौ शब्दौ पर्यायौ । यदतिगुम्फितत्वेन महत् तद् गम्भीरमिति लोके व्यवह्रियते । अतो गम्भीरे महत्त्वदर्शनादिममध्वरं महान्तं कुरु इत्याह मन्त्रः । सुषूतममिति सुसुततममिति वक्तव्ये तकारलोपो , दीर्घश्च छान्दसः । पविशब्दस्य वज्रेऽर्थे प्रसिद्धत्वादत्र सोमोऽर्थ इति व्याचष्टे - एष वा उत्तमः पविर्यत्सोम इति । ‘ पवतिर्गतिकर्मा ’ ( निघ.२ १४ १०८ ) । अथवा पविवद् बलवत्त्वात् पविः सोमः । पविः खलु सोमपानेन प्रबलस्येन्द्रस्य वृत्रवधादिकर्म श्रवणादत्र मधुररसानां वाचका ये ऊर्जमधुपयः शब्दास्तेषां तात्पर्यतो रस एवार्थ इति व्याचष्टे – ऊर्जस्वन्तमित्यादिना । ननु नैते शब्दा माधुर्यार्थतया प्रसिद्धा इति चेत्तत्राह - यदाहोर्जस्वन्तं मधुमन्तं पयस्वन्तमिति । ‘ अथ वाचं यच्छति ' ( श. ३ | ९ | ४ | ६ ) | ' अथ निग्राभ्या आहरति । तास्वेनं वाचयति निग्राभ्या स्थ देवश्रुतस्तर्पयत.... ' ( श. ३।९ ।४।७ ) | ' निग्राभ्यासु वाचयत्युरस्येना निगृह्य निग्राभ्याः स्थेति ' ( का.श्रौ. ९ ।४।६ ) । यजमानः स्वकीयोरस्येना निगृह्य । निधाय आलभ्य च निग्राभ्याः स्थेति मन्त्रं वाचयेदध्वर्युः । अभिषोतव्यस्य सोमस्य सेवनीया आपो निग्राभ्याः, ता निगृह्य आलभ्य च मन्त्रं पठति । मन्त्रार्थस्तु - हे आपः, यूयं निग्राभ्याः स्थ, निग्राह्या अस्माभिर्नितरां ग्रहीतव्याः स्थ भवथ । यस्मादिन्द्रेणोरसि यूयं गृहीतास्ततो निग्राभ्याः, ' हग्रहोर्भश्छन्दसि ' । देवश्रुतः देवैः श्रूयन्त इति देवश्रुतः, देवेषु प्रख्याता बहुमानान्विता यूयं मा मां तर्पयत प्रीतं कुरुत । अध्यात्मपक्षे - भगवतो दिव्यत्वादलौकिकत्वादप्राकृतत्वाद्रसात्मकत्वात् तदीयार्चनार्थं नैवेद्यादिसामग्य्रापि दिव्यया तादृश्यैव भाव्यम् । तां गृह्णन्नपि न प्राकृताभ्यां स्वाभ्यां बाहुभ्यां हस्ताभ्यां वा स्वाभ्यां न गृह्णाति, किन्तु हे सामग्रि, सवितुर्देवस्य भगवतोऽनुज्ञायामश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे । त्वं रावासि, रासीति रावा, भगवदाराधनसम्पत्तिद्वारा भुक्तेर्मुक्तः प्रीतेश्च दातासि, तस्मादिममध्वरं कौटिल्यरहितं देवयजनरूपं यज्ञं कृधि सम्पादय । इन्द्राय परमैश्वर्यवते परमेश्वराय । कीदृशमध्वरम्? गभीरम्, अनन्तब्रह्माण्डा॒धिष्ठानपरात्परपरब्रह्मगोचरत्वादस्य गभीरत्वं दुरवगाह्यत्वम् । सुषूतमं सुसुततमम् 1 साधु अभिषुतमतिशयेनोत्तमेन पविना पावनेन पवनशीलेनानुरागेण गङ्गायमुनादिजलेन वाभिषवादियुक्तम् । ऊर्जस्वन्तं है तथा यजमान मन्त्रवाचन करता है । यह विनियोग कात्यायन श्रौतसूत्र ( ९ / ४ / १-६, ९ / ६ / १६, ९ | ३ | ११ ) में वर्णित है । शतपथ ब्राह्मण याज्ञिक प्रक्रिया के अनुकूल अर्थ उपदिष्ट है । अध्यात्मपक्ष में अर्थ इस प्रकार है - भगवान् की दिव्यता, अलौकिकता, अप्राकृतता तथा रसात्मकता के कारण उनकी पूजा के लिये नैवेद्य आदि सामग्रियां भी उसी प्रकार दिव्य होनी चाहिये । उनका ग्रहण भी अपनी लौकिक भुजाओं अथवा हाथों से नहीं होता । अपि तु हे सामग्री, भगवान् सविता देव की आज्ञा से अश्विनी देवों की भुजाओं से तथा पूषा देव के हाथों से तुम्हारा ग्रहण

पृष्ठ 294

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 294 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७० शुक्लयजुर्वेदसंहिता [ अ. ६ रसवन्तं विविधान्नादिरसोपेतं प्रेमरसान्वितं वा, मधुमन्तं मधुस्वादुना रसेनोपेतं मधुमयेन प्रेम्णोपेतं वा, पयस्वन्तं पयःस्वादुना रसेनोपेतं सरसेनार्चनेनान्वितम्, यस्मादिन्द्रेण परमात्मना भावग्राहकेण, यूयमिति पूजायां बहुवचनम्, निग्राभ्या नितरामादरेण ग्राह्या देवैश्च श्रुता विश्रुता बहुमानान्वितास्तथाविधा यूयं मम प्रभोराराधनसाधनत्वेन मां तर्पयत कृतार्थं कुरुत । दयानन्दस्तु – ' हे प्रजाजन! यतस्त्वं रावासि, अतोऽहं देवस्य सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे | त्वमिन्द्राय मह्यमुत्तमेन पविना वचसेमं गभीरं सुषूतममूर्जस्वन्तं पयस्वन्तं करदायमध्वरं कृधि । हे देवश्रुतः प्रजा यूयं निग्राभ्या मया नितरां ग्रहीतुं योग्याः स्थ । मामनेन करदेयधनेन तर्पयत । अत्र राजा करधनप्रदं प्रजापुरुषं कथं स्वीकुर्यादिधुपदिश्यते ' इति, तन्न, अनुपपत्तेः । नहि राजा सूर्यचन्द्रयोर्बलपराक्रमाभ्यां न वा सोमाद्योषधिगणस्य रोगनाशकधातुसाम्यापादकगुणाभ्यां हस्ताभ्यां प्रजाजनं गृह्णाति । न वा करधनस्य पविना वाण्या दानं सम्भवति । करधने गम्भीरम् ऊर्जस्वन्तं सुषूतममित्यादिविशेषणान्यपि न सङ्गच्छन्ते । द्वितीयान्तैरेतैः पदैर्निग्राभ्या इत्यनेन सम्बन्धोऽप्यसङ्गतः । तथा एकवचनबहुवचनवैषम्यमपि । ' स्थ ' इति मध्यमपुरुषोऽपि चिन्त्यः । न चैतत् प्रजाविशेषणम्, कृधीत्येकवचनविरोधात् । श्रुतिविरोधस्तु दर्शित एव || ३० || मनों मे तर्पयत वाचं ' मे तर्पयत प्राणं में तर्पयत॒ चक्षुर्मे तर्पयत॒ श्रोत्रं मे तर्पयता॒त्मानं ' मे तर्पयत प्र॒जां में तर्पयत प॒शून्ये॑ तर्पयत गुणान्मे॑ तर्पयतं ग॒णा मे॒ मा वितृ॑षन् ॥३१ ॥

समासेन तर्पणं प्रार्ध्य व्यासेन तदेवाभिधीयते । हे आपः मे मम मनो वाचं प्राणं चक्षुः श्रोत्रं तर्पयत । मदीयानि मनःप्रभृतीनि प्रीतानि कुरुत । एवं व्यासेनोक्त्वा पुनः समासेनाह - आत्मानं शरीरं, प्रजां पुत्रादिसम्पत्तिं पशून् गवादीन् गणान् बन्धुभृत्यादीन् मनुष्यसंघांश्च तर्पयत । मे मदीया गणा मनुष्यसंघा • मा वितृषन् युष्माभिस्तर्पिता विवृद्धतृष्णा मा भूवन् । अनुरक्तगणोऽहं भवेयमित्याशास्ते यजमानः । नन्वापः स्वल्पा एव करता हूँ । तुम भगवदाराधन सम्पत्ति के द्वारा भुक्ति, मुक्ति तथा प्रीति की प्रदात्री हो । अतः इस निश्छल देवार्चनात्मक यज्ञ का सम्पादन करो । परमैश्वर्यवान् परमात्मा के लिये यह यज्ञ ब्रह्मगोचर होने के कारण दुरवगाह्य, पवित्र अनुराग अथवा गंगा आदि पुण्य नदियों के जल से अभिषेचन से युक्त अन्नादि रसों से युक्त अथवा प्रेमरस से अन्वित मधु के समान सुस्वादु रस अथवा प्रेम से युक्त, दुग्ध के समान सुस्वादु अथवा सरस अर्चन से समन्वित है । भाव का ग्रहण करनेवाले परमात्मा के द्वारा अतिशय आदर से ग्राह्य तथा देवताओं के द्वारा बहुत मान से संयुक्त तुम मेरे प्रभु की आराधना के साधन होने के कारण मुझे कृतार्थ करो । स्वामी दयानन्द द्वारा उल्लिखित अर्थ अनुपपन्न है । पवित्र वाणी से ही कर द्वारा प्राप्त धन का दान सम्भव नहीं है । कर के धन में गम्भीर, ऊर्जस्वान् आदि विशेषण भी संगत नहीं होते । इन द्वितीयान्त पदों के साथ ' निग्राभ्याः ' शब्द का सम्बन्ध करना भी असंगत है । एकवचन तथा बहुवचन की विषमता भी है । यह प्रजा का विशेषण भी नहीं है, क्योंकि ' कृधि ' इस एकवचन से विरोध है । श्रुतिवाक्यों का विरोध तो स्पष्ट प्रदर्शित ही है ॥ ३० ॥

मन्त्रार्थ - हे निग्राम्य, तुम मेरे मन को तृप्त करो, मेरे प्राण को, मेरी नेत्रेन्द्रिय को, मेरे कानों को, मेरी आत्मा को और मेरी प्रजा को तृप्त करो, मेरे पशुओं को और मेरे आत्मीय जनों को तृप्त करो । मेरे बन्धु - बान्धव किसी प्रकार की तृष्णा से कातर न हों ॥३१ ॥

भाव्यसार - ' मनो मे ' इत्यादि मन्त्र से भी पूर्वोक्त मन्त्र की भांति जल की प्रार्थना की जाती है । शतपथ श्रुति में तदनुकूल व्याख्यान उपदिष्ट है ।

पृष्ठ 295

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 295 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३१ ] वेदार्थपारिजातभाष्यसहिता ७१ तर्पणीयास्तु बहव इति कथं स्वल्पेन तर्पणसाधनेन बहूनां तर्पणम्, कथं वा तासामपां तादृशी शक्तिरिति चेत्तत्राह श्रुतिः - ' रसो वा आपस्तास्वेवैतामाशिषमाशास्ते सर्वं च म आत्मानं तर्पयत ' ( श. ३।९ ।४।७ ) । अपां रसरूपत्वात् तास्वप्स्वेवैतां तृप्तिरूपामाशिषमाशास्ते, अतः सारवतामाशासनं युक्तमेव । मनआदिकं सर्वं संगृह्यानुवदति सर्वं च मे आत्मानं प्रजां चेति विविच्यानुवादः । अध्यात्मपक्षे तु- - हे पूजासम्भाराः, यूयं परमात्मपूजाङ्गतामुपगता मे ममार्चकस्य मनोवागादीन् तर्पयत । स्वसम्भोगबुद्ध्या सेविता विषया अनादिकालादारभ्याद्य यावत्तृष्णावर्धका एव जाताः । त एव भगवदाराधनोपयुक्ताः सन्तः ' मत्प्रसादं तु निर्गुणम् ' इति श्रीमद्भागवतोक्तरीत्या स्वयं शुद्धा गुणातीता भूत्वाऽऽराधकानामपि गुणातीततामापाद्य मनोवागादीन् तर्पयन्ति मनोवागादीनि च प्रीतिकराणि भवन्ति । तदनुसन्धानेन मनः, वर्णनेन वागू, आघ्राणेन प्राणः, दर्शनेन चक्षुः, श्रवणेन श्रोत्रं तत्प्रसादलेशेन प्रजाः पशवो गणाश्च तृप्यन्ति, गणानां तृष्णाविवृद्ध्युपशान्तिर्भवति । एवं स्वस्थेन्द्रियमनस्कस्तृप्तप्रजस्तृप्तपशुस्तृप्तगणोऽनुरक्तगणः साधकोऽनायासेन भगवत्समर्पितपूजासम्भारप्रसादात् ' परात्परं पुरुषमुपैति दिव्यम् ' ( मुण्डको ३१२१८ ) इति श्रुत्यनुसारेण परात्परं दिव्यं पुरुषमुपैति । दयानन्दस्तु – ‘ हे सभाजनाः प्रजाजना वा, यूयं स्वगुणैर्मे मम मनस्तर्पयत वाचं प्राणं चक्षुः श्रोत्रं म आत्मानं प्रजां पशून् गणान् तर्पयत । यतो मे गणा मा वितृषन् तृषिता मा भवन्तु ' इति, तदपि यत्किञ्चित्, प्रजानामल्पज्ञानां तथा शक्त्यभावात् । तथाहि - प्रजा अल्पज्ञा अल्पशक्तयश्च जीवा एव, ते कथं सभापतेर्मनश्चक्षुरादीन् तर्पयितुं शक्ष्यन्ति । गुणैस्तु मनस्तुष्यति । प्रजाश्च गणेष्वेवान्तर्भवन्ति । तथा च कथं गणैरेव गणतर्पणम्? किञ्च, मा वितृषन् गणा मा तृषिता भवन्तु ' इति संस्कृतव्याख्याने, हिन्दीव्याख्याने तु ' उदासीना मा भूवन् ' इत्युक्तम्, तदेतदुभयमप्यसङ्गतम्, विपूर्वस्य तृषेरुदासीनार्थत्वे मानाभावात् । श्रुत्या तु स्पष्टमेवात्राप एव सम्बोध्यत्वेनाङ्गीकृताः । तासामेवाल्पशक्तित्वमाशङ्क्य रसरूपत्वेन तत्समाधानमुक्तम् ॥ ३१ ॥

अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है- हे पूजा के संभारों, तुम परमात्मा की पूजा के साधन होकर मुझ पूजक के मन, वाणी आदि को तृप्त करो । अपने भोग की बुद्धि से सेवन किये गये विषय अनादि काल से लेकर आज तक केवल तृष्णावर्धक ही हुए हैं । वे ही भगवान् की आराधना में विनियुक्त होने पर स्वयं शुद्ध गुणातीत होकर आराधकों को भी गुणातीत बनाते हुए मन, वाणी आदि को तृप्त करते हैं, मन, वाणी आदि के प्रीतिकारक हो जाते हैं । उसके अन्वेषण से मन, वर्णन से वाणी, आघ्राण से नासिका, दर्शन से नेत्र, श्रवण से कान, उसके प्रसाद कण से प्रजाएं, पशु तथा गण तृप्त होते हैं, गणों को शान्ति प्राप्त होती है । इस प्रकार स्वस्थ इन्द्रियों तथा मन से युक्त, तृप्त प्रजाओं, पशुओं तथा गणों से अन्वित, अनुरक्त गणों वाला साधक अनायास ही भगवान् को समर्पित पूजा - संभार के प्रसाद से परात्पर दिव्य पुरुष को प्राप्त करता है । स्वामी दयानन्द द्वारा निरूपित अर्थ संगत नहीं है । प्रजा तो अल्पज्ञ और अल्पशक्ति वाले जीव ही हैं । वे सभापति के मन, चक्षु आदि को कैसे तृप्त कर सकते हैं? संस्कृत व्याख्या में ' गण तृषित न हों ' तथा उसके ही हिन्दी अर्थ में ' उदासीन न हों ' कहा गया है, ये दोनों ही अर्थ असंगत हैं । वि उपसर्ग पूर्वक तृष धातु का औदासीन्य अर्थ करने में कोई प्रमाण नहीं है | श्रुति के द्वारा तो जल ही यहाँ संबोधनीय माने गये हैं ॥ ३१ ॥

पृष्ठ 296

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 296 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७२ शुक्लयजुर्वेदसंहिता [ अ. ६ इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य॒ त्वाऽऽदि॒त्यव॑त॒ इन्द्रा॑य॒ त्वाऽभिमति॒घ्ने । श्ये॒नाय॑ त्वा सोम॒भृतेऽग्नये॑ त्वा रायस्पोषदे ॥३२ ॥

" य एष उपाध्शुसवनः स विवस्वानादित्यो निदानेन सोऽस्यैष व्यानः ' ( श. ३ ९ ।४।७ ) । उपांशुग्रहार्थं सोमोऽभिधूयते येन स उपांशुसवनः पाषाणो निदानेन विवस्वत्संज्ञक आदित्य एव तस्यैव तदात्मनावस्थानात् । स एष यज्ञस्य व्यानः, प्राणापानरूपयोरुपांश्वन्तर्यामयोर्मध्ये स्थाप्यत्वात्, ' यः प्राणापानयोः सन्धिः स व्यानः ’ ( छा.उ. ५ | ३ | ३ ) इति श्रुतेः । तस्य पाषाणस्योपांशुसवन इति वैदिकी संज्ञा व्यवहारार्था । ' तमभिमिमीते । घ्नन्ति वा एनमेतद् यदभिषुण्वन्ति तमेतेन प्रन्ति तथात उदेति तथा सञ्जीवति यद्वेव मिमीते तस्मान्मात्रा मनुष्येषु मात्रो सोमं यो चाप्यन्या मात्रा ' ( श. ३ । ९ ४ ८ ) । तमुपांशुसवनमभि तस्योपरि सोमं मिमीते क्रयकालिकमानेन संस्कुर्यात् । घ्नन्तीत्यादिनाभिषवस्य यद्वेत्यादिना मानस्य च स्तुतिः । उशब्दोऽप्यर्थकः । यापि मात्रा सोमे कृता तस्मात् सोमस्य मितत्वान्मनुष्येषु व्यवहारार्थं प्रस्थकुडवाढकद्रोणखार्यादिरूपा मात्राः प्रसिद्धाः | या चाप्यन्या • एकद्वित्र्यादिसंख्या - प्रयुक्ता सापि मात्रा सोममानप्रयुक्तैव । स मिमीते । इन्द्राय त्वा.... ' ( श. ३ | ९ | ४ | ९ ) इत्यादिना सोमोन्माने मन्त्रं विदधाति । तदुक्तं कात्यायनेन - ' उपांशुसवने सोमं मिमीत इन्द्राय त्वा वसुमते रुद्रवत इति पञ्चकृत्वः प्रतिमन्त्रम् ' ( का.श्रौ. ९ १४१७ ) | अध्वर्युरुपांशुसवनमधिषवणचर्मणि निधाय पञ्चवारं मिमीते सोमस्य मानमियत्तां कुर्यात् । पञ्चभिर्मन्त्रैः प्रतिमन्त्रमेकैकं सोममुष्टिमुपांशुंसवनस्योपरि निक्षिपेदित्यर्थः । पञ्च यजूंषि सौमानि । तत्र प्रथमम् – हे सोम, त्वा त्वाम् इन्द्राय इन्द्रार्थं मिमे इति शेषः, परिच्छिनद्मीत्यर्थः । कीदृशायेन्द्राय? वसुमते वसवोऽस्य सन्तीति वसुमान् 7 तस्मै वसुसंज्ञकप्रातः सवनदेवतावते । रुद्रवते रुद्राः सन्त्यस्येति रुद्रवान्, तस्मै रुद्रनामकमाध्यन्दिनसवनदेवतावते । अथ द्वितीयम् - इन्द्राय त्वादित्यवते आदित्यनामकतृतीयसंवनदेवतावते इन्द्राय हे सोम, त्वां मिमे । अथ तृतीयम् - अभिमातिने अभिमातीन् शत्रून् हन्तीत्यभिमातिहा तस्मै अभिमातिघ्ने शत्रुहन्त्रे, ' सपत्नो वाभिमातिः ' इति श्रुतेः । इन्द्राय त्वा त्वां मिमे इयत्तां निर्धारयामि । अथ तुरीयम् - सोमभृते सोमं हरतीति सोमभृत्, ' हग्रहोर्भ‍ न्दसि ' ( ५ ). सू. ८/२/३२ ) इति हस्य भः । तस्मै सोमाहरणकर्त्रे श्येनाय श्येनपक्षिरूपधारिण्यै गायत्र्यै हे सोम, त्वां मिमे परिच्छिन्नं करोमि, ' गायत्री श्येनो भूत्वा दिवः सोममाहरत् ' ( श. ६ | ९ | ४ | १० ) इति श्रुतेः । अथ पञ्चमम् - रायस्पोषदे रा लक्ष्मीस्तस्याः पोषो वृद्धिस्तां ददातीति रायस्पोषदस्तस्मै धनपुष्टिदात्रेऽग्नये त्वा त्वां मिमे परिच्छिनद्मि । मन्त्रार्थ - हे सोम, वसुनामक देवता से युक्त माध्यन्दिन सवन के रुद्र देवता से युक्त इन्द्र देवता के निमित्त तुमको परिमित करता हूँ । हे सोम, तीसरे सोम के आदित्य देवता के साथ वर्तमान इन्द्र देवता के निमित्त तुमको परिमित करता हूँ । हे सोम, शत्रुघाती इन्द्र देवता के निमित्त, धन और पुष्टि देने वाले अग्नि देवता के निमित्त तुमको परिमित करता हूँ ॥३२ ॥

भाष्यसार - ' इन्द्राय त्वा ' इत्यादि पांच मन्त्रों से अध्वर्यु उपांशुसवन पर पांच बार सोमलता को मुष्टिपरिमित नाप कर रखता है । कात्यायन श्रौतसूत्र ( ९ / ४ / ७ ) में यह याज्ञिक विनियोग निरूपित है । शतपथ ब्राह्मण में याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ उपदिष्ट है ।

पृष्ठ 297

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 297 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३२ ] वेदार्थपारिजातभाष्यसहिता ७३ शतपथे विशेषतो व्याख्यानम् । तथाहि - ' इन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय त्वेति वसुमते रुद्रवत इति तदिन्द्रमेवानु वसूंश्च रुद्रांश्चाभजतीन्द्राय त्वादित्यवत इति तदिन्द्रमेवान्वादित्यानाभजतीतीन्द्राय त्वाभिमातिघ्न इति सपत्नो वाभिमातिरिन्द्राय त्वा सपलन इत्येवैतदाह सोऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते देवेभ्यः ' ( श.३ | ९ | ४ | ९ ) । इन्द्रो वै यज्ञस्य सोमस्य देवता - ' प्रातः सुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते । समृभुभिः पिबस्व रत्नधेभिः ॥ ' ऋ (. सं. ४ | ३२ | ७ ) इत्यादिमन्त्रलिङ्गादिन्द्रस्य सवनत्रये प्राधान्याद् वसुमते रुद्रवत इत्यादौ वस्वादेरिन्द्रशेषत्वप्रतीतेः । इन्द्रं प्रधानभूतं मुख्यं भागिनं कृत्वा वस्वादीनप्यन्वाभजति पश्चाद्भागिनः करोति, इन्द्रस्यानुचरान् कृतवान् भवतीत्यर्थः । अभिमातिशब्दः सपनवाची अस्मिन् मन्त्रे । देवतान्तरसम्बन्धवैधुर्यं प्रशंसति – सोऽस्योद्धार इति । यथा धान्यादिविभागसमये मुख्यस्य राज्ञो देयों भागः प्रातिस्विकः । तं प्रथममेवापोद्धृत्य पश्चात् स्वं स्वमंशं विभजन्ति, तथैव रुद्रवस्विन्द्रेभ्यो देवतान्तरसहभावमन्तरेण केवल उद्धारः कृतो भवतीत्यर्थः । श्रेष्ठत्वे बीजं चाभिमातिहन्तृत्वमेव । यतोऽयं सपत्नहन्ता अत उद्धारार्हः । ' श्येनाय त्वा सोमभृत इति । तद् गायत्र्यै मिमीतेऽग्नये त्वा रायस्पोषद इत्यग्निर्वै गायत्री तद् गायत्र्यै मिमीते स यद्गायत्री श्येनो भूत्वा “ दिवः सोममाहरत् तेन सा श्येनः सोमभृतेनैवास्या एतद्वीर्येण द्वितीय मिमीतें ' ( श. ३ | ९ | ४ | १० ) । ' श्येनाय त्वा, अग्नये त्वा ' इति वाक्यद्वयस्य तात्पर्यमाह - सोमभृते श्येनाय । सोमोन्माने कृते कथं गायत्र्यर्थत्वमित्याशङ्क्य तदुपपादयति – यद्गायत्री श्येनो भूत्वेति । ' अग्नेर्गायत्र्यभवत् ' इति मन्त्रवर्णाद् गायत्र्या निदानमग्निः । अतो जन्यजनकयोरभेदोपचारेण गायत्र्यर्थतोपपत्तिः । ' अथ यत्पञ्चकृत्वो मिमीते । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात् पञ्चकृत्वो मिमीते ' ( श. ३ | ९ | ४ | ११ ) । एकमन्त्राणि कर्माणीति न्यायस्यौत्सर्गिकत्वान्मन्त्राणां पञ्चत्वान्मानमपि पञ्चकृत्व इत्यर्थसिद्धम् । गवामयनादिसत्रस्य संवत्सरसम्मितयज्ञत्वं प्रसिद्धम् । तस्मात् पञ्चकृत्वो मानं प्रशस्यते । अध्यात्मपक्षे - हे सर्वेश्वरसमर्चनसम्भार, इन्द्राय परमैश्वर्यवते परमेश्वराय त्वा त्वां गृह्णामि । कीदृशाय परमेश्वराय? वसुमते वसुदेवतायुक्ताय तथा रुद्रवते रुद्रदेवतायुक्ताय श्येनाय श्येनरूपधारिगायत्रीयुक्ताय अग्नये रायस्पोषकाय धनपोषदायाग्नये त्वा गृह्णामि । अभिमाति सपत्नघातिने परमात्मने त्वां गृह्णामि । सर्वे देवाः परमेश्वरस्यैवाङ्गोपाङ्गभूता इति तत्तदङ्गविशिष्टायाङ्गिस्वरूपाय परमेश्वराय त्वां गृह्णामि । दयानन्दस्तु – ' हे सभापते, वयमिन्द्राय परमैश्वर्याय वसुमते बहवो वसवश्चतुर्विंशतिवर्षब्रह्मचर्यसम्पन्ना विद्वांसो विद्यन्ते यस्मिन् कर्मणि तस्मै कर्मणे, रुद्रवते कृतचतुश्चत्वारिंशद्वर्षब्रह्मचर्या वीराः शत्रुरोदयितारो रुद्रा भवन्ति यस्मिन् कर्मणि तस्मै इन्द्राय उत्तमगुणाय त्वा त्वाम्, आदित्याय कृताष्टचत्वारिंशद्वर्षब्रह्मचर्याः सूर्यवद्विद्वांसो अध्यात्मपक्ष में मन्त्रार्थ इस प्रकार है- हे सर्वेश्वर की पूजा के संभार, मैं तुमको परमैश्वर्यवान् वसु देवता से समन्वित, रुद्रदेव से युक्त, श्येनरूप धारण करने वाली गायत्री से अन्वित, धन तथा पुष्टि प्रदान करने वाले अग्निरूपी शत्रुओं को विनष्ट करने वाले परमात्मा के लिये तुम्हारा ग्रहण करता हूँ । सभी देवगण परमेश्वर के ही अंग उपांग हैं, अतः उनके सहित अंगी स्वरूप परमेश्वर के लिये तुम्हारा ग्रहण करता हूँ । स्वामी दयानन्द द्वारा उल्लिखित अर्थ निर्मूल है, क्योंकि मन्त्र में ' वृणुमः ' यह शब्द नहीं है । हमारे अर्थ में तो शतपथ श्रुति तथा श्रौतसूत्र के अनुसार वाक्यांग क्रियापद का ज्ञान हो जाता है । श्रुतियों में इस प्रकार के कोई विशेष कर्म भी नहीं उपदिष्ट हैं, जिनमें चौबीस वर्षीय ब्रह्मचर्य आदि से युक्त विद्वानों का ही विनियोग हो । अतः यह अर्थ केवल अझ जनों के बहलाने के लिये

पृष्ठ 298

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 298 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७४ शुक्लयजुर्वेदसंहिता अ. ६ [ भवन्ति यस्मिन् कर्मणि तस्मै इन्द्राय परमविद्याप्रकाशेनाविद्याविदारकाय त्वां सोमभृतेऽग्नये विद्युदादये ' वा मिमे , धनस्य ' इति पुष्टिप्रदे त्वां वृणुमः ' इति, तदपि निर्मूलम्, मूले वृणुम इति पदाभावात् । सिद्धान्ते तु श्रुतिसूत्रानुसारेण सूत्रेषु शेषो ज्ञायते । शतपथश्रुत्यैव मन्त्रा व्याख्याता इति तद्विरुद्धमेवेदं व्याख्यानम् । विद्वांसो न च श्रुतिषु नियुज्यन्ते । कानिचित्तादृशानि कर्माणि चोदितानि यत्र चतुर्विंशतिवर्षब्रह्मचर्यसम्पन्नादयो , तत्र तेषामशक्तेः ॥ ३२ ॥

तस्मान्मूढजनप्रतारणमेवैतत् । न च वस्वादिशब्दानां तथाविधार्थाः सम्भवन्ति

यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्या॑ दु॒राव॒न्तरि॑क्षे ।

तेना॒स्मै॑ यज॑मानायो॒रु रा॒ये क्रुध्यधि॑ दा॒त्रे वो॑चः ॥३३ ।

विधत्ते । ' तमभिमृशति । यत्ते सोम दिवि.... ' ( श. ३ | ९ | ४ | १२ ) | मितस्य सोमस्य समन्त्रकमभिमर्शनं प्रक्षिप्तस्य कात्यायनोऽपि तथैवाह – ' यत्त इति मितालम्भनम् ' ( का.श्रौ. ९ ।४।८ ) । अध्वर्युरुपांशुसवनं पञ्चवारं कार्यम् । सोमस्य यत्त इति मन्त्रान्ते स्पर्शं कुर्यात् । अत्र क्षुल्लकाभिषवार्थमल्पानामंशूनां मितादपकर्षणं विपरीतबृहती । उपांशुसवनमद्रिं होतृचमसात् पात्रान्तरे स्वल्पा निग्राभ्याश्च पृथक्कृत्वा यत्नेन निदध्याच्च । सोमदेवत्या , दिवि द्युलोके ते त्वदीयं यत्राद्यतृतीयौ पादावष्धर्णौ द्वितीयतुरीयौ द्वादशार्णौ सा विपरीतबृहती । मन्त्रार्थस्तु - हे षोडशकलात्मकः सोम सोमः, तेन ज्योतिर्द्युतिमत्त्वमासीत् । यत्पृथिव्यां वल्लीरूपः सोमः, यदपि उरौ विस्तीर्णेऽन्तरिक्षे शेषः । सर्वेण तव स्वरूपेण सहितः सन्नस्मै अभिषुण्वते यजमानाय राये तस्य धनार्थमुरु कृधि, तव शरीरमिति , अधिकोऽयं तेन ज्योतिषाऽस्मै यजमानाय राये राया तृतीयार्थे चतुर्थी, समृद्धमुरु विस्तीर्णं स्थानं कृधि । किञ्च यज्ञे उरु विस्तीर्णं यजमानो भवत्विति दात्रे वोचः फलप्रदायेन्द्राय ब्रूहि । यद्वा विभक्तिव्यत्ययेनास्य यजमानस्य अधि वोचः अर्धिकं स्वशरीरं कृधि, राये धनाय ऋत्विजां दक्षिणाप्राप्तये उरु शरीरं कृधि । किञ्च, दात्रे यजमानाय ब्रूहि । यजमानाय कृत्स्नशरीरोऽयमागत इति ब्रूहि । मैव सर्वेणेवात्मना शतपथेऽस्य मन्त्रस्य निदानमुक्तम्- ' यत्र वा एषोऽग्रे देवाना हविर्बभूव तद्धेक्षाञ्चक्रे लोकान्तरस्थाय्यंशस्य देवाना हविर्भूवमिति स एतास्तिस्रस्तनूरेषु लोकेषु विन्यधत्त ' ( श. ३ | ९ | ४ | १२ ) । सोमस्य सोमो देवानां हविर्बभूव यत्परिग्रहाभिधानं तदाख्यायिकामुखेन प्रशंसति – यत्र वा एष इति । यत्र काले अग्रे पूर्वं विभज्य तत् तदा सर्वेणात्मना देवानां हविर्मा भूवं न भवामीति विचार्य एषु त्रिषु लोकेषु स्वास्तनूर्विन्यधत्त उस अर्थ में उन शब्दों की शक्ति ही हो सकता है । वसु आदि शब्दों का जो अर्थ बताया गया है, वह भी संभव नहीं है, क्योंकि नहीं है || ३२ || इस मन्त्रार्थ - हे सोम, द्युलोक में पृथ्वी पर और विस्तीर्ण अन्तरिक्ष लोक में जो तुम्हारी का विस्तार ज्योति करो है, उसके । ऋत्विक् प्रभाव गणों से की यजमान के निमित्त इष्ट धन का विस्तार करो, अथवा इसके यज्ञ में अपने शरीर सम्पूर्ण ज्योति के साथ यहाँ धनप्राप्ति के निमित्त अपने शरीर का विस्तार करो, दाता यजमान के निमित्त अपनी आओ ॥३३ ॥

से अध्वर्यु द्वारा रखे भाष्यसार – कात्यायन श्रौतसूत्र ( ९ / ४१८ ) में प्रतिपादित याज्ञिक विनियोग के अनुसार ' यत्ते ' उपदिष्ट इस ऋचा है । गये सोम का स्पर्श किया जाता है । शतपथ ब्राह्मण में भी याज्ञिक प्रक्रिया के अनुकूल व्याख्यान

पृष्ठ 299

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 299 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म. ३३-३४ ] वेदार्थपारिजातभाष्यसहिता ७५ स्थापितवान् । एतन्निदानोऽयं मन्त्रः । ' तद्वै देवा अस्पृण्वत । तेऽस्यैतेनैवैतास्तनूराप्नुवन् स कृत्स्न एव देवाना हविरभवत्तथो एवास्यैष एतेनैवैतास्तनूराप्नोति स कृत्स्न एव देवाना हविर्भवति तस्मादेवमभिमृशति ' ( श. ३ | ९ | ४ | १३ ) । तद्वै वृत्तान्तं देवा अस्पृण्वत ' स्पृ प्रीतिवलनयोः ' बलोपलक्षितं व्यापारं कृतवन्तः, ज्ञातवन्तस्ते देवा अस्याग्नेर्लोकत्रयस्थितास्तनूः, एतेन यत्ते सोम इत्यादिमन्त्रेण आप्नुवन् प्राप्तवन्तः । स कृत्स्नोऽविकलो भवति देवानां हविरभवत् । तथा सति य एतेन मन्त्रेणाभिमृशति स कृत्स्नः सर्व एव देवानां हविर्भवति । अध्यात्मपक्षे – हे सोम साम्बसदाशिव, यत्ते दिवि द्युलोके सूर्यात्मकं ज्योतिः, यत्पृथिव्यामग्न्यात्मकं ज्योतिः, यच्चरौ विस्तीर्णेऽन्तरिक्षे वाय्वात्मकं ज्योतिः, तेन सर्वरूपेण अस्मै यजमानाय स्वकर्मसमर्पणेन तवाराधकाय तस्य राये भौतिकायाध्यात्मिकाय ज्ञानवैराग्यविवेकंरूपाय उरु विस्तीर्णमनुग्रहै कृधि कुरु । दात्रे त्वदर्थं सर्वस्वसमर्पयित्रे यजमानाय अधि अधिकं वोचः प्रभूताभिर्वाग्भिराश्वासयेत्यर्थः । --दयानन्दस्तु – ' हे सोम सभापते, ते यद् दिवि पृथिव्यां यदुरावन्तरिक्षे ज्योतिरिव राज्यकर्मास्ति, तेन त्वं * दात्रेऽस्मै यजमानायोरु कृधि रायेऽधि वोचश्च ' इति, तच्च परस्परं विप्रतिषिद्धमेव राज्यकर्मणे दिवि सूर्ये विस्तृतेऽन्तरिक्षे सत्त्वे मानाभावात् । मूले तु ज्योतिः पदमस्ति । तस्य ज्योतिरिवेत्यर्थकरणं गौणार्थाश्रयणमेव । तत्रापि राज्यकर्मणो रूपराहित्येन ज्योतिस्तुल्यत्वमपि न सम्भवत्येव । तेन ज्योतिषा दात्रे परोपकारकर्त्रे यजमानाय उरु कृधि अत्यन्तमुपकारं कुरु ' इति चासङ्गतम्, ' दात्रे ' इत्यनेनैव तदर्थसिद्धौ यजमानपदवैयर्थ्यात्, उरुपदस्यात्यन्तोपकारार्थत्वे मानाभावाच्च । एवमेव ' धनवृद्धये अधिवोचः अधिकराज्यप्रबन्धं कुरु ' इत्यपि निर्मूलमेव, अधिपूर्वस्य वचेस्तथार्थत्वे मानाभावात् । तादृशार्थकरणे स्वेच्छाचारित्वमेव । यदुक्तम्- ' मन्त्रोऽयं शतपथे १४-१५ योर्व्याख्यातः ' इति तदप्यसङ्गतम्, तयोरस्यासम्बद्धत्वात् ॥ ३३ ॥

श्वा॒त्रा स्था॑ वृत्र॒तुरो॒ राधो॑गूर्ता

अ॒मृत॑स्य॒ पत्नी॑ः ।

ता दे॑वीदे॑व॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूता॒ सोम॑स्य॒ पिबत ॥३४ ॥

अध्यात्मपक्ष में मन्त्रार्थ यह है- हे साम्ब सदाशिव, द्युलोक में आपकी जो सूर्यरूपी ज्योति है, पृथिवी में आपकी अग्निरूपी ज्योति है तथा विस्तीर्ण अन्तरिक्ष में वायुरूपी ज्योति है, उस अपने सम्पूर्ण रूप से सर्वस्व समर्पण के द्वारा आराधना करने वाले. यजमान के लिये भौतिक, आध्यात्मिक ज्ञान, वैराग्य, विवेक प्राप्त्यर्थ महान् अनुग्रह करें । आपके लिये सर्वस्व समर्पित करने वाले यजमान के लिये प्रभूत वचनों से आश्वासन प्रदान करें । स्वामी दयानन्द द्वारा उल्लिखित अर्थ परस्परविरुद्ध ही है । राज्य कर्म के लिये द्युलोक, सूर्य, विस्तृत अन्तरिक्ष के होने में कोई प्रमाण नहीं है । मूल मन्त्र में ज्योति शब्द है । उसका अर्थ ' ज्योति के समान ' करना गौण अर्थ का अवलम्बन ही है । ' उरु ' शब्द का ' अत्यन्त उपकार ' अर्थ करने में भी कोई प्रमाण नहीं है । इसी प्रकार ' अधिक राज्यप्रबन्ध करो ' यह भी निर्मूल है । अधि उपसर्ग सहित वच् धातु का अर्थ इस प्रकार करने में कोई प्रमाण नहीं है । यह स्वेच्छाचारिता ही है || ३३ || मन्त्रार्थ - हे जलदेवता, तुम शीघ्र कार्यकारी शत्रुह्रदय के मर्दनकारी और इष्ट कामना को देने वाले हो, सोम के पालक हो । हे सम्पूर्ण निग्राभ्य देवताओं, तुम इस यज्ञ के देवताओं के साथ यहाँ आओ, अनुज्ञा प्राप्त कर सोम रस का पान करो ॥ ३४ ॥

पृष्ठ 300

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ३ - स्वामी करपात्री, पृष्ठ 300 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७६ शुक्लयजुर्वेदसंहिता [ अ. ६ ‘ अथ निग्राभ्याभिरुपसृजति ' ( श. ३ | ९ | ४ | १४ ) । उपसृजतीत्यस्य मिश्रयेदित्यर्थः । मिश्रणमाख्यायिकामुखेन प्रशंसति - आपो ह वै वृत्रं जघ्नुः तेनैवैतद्वीर्येण केनाप्यवध्यो वृत्रोऽस्माभिर्हत इत्येवमात्मकेन एतद् · इदानीमप्यापः स्यन्दन्ते वेगेन गच्छन्ति । तस्मात् स्यन्दमाना एना न किञ्चिदपि वस्तु लोष्टकाष्ठपाषाणादिकं प्रतिधारयति प्रतिबध्नाति, किन्तु ता आपः स्वमेव वशं स्वतन्त्रं यथा स्यात्तथा चेरुरगच्छन् । स्वातन्त्र्ये कारणमाह- कस्मै तु वयं तिष्ठेमहि याभिरस्माभिर्वृत्रो हतः । सर्वस्यापि लोकस्य घातको वृत्र आसीत् सोऽप्यस्माभिर्हतः, अतो वयं कस्मै अन्यस्मै तिष्ठेमहि आत्मानं प्रकाशयेमेति । इत्थमपां स्वातन्त्र्यं प्रतिपाद्य, तासामिन्द्राधीनत्वं प्रतिपादयति- ' सर्वं वा इदमिन्द्राय तस्थानमासेति ' ( श. ३ | ९ | ४ | १४ ) । तस्थानमितितिष्ठतेः कानचि रूपम्, ( पा. सू. ३1२1१०५-१०६ ) इति सूत्राभ्यां रूपसिद्धिः । योऽयं दुर्वहत्वेन प्रसिद्धो वायुः सोऽपीन्द्राधीनः स्थितवान्, किमु वक्तव्यं सर्वमेतदिन्द्राधीनं स्थितमिति । ' स इन्द्रोऽब्रवीत् । सर्वं वै म इदं तस्थानं यदिदं किञ्च तिष्ठध्वमेव म इति ता होचुः किं नस्ततः स्यादिति प्रथमभक्ष एव वः सोमस्य राज्ञ इति तथेति अस्मा अतिष्ठन्त तास्तस्थाना उरसि न्यगृह्णीत तद्यदेना उरसि न्यगृह्णीत तस्मान्निग्राभ्या नाम तथैवैना ता एतद्यजमान उरसि निगृह्णीते स आसामेष प्रथमभक्षः सोमस्य राज्ञो यन्निग्राह्याभिरुपसृजति ' ( श. ३ | ९ | ४ | १५ ) । स इन्द्र एवमब्रवीत् - यत्किञ्च इदं भूतजातं तन्मदर्थं स्थितम्, अतो यूयमपि तिष्ठध्वं न गच्छत । तथोक्ता आपो वयं तिष्ठेमहि, नोऽस्माकं ततः किं लब्धं स्यादित्यब्रुवन् । अथ तासामिन्द्रः सोमराज्ञः प्रथमभक्षम् देवेभ्यः प्राग् अभिषवकाले एष वोऽस्त्विति प्रादात् । ता अस्तु तथेत्यङ्गीकृत्य इन्द्रायातिष्ठन्त इतरेभ्यो प्रसङ्गान्निग्राभ्याशब्दनिर्वचनमाह - तास्तस्थाना उरसि न्यगृह्णीत । इन्द्रेणोरसि निगृहीतत्वान्निग्राभ्या इति तासां । नाम सम्पन्नम् । कर्मणि कृत्यः । तथैवैता एतद्यजमान उरसि निगृह्णीत इत्यत्र निगृह्णीयादिति विधिरुन्नेयः । न चात्र प्रथमभक्षो न श्रूयते? इत्याशङ्क्याभिषवकाले ताभिः संसर्ग एव भक्ष इत्याह- स आसामेष सोमस्य राज्ञो यन्निग्राह्याभिरुपसृजति । तदुक्तं कात्यायनेनापि - ' निग्राभ्यासु वाचयत्युरस्येना निगृह्य प्रथमभक्षः निग्राभ्या स्थेति ' ( का.श्रौ. ९ / ४ / ६ ) । यजमानः स्वकीयोरसि निग्राभ्या निधाय आलभ्य च निग्राभ्या स्थेति मन्त्रं पठेत् अध्वर्युश्च पाठयेत् । ' श्वात्रा स्थेत्यासिञ्चति निग्राभ्या इति ' ( का.श्रौ. ९ | ४ | १० ) | अध्वर्युः प्रक्षिप्तेषु सोमेषु, निग्राभ्या अपो होतृचमसेन प्रक्षिपेदिति सूत्रार्थः । पथ्याबृहती । तृतीयो द्वादशार्णोऽन्ये त्रयोऽथर्णाः पादा यस्याः सा पथ्याबृहती । इयं द्व्यधिका । हे आपः, देवीर्देव्यः । यूयं कीदृश्यः? श्वात्राः । श्वात्रमिति क्षिप्रनाम । क्षिप्रं कार्यकारिण्यः शिवा वृत्रतुरः, तूर्वतिर्वधकर्मा, वृत्रं दैत्यं तूर्वन्ति हिंसन्तीति वृत्रतुरः, क्विपि ' राल्लोपः ' ( पा. सू. ६।४।२१ ) इति वलोपः । राधोगूर्ता राधो धनं गुरन्ते उद्यच्छन्ति ददतीति राधोगूर्ता: । ' गुरी उद्यमने ' इत्यस्मात् ' न सन्निषत् ' ( पा. सू. ८/२/६१ ) इत्यादिना कर्तरि निष्ठा नत्वाभावश्च निपात्यते | अमृतस्य सोमस्य पत्नीः पालयित्र्यः । तथाविधा यूयं देवत्रा देवान् प्रतीमं यज्ञं नयत प्रापयत । किञ्च, यूयम् उपहूता अनुज्ञाताः सत्यः सोमस्य सोमं पिबत । अयमेवाभिप्रायः शतपथे व्यक्तः. ' स भाष्यसार - कात्यायन श्रौतसूत्र ( ९ / ३ / ११, ९ / ४ / १० ) में प्रतिपादित याज्ञिक प्रक्रिया के अनुसार ' श्वात्रा स्थ ' इस ऋचा से अध्वर्यु निग्राभ्या संज्ञक जल से सोम का उपसेचन करता है । शतपथ ब्राह्मण में आख्यायिका के द्वारा याज्ञिक विनियोगके अनुकूल व्याख्या उपदिष्ट है ।