वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री — पृष्ठ 421–426

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री · पृष्ठ 421–426

पृष्ठ 421

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 421 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३२ ] 2 वेदार्थ पारिजात भाष्यसहिता ३६७ कु॒विद॒ङ्क्त यव॑मन्त॒यवे॑ चि॒द्यथा॒ दान्त्य॑नुपूर्वं वि॒य॑ । इ॒हेहेषां कृणुहि भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्त॒ यज॑न्ति ॥ उपया॒मगृहीतोऽस्य॒ श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्र त्वा सु॒त्राम्ह्णे ॥ ३२ ॥

' ग्रहं गृह्णाति कुविदङ्गेति त्रीन् वा प्रतिदेवतमेतयैव ' ( का ० श्र ० १५ | १० | १२ ) । कुविदङ्गेति मन्त्रेण पूतायां सुरायां बदरीफलचूर्णं प्रक्षिप्यैकं ग्रहं वैकङ्कतेन पात्रेण गृह्णाति प्रतिदेवतं कुविदङ्गेत्येतयैवर्चा । तद्यथा-— कुविदङ्ग ” “ उपयामगृहीतोऽस्यश्विभ्यां त्वेति प्रथमम् । कुविदङ्ग " उपयामगृहीतोऽसि सरस्वत्यै त्वेति द्वितीयम् । कुविदङ्ग उपयामगृहीतोऽसीन्द्राय त्वा सुत्राम् इति तृतीयम् । त्र्युचं काक्षीवतस्य सुकीर्ते रार्षम् । आद्या सोमदेवत्या अनिरुक्ता त्रिष्टुप् । अङ्गशब्दः सम्बोधनवाची । कुविच्छब्दो बह्वर्थवाची । चिच्छन्दः समुच्चये । हे सोम, यथा लोके केचिद् यवमन्तः, यवा विद्यन्ते येषां ते यवादिधान्योपेताः कृषीबलाः, यवादित्वात् ' मादुपधायाश्च मतोर्वोऽयवादिभ्यः ' ( पा ० सू ० ८ २२२ ) इति मतोर्मकारस्य वकाराभावः, कुविद् यवबहुलं यवमन्यानि च गोधूमप्रियङ्ग्वादिधान्यानि, अनुपूर्वं तत्परिपाकानुक्रमेण इदं पक्वमिदमपक्वमिति वियूय विशेषेण पृथक्कृत्य क्षिप्रं दान्ति लुनन्ति ' दापू लवने ' । तथा एषां यज्वनां भोजनान्यन्नानि वस्तूनि इह यजमाने कृणुहि कुरुत । एषां केषाम्? ये यजमाना बर्हिषि उपस्थिता नम उक्ति यजन्ति । नम इत्यन्ननाम | उक्तिर्वचनम् । हविर्लक्षणमन्नमादाय उक्ति याज्यामभिधाय यजन्ति यागं कुर्वन्ति । यद्वा अङ्गेति क्षिप्रनाम | हे सोम, यथा केचिद् जनपदा यवमन्तो बहुयवाः कुविद बहुक्षेत्रं यवं चिद् वितर्क्स, चिच्छन्दो वितर्कार्थः, अनुपूर्वं आनुपूर्व्येण वियय अमिश्रित्य ( पृथक्कृत्य ) अङ्ग क्षिप्रं दान्ति लुनन्ति, एवमिहैषां यज्वनां भोजनानि अन्नानि कृणुहि कुरुत । ये बहिषो नमउक्ति यजन्ति, नमस्कारवचनं हविर्लक्षणमन्नं च यजन्ति कुर्वन्ति निति वा । यद्वा यजमाना बर्हिष उपरि स्थिता नमउक्ति यजन्ति हविर्लक्षणमन्नमादाय उक्ति याज्यामभिधाय यजन्तियागं कुर्वन्ति । हे सोम, त्वमुपयामेन गृहीतोऽसि, अश्विभ्यां त्वा त्वां गृह्णामि, सरस्वत्यै त्वा गृह्णामि, सुत्राणे रक्षकायेन्द्राय त्वां गृह्णामि । अत्र काण्वास्तु ' न जग्मुः ' इति पठन्ति । तेन ये यजमाना बर्हिषो यज्ञस्य नमउक्ति नमस्कारवचनं हविर्लक्षणमन्नं च न जग्मुः, एषां सम्बन्धीनि भोजनानि धनानि इह एतस्मिन् जमाने कृणुहि । अत्र ब्राह्मणम् -- ‘ अथ ग्रहान् गृह्णाति । एकं वा त्रीन् वैकस्त्वेव ग्रहीतव्य एका हि पुरोरुग् भवत्येकानु-वाक्यैका याज्या तस्मादेक एव ग्रहीतव्यः ' ( श ० ५।५।४।२३ ) । ग्रहग्रहणं विधत्ते - अथ ग्रहानिति । एको मन्त्रार्थ --- हे सोम, जिस प्रकार इस लोक में बहुत यव धान्य से सम्पन्न किसान बहुत से यव से पूर्ण शस्य को विचार करके क्रम से अलग करके शीघ्र काटता है, उसी तरह से अल्प मात्रा में रहने पर भी तुम देवगणों के प्रिय हो, इस यजमान के लिये तुम नाना प्रकार की भोजन सामग्री इकट्ठी कर दो, कुशा के आसन पर बैठे ऋत्विगाण हवि लक्षण वाले अन्न से याज्या का नाम लेकर याग करते हैं । हे सोम, तुम उपयाम पात्र में गृहीत हो । अश्विनीकुमार की प्रीति के निमित्त, सरस्वती देवता की प्रीति के निमित्त और सबके पालक इन्द्र देवता की प्रीति के निमित्त तुमको ग्रहण करता हूँ ॥ ३२ ॥

भाष्यसार -- कात्यायन श्रौतसूत्र ( १५/१०/११ - १२ ) में अभिहित याज्ञिक प्रक्रिया के अनुसार ' कुविदङ्ग '

पृष्ठ 422

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 422 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६८ शुक्लयजुर्वेदसंहिता [ अ ० १० । पुरोरुक पुरोऽनुवाक्या-वा ग्रहो ग्रहीतव्यस्त्रयो वा ग्रहीतव्या इति विकल्प्य एकं सिद्धान्तयति - सुत्राणे एकस्त्वेवेति ' ( श ० ५ | ५ | ४ | २४ ) इति । याज्यानामेकत्वादेक एव ग्रहीतव्यः । स गृह्णाति । कुविदङ्ग यजन्ति कुविद् बहुयवं सवं अध्यात्मपक्षे - हे परमेश्वर, यथा लोके यवमन्तो यवान्नादिमन्तः अङ्गं क्षिप्रं कृषीबलाः दान्ति लुनन्ति तथा एषां यवमयं सख्यं चिद् विचार्य अनुपूर्वम् आनुपूर्व्येण वियूय पृथक्कृत्य यजमाने कृणुहि कुरु । कीदृशास्ते? ये बहिष यज्वनां सम्बन्धीनि भोजनानि भोज्यानि वस्तूनि इह अस्मिन् , नमस्कारवचनैस्त्वां यजन्ति । हे सोम, निवेद्यं उपरि स्थिता नमउक्ति नमस्कारवचनमाश्रित्य यजन्ति गृह्णामि, पूर्वोक्तायै सरस्वत्यै, पूर्वोक्ताय हविरुपयामेन श्रद्धया त्वं गृहीतोऽसि । अश्विभ्यां पूर्वोक्ताभ्यां त्वां सुत्राणे इन्द्राय त्वां गृह्णामि । + व्याप्तविद्याभ्यां शिक्षकाभ्यामुपयाम-दयानन्दस्तु - ' हे अङ्ग राजन् यः कुविद् बह्वैश्वर्यस्त्वमश्विभ्यां विद्यायुक्तवाचे त्वा इन्द्राय परमैश्वर्याय त्वा गृहीतोऽसि ब्रह्मचर्यादिनियमैः स्वीकृतोऽसि तं सरस्वत्यै बर्हिषो वृद्धा नमउक्ति नमसोऽन्नस्योक्ति वचनं यजन्ति सुत्राम् सुष्ठु त्राणाय त्वा त्वां वयं स्वीकुर्मः । ये कृषीबला इहेह अस्मिन्नस्मिन् व्यवहारे एषां सङ्गच्छन्ते, तेभ्यः सत्कारेण भोजनानि देहि । यथा यवमन्तः वियूय बुसादिकं पृथक्कृत्य यवं रक्षन्ति तथैषां कृषीबलानां यवं चिद् अपि, अनुपूर्वं क्रमशः दान्ति लुनन्ति सम्बोध्यादेरप्रामाणिकत्वात्, कुविदित्यस्य सत्यासत्ये विविच्य रक्षणं कृणुहि ' इति, तदपि यत्किञ्चित् चिन्त्यम् । ' ये वृद्धा अन्नस्य उक्ति वचनं बह्वर्थत्वेऽपि बह्वैश्वर्यार्थत्वे मानाभावात् । बहिष्पदस्य वृद्धार्थत्वमपि भोजनानि देहीत्यध्याहारदोषोऽपि । उपमा-सङ्गच्छन्ते ' इत्यनेन नान्नाभिलाषप्रकटनमर्थः स्फुरति तेभ्यो कल्पनाबहुलमेव लङ्कारमाश्रित्य कृषीबलकर्तृकान्नपृथक्करणदृष्टान्तेन सत्यासत्यविश्लेषणपूर्वकरक्षणमित्यपि व्याख्यानम् । श्रुतिसूत्रविरोधस्तु स्फुट एव ॥ ३२ ॥

के लिये प्रदेय हवि का ग्रहण ग्रहपात्रों में किया इण्डिका से अश्विन्, सरस्वती तथा सुत्रामा इन्द्र नामक देवताओं में उपदिष्ट है । जाता है । इस याज्ञिक विनियोग के अनुकूल व्याख्यान शतपथ ब्राह्मण जो आदि अन्न से युक्त किसान जौ अध्यात्मपक्ष में अर्थ इस प्रकार है - हे परमेश्वर, जिस प्रकार जगत् में से करके जल्दी ही काट लेते हैं, इसी प्रकार यज्ञों आदि से परिपूर्ण समस्त फसल को समझ कर क्रमशः उन्हें अलग, के ऊपर बैठ कर नमस्कारात्मक वचनों सम्बद्ध भोग्य पदार्थों को इस यजमान में निहित कीजिये, जो कुशाओं तुम श्रद्धा से ग्रहण किये गये हो । पूर्वोक्त स्तुतियों से आपकी उपासना, यजन करता है । हे निवेदनीय हविर्द्रव्य, हूँ । अश्विनियों के लिये, सरस्वती के लिये तथा सुत्रामा इन्द्र के लिये तुम्हारा ग्रहण करता कुवित् शब्द का अर्थ स्वामी दयानन्दोक्त व्याख्यान संबोधनीय आदि की अप्रामाणिकता के कारण अग्राह्य है । का ' वृद्ध ' अर्थं भी विचारणीय है । ' बहुत ' होते हुए भी ' बहुत ऐश्वर्यं ' यह अर्थ करना अप्रामाणिक है । बर्हिषु शब्द से ' सत्य तथा असत्य की विवेचन-उपमा अलंकार का आश्रय लेकर किसानों के द्वारा अन्न अलग करने के उदाहरण श्रुति तथा सूत्र के वचनों का विरोध

पूर्वक रक्षा करना ' इस प्रकार की व्याख्या में भी कल्पना की ही अधिकता है ।

तो स्पष्ट है ही ॥ ३२ ॥

पृष्ठ 423

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 423 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३३ ] वेदार्थपारिजातभाष्यसहिता युव ँ

सुराम॑मश्विना॒ मम॑चावासुरे सच ।1

वि॒पाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥ ३३ ॥

३६ ९ ' ग्रहाणां युव सुरामं पुत्रमिवेति ' ( का ० श्र ० १ ९ । ६ । २० ) । द्वे ऋची सुराग्रहाणां याज्यानुवाक्ये | प्रथमा अनुवाक्या, पुत्रमिवेति याज्या | अनुष्टुप् । अश्विसरस्वतीन्द्रदेवत्या । हे अश्विनौ, युवं युवां कर्मसु निमित्तेषु कर्मकरणार्थम् इन्द्रावतमपालयतम्, स्वकर्मक्षममकुरुतम् । अवतेर्लङि मध्यमद्विवचने रूपम् । कीदृशी युवाम्? नमुचौ आसुरे असुर एवासुरस्तस्मिन्नवस्थितम् सुरामं सुराभूयं सोमं सुष्ठु रमणीयं सचा सह भूत्वा एकीभूय विपिपाना विविधं पीतवन्तौ । पिबतेर्व्यत्ययेन ह्लादित्वे शानचि रूपम् । नमुचिर्नामासुर इन्द्रस्य सखासीत् । स विश्वस्तस्येन्द्रस्य वीर्यं सुरया सोमेन सह पपो । तत इन्द्रोऽश्विनौ सरस्वतीं चोवाचाहं नमुचिना पीतवीर्योऽस्मि । ततोऽश्विनौ सरस्वती चापां फेनरूपं वज्रमिन्द्राय ददुः । तेनेन्द्रो नमुचेः शिरश्चिच्छेद ततो लोहितमिश्रः ससुरः सोमस्तदुदरादश्विभ्यां पीत्वा शुद्ध इन्द्रायापित इति तदर्पणेनेन्द्रमश्विनावरक्षता-मितीतिहासरूपाख्यायिका शतपथे ( १२ | ३ | ४ | १ ) दृश्यते । पुनः कीदृशौ? शुभस्पती, शोभनं शुप् तस्य शोभनस्य कर्मणः पती पालकौ । सम्पदादित्वाद् भावे क्विप् । ' षष्ठ्याः पतिपुत्र... ' ( पा ० सू ० ८।३।५३ ) इत्यादिना पतिपरे विसर्गस्य सकारः । तत्र ब्राह्मणम् - ' यद्यु त्रीन् गृह्णीयादेतयैव गृह्णीयादुपयामैस्तु तर्हि नाना गृह्णीयादथाहाश्विभ्याछ, सरस्वत्या इन्द्राय सुत्राणेऽनुब्रूहीति ' ( ० ५।५।४२४ ) । ' सोऽन्वाह । युव ७ कर्मस्वावतमित्याश्राव्याहाश्विनौ सरस्वतीमिन्द्रख. सुत्रामाणं यजेति ' ( श ० ५/५/४/२५ ) | ग्रहयग्रहणपक्षेऽपीममेव मन्त्रमुपयामेत्यत्र विशेषं च दर्शयति-- त्रीनिति । नाना पृथक् पृथग् उपयामेन तिसृभ्यो देवताभ्यो गृह्णीयात् । अनुवचनप्रेषे विशेषं दर्शयति-- अथाहेति । होतारमनुच्याश्विसरस्वतीन्द्रप्रतिपादकं मन्त्रमाह-- सोऽन्वाह युवमिति । मन्त्रार्थस्तुक्त एव । यज इति प्रेषे देवताशंसनं विधत्ते - आश्राव्याहेति । देवतात्रयप्रतिपादिकां याज्यां पठति-- अश्विनाविति । अध्यात्मपक्षे - हे रामलक्ष्मणौ, युवं युवाम् अश्विनौ अश्विनाविव सुन्दरौ विविधशक्तिसम्पन्नो, नमुचौ हनुमदङ्गदाभ्यां प्रबोधनेऽपि सीतां न मुञ्चतीति नमुचिस्तस्मिन, आसुरे असुर एवासुरस्तस्मिन् सीता रक्षणार्थं सचा सहभूती प्रहारं कुरुतमिति शेषः । कीदृशौ युवाम्? विपिपानौ विविधमात्मनि पालयन्तौ । शुभः शोभनस्य कर्मणः पती पालकी । मन्त्रार्थ - हे सर्वजन हितकारी अश्विनीकुमार, नमुचि संज्ञक देश्य के साथ इस रमणीय सोम का विविध प्रकार से पान करते हुए शुभ कर्म के पालक तुमने उन - उन कार्यों में इन्द्र की सहायता की है ॥ ३३ ॥

भाष्यसार-- '-- ' युवं सुरामम् ' यह ऋचा सुराग्रहहोम की अनुवाक्या है । कात्यायन श्रौतसूत्र ( १ ९ / ३ / २० ) में यह याज्ञिक विनियोग प्रतिपादित है । शतपथ ब्राह्मण में इस ऋचा के प्रसंग में आख्यायिका तथा याज्ञिक प्रक्रियानुकूल व्याख्या उपदिष्ट है । अध्यात्मपक्ष में अथंयोजना तथा विविध शक्तियों से सम्पन्न हैं । वाले असुर रावण के प्रति सीता की अच्छे कर्मों के रक्षक हैं । ४७ इस प्रकार है-- हे श्रीराम तथा लक्ष्मण! आप दोनों अश्विनियों की भाँति सुन्दर हनुमान् तथा अंगद के द्वारा समझाये जाने पर भी सीताजी का मोचन न करने रक्षा के लिये संयुक्त होकर प्रहार करें । आप दोनों वैविध्य के धारक तथा

पृष्ठ 424

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 424 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७० शुक्लयजुर्वेद संहिता [ अ ० १० दयानन्दस्तु - ' हे सचा सत्यसमवेतो, विपिपाना विविधं राज्यं रक्षमाणों, शुभस्पती शुभः कल्याणकरस्य व्यवहारस्य पती पालयितारो, अश्विना अश्विनौ सूर्यचन्द्रमसाविव सभासेनेशौ युवं युवां नमुचौ न मुञ्चति स्वकीयं कर्म यस्तस्मिन् आसुरे असुरस्य मेघस्यायं व्यवहारस्तस्मिन् कर्मसु कृष्यादिषु वर्तमानं सुरामं सुष्ठु रणं यस्मिन् तं इन्द्रम्, परमैश्वर्यवन्तं धनिकं सततमावतं रक्षतम् ' इति, तदपि वेदस्य लोकायतीकरणमेव, प्रत्यक्षानुमानाभ्यामज्ञातार्थस्यैव ज्ञापकत्वेन वेदत्वोपपत्तेः । न च सभेश- सेनेशौ सच समवेतो सम्भवतः, भारतीयनीतिधर्मशास्त्रादिषु राज्ञः स्वामित्वेन सेनापतेस्तन्नियोज्यत्वाभ्युपगमात् । तत एव भूपतेरेव पालक-त्वादुभयोः पालकत्वमप्यनुपपन्नमेव । नहि नृपद्वयमेकराज्ये सम्भवति, न वाश्वित्वमपि तत्र सम्भवति । असुरशब्देन मेघव्यवहारोऽभिप्रेतश्चेत् कथं तस्य नमुचिरिति पदं विशेषणं सम्भवति? व्यवहारस्य कर्मरूपत्वेन तत्र कर्मान्तरायोगात् । किञ्च सत्यसमवेतौ पितरौ दम्पती रामलक्ष्मणौ भ्रातरावपि सम्भवत इति तादृशार्थग्रहणे विनिगमनाऽयोगाच्च । एवं कर्मपदेन वैदिकान्यग्निहोत्रादीनि कर्माणि कुतो न गृह्येरन्? कृष्यादिकर्माण्येव किमर्थं गृह्येरन्? प्रवर्तमानमित्यध्याहारोऽपि निर्मूल एव । इन्द्रपदेन धनिक एव कुतो गृह्येत? हि धनिक एव ताभ्यां रक्ष्यते? तयोरविशेषेण सर्वपालकत्वोपपत्तेः ॥ ३३ ॥

पु॒त्रमि॑िव

पि॒तरा॑व॒श्विनो॒ोभेन्द्रावथुः काव्ये॑द॒ध॒शना॑भिः ।

यत्सु॒रामं व्यपि॑ब॒ः शची॑भिः॒ः सर॑स्वती त्वा मघवन्नभिष्यक् ॥ ३४ ॥

इति माध्यन्दिनसंहितायां दशमोऽध्यायः ॥

स्वामी दयानन्द का व्याख्यान वेद को चार्वाक दर्शन का अनुयायी बना देता है, क्योंकि प्रत्यक्ष तथा अनुमान प्रमाणों से ज्ञात न होने वाले पदार्थों का ज्ञापन कराना हो वेदों का वेदत्व है । सभापति तथा सेनापति एक समान नहीं हो सकते, क्योंकि भारतीय नीति तथा धर्मशास्त्र आदि में राजा को ही स्वामी माना गया है तथा सेनापति उसके द्वारा नियुक्त किया जाता है । अत एव राज्याध्यक्ष के ही पालनकर्ता होने के कारण दोनों का पालक होना भी असिद्ध है । एक राज्य में दो राज्याध्यक्ष नहीं हो सकते । उनमें अश्विनीत्व भी संगत नहीं है । असुर शब्द से यदि ' मेघ का व्यवहार ' अर्थ लिया गया है, तो उसमें नमुचि पद कैसे विशेषण के रूप में संगत होगा? क्योंकि व्यवहार कर्मात्मक होता है तथा उसमें कोई अन्य कर्म संगत नहीं होता । सत्य से संयुक्त दो तो माता - पिता, दम्पती अथवा श्रीराम - लक्ष्मण दो भाई भी हो सकते हैं । अतः इसमें एक ही अर्थ के लिये कोई निश्चित युक्ति नहीं है । इसी प्रकार कर्म शब्द से afar अग्निहोत्र आदि कर्मों का अर्थ क्यों न ग्रहण किया जाय? केवल कृषिकर्म ही क्यों माना जाय? धनिक अर्थ का ही बोधन इन्द्र शब्द से क्यों कराया जाता है? इत्यादि विसंगतियाँ भी इसमें हैं ॥ ३३ ॥

मन्त्रार्थ - हे इन्द्र, असुर सहवास से, अशुद्ध सोमरस का पान कर जब तुम विपत्ति में पड़ गये थे, उस समय भी दोनों हितकारी अश्विनीकुमारों ने मन्त्रद्रष्टा महर्षियों के काव्य और कर्मों के प्रयोगों से तुम्हारी उसी तरह से रक्षा की थी, जैसे कि माता - पिता पुत्र की रक्षा करते हैं । हे इन्द्र, तुमने नमुचि का वध करके रमणीय सोम का विशेष रूप से पान किया था । सरस्वती वाणी तुम्हारी अनुगत है, तुम्हारी सेवा करती है ॥ ३४ ॥

पृष्ठ 425

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 425 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३४ ] वेदार्थ पारिजातभाष्यसहिता ३७१ त्रिष्टुप, अश्विसरस्वतीन्द्रदेवत्या । हे इन्द्र, पितरौ पुत्रमिव यथा पालयतः, तथा उभा उभौ अश्विनौ त्वा त्वाम् आवथुः रक्षितवन्तो, ' अव रक्षणे ' इत्यस्य पुरुषव्यत्यये रूपम् । काव्यैः कविकर्मभिः स्तोत्रः, कवयोऽत्र भन्त्रद्रष्टा रस्तेषां कर्माणि मन्त्रदर्शनानि तान्येव दंशनाः कर्माणि ताभिः, ' दंश इति कर्मनाम ' ( निघ ० २ १ ३ ), इन्द्रं पालितवन्तौ । कुत एतदित्याह यद् यस्मात् सुरामं सुरमणीयं सोमं व्यपो विशेषेण पीतवानसि, शचीभिः कर्मभिः । नमुचिवधादीनि कर्माणि कृत्वा सुष्ठु रमणीयं सोमं विशेषेण पीतवानसि । हे मघवन्निन्द्र त्वां सोमातिपूतं सरस्वती अभिष्णक भेषजसन्धानं कृतवती, ' भिष्णज् उपसेवायाम् ' इति कण्ड्वादिषु पठ्यते । अभिष्णम् उपसेवते त्वत्कृतसोमपानेन सरस्वती कृतचिकित्सादिसेवनेन च अश्विनौ त्वामावतुरिति । तत्र ब्राह्मणम् --- ' स यजति । पुत्रमिव मघवन्नभिष्णगिति द्विर्होता वषट्करोति द्विरध्वर्युर्जुहोत्याहरति भक्षं यद्यु त्रीन् गृह्णीयादेतस्यैवानुहोममितरौ हूयेते ' ( ० ५।५।४।२६ ) । विधत्ते - द्वितेति । होत्रा द्विवारं वषट्कारः कर्तव्यः । अध्वर्युणापि हवनं द्विवारं कार्यम् । आहरति भक्षमिति हवनानन्तरं भक्षार्थमाहरेयुः । ग्रहत्रयपक्षे हवने विशेषमाह. - यद्यु त्रीनिति । एतस्य होममनु इतरौ द्वौ परिस्रुद्धोमौ होतव्यौ । एष परिस्रुद्धोमो दक्षिणाग्नौ कार्यः, कात्यायन श्रौतसूत्रात् ( का ० श्र ० १५ । १०।१५ ) । अध्यात्मपक्षे – हे इन्द्र! इन्द्रियैरिध्यमान, पितरो मातापितरौ पुत्रमिव त्वामुभा उभौ अश्विना अश्विनाविव सुन्दरी सुगुणौ रामलक्ष्मणौ त्वामावथुस्तव रक्षणं कृतवन्तौ । कैः साधनैः? काव्यैः कविकर्मभी रामायणादि-लक्षणैः काव्यैः दंशनाभिः सेतुबन्धरावणवधादिलक्षणैः कर्मभिः, तैरेव साधनैर्जीवस्याविद्याकामकर्मोत्सादन-सम्भवात् । यद् यस्मात् शचीभिः कर्मभिः स्वधर्माचरणलक्षणैर्विशुद्धान्तःकरणः सन् सुरामं शोभनं रामं रमणीयं चरित्रं व्यपिबो विशेषेण कर्णपुटैः पीतवानसि । हे मघवन् भक्तिज्ञानलक्षणधनसम्पन्न, सरस्वती ब्रह्मविद्यालक्षणा त्वा त्वामभिष्णग् उपसेवते । भगवन्तौ रामलक्ष्मणौ हे इन्द्र! इन्द्रियैरिध्यमान त्वामावथुः । कथमवनमिति तत्र तयोः कर्माणि स्तोत्राणि च साधनम् । चरित्रामृतपानेन स्वान्तःशुद्धौ तयोरनुग्रहात् सरस्वती ज्ञानविज्ञानाधिष्ठात्री तमुपसेवतेऽनुगृह्णाति । तस्माद् ब्रह्मविद्यालाभेन सर्वथैवाविद्यातत्कार्यलक्षणस्य संसारस्य बाधनेन तदवनं सम्पद्यते । भाष्यसार - ' पुत्रमिव ' यह ऋचा सुराग्रहहोम की याज्या के रूप में कात्यायन श्रौतसूत्र ( १५/६/८ ) में युक्त की गई है । इस याज्ञिक प्रक्रिया के अनुकूल मन्त्रार्थ शतपथ ब्राह्मण में उपदिष्ट है । अध्यात्मपक्ष में मन्त्रार्थ यह है - हे इन्द्रियों से परिवर्धित जीव! माता - पिता की भाँति, दोनों अश्विनियों की भाँति सुन्दर, सुगुण श्रीराम तथा लक्ष्मण ने तुम्हारा रक्षण किया है । किन साधनों से किया इसका वर्णन है कि रामायण आदि कविकृतियों के द्वारा, सेतुबन्धन तथा रावणवध आदि कार्यों के द्वारा किया है, क्योंकि उन्हीं साधनों से जोव के अविद्या, काम, कर्मों का निराकरण संभव है । जिन स्वधर्माचरणात्मक कर्मों से शुद्ध अन्तःकरण से युक्त होकर सुन्दर रमणीय चरित्र का तुमने अपने कर्णपुटों से विशेष रूप से पान किया है, हे भक्ति - ज्ञान आदि धन से सम्पन्नजीव! ब्रह्मविद्यात्मिका सरस्वती तुम्हारे समीप अवस्थित है । हे इन्द्रियों से वर्धित होने वाले, भगवान् श्रीराम तथा लक्ष्मण ने तुम्हारा रक्षण किया है । उनके कर्म तथा स्तोत्र ही इसमें साघन हैं । चरितामृत के पान से अन्तःकरण के शुद्ध हो जाने पर उन दोनों की कृपा से ज्ञान - विज्ञान की अधिष्ठात्री देवी सरस्वती तुम पर अनुग्रह करती है । इसलिये ब्रह्मविद्या की प्राप्ति से अविद्या तथा उसके कार्यरूपी संसार का सर्वथा बाध हो जाने पर रक्षण सम्पादित होता है ।

पृष्ठ 426

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ४ - स्वामी करपात्री, पृष्ठ 426 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३७२ शुक्लयजुर्वेदसंहिता [ अ ० १० दयानन्दस्तु – ' हे मघवन्निन्द्र राजन्, यत् त्वं शचीभिः प्रज्ञाभिः सुरामं शोभन आरामो येन रसेन, तं व्यपि विविधतयापिब:, तं त्वा सरस्वती विद्यासुशिक्षिता वागिव पत्नी अभिष्णग् उपसेवताम् । हे अश्विनौ सभासेनेशी राज्ञा ज्ञापितौ सेनापतिन्यायाधीशावुभौ युवां काव्यैः कविभिः परमविद्वद्भिर्धार्मिकै -निर्मितैर्दशनाभिः कर्मभिः पितरौ जननीजनको पुत्रमिव सर्व राज्यमावथू रक्षेथाम् ' इति, तदपि यत्किचित् पूर्वापरविरोधात् । त्वद्रीत्या सभापतिरेव राजा भवति । पूर्वं त्वश्विपदेन सभासेनेशावुक्तौ इह तु राज्ञाज्ञापितौ सेनापतिन्यायाधीशावुच्येते । किञ्च, धनवान् कश्चिद्धनिकोऽपि भवत्येवेति कथं मघवन्निति राजैव गृह्येत? सरस्वतीपदेन राज्ञः पत्नी गृह्यत इत्यपि निर्मूलम्, मुख्यार्थत्यागे मानाभावात् । किञ्च 1 सर्वमेतद् लोकगम्यनीत्यादिशास्त्रवेद्यमिति तद्बोधनार्थं कथं वेदप्रवृत्तिः? इति वेदार्थपारिजात माध्यमण्डितायां शुक्लयजुर्वेद माध्यन्विनसंहितायां दशमोऽध्यायः ॥ स्वामी दयानन्द द्वारा निरूपित व्याख्यान पूर्वापर के विशेष के कारण असंगत है । उस मत में सभापति ही राजा होता है । पहले अश्वि शब्द से सभापति तथा सेनापति कहे गये हैं, यहाँ राजा से आज्ञप्त सेनापति तथा न्यायाधीश राजा का ही बोधन कैसे किया क्योंकि मुख्य अर्थ को छोड़ने में बताये गये हैं । धनवान् तो कोई भी धनिक हो ही सकता है, तो ' मघवन् ' शब्द से गया है? सरस्वती शब्द राजा की पत्नी का बोधन कराना भी अप्रामाणिक है, कोई कारण नहीं है । ये सभी अर्थं लौकिक नीतिशास्त्र आदि के द्वारा जाने जाते हैं, अतः उन्हीं को बताने के लिये वेद की प्रवृत्ति कैसे हो सकती है ॥ ३४ ॥