वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 191–200

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 191–200

पृष्ठ 191

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 191 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ८०-८१ ] वेदार्थपारिजातभाष्यसहिता १५५ दयानन्दस्तु - ' हे मनुष्याः, यथा शुक्रज्योतिश्व चित्रज्योतिश्च सत्यज्योतिश्च ऋतपाश्च ईश्वरोऽस्ति तथा यूयमवत ' इति, तदपि यत्किञ्चित्, अपसिद्धान्तापातात् । त्वद्रीत्या निराकारस्येश्वरस्य ज्योतिष्मत्त्वेन साकारत्वा-पत्तेः, चित्रमद्भुतं ज्योतिर्यस्येति त्वदुक्तः सत्यमविशो ज्योतिः प्रकाशो यस्य स इति त्वदुक्तेश्च ॥ ८० ॥

ईदृङ् चा॑भ्या॒दृङ् च॑ सदृङ ्म च॒ प्रति॑सदृङ च । मि॒ितश्च संमि॑ितश्च सभ॑राः ॥ ८१ ॥

" मन्त्रार्थ - इस पुडोडाश को ग्रहण करने वाले और इस पुरोडाश को देखने वाले, समान दृष्टि, अर्थात् प्रत्येक को समान देखने वाले, सम्यक् एकीभाव से मान को प्राप्त और समान भाव को धारण करने वाले मरुद् देवता हमारे यज्ञ में आवें ॥ ८१ ॥

द्वे गायत्र्यो । ईदृङ् इमं पुरोडाशं स्वयं गृहीत्वा पश्यतीति ईदृङ्, इममिव वा पश्यतीति ईदृङ् । यद्वा अनेन अनेन समानं पश्यतीति ईदृङ् । अथवा अनेन अनेन समानो दृश्यते स ईदृङ् । अन्यादृङ् अन्यमपि पुरोडाशं पश्यतीत्यन्यादृङ्, अन्यं बाधसाक्षिणमिव वा सर्व पश्यतीति अन्यादृङ् । सदृङ् समानं पश्यतीति सदृङ्, सर्वमेव वा समानं निर्विशेषं पश्यतीति सदृङ् । प्रतिसदृङ् तं तं प्रत्युच्चावचं प्रति निर्दोष हि समं ब्रह्म पश्यती-ति प्रतिसदृङ्, यद्वा तं तं प्रति समानं पश्यति, ' सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || ' ( भ ० गी ० ६ ९ ) इति गीतोक्ते:, तथाविधः प्रतिसदृङ् । मित उत्तमाधममध्यमैस्तुल्यो मितः, उत्तमैः सह उत्तमवत्, मध्यमैः सह मध्यमवत्, अधमैः सह अधमवद् व्यवहरतीति यावत् ' यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः । मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः ॥ ’ ( म ० भा ० उद्योग ० ३७।७ ) । यद्वा मितो मानं प्राप्तः । सम्मितः सम्यक् परितो मानं प्राप्तः, यद्वा एकीभावेन मितः सम्मितः । सभराः सह बिभर्तीति सभराः । एते स्वं स्वमंशं पुरोडाशस्य प्राश्नन्तु । अध्यात्मपक्षे— सर्वात्मत्वात् परमेश्वर ईदृङ्, इममाकाशमिव व्यापकत्वेन पश्यन्ति जना यं स ईदृङ् । अन्यादृङ् अन्यं सूर्यमिव स्वप्रकाशत्वेन पश्यन्ति जना यं सोऽन्यादृङ् । सदृड सर्वस्वरूपत्वात् सर्वैः सदृशत्वात् । प्रतिसदृङ् तं तं पदार्थं प्रति समानं पश्यन्ति यं सः । सर्वत्र मानं प्राप्त इति मितः । एकीभावेन मितः सम्मितः । सभराः सहैव सर्वं बिभर्तीति सभराः सर्वकारणत्वात् सर्वधारकः । स तादृशो भगवान् अस्मानवत्विति शेषः । दयानन्दस्तु — ' ये पुरुषा ईदृङ् अनेन तुल्यम् अन्यादृङ अन्येन समानं सदृङ् समानं पश्यन्ति तं तं प्रति सदृशं पश्यन्ति प्रतिसदृङ् मितश्च सम्मितश्च सभराश्च वर्तन्ते, ते व्यावहारिकीं कार्यसिद्धिं कर्तुं शक्नुवन्ति ' इति, तदपि यत्किञ्चित्, संसारे सर्वत्रैव साधर्म्य वैधर्म्य - वैचित्र्यदर्शनात् पुरुषा एव किमर्थं गृह्यन्ते? किञ्च, अकि-ञ्चित्करा अपि पुरुषाः केनचित्तुल्या भवन्त्येव । न च ते व्यावहारिकीं कार्यसिद्धि कर्तुं प्रभवन्ति ॥ ८१ ॥।

ऋ॒तश्च॑ स॒त्यश्च॑ ध्रुवश्च॑ का॒रुश॑श्च । ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ॥ ८२ ॥

मन्त्रार्थ- - सत्यस्वरूप सद् वस्तु में प्रकट और स्थिर, विशेष रूप से धारण करने वाले, विविध प्रकार से धारण करने वाले मरुद् देवता हमारे यज्ञ में आवें ॥ ८२ ॥

ऋतः सत्यरूपः स्वमंशं पुरोडाशस्य प्राश्नातु । एवमेव सत्यः सति वस्तुनि भवो ध्रुवः स्थिरः, धरुणो धारकः, धर्ता धारयतीति धर्ता, विशेषेण धारयतीति विधर्ता, विविधं धारयतीति विधारयः । एते सर्वे पुरोडाशस्य स्वं स्वमंशं प्राश्नन्तु ।

पृष्ठ 192

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 192 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५६ शुक्ल यजुर्वेद संहिता [ अ ० १७ अध्यात्मपक्षे - स भगवान् ऋतोऽत्यन्ताबाध्यः सत्यः सत्सु सर्वत्राधिष्ठानरूपेण विधर्ता भवतीति , विधारयः सत्यः, ध्रुवः कूटस्थः, धरुण एकैकस्य वस्तुनो धारकः, धर्ता सर्वस्य धारका विशेषेण धारको कारणरूपेण कार्यरूपेण शक्तिरूपेण च धारयतीति विधारयः । दयानन्दस्तु - ' हे मनुष्याः! य ऋतः सत्यज्ञानः सत्यः सत्सु साधुः, ध्रुवो दृढनिश्चयः, धरुण आधारः, धर्ता विधर्ता च विधारयः परमात्मास्ति, तमेव सर्व उपासीरन् ' इति, तदपि यत्किञ्चित् धरुण - धर्तृ - विधर्तृषु भेदानुक्तेः, ऋतः सत्यज्ञान इत्यर्थस्य लाक्षणिकत्वाच्च ॥ ८२ ॥

ऋत॒जिच्च॑ सत्य॒जिच्च॑ सेव॒जिच्च॑ सु॒षेश॑श्च । अति॑िमित्रश्च दूरेअ॑मित्रश्च गृ॒णः ॥८३ ॥

मन्त्रार्थ- - यज्ञ को जीतने वाले, सत्य को जीतने वाले, शत्रुसेना को जीतने वाले, श्रेष्ठ सेना ८३ वाले ॥, मित्रों के समीप रहने वाले, शत्रुओं से दूर रहने वाले और सबको गिनने वाले मरुद देवता हमारे यज्ञ में आवें ॥ उष्णिक् । ऋतजिद् ऋतं यज्ञं जयतीति तथोक्तः । सत्यजित् सत्यं याथातथ्यं जयतीति सत्यजित् । सेनजित् सेनां शत्रुसैन्यं जयतीति सेनजित् । ' ङयापोः संज्ञाछन्दसोर्बहुलम् ' ( पा ० सू ० ६ | ३ | ६३ ) इति ह्रस्वः । सुषेणः सुष्ठु शोभना सेना यस्य सः । अन्तिमित्रः, अन्ति समीपे मित्राणि यस्य सः । दूरे अमित्रो दूरे अमित्राः शत्रवो यस्य सः । ‘ प्रकृत्यान्तः पादमव्यपरे ' ( पा ० सू ० ६ | १ | ११५ ) इति प्रकृतिभावः । ' हलदन्तात् सप्तम्याः संज्ञा-याम् ' ( पा ० सू ० ६।३।९ ) इति सप्तम्या अलुक् । गणो गणयति सर्वमिति गणः । एते सर्वे मरुतः स्वं स्वमंशं पुरोडाशस्य प्राश्नन्तु । अध्यात्मपक्षे --- परमेश्वर ऋतजिद् ऋतेन अनृतान् जयतीति तथोक्तः, श्रीरामशिवादिरूपेणेति यावत् । सत्यजित् सत्येन सत्यबलेन सर्वं जयतीति तथोक्तः । यद्वा ऋतेन सूनृता वाचा जयतीति तथोक्तः । सत्येन समदर्शनेन सर्वान् जयतीति तथोक्तः । ' ऋतं च सूनृता वाणी ' ( भा ० पु ० ११।१ ९ ।३८ ), ' सत्यं च समदर्शनम् ' ( भा ० पु ० ११।१ ९ | ३७ ) इति श्रीमद्भागवतोक्तेः । सेनजिद् रावणादिशत्रुसेनां जयतीति तथोक्तः । सु सुष्ठु शोभना सेना यस्य स तथोक्तः । सुषामादेराकृतिगणत्वात् षत्वम् । अन्तिमित्रो दूरे अमित्रश्च पूर्ववत् व्याख्येयौ । गणा गणयति सर्वं कलयतीति गणः कालः । दयानन्दस्तु - ' य ऋतचिच्च दूरे अमित्रश्च भवेत्, स गणो गणनीयो जायते ' इति, तदपि यत्किञ्चित्, उद्देश्यविधेयभावस्य निर्मूलत्वात् ॥ ८३ ॥

ईस एतादृक्षांस ऊषुणः स॒दृक्षसः प्रतिसदृक्षास॒ एत॑न ।

मितासश्च सम्मितासो नो अद्य सर्भरसो मरुतो यज्ञे अस्मिन् ॥

८४ ॥

मन्त्रार्थ- इस तरह के लक्षणों को इस प्रकार देखने वाले, प्रत्येक को देखने वाले समान रूप से देखने -वाले, प्रमाण युक्त इकट्ठा होकर किसी वस्तु को प्रमाणित करने वाले और इस तरह से आदर पाने वाले महद् देवता आज हमारे इस यज्ञ में आवें ॥ ८४ ॥

हे मरुतः, यूयमेते कीदृशाः? ईदृक्षास इददर्शनाः, एतादृक्षास एतद्दर्शनाः, ऊ षु ण इति पदत्रयं पादपूर्त्यर्थम्, सदृक्षासः समानदर्शनाः, प्रतिसदृक्षासः प्रत्येकं समानदर्शनाः, मितासः प्रमाणतो मिताः,

पृष्ठ 193

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 193 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८४-८५ ] वेदार्थ पारिजातभाष्यसहिता १५७ सम्मितासः सङ्गत्य मिताः, सभरसः समानमलङ्कारादिकं ये बिभ्रति ते भरसा आदरेण सह वर्तमाना इति वा । मरुतोऽस्मिन् नोऽस्माकं यज्ञे एतन आगच्छत, आगत्य च स्वभागीय पुरोडाशग्रहणेन तृप्ता भवत । अध्यात्मपक्षे - सर्वात्मनो भगवत एव वाचका एते शब्दाः । बहुवचनं तु पूजायामादरातिशयार्थम् । हे भगवन्तो यूयमीदृक्षासः पुरोवर्तिपदार्थसदृशाः सदृक्षासः समानदर्शनाः सर्वात्मत्वात् सर्वसदृशा वा प्रति-सदृक्षासः प्रत्येकं समानदर्शनाः, मितासः प्रमाणतः, सम्मितासः सङ्गत्य मिताः, सभरसः समानमलङ्कारादिकं बिभ्रति ते, यूयं नोऽस्माकमस्मिन् यज्ञे आराधनलक्षणे एतन आगच्छत, आगत्य च अनुगृह्णत । दयानन्दस्तु - ' हे मरुतो विद्वांसः ईदृक्षा एतैः पूर्वोक्तः सदृशा नोऽस्मान् सदृक्षासः पक्षपातं विहाय समानदृष्टयः, प्रतिसदृक्षास आप्तसदृशाः समन्तमेव प्राप्तुत । मितासः परिमितविज्ञानाः सम्मितास-स्तुलात्सत्यविवेचका मरुत ऋत्विजो विद्वांसः यज्ञे सङ्गन्तव्ये व्यवहारे सभरसः स्वसमान पोषका भवत, अद्य नो रक्षत, वयमपि सततं सत्कुर्याम ' इति, तदेतत् सर्वथापि निर्मूलम्, वेदाक्षरबाह्यत्वात् । सदृक्षास इत्यस्य पक्षपातं विहाय समानदृष्ट्य इति कथमर्थ:? प्रतिसदृक्षास आप्तसदृशा इत्यर्थोऽपि निर्मूल एव । तथैव मिताः परिमित-विज्ञानाः, सम्मितासस्तुलावत्सत्यविवेचका इत्यप्यर्थो शब्दबाह्य एव । सभरसः स्वसमानपोष का इत्यपि निर्मूलम् । अद्य नो रक्षत, वयमपि सततं सत्कुर्यामत्यादिकं सर्वमपि स्वाभ्यहितमेव ॥। ८४ ॥ स्वत॑वा॑श्च प्रघा॒सो च॑ सान्तप॒नश्च॑ गृ॒हमे॒धी च॑ । क्रोडी च॑ श॒की चो'ज्जेषी ॥ ८५ ॥

मन्त्रार्थ -- स्वाधीन, बलयुक्त, पुरोडाश को भक्षण करने वाले, शत्रुओं को ताप देने वाले, गृहस्थ धर्म से युक्त, सवा क्रीड़ा करने वाले, सब प्रकार से समर्थ और सदा जयशील महद् देवता हमारे यज्ञ में आवें ॥ ८५ ॥

द्वधिका गायत्री द्वयूना उष्णिग् वा । पविशदक्षरत्वाद् विकल्पः । आद्याः पञ्च चातुर्मास्यदेवताः । स्वतवान् स्वं स्वकीयं तवो बलं यस्य स स्वाधीनबलयुक्तः । प्रघासी प्रकर्षेण घसति अत्तोति प्रघासी प्रकर्षेण पुरोडाशभक्षणशीलः । सान्तपनः सम्यक् तपतीति सन्तपनः सूर्यः, ' नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ' ( पा ० सू ० ३ | १ | १३४ ) इति ल्युः, ' सहितपिदमः संज्ञायाम् ' इति हि गणसूत्रम्, तस्यायं सान्तपनः सूर्यसम्बन्धीति यावत् । गृहमेधी गृहमेधोऽस्यास्तीति गृहिधर्मयुक्तः । क्रीडी क्रीडतीत्येवंशीलः, सदा क्रीडापरायण इत्यर्थः । शाकी शक्नोति सदेति तथोक्तः, सर्वदेव समर्थ इत्यर्थः । उज्जेषी उज्जयतीति तथोक्तः, बाहुलकाद् औणादिकः सप्रत्ययः, सोऽस्यास्तीति तथोक्तः । एते मरुतो यूयमत्र यज्ञे एतनेति पूर्वेण सम्बन्धः अध्यात्मपक्षे - सर्वमेतदत्र पक्षे परमात्मपरत्वेन योजनीयम् । परमात्मा निरुपचारेणैव स्वतवान् स्वाधीनबलयुक्तः, सर्वस्याप्यन्यस्य परतन्त्रत्वात् । स एव प्रघासी प्रघसनशीलः । ' यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ ' ( कठो ० ११२ २४ ) इति श्रुतेः, ' अत्ता चराचरग्रहणात् ' ( वे ० सू ० १ ( २ ९ ) इति न्यायाच्च । सान्तपनः सन्तपने सूर्ये सत्तास्फूर्तिप्रदत्वेन यो विद्यते सोऽधिष्ठानभूतः परः सान्तपनः । गृहमेधी श्रीरामश्रीकृष्णरूपेण स एव गृहमेधीयधर्मोपेतः । क्रीडी जगदुत्पत्तिस्थितिलयरूप क्रीडापरायणः परमेश्वर एव । स एव सर्वं कर्तुमकर्तुमन्यथाकर्तुं समर्थत्वात् शाकी । स एव चोज्जेषी मायातत्कार्यप्रपञ्चोज्जयनशीलः । हिरण्याक्ष - हिरण्यकशिपु - मधुकैटभादयः सर्वेऽपि मायिकाः, मायाकार्या इत्यर्थः, तान् जयतीत्येव न, किन्तु मायापि यस्येक्षापक्षे स्थातुं विलज्जते । ' विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ' ( २/५/१३ ) इति श्रीमद्भागवोक्तेः, ' यदादित्यगतं तेजो जगद् भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् || ' ( १५ | १२ ) इति गीतोक्तेश्च ।

पृष्ठ 194

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 194 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५८ शुक्लयजुर्वेदसंहिता [ अ ० १७ घासा भोज्यानि विद्यन्ते यस्य स दयानन्दस्तु - ' यः स्वान् तौति वर्धयति स स्वतवान् । बहवः प्रकृष्टा सः । क्रीडी अवश्यं प्रघासी । सम्यक् शत्रून् तापयति यस्तस्यायं सान्तपनः । प्रशस्तो गृहे मेवासङ्गमोऽस्यास्तीति जेतुं शील: ' इति, तदपि यत्किञ्चित्, क्रीडितुं शीलश्च शाकी भवेद् अवश्यं शक्तुं शीलम् । उज्जेषी उत्कृष्टतया तथैव सन्तपनस्याप्यन्यथासिद्धत्वमेव । उद्देश्यविधेयभावे मानाभावात् । घटे कुलालपितुर्यथाऽन्यथासिद्धत्वम् तथैव क्रीडाप्यन्यथासिद्धैव तद्रहितानामपि विजयित्वदर्शनान् ॥ ८५ ॥

॥ उ॒प्रश्च॑ का॒मश्च॒ ध्वान्तश्च॒ धुन॑श्च । स॒स॒ह्वश्वा॑भियु॒ग्वा च॑ वि॒क्षिप॒ स्वाहा॑ । इन्द्रं॒ दे॑वी॒वंश ' म॒रुतोऽनु॑वर्त्मानोऽभव॒न् यथेन्द्रं दे॑वी॒वँशो म॒रुतोऽनु॑वर्त्मानोऽभ॑वन् ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो ' मानुषोश्चानु॑वर्त्मानो भवन्तु ॥ ८६ । वाले और उनको कंपा देने वाले, मन्त्रार्थ - उत्कृष्ट और भयंकर, शत्रुओं को अन्धकार में डाल देने इन मरुद्गणों को यह श्रेष्ठ आहुति उनको हरा देने वाले, भक्तों को सुख देने वाले और शत्रुओं का नाश करने वाले रहती है । जिस प्रकार देवसम्बन्धी दी जा रही है । देवसम्बन्धी मरुद्रूप प्रजा इन्द्र की सदा अनुगामिनी को प्रजा इस यजमान की अनुगामिनी मरुद्रूप प्रजा इन्द्र की अनुगामिनी है, उसी प्रकार देवलोक और मनुष्यलोक बने ॥ ८६ ॥

अयं मन्त्र एकोनचत्वारिंशेऽध्याये सप्तममन्त्रत्वेन पठितः । अत्र तु केवलं मरुतां भीमः प्रसङ्गादुद्धृतः । ' भीमा- । विमुखमन्त्र इति संज्ञास्य । सोऽयं प्रसङ्गाद् व्याख्यायते । उग्र उत्कृष्टः । भीमो बिभेत्यस्मादिति शत्रूनिति ध्वान्तः । ' तत्करोति दयोऽपादाने ' ( पा ० सू ० ३।४ / ७४ ) इति निपातितः । ध्वान्तो ध्वान्तयत्यन्धीकरोति । घृणिपृश्नि ' ( उ ० तदाचष्टे ' इति गणसूत्राणिच्, ततः पचाद्यच् । धुनिः धूनयति कम्पयति शत्रूनिति धुनिः अभ्यासदीर्घः । ४ | ५३ ) इति बाहुलकान्निः । सासह्वान् सहतेऽभिभवति शत्रूनिति सासह्वान्, सहे: ३ २७५ कसुः ), इत्यभिपूर्वाद्युजेः अभिग्वा अभियुनक्ति सुखेन भक्तानिति तथोक्तः, ‘ अन्येभ्योऽपि ' दृश्यन्ते ' ( पा ० सू ० स्वाहा एतेभ्यो कनिप्, भक्तानां सुखाभियोजकः । विक्षिपो विक्षिपति प्रेरयति शत्रूनिति विक्षिपः शत्रुक्षेप्ता । मरुद्भयः सुकृताः पुरोडाशाः सन्तु । चकाराः समुच्चयार्थाः । अध्यात्मपक्षे - अयमेवार्थः । ' इन्द्रं दैवीरिति जपति ' ( का ० श्र ० १८/४/२५ ) | कर्मापवर्गान्ति इन्द्रं दैवीरिति यजुरध्यायसमाप्ति देवसम्ब-यावज्जपेदिति सूत्रार्थः । मरुद्देवत्यं यजुः । शक्करी, षट्पञ्चाशदक्षरत्वात् । देवीः देव्यो पश्चाद् देवानामिमा वर्त्म वर्तनं यासां न्धिन्यः, विभक्तेः पूर्वसवर्ण: । विशः प्रजाः । मरुतो मरुद्रूपाः । इन्द्रम् अनुवर्त्मानः, अनु वर्तमाना अभवन् । ताः, अनुगामिन्य इति यावत् अभवन् । स्वरूपाख्यानमेतत् । देवीविशो मरुतो यथा इन्द्रमनुसृत्य वर्तमाना उपमानमेतत् । एवं दैवीर्मानुषीश्च देवसम्बन्धिन्यो मनुष्यसम्बन्धिन्यश्च विश इमं यजमानमनुसृत्य भवत्विति प्रार्थना । अध्यात्मपक्षे – यथा दैव्यो विशो मरुतो देवराजमिन्द्रमनुवर्त्मानः, तथैवाश्वमेधादियाजिनं । भगवन्तं श्रीरामचन्द्रं मानुष्यो दैव्यश्च सर्वा विशोऽनुवर्त्मानो भवन्त्विति भक्तानां तद्विजयमाशंसमानानामाशीः मरुतश्च ऋत्विजो दयानन्दस्तु – ' हे राजन्, त्वं वर्तस्व यथेमा देवीविंशो देवानां विदुषामिमाः प्रजा इमं यजमानमनु-विद्वांसोऽनुवर्त्मानोऽभवन्, अनुकूलो वर्त्मा मार्गो येषां ते । एवं दैवीश्च विशो मानुषीश्च विश

पृष्ठ 195

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 195 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८६-८७ ] वेदार्थ पारिजातभाष्यसहिता १५ ९ वर्त्मानो भवन्तु ' इति, तदपि यत्किञ्चित् राज्ञः सम्बोधने मानाभावात् । नहि विदुषां प्रजाः पृथग् मूर्खाणां च प्रजाः पृथग् भवन्ति । अत एवेन्द्रपदमपि न राजसामान्यपरम्, प्रसिद्धार्थत्यागे मानाभावात् || ८६ ॥ इम स्तन॒मूर्ज॑स्वन्तं धयापां प्रपीनमग्ने सरिरस्य मध्ये ' । उत्सजु॒षस्व॒ मधु॑मन्तमर्वन् समुद्रिय सद॑नमाविंशस्व ॥ ८७ ॥

मन्त्रार्थं - हे अग्निदेव! भूलोक के मध्य में वर्तमान तुम इस श्रेष्ठ रस वाले घृतधाराओं से परिपूर्ण स्रुक् रूप स्तन का पान करो । हे सब ओर गमनशील अग्निदेव! मधुर स्वाद वाले घृत से युक्त सुरूप स्तन का तुम सेवन करो, चयन पाग वाले घर में प्रवेश करो ॥ ८७ ॥

' इ स्तनमिति वाचयति वा ' ( का ० श्रो ० १८/४/२६ ) । इमं स्तनमिति मन्त्रगणमध्यायसमाप्तिपर्यन्तं यजमानेनाध्यवचयति स्वयं जपति वेत्यर्थः । जपवाचनयोर्विकल्पः । त्रयोदशर्चोऽनुवाकस्त्रिष्टुप्छन्दस्क आग्नेयः । यज्ञस्तुतिर्वसोर्धाराभिवादिनी घृतस्तुतिर्वा । हे अग्ने, सरिरस्य सलिलस्य लोकस्य मध्ये वर्तमानस्त्वम् इमं स्रुग्लक्षणं स्तनं स्रचः पतन्तीं घृतधारां वा धय पिब । ' धेट् पाने ' लोटि रूपम् । सरिरशब्देन लोका उच्यन्ते, ' इमे वे लोकाः सरिरम् ' ( श ० २/५/२/३४ ) इति श्रुतेः । वसोर्धारा औदुम्बर्या स्रुचा हूयते । सा च स्रुगत्र रूपक-कल्पनया स्तन उच्यते । इमं स्रुग्लक्षणं स्तनं तत्पतितां घृतधारां धय पिब । कीदृशं स्तनम्? ऊर्जस्विन्तम् ऊर्जा रसोऽस्यास्तीत्यर्जस्वान, तं विशिष्टरसवन्तम् । तथा अपां प्रपीनम् अद्भिर्धृतैः प्रपीनं पूर्णमन्तः पूरितम् । ' ओप्यायी वृद्धी ' इत्यस्य निष्ठायाम्, ' प्यायः पी ' ( पा ० सू ० ६ ११२८ ) इति प्यादेशे, ' ओदितश्च ' ( पा ० सू ० ८ | २ | ४५ ) इति निष्टातस्य नत्वे रूपम् | अपशब्देन लक्षणया घृतमुच्यते । ऊर्जस्वन्तं विशिष्टरसवन्तमिमं स्तनं पिब । किञ्च, हे अर्वन्, इयर्तीत्यर्वा तत्सम्बुद्धौ सर्वयज्ञं प्रति गन्तः! हे अग्ने, मधुमन्तं मधुरस्वादेन घृतेन युक्तमुत्सम् उत्स्रुवण-यक्तं कृपं स्रुग्लक्षणं स्तनं जुषस्व सेवस्व । ' उत्मेति कूपनामसु ' ( निघ ० ३।२३।१० ) । किञ्च समुद्रियं समुद्रसम्बन्धि सदनं चयनयागसम्बन्धि गृहमाविशस्व । एवं तृप्तः सन् स्वसदनं सेवस्येत्यर्थः । ' त्रयो ह वै समुद्रा अग्निर्यजुषां महाव्रतं साम्नां महदुक्थमुचाम् ' ( ० ९ ५ | २ | १२ ) इति श्रुतिप्रसिद्धाभिप्रापक: समुद्रशब्दः । ' समुद्राभ्राद् घः ' ( पा ० सू ० ४ | ४ | ११८ ) इति समद्रियशब्दसिद्धिः अध्यात्मपक्षे - हे अग्ने भगवन्, त्वमिमं सग्लक्षणं स्तनं धय पिब । कीदृशं स्तनम्? ऊर्जस्वन्तं विशिष्टा -भीष्टरसयुक्तम् । पुनः कीदृशम्? अपाम् अद्भिः पीनं पूरितम् । पुनः कीदृशम्? उत्सम् उत्स्यन्दतीत्युत्सः तं रस-स्रोतःस्वरूपं स्वादिष्ठमधुस्वादयुक्तम् । कीदृशस्त्वम्? सरिरस्य मध्ये लोकानां मध्ये वर्तमानः । हे अर्वन् सर्वतोगत, समुद्रियं यजुषां समुद्ररूपचित्याग्निसम्बन्धि सदनं जुषस्व सेवस्व, अन्तरिक्षसम्बन्धि सदनं वा जुषस्व । सर्वगत-स्यापि लीलाविग्रहधारणेन सदनविशेषेऽवस्थानं न विरुद्धयते, शालग्रामे विष्णोरिव । दयानन्दस्तु - ' हे अग्ने पालक, त्वं प्रपीनं दुग्धधारं स्तनमिव इममूर्जस्वन्तमपां रसं धय । सरिरस्य बहूनां मध्ये | सरिरमिति बहुनामसु । मधुमन्तमुत्सम् । उन्दन्ति येन तम् उत्सं कूपम् । उत्समिति कूपनामसु । जुषस्व । हे अर्वन् त्वं समुद्रियं सदनमाविशस्व ' इति, तदपि यत्किञ्चित्, निष्प्रयोजनत्वात् । कस्यचित् प्रपीन-स्तनवदपां रसपानेन इतरेषां कि प्रयोजनं तेन सिद्धयति? ' बहूनां मध्ये ' इत्यस्यापि फल्ग्वेव प्रयोजनम् ॥। ८७ ॥

पृष्ठ 196

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 196 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६० शुक्लयजुर्वेदसंहिता

घृतं मम घृ॒तम॑स्य॒ योनि॑ध॒ते चि॒तो घृ॒तव॑स्य॒ धाम॑ ।

अनु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि हव्यम् ॥ ८८ ॥

अ ० १७ मन्त्रार्थ -- मैं घृत को अग्नि के मुख में सींचना चाहता हूँ । घृत इस अग्नि का उत्पत्तिस्थान है, अग्नि यह घृत का पर आश्रित है, घृत हो इसके तेज को बढ़ाने वाला है । हे अध्वर्यु! हवि का संस्कार करने के अनन्तर गई आहुति आवाहन कर उसे तृप्त करो और कहो कि हे कामनाओं को पूर्ण करने वाले अग्निदेव! स्वाहा कह कर दी को आप देवताओं तक पहुँचा दो ॥ ८८ ॥

गृत्समददृष्टा । अहमस्य अग्नेर्मुखे घृतमुदकमाहुतिपरिणामभूतम्, मिमिक्षे मेढुं सेक्तुमिच्छति मिमिक्षते, उत्तमपुरुषैकवचने मिमिक्षे, सेक्तुमिच्छामीति यावत् । यतोऽस्याग्नेघृतं योनिरुत्पत्तिस्थानम् गर्भाधारोदक- । घृतेन हि प्रवर्धतेऽग्निः, ' अग्निर्यस्यै योनेरसृज्यत तस्यै घृतमुल्बमासीत् ' ( ०६ | ६ | २ | १३ ) इति श्रुतेः ॥ अतो हे मुल्बम् । योऽग्निर्वृते श्रितो घृतमाश्रितः अस्याग्नेर्धृतमेव धाम स्थानं तेजस्करं वा । उ अवधारणे ' ( निघ ०२।७।१७ ) अध्वर्यो, अनुष्वधं स्वधामन्नमुपलक्ष्य तमग्निमावह पूर्वमन्नमुपकल्प्य पश्चादाह्वय । ' स्वधेत्यन्ननामसु आहूय च मादयस्व तर्पय । तर्पयित्वा चेवं ब्रूहि - हे वृषभ कामानामभिवर्षक, स्वाहाकृतं स्वाहाकारेण ' षढोः कः सि हुतं ' हव्यं त्वं वक्षि वह देवान् प्रापय । वहतेः शपि तल्लोपे च ' हो ढः ' ( पा ० सू ० ८२ ३१ ) इति ढत्वे, ( पा ० सू ० ८ | २ | ४१ ) इति कत्वे च वक्षोति रूपम् । यद्वा हे अग्ने, अनुष्वधं स्वधोत्पन्नं नाम चरोद्विरवधारणाद् अन्नस्योपर्यधश्च घृतं वर्तते, अनुगतान्नं घृतमावह, स्वात्मानं देवत्वं प्रापय । तेन मादयस्व हृष्टो भव योनिः । हे, वृषभ यो उत्कृष्टाभिमतफलानां वर्षक अग्ने, स्वाहाकारेण हुतं हव्यं हविर्वक्षि । यं प्रत्यहं मिमिक्षे, यस्य घृतं च घृते श्रितः, यस्य च घृतं धाम, सत्वमनुष्वधं देवाना वह मादय हव्यं च वक्षि । देवानामावाहनं हविर्वहनं कर्मद्वयं वह्नेः प्रसिद्धमेव । अध्यात्मपक्षे - हे अग्ने परमेश्वर, अहमस्य प्रत्यक्चैतन्याभिन्नत्वेन अपरोक्षस्य तव तर्पणाय घृतं मिमिक्षे मेढुं सेक्तुमिच्छामि । यतो घृतमस्य योनिः स्थानम्, घृतोपलक्षितान्नमयदेहस्य हृदय उपलभ्यमानत्वात् । अत एव घृते श्रितः । तत्रोपलभ्यमानत्वादेव घृतमेवास्य धाम तेजस्करम् । साधकानाह है साधक, त्वमनुष्वधं स्वमात्मानं सर्वान्तर्यामिणं भगवन्तं नारायणं धारयतीति स्वधा, तथा च मनुः - ' आपो नारा इति प्रोक्ता ददातीति आपो वे नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ' ( १।१० ) | अथवा स्वं धनं धनधान्यादिकं स्वधा । स्वशब्दे स्वधा, शस्योत्पत्तिहेतुत्वात्, यद्वा स्वेभ्यो दीयते, स्वस्मिन् धीयते वा, स्वेन धनेन धीयते वेति उपपदे दधातेः ‘ गेहे कः ’ ( पा ० सू ० ३ | १ | १४४ ) इति योगविभागाद् बाहुलकाद्वा कप्रत्ययः । तां स्वधामन्नमुप- वृषभ कल्प्य भगवन्तमावह्, आहूय च मादयस्व, भक्तिपरिप्लुतेन हविषा तर्पय तर्पयित्वा चैवं प्रार्थयस्व वक्षि -- हे कृपया सर्वाभिमतफलानामभिवर्षक भगवन्, स्वाहाकृतं स्वाहाकारेण सर्वात्मसमर्पणेन पूतं हव्यं हविनैवेद्यं धारय स्वीकुरु । तथा चाहुर्याज्ञिकाः - ' अग्ने त्वमैश्वरं तेजः पावनं परमं हि तत् । तस्मात् त्वदीयहृत्पद्मे श्रीरुद्र याम्यहम् || ' इति । दयानन्दस्तु - ' हे समुद्रयायिन् त्वं घृतं मिमिक्षे उदकं सिञ्चितुमिच्छ । उद् यस्याग्नेर्वृतं योनिगृहमस्ति, यो घृते श्रितो घृतमस्य धाम अधिकरणम्, तमग्निमनुष्वधं स्वधान्नस्यानुकूलमावह प्रापय । हे वृषभ, त्वं, तदपि यतः स्वाहाकृतं वेदवाणी निष्पादितं हव्यं होतुमादातुमर्ह वक्षि कामयसे प्राप्नोषि वा तेनास्मान् मादयस्व ' इति यत्किञ्चित्, निरर्थकत्वादेव । तथाहि — कोऽयं समुद्रयायी सम्बोध्यते? किञ्च तत्र प्रमाणम्? जलसिञ्चनेच्छया नैरर्थक्यमेव, च को लाभः समाजस्य वेदाध्येतुर्वा? अभ्युदयनिःश्रेयससाधन क्रियार्थत्वाद् वेदस्य अतदर्थानां

पृष्ठ 197

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 197 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८८-८९ ] वेदार्थपारिजात भाष्यसहिता १६१ ' आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् ' ( जै ० सू ० १ १ २ १ ) इति न्यायाच्च । समुद्रयायी कथमग्निमन्नानु-कूलतां नयति? समुद्रयायिनस्तेन कः सम्बन्ध:? न च वेदवाण्याः कश्चन सम्बन्ध:? वेदवाण्या किं निष्पाद्यते? शब्दस्य ज्ञापकत्वेन कारकत्वायोगात् ॥ ८८ ॥

समुद्रार्द्धमिर्मधम २ ॥ उदपाना सम॑मृतत्वमा॑नट् ।

घतस्य नाम गुह्यं यदस्ति जि॒ह्वा दे॒वाना॑म॒मृत॑स्य नाभिः ॥ ८६ ॥

मन्त्रार्थ - मधुर रस वाली तरंग घृत के रूप में समुद्र से उठती है, फिर प्राणभूत अग्नि के साथ मिल कर अमृतत्व को प्राप्त करती है । घृत का जो गुप्त नाम वेदों में पढ़ा गया है, वह देवताओं की जिह्वा है, अमृत को ना है । इसका अभिप्राय यह है कि घृत का सेवन करने वाला दीर्घायु होता है ॥ ८६ ॥

वामदेवदष्टा । अत्रान्नाध्यासेन घृतं स्तूयते, प्राणाध्यासेन चाग्निः । समुद्रात्, सम्मोदन्ते यजमाना अस्मादिति समुद्रोऽग्निः पार्थिवः, तस्माद् ऊर्मिर्महाराशिर्वृतकल्लोलो मधुमान् रसवान् उदारत्, उद्गच्छ-न्त्यापोऽस्मादिति वा समुद्रो देवो वैद्युतोऽग्निः तस्मादमिरुपर्युपर्यभूत्, अतो मधुमान माधुर्योपेतफलसमूहः, उदारद् उद्गच्छति । अथवा वैद्युतादग्नेरूर्म्यूत्पादको रससम्ह उदारत् । अथवा समुद्रात् समुद्रवणसाधनाद् आदित्याद् धर्माद् रसमुदकलक्षणमुदारत्, ' आदित्याज्जायते वृष्टिः ' ( म ० स्मृ ० ३ ७६ ) इति वचनात् । यद्वा समुद्रादन्तरिक्षाद् ऊर्मिरुदकम् उदारत् । अथवा समुद्रादुक्तलक्षणादूधसः सकाशादुमिरुज्ज्वलक्षीररसः, उदारद् उद्गच्छति । एतद् घृतपक्षेऽपि समानम् । यद्यपि घृतं क्षीराज्जायते, तथापि तस्य ऊधस उत्पत्तेरयमुपचर्यते । शिष्टं वाक्यमग्न्यादिपञ्चपक्षेष्वपि समानम् । अंशुना दीप्त्यंशेन वा समममृतत्वम् आनट् व्याप्नोति । उपेति पादपूरणार्थ:, सामीप्येन वा व्याप्नोति । घृतस्य दीप्तस्य क्षरद्रसस्य रूपस्य गह्यं नाम गोपनीयं नयनसाधनं यदस्ति तद् ब्रवीमि । तद्देवानां जिह्वास्थानीयो भवति । तदेव अमृतत्वस्य नाभिर्वर्धकं भवति । तदुभयं घृतस्य नाभि-रित्यर्थः । एवं सर्वमन्त्रेषु तत्तत्पक्षानुसारेण योजनीयम् । ' उव्वमहीधररीत्या अन्नाध्यासेन घृतमत्र स्तूयते, प्राणाध्यासेन चाग्निः । समुद्राद् घृतमयाद् मधुमान् रसवानूभिर्महाराशिर्धृतकल्लोल उदारद् उदगमत् । ' ऋ गती ' इत्यस्माल्लुङि च्लो ' सतिशास्त्यतिभ्यश्व ' ( पा ० सू ० ३ | १ | ५६ ) इति चलेरङि, ' ऋदृशोऽङि गुण: ' ( पा ० सू ० ७ ४ । १६ ) इति गुणे, ' आटव ' ( पा ० सू ० ६ | १ | ९ ० ) इति वृद्धौ च आरदिति रूपम् । अक्षीणत्वाद् घृतस्य समुद्रेणोपमानम्, अन्नदेवताभिप्रायेण वा समुद्रेणोपमानम्, तस्या अप्यनुपक्षीणत्वात् । उद्गत्य च स ऊर्मिरंशुना प्राणेन जगत्प्राणभूतेनाग्निना सं सङ्गत्य एकीभूय अमृतत्व-ममरणधर्मत्वमुपानड् उपव्याप्नोत् । ' ' णश् अदर्शने ' इत्यस्याल्लुङि ' मन्त्रे घसरणश ' ( पा ० सू ० २२४/८० ) इत्यादिना चले कि ' हल्याभ्यो दीर्घात् ' ( पा ० सू ० ६ १ ६८ ) इत्यादिना तिपो लोपे रूपम् । वि आङ् इत्युपसर्गयो -for व्यावर्तकार्थी शिः । प्राणश्चान्नं च एकीभूय अमृतत्वं प्राप्नुत इत्यर्थः । तस्य घृतस्य गुह्यं नाम गोपनीय -विज्ञातमविद्विद्भिः श्रुतिमन्त्रपरिपठितं यदस्ति तदहं ब्रवीमीति शेषः । किं तदित्याह - देवानां जिह्वा अत्यभिला-बाद् देवानां जिह्वोत्थाननिमित्तम्, ' यदा वा एतदग्नो जुह्वत्यथाग्नेजिह्वा इवोत्तिष्ठन्ति तस्मादाहाग्नेजिह्वासीति ' ( श ० १ | ३ | १ | १ ९ ) इति श्रुतेः । अथ यत्सर्वप्रकाशं नाम तदप्यहं ब्रवीमि । किं तदित्याह - अमृतस्य नाभिरमरण-धर्मत्वस्य नाभिनंहनं बन्धनकारणम्, घृताशिनो दीर्घायुष्ट्वदर्शनात् । यद्वा प्रकृतार्धर्चेन मन्त्रः स्तूयते, अर्धर्चेन च घृतम् । समुद्राद् आग्निकाद्यजुः समुद्राद् य ऊर्मिः शब्दसङ्घातो नामाख्यातोपसर्गनिपातलक्षण उपमोत्प्रेक्षारूपका-द्यलङ्कारोपेतो मधुमान् रसवान् वाक्यगुणैर्युक्तः, उदारद् मुखत उदगात् स एव आंशुना सवनेन क्रियमाणः २१

पृष्ठ 198

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 198 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६२ J शुक्लयजुर्वेदसंहिता [ अ ० १७ सन्नमृतत्वमाप्नोत् ' तदेतद्यजुरूपाॐ श्वनिरुक्तम् ' ( श ० १०/३/५/१५ ) इति श्रुतेः । अतोऽग्निचिद्भिः स ऊर्मिः प्रकाशनीयः । तस्य गृह्यं नाम यदस्ति, तदपि देवानां जिह्वोत्थाननिमित्तम् । किं पुनर्होम:? ' अथास्य घृतकीर्ता-वेवाग्निर्वैश्वानरो मुखादज्जज्वाल ( श ० १ | ४ | १ | १३ ) इति श्रुतेः । अमृतस्य नाभिर्नहनं यजमानानाममृतत्वप्रापकं घृतं यजनेनेत्यर्थः । अतोऽग्निचिद्भियते स्तूयते च घृतमिति भावः । अध्यात्मपक्षे -- समुद्रात् सच्चिदानन्दलक्षणात् मधुमान् मधुरप्रीतियुक्तः, ऊर्मिः सच्चिदानन्दकल्लोलरूपो जीव उदगमत् उद्गत्य च अंशुना जगत्प्राणभूतेन परमात्मना सङ्गत्य एकीभूय अमृतत्वमुपानट् संव्याप्नोतु । घृतस्य दीप्तस्य स्वप्रकाशस्य तस्य यद् गृह्यं नामास्ति तद् ब्रवीमि । किं तदित्याह - देवानां जिह्वेति । देवानां प्रसिद्धानां दिविषदां द्योतनात्मकानामिन्द्रियाणां च अत्यभिलाषास्पदत्वात् । जिह्वावद्रसास्वादमूलत्वाद् जिह्वेति गुह्यं नाम । अमृतस्य नाभिरमृतत्वस्य संहननकारणमित्यर्थः । दयानन्दस्तु - ' हे मनुष्याः, भवन्तः सत्समुद्रादन्तरिक्षाद् अंशुना किरणसमूहेन मधुमान् मधुररसगुण-युक्त उमिस्तरङ्ग उदारद् ऊर्ध्वमारद् आप्नोति । सममृतत्वमानट् समन्ताद् व्याप्नोति । यद् घृतस्य जलस्य गुह्यं रहस्यं नामास्ति या देवानां विदुषां जिह्वा वाणी अमृतस्य मोक्षस्य नाभिः स्तम्भनं स्थिरीकरणं प्रबन्धनम्, तत्सर्वं सेवन्ताम् ' इति, तदपि यत्किञ्चित्, ऊर्ध्वगामिनो मधुमतस्तरङ्गस्यानुपलम्भपराहतत्वात् ॥ ८ ९ ॥

व॒यं नाम॒ प्रब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धारयामा नमो'भिः ।

उप ब्रह्माणवच्यनं चर्तःशृङ्गोऽवमीद गौर एतत् ॥ ६० ॥

मन्त्रार्थ- - हम इस यज्ञ में घृत का नाम लेकर स्तुति करते हैं, क्योंकि घृत देवताओं को प्यारा है । अन्न के द्वारा यज्ञ को धारण करते हैं । ब्रह्मा नाम का ऋत्विक स्तुति किये जाते हुए घृत के नाम को मुने । चार गौर वर्ण यह घृत आहुति के परिणाम से यज्ञ फल को प्रकट करता है ॥ ९ ० ॥ होता वाला यतो घृतनामोच्चारणमपि प्रियं देवानाम्, अतो वयं यजमाना घृतस्य नाम प्रब्रवाम अस्मिन् यज्ञे धृतनाम स्तुमः । नमोभिरन्नैर्धारयाम यज्ञमिति शेषः । किञ्च ब्रह्मा ऋत्विक् शस्यमानं होत्रा स्तूयमानमेतद् उपशृणवत् उपशृणोत् । ' लेटोऽडाटो ' ( पा ० सू ० ३२४ ( ९ ४ ) इत्यडागमः । यथा गौरो गौरवर्णः शुद्धो यज्ञ एतद् घृतनाम घृतं यज्ञफलरूपम् अवमीत् उद्गिरति । यज्ञपरिणामाभिप्रायमेतत् । कीदृशो गौरः? चतुःशृङ्गश्चत्वार ऋत्विजः शृङ्गभूता यस्य सः । ब्रह्मा, उद्गाता, होता, अध्वर्युरिति चत्वार ऋत्विजः । अध्यात्मपक्षे - यतो घृतस्य दीप्तस्य प्रकाशस्य घृतवत्स्नेहमयस्य परमात्मनो नामोच्चारणमपि देवानां प्रियमो वयमस्मिन् यज्ञे तस्य घृतस्य परमात्मनो नाम प्रब्रवाम स्तुमः । नमोभिर्नमस्कारैर्वारयाम, यज्ञं विष्णुमिति शेषः । किञ्च, मन्त्रैः शस्यमानं स्तूयमानमेतन्नाम ब्रह्मा परमेश्वर आसमन्ताद् उपशृणवत् उपाशृणोत् । कोदृशो ब्रह्मा? गौरः शुद्धः । पुनः कीदृश:? चतुःशृङ्गः, चत्वारो विश्वतैजसप्राज्ञतुरीयरूपा विरादिरण्यगर्भाव्याकृत-तुरीयरूपा वा शृङ्गा इव शृङ्गा यस्य स परमात्मा एतन्नाम अवमीद् उद्गिरति । अतः शुद्धपरमात्मोद्भूतत्वात् परममाहात्म्योपेतमेतदित्यर्थः । दयानन्दस्तु - ' यश्चतुश्शृङ्गश्चत्वारो वेदाः शृङ्गवदुत्तमा यस्य सः । गौरो यो वेदविद्यावाचि रमते स एव । गुरतीति वा गौरः । ब्रह्मा चतुर्वेदवित्, अवमीद् उपदिशेत्, उपशृणवद् उपशृणुयात्, तद् घृतस्य आज्यस्य

पृष्ठ 199

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 199 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९ ० - ९ १ ] वेदार्थ पारिजातभाष्यसंहिता १६३ जलस्य वा शस्यमानं प्रशंसितं सद् गुह्यं नामास्त्येतद्वयमन्यान् प्रति प्रब्रवाम । अस्मिन् यज्ञे नमोभिर्धारयाम | मनुष्या मनुष्यदेहं प्राप्य सर्वेषां पदार्थानां नामान्यर्थांश्च अध्यापकेभ्यः श्रुत्वाऽन्येभ्यो ब्रूयुः । एतैः सृष्टिस्थैः पदार्थः सर्वाणि कार्याणि साधयेयुरिति भावार्थ: ' इति, तदेतत् सर्वं मन्त्राक्षरबाह्यमेव, अक्षरार्थाननुगमात् । चतुःशब्देन चत्वारो वेदाश्वत्वार ऋत्विजश्वत्वारो नामाख्यातोपसर्गनिपाता इति ग्रहणे विनिगमनाविरहात् । गोरपदस्य कथञ्चित् तादृशार्थत्वेऽपि गौरपदस्य तथार्थत्वायोगात् । गोपदस्याप्यनेकेऽर्थाः सन्ति, गवां पशुविशेषाणां दातुरपि गोरशब्देन ग्रहीतुं शक्यत्वे विनिगमनाविरहाच्च । ब्रह्मपदमपि न चतुर्वेदवित्परम्, किन्तु ब्रह्मनामक ऋत्विक् चतुर्वेदविद् भवतोति प्रणाड्या तथार्थग्रहणेऽपि प्रथमभावित्वाद् ऋत्विगेव प्रथमोपस्थितिको भवति । अवमीद् उपदिशेदित्यप्यसङ्गतम्, धात्वर्थविरोधात् । तत्र घृतस्य कः प्रसङ्गः? गृहाश्रमो यज्ञ इत्यप्यसङ्गतम्, निर्मूलत्वात्, लक्षणायां बीजाभावात् ॥ ९ ० ॥

चत्वारि शृङ्गा त्रयो अस्य॒ पादा॒ द्वे शोषे॑ स॒प्त हस्तासो अस्य ।

त्रिर्धा बुद्धो वृ॑ष॒भो रोरवीति महो दे॒वो मर्त्यां २ ॥ आविवेश ॥ ६१ ॥

मन्त्रार्थ- - इस यज्ञ देवता के ब्रह्मा, उद्गाता, होता और अध्वर्यु ये चार शृंग हैं । ऋक्, यजुः और साम ये तीन वेद तीन चरण हैं । हविर्धान और प्रवग्यं दो सिर हैं । इस यज्ञपुरुष के छन्दोरूप अथवा होतारूप सात हाथ हैं । प्रातः सवन, माध्यन्दिनसवन और सायंसवन इन तीन स्थानों में बँधा हुआ कामनाओं की वर्षा करने वाला यह यज्ञरूपी वृषभ मन्त्र, ब्राह्मण और कल्प के द्वारा अतिशय शब्द करता है । यह अतिपूजनीय देव मनुष्य लोक में व्याप्त होकर स्थित है । मन्त्र का यह अर्थ निरुक्त ( १३/७ ) के अनुसार है । पतंजलि मुनि ने महाभाष्य ( १1१1१ ) में इस मन्त्र की व्याख्या इस प्रकार को है— नाम, आख्यात, उपसगं और निपात ये चार जिसके सींग हैं, प्रथम, मध्यम, उत्तम पुरुष रूप अथवा भूत, भविष्यत्, वर्तमान काल रूप तीन चरण हैं । नित्य और कार्य रूप शब्द ही दो सिर हैं । सात विभक्तियां ही सात हाथ हैं । एकवचन, द्विवचन, बहुवचन रूप तीन स्थानों में बँधा हुआ, अनेकों अर्थों की वर्षा करने वाला, ऐसा यह व्याकरण शास्त्र अन्य शास्त्रों को दबा कर गरजता है, यह विशाल परिमाण का दिव्य शास्त्र मनुष्यों में फैला हुआ है । इस मन्त्र का तीसरा अर्थ इस प्रकार हो सकता है - वेदरूप यज्ञपुरुष के धर्म, अर्थ, काम और मोक्ष रूप चार शृंग हैं । कर्म, उपासना और ज्ञान रूप तीन चरण हैं । व्यष्टि और समष्टि रूप दो सिर हैं । स्वर अथवा छन्द रूप सात हाथ हैं । इस प्रकार चार पदार्थों की वर्षा करने वाला वेद बार बार उपदेश कर रहा है कि हे मनुष्यों! जागो, परमात्मा का भजन करने के निमित्त ही शरीर है, इसमें परमात्मा ने जीवात्मा के रूप में प्रवेश किया है ॥ ९ १ ॥ यज्ञपुरुषदेवत्य ऋषभो मन्त्रः । चतुःशृङ्गोऽवमीदित्युक्तम्, तत्र कोऽयं चतुःशृङ्ग इति जिज्ञासायां चतु: -शृङ्गशब्दो यज्ञवृषभपरत्वेन प्रतिपाद्यते । यस्य यज्ञस्य चत्वारि शृङ्गाणि ब्रह्मोद्गातृहोत्रध्वय्र्वाख्या ऋत्विजः शृङ्गाणीव प्रधानभूताः । त्रय ऋग्यजुः सामलक्षणाः पादाः, तैरेव यज्ञः प्रतितिष्ठति । द्वे शीर्षे शिरसी हविर्धान-प्रवख्ये । सप्तहस्तासः सप्त होतारो हस्तासो हस्ता इव व्याप्रियन्ते । त्रिधा बद्धस्त्रिप्रकारं सम्बद्धः । प्रातः सवन-माध्यन्दिनसवन - सायंसवनाख्यैर्बद्धो वृषभः कामवर्षिता रोरवीति अत्यन्तं शब्दं करोति । सोऽयं महोदेवो महति पूजयति मह्यते वा जनैरिति महो ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनामुपजीव्यः, ज्ञानकर्मसमुच्चयाधिकारिणां विदुषां शरीरभूतो मर्त्यान् मनुष्यान् आविवेश आविशति ।

पृष्ठ 200

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 200 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६४ शुक्ल यजुर्वेदसंहिता [ अ ० १७ यद्वा - चत्वारो वेदाः शृङ्गाणीव, सवनानि त्रीणि पादाः, प्रायणीयोदयनोये इष्टिविशेषी शीर्षे प्रकाशेन सप्त छन्दांसि हस्ताः, त्रिधा मन्त्रब्राह्मणकल्पैर्बद्धो वृषभः कर्मफलानां वर्षणकर्ता रोरवीति, सोऽयं महो महता अपेक्षित-युक्तो देवो दीव्यतीति देवः, समस्तयज्ञाद्युपलक्ष्यो हिरण्यगर्भः, मर्त्यान् मरणधर्माणः प्राणिनः, आविवेश पुरुषार्थसाधनप्रकाशनाय आविशति । यद्वा - व्याकरणशास्त्राभिमानो देवः शब्दग्रामोऽत्राभिधीयते । चत्वारि नामाख्यातोपसर्गनिपाताः शृङ्गाणि । प्रथममध्यमोत्तम पुरुषास्त्रयः पादाः, भूतभविष्यद्वर्तमानाः काला वा त्रयः पादाः । द्वे शीर्षे द्वौ शब्दा-त्मानौ नित्यः कार्यश्च । सप्त विभक्तयो हस्ताः । त्रिधा बद्ध एकवचनद्विवचनबहुवचनैबंद्धः, उरसि कण्ठे शिरसि वा व्यज्यमानो वृषभ इवायममर्षादिवान्यानि शास्त्राण्यधः पदोकृत्य रोरवीति, य उक्तगुणः सोऽयं महोदेवो मर्त्यान् आविवेश तत्तदर्थान् प्रतिपादयति, मनुष्याधिकारत्वात् शास्त्रस्य । ' रु शब्दे ' इत्यस्य यङ्लुगन्ते रोरवोतीति रूपम् । अध्यात्मपक्षे - चत्वारि शृङ्गा चत्वारो विश्वतैजसप्राज्ञतुरीया विराड्ढरण्यगर्भाव्याकृततुरीया महद- वा शृङ्गाणीव यस्य | पादास्त्रयो जाग्रत्स्वप्नसुषुप्त्याख्या अस्य पादाः । सगुणनिगुणब्रह्मरूपे द्वे शीर्ष । प्रतिपादितः सप्त । हङ्कारपञ्चतन्मात्रा अस्य हस्तासो हस्ताः, हस्ता इव व्यापारशीलाः । त्रिधा बद्धः श्रुतिस्मृतिपुराणैः रोरवीति परा-महादेवा वृषभो वर्षांत कर्मफलानीति वृषः, भाति सर्वोपरीति भः, वृषश्वासौ भश्चेति वृषभः । पश्यन्ती - मध्यया - वैखरीभिर्बहुधा व्यवहरति । दयानन्दस्तु – ' हे मनुष्याः, यूयं यस्यास्य त्रयस्त्रोणि सवनानि भूतभविष्यद्वर्तमानाः कालाः कार्यश्च पादाः, चत्वारि शृङ्गा चत्वारो वेदा नामाख्यातापसर्गनिपाता वा शृङ्गाणीव । द्वे प्रायणीयोदयनाये शीर्ष नित्यः शब्दात्मानो वा । सप्तसंख्याकानि गायत्र्यादीनि छन्दांसि सप्तविभक्तयो वा हस्तासो हस्तेन्द्रियमिव । त्रिधा त्रिभिः प्रकारंमंन्त्रब्राह्मणकल्पैरुरसि कण्ठे शिरसि वा बद्धो वृषभः सुखानामाविर्भावको रोरवीति ऋग्वेदादिना सवन-क्रमेण वा शब्दायत, महो महान् देवो गमनोयः प्रकाशका वा मत्यान् आविवेश तमनुष्ठायाभ्यस्य वा सुखिनो विद्वांसो भवत ' इति, तदपि यत्किञ्चित् । अध्याहाराणां निर्मूलत्वात्, अपसिद्धान्तापाताच्च । न च त्वया ब्राह्मणकल्पानु-सारेण यज्ञव्याख्यानं क्रियते, मन्त्राणामन्यथान्यथा नयनात् । यदि च ब्राह्मणानां कल्पानां चाश्रयणं कृतं स्यात् तदा सायणादिसम्मतमव व्याख्यानं कुर्यात् । न च त्वया क्वचित् सवनत्रयोपेता यज्ञा उक्ताः, वायुशुद्धयादि-हेतुकत्वेन त्वदीयं यज्ञे तदनुपयोगात् । न च कचित् प्रायणीयोदयनीयस्वरूपं त्वया निरूपितम् । कात्यायनादिसूत्राणि कल्पास्तु त्वया सर्वथापाक्षता एव । अकामेनापि निरुक्ताद्याश्रयेणात्र तथा व्याख्यातुं बाधितोऽभूदयम् । त्रीणि । तथा चाह यास्कः — ' चत्वारि शृङ्गेति वेदा वा एत उक्ताः । त्रयोऽस्य पादा इति सवनानि । वृषभो द्वे शीर्षे प्रायणीयोदयनीये । सप्त हस्तासः सप्त छन्दांसि । त्रिधा बद्धस्त्रेधा बद्धो मन्त्रब्राह्मणकल्पैः स्तुवान्त । रोरवीति रोरवणमस्य सवनक्रमेण ऋग्भिर्यजुभिः सामभिः । यदेनमृग्भिः शंसन्ति यजुभिर्यजन्ति सामभिः ' ( नि ० १३।७ ) । महादेव इत्येष हि महान् देवो यद्यज्ञो मत्याँ आविवेशेत्येष हि मनुष्यानाविशति नामाख्यातोपसर्गनिपाताश्च यजनाय । त्रयोऽस्य महाभाष्यकारः पतञ्जलिश्च - ' चत्वारि शृङ्गाणि चत्वारि पदजातानि । सप्तहस्तासो अस्य सप्त विभक्तयः । पादास्त्रयः काला भूतभविष्यद्वर्तमानाः । द्वी शब्दात्मानौ नित्यः कार्यश्च कुत एतत्? रौतिः शब्दकर्मा । त्रिधा बद्ध उरसि कण्ठे शिरसीति । वृषभो वर्षणात्, रोखोति शब्दं करोति । ' इत्याह ॥ ९ १ ॥ महोदेवो मत्य आविवेशेति महान् देवः शब्दो मर्त्यान् मरणधर्माणा मनुष्यास्तानाविवश