वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 181–190

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 181–190

पृष्ठ 181

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 181 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७२-७३ ] वेदार्थ पारिजातभाष्यसहिता १४५ गरुत्मानित्यादिकेन सुपर्णं गरुत्मन्तं कृत्वा निहितवान् भवति । चीयमानस्याग्नेः सुपर्णश्येनादिपक्ष्याकारेण चनात् सुपर्णोऽसि गरुत्मानित्युक्तम् । पर्णशब्देन पतनमुच्यते, शोभनपतनविशिष्ट इत्यर्थः । अध्यात्मपक्षे - हे अग्ने हे परमात्मन् विष्णो, त्वं सुपर्णो गरुडो गरुत्मान् शोभनपक्षोऽसि, गरुडस्यापि विष्ण्ववतारत्वात् । नहि परमात्मानं विष्णुमन्यो धारयितुं शक्नोति । मूले मूलाभावादमूलं मूलमिति न्यायेन सर्वाधारस्य आधारान्तराभावादनाधारं तत् । तस्माद् भगवान् स्वात्मन्येव प्रतिष्ठितो भवति, ' स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि ' ( छा ० ७ | २४ | १ ) इति श्रुतेः । स त्वं पृथिव्याः पृष्ठे उपरि सीद । भासा स्वीयेन प्रकाशेन अन्तरिक्षमापूण । ज्योतिषा स्वीयेन सामर्थ्येन दिवमुत्तभान । तेजसा स्वीयेन दिशो दीपय । नहि सामान्यपक्षिणं विषयीकृत्य एवं वक्तुं युज्यते । अत एव - ' अथो दिव्यः स सुपर्णो गरुत्मान् ' ( ऋ ० सं ० १।१६४।४६ ) । इति मन्त्रवर्णः । अत्र यथा अग्निः, यथा मित्रः, यथा वरुणः, यथा वा इन्द्रः परमात्मैवास्ति, तथैव गरुत्मान् सुपर्णोऽपि परमात्मैव, ' आकाशस्तल्लिङ्गात् ' ( ब्र ० सू ० १।१।२२ ) इति न्यायात् । दयानन्दस्तु - ' हे विद्वन् योगिन् त्वं भासा प्रकाशेन सुपर्णो गरुत्मानसि । शोभनानि पर्णानि पूर्णानि शुभलक्षणानि यस्य स गरुत्मान् गुर्वात्मा असि । यथा सविता अन्तरिक्षस्य मध्ये वर्तते, तथा पृथिव्याः पृष्ठे सीद । वायुरिव प्रजा आपण । सविता ज्योतिषा दिवमन्तरिक्षमिव राज्यमुत्तभान । तेजसा तीक्ष्णीकरणेन दिश इव प्रजा उह उद्वर्धय ' इति, तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात् । पर्णशब्दस्य पूर्णार्थतापि चिन्त्येव । गरुत्मान् गुर्वात्मा इत्यपि प्रमाणापेक्षमेव । मन्त्रे विद्यमानपदैरेव सिद्धान्तरीत्या अन्वयोपपत्तौ प्रक्षेपाध्याहारादि-मूलकं व्याख्यानमपव्याख्यानमेव । एवमेव सविता राज्यमित्यादीनामध्याहारोऽपि निर्मूल एव ॥ ७२ ॥

आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मासद साधुया ।

अ॒स्मिन् स॒धस्थ॒ अध्युत्त॑रस्मि॒न् विश्वे॑ देव॒ यज॑मानश्च सीदत ॥ ७३ ॥

मन्त्रार्थ - हे अग्निदेव! बुलाये जाने पर आप प्रसन्नचित्त होकर पूर्व दिशा में निश्चित अपने श्रेष्ठ स्थान पर बैठिये । हे विश्वेदेवों, आप लोग और यजमान इस परम श्रेष्ठ अग्नि के साथ उत्तम स्थान यज्ञशाला में पधारिये ॥ ७३ ॥

आग्नेय टु । हे अग्ने! त्वम् आजुह्वानः अभिहूयमानः सन् सुप्रतीकः शोभनं प्रतीकं सुखं यस्य स सुसुखः सन् पुरस्तात् पूर्वस्यां दिशि साधुया साधु समीचीनं यथा स्यात्तथा, विभक्तेर्यादेशः, स्वं योनि चित्याग्नेः स्थानम् । आसीद अधितिष्ठ । हे विश्वे देवाः, यूयं सम्प्रदानत्वेन यजमानश्चाधिकारित्वेन अस्मिन् पुरोवर्तिनि अध्युत्तरस्मिन् अधिकमुत्कृष्टे यज्ञाख्ये सधस्थे सह स्थातुं योग्ये यज्ञाख्ये स्वर्गे, ' स्वर्गो वे लोकः सधस्थः ' इति श्रुतिमुज्जहारोव्टाचार्यः सीदत उपविशत, ' द्यौर्वा उत्तरं सधस्थम् ' ( श ० ९ २ | ३ | ३५ ) इति वक्ष्यमाणश्रुतेः । अत्र ब्राह्मणम् — ‘ आजुह्वानः सुप्रतीकः पुरस्तादिति । आजुह्वानो नः सुप्रतीकः पुरस्तादित्येतदग्ने स्वं योनिमासीद साधुयेत्येष वा अस्य स्वो योनिस्त, साध्वासीदेत्येतदस्मिन् सधस्थे अध्युत्तरस्मिन्निति द्यौर्वा उत्तर सधस्थं विश्वे देवा यजमानश्च सीदतेति तद्विश्वैर्देवैः सह यजमान, सादयति द्वाभ्यां निदवाति ' ( श ० ९ ।२।३।३५ ) । द्वितीयं मन्त्रं व्याचष्टे - आजुह्वान इति । सुप्रतीकः शोभनावयवः । तत्त्वमितरान् प्रति न, अपि त्वस्मान् प्रतीति व्याचष्टे - आजुह्वानो नः सुप्रतीक इति । अस्य उख्याग्नेः, एष चित्याग्निः स्वो योनिः १ ९

पृष्ठ 182

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 182 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४६ शुक्लयजुर्वेद संहिता [ अ ० १७ भवतीति व्याचष्टे-स्वसम्बन्धि स्थानम् । अतोऽग्ने स्वं योनिमित्यादिना चित्याग्नि साध्वधितिष्ठेत्येतदुक्तं द्युलोकात्मकत्वादस्मिन् चित्याग्निलक्षणे अग्ने स्वमिति । अस्मिन्निति पृथिव्यन्तरिक्षाभ्यामुपरि वर्तमानत्वेन यजमानमत्रासादितवान् भवति । हे अग्ने, त्वं द्युलोकेऽध्यासीदेत्यर्थः । विश्वे देवा इत्यनेन विश्वेदेवैः सह स्वं योनि चित्याग्नि साधुया क्रियया अधितिष्ठ । पूर्वस्यां दिश्याहूयमानोऽस्माकं शोभनावयवो भूयाः । अतः स्वं हे विश्वे देवा:, यूयं यजमानश्च अत्र सीदत, यूयं अस्मिन् चित्याग्निरूपे उत्तरस्मिन् सधस्थे द्युलोकेऽध्यासीद । सम्प्रदानत्वेन यजमानोऽधिकारित्वेन सीदन्त्वित्यर्थः । सुमुखो भूत्वा अध्यात्मपक्षे – हे अग्ने परमेश्वर, त्वम् आजुह्वान समीचीनं आहूयमानो यथा भक्तेः स्यात्तथा प्रेम्णा अधितिष्ठ सुप्रतीकः । हे विश्वे देवाः, पुरस्ताद् भक्तेः परिकल्पिते सिंहासने स्वं योनि स्थानं साधुया प्रत्यक्षे, अध्युत्तरस्मिन् लोकोत्तरेऽत्युत्कृष्टे सधःस्थे भगवतोऽशभुता यूयं यजमानः साधकश्व, अस्मिन् साधकमनः स्वेष्टदेवेन सह स्थातुं योग्ये सीदत । आजुह्वानः सत्कारेणा-दयानन्दस्तु - ' हे अग्ने, योगाभ्यासेन प्रकाशितात्मन् कर्मभिरस्मिन् पुरस्तात् सधस्थे प्रथमत सहस्थाने स्वं योनि परमात्माख्यं हूतः सुप्रतीकः प्राप्तशुभगुणो यजमानस्त्वं साधुया श्रेष्ठैः यजमानो योगप्रद आचार्यश्च यूयं साधुयोत्तरस्मिन् सधस्थे गृहमासीद । हे विश्वे देवाः सर्वे दिव्यात्मानो योगिनो योगाभ्यासेन प्रकाशितात्मार्थस्य स्वाभ्यहितमात्र-सह स्थाने सीदत ' इति, तत्सर्वं प्रमत्तप्रलापमात्रम्, अग्निपदस्य परमात्माख्यं गृहमित्यपि काल्पनिकमेव । विश्वे देवा त्वम् । तथैव सुप्रतीकशब्दस्यापि तत्कल्पित एवार्थः । योनि । शाब्दनये स्वातन्त्र्यस्याश्रयणेऽराजकतैव स्यात्, इत्यस्य दिव्यात्मानो योगिन इत्यपि न सम्प्रतिपन्तं व्याख्यानम् तस्याव्याहतप्रसरत्वात् ॥ ७३ ॥

। ता स॑वि॒तुर्वरेण्यस्य चित्रामाहं वृणे सुमति विश्वजन्याम् याम॑स्य॒ कण्वो॒ अनु॑हत् प्रपी॑ना सहस्र॑धार॒ पय॑सा म॒हीं गाम् ॥ ७४ ॥

प्रकार के फल देने में समर्थ, सर्वहितकारिणी मन्त्रार्थ -- सभी प्राणियों के प्रेरक ईश्वर की प्रार्थनीय, अनेक परमात्मा को इस अतिपुष्ट, अनन्त धारा वाली, अमृत श्रेष्ठ बुद्धि का मैं वरण करता हूं । ज्ञानी कण्व ऋषि ने प्रेरक वाली इस बुद्धि का दोहन किया था ॥ ७४ ॥

द्वारा सबको सींचने वाली सब प्रकार की सिद्धियों को देने ' ( का ० श्री ० ' समिदाधान, शामीली वैकङ्कत्योदुम्बर्यस्ता, सवितुरिति प्रत्यृचमुत्तमा । तां सकर्णका सवितुरिति मन्त्रेण १८ | ४ | ६ ) । चित्याग्नौ उख्याग्निनिधानानन्तरमध्वर्युस्तत्राग्नौ समित्त्रयमादध्यात् । तत्र तृतीया औदुम्बरी समित् शामीलीं शमोमयीं, विधेमेति वैकङ्कतीम्, प्रेद्धो अग्ने दोदहीत्योदुम्बरीम् कण्वदृष्टा सावित्री त्रिष्टुप् । पुरा कदाचित् सकर्णका आधेया । कर्णको दारुस्फोटो रोगस्तद्वतीति सूत्रार्थः । व्यत्ययेन शः, अन्यथा कण्वाख्यो महर्षिरस्याग्ने सुमतिमनुग्रहकारिणीं बुद्धि तद्रूपां वा पीनः गां धेनुमदुहत् स्तनसङ्घो दुग्धवान् यस्याः सा प्रपीना ताम् । यद्वा अधोगति स्थात्, तामहं वृणे । तत्र दृष्टान्तः - प्रपीनां प्रभूतः सा सहस्रधारा, तां बहुक्षीरधारायुक्ताम् । पयसा प्रकर्षेण पीनां पयसा पूरिताम् । सहस्रधारां सहस्रं धारा यस्याः दुहन्ति 1 तद्वदयमग्निः सुमति दुग्ध्वा स्वाभीष्टं महीं क्षीरेण सम्पूर्णाम् । अथवा बहुदुग्धयुक्तां गां धेनुं यथा लौकिका सम्बन्धिनी कण्वेन दुग्धां तां सुमतिमहमावृणे फलं प्राप्तवान् । वरेण्यस्य सर्ववरणीयस्य सर्वतः प्रेरकस्याग्नेः । पुनः कीदृशीम्? विश्वजन्यां विश्वं सर्वतः प्रार्थये । कीदृशीं सुमतिम्? चित्राम् अपेक्षितबहुविधफलप्रदानसमर्थाम्

पृष्ठ 183

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 183 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ०७४, ] वेदार्थ पारिजातभाष्यसहिता १४७ जन्यमुत्पाद्यं यस्याः सा विश्वजन्या, तां जगदुत्पादनसमर्थाम् अहमावृण इति सम्बन्धः । यद्वा अनया सावित्र्या त्रिष्टुभा कण्वः पुरस्तात् कामदोहनीं धेनुं पयो ययाचे । तां सवितुः सम्बन्धिनीं वरेण्यस्य सर्ववरणीयस्य चित्रां चायनीयां सुमति शोभनबुद्धिमहमावृणे वृणोमि स्वीकरोमि । कोदृशीं ताम्? विश्वजन्यां सर्वजनेभ्यो हिताम् । याम् अस्य सवितुः सम्बन्धिनीं यां सुमतिमेव गां धेनुं कण्वोऽदुहृद् दुग्धवान् । प्रपीनां पयसा पूरितां सहस्रधारां बहुकुटु -म्बस्य धारयित्रीं सर्वसिद्धिदात्रीं वा । तामहं वृण इत्यर्थः । अत्र ब्राह्मणम् -- ' अथास्मिन् समिध आदधाति । एतद्वा एनं देवा ईथिवा समुपरिष्टादन्नेनाप्रीणन् समिद्भिश्वाहुतिभिश्व तथैवैनमयमेतदीयिवा समुपरिष्टादन्नेन प्रीणाति समिद्भिश्चाहुतिभिश्च ' ( श ० ९ ।२।३।३६ ) । उत्तरवाक्यद्वये निधानानन्तरमस्मिन्नग्नौ समिधामाधानं विधाय ताः समिधश्चित्याग्नि प्राप्तस्याग्ने-रुपरितनान्नरूपेण स्तौति - अथास्मिन्निति । स वै शमीमयीं प्रथमासादधाति । एतद्वा एष एतस्यामाहुत्या हुतायां प्रादीप्यतोदज्वलत्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिथं स्यादिति त एता ं , शमीमपश्यंस्तयैनमश-मयंस्तद्यदेतं शम्याऽशमयंस्तस्माच्छमी तथैवैनमयमेतच्छम्या शमयति शान्त्या एव न जग्ध्यै ' ( श ० ९ | २ | ३ | ३७ ) । तत्र शमीमयीं समिधं प्रथममादध्यादित्याह - स वा इति । शमीमय्याः प्रथमाधाने हेतुमाह - एतद्वा इति । अथैनमभिजुहोतीति विहितायामाहुत्यां हुतायामयमग्निः प्रदीप्तः सन्नुदज्वलत् । पश्चादुद्दोप्तमग्नि दृष्ट्वा येनोपायेन नोऽयं न हिस्यादिति भीता देवा विचारयामासुः । पश्चादहिसोपायत्वेन ते एतां शमीमयीं समिध-मपश्यन्, दृष्ट्वा च तथा एनमशमयन् । यत्त एतमनयाऽशमयन् तस्मादसौ शमीनामधेयाऽभूत् । अतः प्रथमं शमी-मय्याः समिध आधानेन तथैवायमपि यजमानः शान्त्यै एनं शमयति । न जग्ध्ये, जग्धिर्भक्षणम्, भक्षणाभावाय, अहिंसाथै इत्यर्थः । ' तार्थं सवितुर्वरेण्यस्य । चित्रामाहं वृणे सुमतिं विश्वजन्यां यामस्य कण्वो अदुहत् प्रपीना, सहस्रधारां पयसा महीं गामिति कण्वो हैनां ददर्श सा हास्यं सहस्रधारा सर्वान् कामान् दुदुहे तथैवं तद्यज-मानाय सहस्रधारा सर्वान् कामान् दुहे ' ( श ० ९ २ ३ | ३८ ) । अथास्याः शमीसमिध आधाने मन्त्रं दर्शयति - तां सवितुरिति । कण्वो महर्षिरेनां शमीरूपां गां ददर्श खलु । अतश्च सा सहस्रधारा भूत्वा अस्मे कण्वाय सर्वान् कामान् दुदुहे । तस्मादाहिता सती शमी तथैव यजमानाय सर्वान् कामान् दुहे, दुग्धे इत्यर्थ: । ' लोपस्त आत्मनेपदेषु ' ( पा ० सू ० ७ | १ | ४१ ) इति तकारलोपः । अस्याग्नेरुत्पादकत्वेन सम्बन्धेन शमीमदुहत्, ' शमीगर्भादग्नि मन्थति ' ( तै ० ब्रा ० ११ ९ / १ ) इति श्रुतेः । प्रपीनां प्रकर्षेण पीवरीम् । महीं महतीम्, टिलोपश्छान्दसः । विश्वजन्यां विश्वं जन्यं जनहितं यस्यां सा विश्वजन्या, ताम् । सर्वस्योत्पादयित्रीं वा तामहमावृण इत्यर्थः । अध्यात्मपक्षे – वरेण्यस्य सर्वसंभजनीयस्य सवितुर्जगदुत्पादकस्य परमात्मनः सम्बन्धिनीं तां चित्रां चायनीयां बहुधान्यपश्वादिफलप्रदां वा सुमति शोभनबुद्धिरूपामहम् आ आभिमुख्येन वृणे स्वीकरोमि । कीदृशीं सुमतिम्? विश्वजन्यां जगदुत्पादनसमर्थाम्, तत्सङ्कल्पेनैव प्रपञ्चोत्पत्तेः । कण्वो मुनिरस्य सवितुर्यां सुमतिमेव गां महद् अनुग्रहकारिणीं बुद्धि दुग्धवान् । कीदृशी गाम्? प्रपीनां प्रकर्षेण पीवरीम् । पयसा पूरितां सहस्रधारां सहस्रक्षीरधारायुक्ताम् । पयसा दुग्धेन महीं महतीं बहुदुग्धां सर्वसिद्धिदात्रीं तां कण्वेन दुग्धां सवितुर्मतिमहं वृणे । दयानन्दस्तु — ' यथा कण्वोऽस्य वरेण्यस्य सवितुरीश्वरस्य यां चित्रां विश्वजन्यां प्रपीनां सुमतिं पयसा महीं गां च अदुहत्, तथा तामहं वृणे ' इति, तदपि यत्किञ्चित् कण्वपदस्य प्रसिद्धमर्थमपहाय मेधाव्यर्थकत्वार्थ-ग्रहणे मानाभावात्, यथा - तथा - पदयोरपि मूलेऽभावाच्च || ७४ ||

पृष्ठ 184

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 184 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

II शुक्लयजुर्वेदसंहिता [ अ ० १७

विधेमंते परमे जन्म॑न्न॒ग्ने विधेम॒ स्तोमै॒रव॑रे सधस्थे ।

यस्मा॒द्योनेरुदारिथिा यत्रे॒ तं प्र त्वे हवींषि जुहुरे समिद्धे ॥ ७५ ॥

मन्त्रार्थ - हे अग्निदेव! उत्तम जन्म वाले पुण्यात्मा स्वर्ग में आपके निमित्त हवि देते हैं, स्वर्ग के नीचे अन्तरिक्ष लोक में विद्युत् रूप में स्थित आपको स्तुति करते हुए हवि देते हैं । आप इष्टका - चित्ति रूप स्थान में प्रकट यज्ञ में हुए हैं, अतः मैं आपकी पूजा करता हूं और इसीलिये भली प्रकार से प्रज्वलित आपके निमित ऋत्विकगण आहुतियां देते हैं ॥ ७५ ॥

गृत्समददृष्टा त्रिस्थानाग्निदेवत्या त्रिष्टुप् । हे अग्ने, ते तुभ्यं विधेम हविर्दद्मः । विदधातिर्दानकर्मा , ' द्यौर्वा परिचरणकर्मा च । कथम्भूताय ते? परमे उत्कृष्टे जन्मन् जन्मनि दिवीत्यर्थः, आदित्यात्मना स्थिताय अस्य परमं जन्म ' ( श ० ९ | २३ | ३ ९ ) इति श्रुतेः । पुनः कथम्भूताय? अवरे सधस्थे दिवोऽर्वाचीने सहस्थानेऽन्तरिक्षे स्थिताय विद्युद्रूपाय स्तोमः स्तोत्रैर्वयं विधेम परिचरेम, ' अन्तरिक्षं वा अवरं सधस्थम् ' ( श ० ९ २ | ३ | ३ ९ ) इति श्रुतेः । हे अग्ने, यस्माद् योनेरिष्टकाचितिरूपात् स्थानात् त्वम् उदारिथिा उद्गतोऽसि । उत्पूर्वकात् ' ऋ गती ' इत्यस्माल्लटि मध्यमैकवचने रूपम्, संहितायां छान्दसो दीर्घः, ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घावा, तं योनिमहं यजे पूजयामि । ततः समिद्धे सम्यक् प्रज्वलिते त्वे त्वयि चित्येऽग्नौ हवींषि प्रजुहुविरे प्रजुह्वति, ऋत्विज इति शेषः । ' इरयो रे ' ( पा ० सू ० ६ | ४ | ७६ ) इति ' इरे ' इत्यस्य ' रे ' आदेशः, ' एष वा अस्य स्वो योनिः ' ( श ० ९ ।२।३।३ ९ ) इति श्रुतेः । एष चित्योऽग्निः । यद्वा हे अग्ने, ते त्वदीये, परमे उत्कृष्टे जन्मन्यु-त्पत्तिस्थाने गार्हपत्ये सवितृमण्डले वा विधेम परिचरेम, समिधेति शेषः । अस्माभिः सह स्थातुं योग्ये सधस्थेऽवरे निकृष्टे भूलोकवर्तिजन्मनि स्तोमैः स्तोत्रैः परिचरेम | यस्माद् योनेश्चितिस्थानादुदारिथ स्वयमुद्गतोऽसि, तं योनि यजे । समिद्धे त्वे त्वयि जुहुरे, इत्यादि पूर्ववद् व्याख्येयम् । अत्र ब्राह्मणम् —'अथ वैकङ्कतीमादधाति । तस्या उक्तो बन्धुर्विधेम ते परमे जन्मन्नग्न यजे इति तमित्येष द्यौर्वा अस्य परमं जन्म विधेम स्तोमैरवरे सधस्थ इत्यन्तरिक्षं वा अवरथं सधस्थं यस्माद्योनेरुदारिया वा अस्य स्वो योनिस्तं यज इत्येतत् प्र त्वे हवीषि जुहुरे समिद्ध इति यदा वा एष समिध्यतेऽथैतस्मिन् हवी ंषि प्रजुह्वति ' ( श ० ९ | २ | ३ | ३ ९ ) | शमीसमिदाधानानन्तरं वैकङ्कतसमिदाधानं विधाय तत्स्तावकं होमब्राह्मणं प्रागेव ( श ० ६।६।३।१ ) षष्ठकाण्डेऽभिहितमित्याह - अथेति । आधानमन्त्रं व्याचष्टे - विधेमेति । प्रथमपादे परमे जन्मन्नित्यनेन धुलोको विवक्षित इत्याह- द्यौर्वा इति । द्वितीयपादेऽवरे सधस्थ इत्यनेनान्तरिक्षं विवक्षित-मित्याह -- अन्तरिक्षं वा इति । यस्माद्योनेरित्यत्र योनिशब्देनैष भूलोको विवक्षित इत्याह- एष वा इति । प्र त्वे हवोषि ' इति तुरीयपादः प्रसिद्धार्थक इत्याह- यदा वा एष इति । हे अग्ने, ते त्वां परमे जन्मन् उत्पत्तिस्थाने द्युलोके विधेम परिचेरम । न केवलं द्युलोक एव, किन्तु स्तोमैः स्तुतिभिरुपलक्षिता वयमवरे सधस्थे द्युलोकादधःस्थानेऽन्तरिक्षेऽपि विधेम । किञ्च यस्माद्योनेस्त्वम् उदारिथ उद्गतवानसि तमेतं लोक-मनया समिधा यज्ञेषु द्युलोकादोनामग्निकारणत्वेनाग्नेः कारणादेकहोम उक्तः । अथ प्रत्येत्य हवींषीत्यनेन harsa होम विधीयते - समिद्ध इति । समिद्धे त्वे त्वयि हवींषि प्रजुहुरे जुहविरे, विपश्चित इति शेषः । तो मपि समिद्धे त्वय्येतां समिधमादध्मह इत्यर्थः । अध्यात्मपक्षे – हे अग्ने परमेश्वर, ते त्वदीये परमे उत्कृष्टे जन्मनि श्रीरामजन्मनि श्रीकृष्णजन्मनि वा प्रादुर्भूतं श्रीरामं श्रीकृष्णं वा विधेम । अवरे तस्मादर्वाचोने काले कल्किरूपेण वां परिचरेम । यस्माद्योने-

पृष्ठ 185

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 185 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ७५-७६ ] वेदार्थपारिजातभाष्यसहिता १४ ९ र्मूलकारणात् परब्रह्मस्वरूपाद् उदारिया आविर्भूतोऽसि तं योनि परमकारणं त्वां यजे पूजयामि । त्वे त्वयि त्वन्निमित्तं समिद्धेऽग्नौ पूर्वे महर्षयो हवींषि प्रजुहुरे हवींषि प्रजुह्वति स्म । दयानन्दस्तु - ' हे अग्ने योगिन्, ते तव परमे जन्मनि योगसंस्कारजे जन्मनि, त्वे वर्तमानजन्मनि, अवरे अर्वाचीने सधस्थे वर्तमाना वयं स्तोमैः स्तुतिभिः विधेम सेवेमहि । त्वमस्मात् यस्माद्योः स्थानाद् उदारिथा उत्कृष्टैः साधनैः प्राप्नुहि तं योनिमहं प्रयजे । यथा होतारः समिद्धेऽग्नौ हवींषि जुहुरे, तथा योगाग्नो दुःख-समूहस्य होमं विधेम ' इति, तदपि यत्किञ्चित्, तात्पर्यानुपपत्तिमन्तरा अन्वयानुपपत्तिमन्तरा वा अग्निपदस्य योगिनि लक्षणानुपपत्तेः । तथैव परमजन्मपदस्य परमोत्कृष्टे योगसंस्कारजे जन्मनि ' इत्यर्थोऽपि न सङ्गतः, निर्मूलत्वात् । ' त्वे ' इत्यस्य त्वदीये वर्तमानजन्मनीत्यर्थोऽप्यसङ्गत एव तस्मिन्नर्थे तस्य शब्दस्य शक्तिग्रहा-भावात् । योगाग्नौ लोकस्य दुःखहोमोऽपि निर्युक्तिक एव, योगश्चित्तवृत्तिनिरोधः ' इति परमर्षिः पतञ्जलि -राह एतेन यस्य चित्तनिरोधस्तस्य दुःखादिनाशसम्भवेऽपि तदन्यस्य दुःखनाशे मानाभावात् । चार्वाकप्रायेण त्वया सिद्धयोऽप्यनङ्गीकृता एव । अतः सङ्कल्पसिद्धया तत्सर्वं भवतीत्यपि निर्मूलमेव ॥७५ ॥

प्रेद्धो ' अग्ने दीदिहि पुरो नोऽज॑स्त्रया सूर्या यविष्ठ । त्वा ं शश्व॑न्त॒ उप॑यन्ति॒ वाजः ॥ ७६ ॥

मन्त्रार्थं - - हे अतितरुण अग्निदेव! निरन्तर उठती हुई लपटों से आप अत्यन्त प्रकाशमान हैं । आप हमारे इस यज्ञ में भी अपनी इन लपटों के साथ प्रदीप्त होइये । निरन्तर पैदा होने वाले नये नये अन्नों की हवि देकर हम आपको तर्पित करते हैं ॥ ७६ ॥

वसिष्ठ दृष्टा अग्निदेवत्या विराट्, ' दशाक्षरास्त्रयो विराटू ' ऋ ( ० प्राति ० १६ ४२ ) इत्युक्तेः । हे अग्ने, त्वं प्रेद्धः सन् भूयोऽपि नोऽस्माकं पुरोऽग्रतो दीदिहि दीप्यस्व । कीदृशस्त्वम्? एतया अजस्रया अनुपक्षीणया सूर्या समित्काष्ठिकया प्रेद्धः प्रदीप्तः | सूर्मीशब्दः काष्ठवचनः, ' सूर्मी ज्वलन्तीं वा श्लिष्येत् ' ( म ० स्मृ ० ११।१०३ ) इति स्मृतेः । केचित्तु लोहमयीं ज्वलन्तीं स्थूणां सूर्मीमाहुः । तथा सूर्मीसमानया ज्वालया दीदिहि दीप्यस्व | दोव्यतेविकरणव्यत्ययेन शपः श्लौ द्वित्वे ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६ १७ ) इत्यभ्यासदीर्घे रूपम् । अत्र सूर्मीशब्दो ज्वालोपलक्षकः । हे यविष्ठ, अतिशयेन युवा यविष्ठस्तत्सम्बुद्धी, हे युवतम अग्ने! यतस्त्वामेव शश्वन्तः शाश्वतिका निरन्तरभाविनों वाजा अन्नानि हवींषीति यावत् त्वामुपयन्ति प्राप्नुवन्ति, तस्माद् दीदिहि दीप्यस्वेति सम्बन्धः । अत्र ब्राह्मणम् ' अथौदुम्बरीमादधाति । ऊर्वे रस उदुम्बर ऊर्जेर्वनमेतद्रसेन प्रीणाति कर्णकवती भवति पशवो वै कर्णवाः पशुभिरेवैनमेतदन्नेन प्रीणाति यदि कर्णकवतीं न विन्देद् दधिद्रप्समुपहत्यादध्यात्तद्य-उपतिष्ठते तदेव पशुरूपं प्रेद्धो अग्ने दीदिहि पुरो न इति विराजा दधात्यन्नं विराडन्नेनैवनमेतत्प्रीणाति तिस्रः समिध आदधाति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति ' ( श ० ९ ८ | ३ | ४० ) । वैकङ्कतसमिद्धोमानन्तर मौदुम्बरसमिधो होमं विधत्ते - अथौदुम्बरीमिति । आधातव्याया उदुम्बरसमिधो गुणानाह - कर्णकवती भवतीति । कर्णकशब्देनात्र पत्रशाखादिकं विवक्षितम्, पत्रादीनां पशुपुष्टिसाधनत्वेन पशुत्वात् तथाविधायाः समिधो होमेन पशुरूपेणैवान्नेन एनं प्रीणाति । कर्णकशब्देन दारुस्फोटो रागो

पृष्ठ 186

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 186 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५० शुक्लयजुर्वेदसंहिता [ अ ० ७१ समिधं न विवक्षित इति केचनाचार्या आहुः । तथाविधायाः समिधोऽलाभे किं कुर्यात्तत्राह । तत्र - यदि समिधि कर्णकवतों द्रप्स उपतिष्ठत इति विन्देत् तदा दधिद्र दधिबिन्दुम् उपहत्य समिधि संश्लिष्य आदध्यात् पशुरूपेणान्नेन प्रीणाति । अन्यत् यत् तदेव पशुरूपं भवति । अतस्तथाविधायाः समिध आधान एनमग्नि स्पष्टम् । वा अध्मात्मपक्षे – हे अग्ने परमेश्वर श्रीराम, प्रेद्धः प्रकर्षण दीप्तस्त्वं नोऽस्माकं वाजा योग्यान्यन्नानि पुरः पुरतो हृदये उपयन्ति दीदिहि दीप्यस्व । हे यविष्ठ युवतम, यतश्च त्वामेव शवन्तो निरन्तरा सूर्मीतुल्यया ज्वालया प्रेद्धो दुष्टानां उपगच्छन्ति, अतो दीदिहि दीप्यस्व । एतया अजस्रया अनुपक्षीणया मन्त्रो सूर्या व्याख्येयः । तस्य शिवमहिम्नस्तोत्राद दर्पदलने भक्तानां रक्षणे च सन्नद्धो भवेति शेषः । शिवपरत्वेनाप्ययं यविष्ठत्वस्मरणात् । नोऽस्मान् दीदिहि दयानन्दस्तु हे यविष्ठ योगिन् त्वं पुरः प्रथमं प्रेद्धः सन् अजस्त्रया गुम्बा ' ऐश्वर्येण इति, तदपि विसङ्गतमेव, कामयस्व । शश्वन्तो निरन्तरं वर्तमाना वाजा विज्ञानवन्तो जनास्त्वामुपयन्ति यविष्ठत्वं सम्भवतीति तेन योगिन एव आप्तकामानां योगिनां कामयितृत्वायोगात् । किञ्च योगिभिन्नानामपि अग्निवाजादिशब्दानामपि तादृशेऽर्थे सङ्गतिग्रहा -कथं गृह्येरन्? सूमिपदस्य ऐश्वर्यमर्थः कुतो लब्धः? एवमेव भावादेव तादृशार्थासङ्गतेः ॥७६ ॥

अग्ने॒ तम॒द्याश्वं न स्तोमै॒ः क्रतुं न भ॒द्र ं

, हृदिस्पृश॑म् । ऋध्यामा॑ त ओहः ॥ ७७ ॥

करते हुए फल-मन्त्रार्थ - हे अग्निदेव! आज हम आपके उस यज्ञ को आपके नाम, रूप और कर्मों का बखान यज्ञ के घोड़ों की ब्राह्मण स्तुति करते प्रापक साम मन्त्रों से सब प्रकार से उसी प्रकार समृद्ध करते हैं, जैसे कि कल्याणकारी अश्वमेध यज्ञ के संकल्प को समृद्ध करते हैं और जिस प्रकार यजमान अतिप्रिय विर काल से मन में स्थित हैं ॥ ७७ ॥

तम् ' इति ' स्रुवाती जुहोत्यग्ने तमद्येति प्रत्यृचम् ' ( का ० श्र ० १८/४/८ कण्डिकास्थले ) । समिध आधाय व्याख्याता ' अग्ने | ऋग्द्वयेन स्रुवेण द्वे घृताहुती तत्राग्नौ जुहुयादित्यर्थः । इयं पञ्चदशे ४४ तमद्याश्वं अत्र ब्राह्मणम् – ‘ अथाहुतीर्जुहोति । यथा परिविष्यानुपाययेत्तादृक्तत् स्रुवेण स्तोमस्तं पूर्वे स्रुचोत्तरानग्ने त ऋद्धया समित्येतत् न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ऋद्धयामा त ओहैरिति यस्ते संवत्सरः हृदिस्पृक् संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य पङ्क्त्या जुहोति पञ्चपदा पक्तिः पञ्चचितिकोऽग्निः पञ्चर्तवः - अथाहुतीरिति । मात्रा तावतैवैनमेतदन्नेन प्राणाति ' ( श ० ९ ४२२३२४ ९ ) । समिद्धीमानन्तरमाज्याहुतीविवत्ते पेयं पाययेत्, तथा आज्याहुतिकरणं लोके भुञ्जानस्य पुरुषस्य यथा शाकसूपौदनादिकं परिविष्य पश्चाज्जलादिकं होमप्राप्ती आह-भवति, प्रथमसमिद्धोमस्य परिवेषणवत्कृतत्वात् । तत्र साधारण्येन स्रुचैव सर्वासामेव । हे अग्ने, ते हृदिस्पृग् स्रुवेणेति । अग्ने तमद्याश्वमित्याहुतिमन्त्रस्य तादृशं तात्पर्यमाह - यस्ते हृदिस्पृगिति मन्त्रेणेत्यर्थः । अथास्य मन्त्रस्य यः स्तोमोऽस्ति, ते तं स्तोमम् ऋद्धवासं समृद्धं क्रियासमित्युक्तं भवत्यनेन

छन्दः प्रशंसति - पङ्क्त्या जुहोतीति । शेषं सुगमम् ॥७७ ॥

पृष्ठ 187

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 187 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७८ ] वेदार्थं पारिजातभाष्यसहिता चिति॑ि ज॒होति॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हाम॑न् वीतिहोत्रा ऋतावृधः । पत्य॒ विश्व॑स्य॒ भूम॑नो जुहोमिं वि॒श्वक॑र्म॑णे विश्वाहादा॑भ्य ं हविः ॥ ७८ ॥

१५१ मन्त्रार्थ - मैं एकाग्रचिस से इस चिति में स्थित अग्नि को घृत की आहुति देकर अत्यन्त प्रसन्न हो रहा हूं । मेरी अभिलाषा है कि इस यज्ञ में आहुति के अधिकारी सत्य और यज्ञ के वृद्धिकर्ता देवगण प्रकट हों । महान् जगत्पति स्वयं ही जगत् की उत्पत्ति के निमित्त स्वादयुक्त हवि देते हैं, मैं तो केवल निमित्तमात्र हूँ ॥ ७८ ॥

विश्वकर्मदेवत्या जगती अतिजगती वा । यथा येन प्रकारेण देवा हविर्भाजो देवा इह अस्मिन् कर्मणि आगमन् आगच्छेयुः, तथाहं मनसा भक्तियुक्तेन मनसा घृतेन बाह्यद्रव्येण च चित्ति जुहोमि देवानां चित्तमुपाददे, प्रसादयामीत्यर्थः । कीदृशा देवा:? वीतिहोत्राः, हूयतेऽस्मिन् हविरिति होत्रा यज्ञः, वीतिरभिलाषविषयो होत्रा येषां ते, ' होत्रा इति यज्ञनामसु ' ( निघ ० ३ १७१८ ), कामितयज्ञा: कमनीययज्ञा वा । पुनः कीदृशाः? ऋतावृधः, ऋतं यज्ञं सत्यं वा वर्धयन्तीति ऋतावृधः, सत्यवर्धयितारो यज्ञवर्धयितारो वा । ' संहितायाम् ' ( पा ० सू ० ६ | ३ | ११४ ) इत्यधिकारे, ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घः । तत ऊर्ध्वं भूमनो भूम्नो मह्तो विश्वस्य जगतः पत्ये स्वामिने विश्वकर्मणे प्रजापतये विश्वाहा सर्वेष्वहःसु अदाभ्यम् अनुपहास्यं स्वादुभूतं हविर्जुहोमि । यद्वा मनसा श्रद्धावता घृतेन च चित्तिम् ऋत्विजां यजमानानां च चित्तं जुहोम्यग्निसम्बद्धं करोमि अग्नितत्वपरि-ज्ञानार्थं चिन्तनसन्तानं करोमीत्यर्थः । निश्चयात्मकं चित्तं तथा जुहोमि यथेह यज्ञे देवा आगच्छेयुः । आगमन् इति ' पुषादिद्युतादितः परस्मैपदेषु ' ( पा ० सू ० ३।१।५५ ) इति गमेर्लङि च्लेरङि रूपम् । विश्वाहा विश्वानि च तान्यहानीति विश्वाहा सर्वेष्वहस्सु अदाभ्यमनुपहतं स्वादु हविर्विश्वकर्मणे प्रजापतये जुहोमि । कीदृशाय विश्वकर्मणे? भूमनो भूम्नो महतो विश्वस्य जगतः पत्ये स्वामिने । अत्र अलोपाभाव आर्पः । अत्र ब्राह्मणम् -- ' अथ वैश्वकर्मणीं जुहोति । विश्वकर्माऽयमग्निस्तमेवैतत् प्रीणाति चित्ति जुहोमि मनसा घृतेनेति चित्तमेषां जुहोमि मनसा च घृतेन चेत्येतद्यथा देवा इहागमन्निति यथा देवा इहागच्छा नित्येतद्वीतिहोत्रा ऋतावृध इति सत्यवृध इत्येतत् पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मण इति योऽस्य सर्वस्य भूतस्य पतिस्तस्मै जुहोमि विश्वकर्मणइत्येतद्विश्वाहादाभ्य हविरिति सर्वदैवाक्षितं हविरित्येतत् ' ( श = ९ | २ | ३ | ४२ ) | विश्वकर्मा देवता अस्या इति विश्वकर्मणी, तामाहुति जुहोति कुर्यादित्यर्थः । नन्वस्य होमस्य अग्न्यर्थत्वादत्र विश्वकर्म-देवताकत्वाच्च वैयधिकरण्ये प्रकृतसमवेतार्थता न स्यादित्यत उक्तम् - विश्वकर्माऽयमग्निरिति । मन्त्रं व्याचष्टे -चित्ति जुहोमीत्यादिना । अत्र चित्तिशब्दार्थं दर्शयन् तस्य चात्र सम्बन्धिविशेषोपादानाभावेन साधारण्यात् सम्बन्ध्यन्तरप्रसक्तिनिवारणेनोत्तरवाक्योपात्तादेव सम्बन्धित्वं दर्शयति - चित्तमेषां जुहोमीति । यथा देवा इहाग-मन्नित्यत्रागमन्नित्येतत्पदं व्याचष्टे - यथा देवा इहागच्छानिति । आगच्छेयुरित्यर्थः । गमलिङथे लेटि ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३।४ / ९ ७ ) इतीकारलोपः । ' लेटोऽडाटी ' ( पा ० सू ० ३।४।९ ४ ) इत्यडागमः । ऋतावृध इत्यत्र ऋतशब्दस्य सत्यमर्थ इत्याह- सत्यवृध इति अध्यात्मपक्षे - वीतिहोत्राः कामितयज्ञाः, ऋतावृधः सत्यस्य यज्ञस्य वा वर्धयितारो देवा भगवतोंशभूता यथा इह अस्मिन् आराधनलक्षणे ज्ञानलक्षणे वा यज्ञे आगमन् आगच्छेयुः, तथा एषां चित्ति चित्तं जुहोमि उपाददे प्रसादयामि | केन साधनेन? तत्राह - मनसेति । मनसा श्रद्धालुना चेतसा, बाह्येन घृतेन च । दयानन्दस्तु - ' हे मनुष्याः, यथा मनसा विज्ञानेन घृतेन आज्येन चित्ति चिन्वन्ति यया सा चित्तिः, तां जुहोमि । यह वीतिहोत्राः सर्वतः प्रकाशितयज्ञा ऋतावृधो ये ऋतेन सत्येन वर्धन्ते देवाः कामयमाना विद्वांसो

पृष्ठ 188

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 188 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५२ यजुर्वेदसंहिता [ अ ० १७ भूमनो बहुरूपस्य विश्वस्य समग्रस्य जगतो विश्वकर्मणे पत्ये पालकाय जगदीश्वराय अदाभ्यमहिंसनीयं हविर्होतव्यं शुद्धं सुखकरं द्रव्यं विश्वाहा सर्वाणि दिनानि होतुमागमन्नागच्छन्ति, अहं हविर्जहोमि, यूयमप्याचरत यत्किञ्चित्, अध्याहाराणां निर्मूलत्वात् । चित्तिपदेन सञ्चयकारिणी क्रिया जिघृक्षिता, न चित्तमित्यत्र ' इति, तदपि नाविरहात् । जुहोमीति क्रियापदमपि होमार्थकं स्वाभाविकम्. आदानार्थता तु प्रकरणवशादेव । विनिगम-कारिणी क्रिया? कथं वा तस्था आदानमित्यादिकं सर्वमपि प्रमाणसापेक्षमेव ॥ ७८ ॥ का च सञ्चय-सप्त ते ' अग्ने समिधः सप्त जिह्वाः सप्त ऋष॑यः सप्त धार्म प्रियाणि ।

सप्त होत्र: सप्तधा त्वां यजन्ति सप्त योनीरापूणस्वा घतेन स्वाहा ॥ ७ ९ ॥ मन्त्रार्थ - हे अग्निदेव! आपकी शमो आदि सात समिधायें हैं, अर्थात् इनमें से आप प्रकट होते हैं सात प्रकार की ज्वालारूप जिह्वायें हैं, सात ऋषि और सात गायत्री आदि छन्द आपको अत्यन्त । आपको के होता आपकी अग्निष्टोम आदि सात प्रकार के यज्ञों में पूजा करते हैं | आप हमारी सात प्रिय हैं । सात प्रकार ताँकि यह श्रेष्ठ यज्ञ सम्पन्न हो सके ॥ ७ ९ ॥ चितियों को घृत से पूर्ण करें, ' पूर्णाहति च सप्त त इति ' ( का ० श्री ० १८ / ४ / ९ ) स्रुचा पूर्णाहुति जुहोतीति सूत्रार्थ आहुति: पूर्णाहुतिरित्यर्थः । सप्तर्षिदृष्टा आग्नेयी द्वधिका त्रिष्टुप् । हे अग्ने, ते तव सप्त समिधः: । समिन्धनाः घृतपूर्णया प्राणाः स्रुचा शीर्षण्याः सन्ति, ' प्राणा वै समिध: प्राणा ह्येत समिन्धते ' ( श ० ९ २ | ३ | ४४ ) इति वक्ष्यमाणश्रुतेः तव सप्तजिह्वाः सन्ति ज्वालारूपा हिरण्याङ्गणाद्या आगमोक्ताः । यद्वा आथर्वणिकोक्ता - ' काली । कराली किञ्च ते मनोजवा च विलोहिता चापि सधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः च ( मुण्डको ० ११२ ) । तथा सप्त ऋषयो मरीच्यादयस्तव द्रष्टारः सन्ति । तथा सप्त प्रियाणि धाम धामानि ॥ ' गायत्र्यादीनि तव सन्ति, ' छन्दांसि वा अस्य सप्त धाम प्रियाणि ( श ० ९ | २ | छन्दांसि धामानि स्थानानि आहवनीय गार्हपत्य- दक्षिणाग्नि - सभ्यावसस्थ्य - प्राजाहिताग्नीश्रीयाणि ३ | ४४ ) इति श्रुतेः । यद्वा सन्ति । किञ्च, हे अग्ने सप्तहोत्रा होत्रादय ऋत्विजः । होता, प्रशास्ता, ब्राह्मणाच्छंसी सोमयागे वह्निधारकाणि अच्छावाकश्चेति सप्त होत्राः । सप्तधा सप्तत्रकारैरग्निष्टोमादिभिः सप्तभिः संस्थाभिः ।, अग्निष्टोमोऽत्यग्निष्टोम पोता, नेष्टा, आग्नीध्रः, उक्थ्यः, षोडशी, अतिरात्रः, आप्तोर्यामो वाजपेयश्चेति सप्त संस्थाः सप्त प्रकाराः । त्वा त्वां सप्तयोनीश्चितीघृतेन आवृणस्व आतृप्यस्व, ' सप्तयोनोरिति चितीरेतदाह् सप्तचितिकोऽग्निः ' यजन्ति ( श ० ९ । हे २ | ३ अग्ने | ४४, स त्वं श्रुतेः । स्वाहा सुहुतमस्तु । यद्वा स्वाहा यज्ञरूपस्त्वम्, ' यज्ञो वे स्वाहाकार: ' ( ० ९ २१२२३२४४ ) इति श्रुतेः ) इति सप्तयोनीघृतेन आपणस्व आतृप्यस्वेति काण्वभाष्ये सायणाचार्याः ॥ अत्र ब्राह्मणम् -'अथ पूर्णाहुति जुहोति । सर्वमेतद्यत्पूर्ण सर्वेणैवैनमेतत्प्रीणाति ' ( ० ९ | २ | ३ | ४३ ) | उक्त होमानन्तरं पूर्णाहुति विधत्ते - अथेति । पूर्णा चासावाहुतिश्चेति पूर्णाहुति:, आज्यपूर्णया आहुतिरित्यर्थः । यत् पूर्णं तत् सर्वम्, अपरिमितत्वात् । अत एनं तेन सर्येणैवान्नेन प्रीणाति । ' सृचा सप्त ते सम्पाद्यमाना अग्ने समिध इति । प्राणा ह्येत समिन्धते सप्त जिह्वा इति यानमून् सप्त पुरुषानेकं पुरषमकुर्वस्तेषामेतदाह त ऋषय आसन् सप्त धाम प्रियाणीति छन्दा स्येतदाह छन्दार्थ सि वा अस्य सप्त धाम सप्त ऋषय इति सप्त हि स्वा यजन्तीति सप्त ह्येत होत्राः सप्तधा यजन्ति सप्त योनीरिति चितीरेतदाहापृणस्वेत्या प्रियाणि सप्त होत्राः सप्तधा तो वे घृत रेत एवैतदेषु लोकेषु दधाति स्वाहेति यज्ञो वै स्वाहाकारो यज्ञियमेवैतदिदं प्रजायस्वेत्येतद् सकृत् घृतेनेति ( श ० ९ | २ | ३ | ४४ ) । मन्त्रं व्याचष्टे - सप्त ते अग्न इत्यादिना । समिध इत्यनेन समिन्धन हेतुत्वात् प्राणा सर्वं विवक्षिता करोति '

पृष्ठ 189

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 189 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७ ९ -८० ] वेदार्थ पारिजातभाष्यसहिता १५३ इत्याह- प्राणा वै समिध इति । प्रजापतेविस्रंसनेन एते निर्मिता ऋषयः पृथगेव यानमून् सप्त देहानसृजन्, ततश्च तान् व्यवहारासमर्थान् दृष्ट्वा पश्चात्तान् एकमेव पुरुषमकुर्वन्, एतत्सर्वं सप्रपञ्चं षष्ठकाण्डस्यादावभिहितम् । तत्र सप्त शीर्षष्याः प्राणा एव ऋषिशब्देनाभिहिताः । स प्रजापतिः प्रणीयमानोऽग्निः । अत्र जिह्वाशब्देन सप्त पुरुषा विवक्षिता इत्याह- यानमूनिति । तेषामेतदाहेति तेषामेतदभिधानं करोति तान् आहेत्यर्थः । अत्र प्राणशब्देन शरीरस्थानीन्द्रियाण्युच्यन्ते, जिह्वाशब्देन सप्तपुरुषात्मकानीन्द्रियाणि । ऋषिशब्देन निर्गतानि इष्टका-स्थानीयानीन्द्रियाण्युच्यन्ते । अतश्चैषां शब्दानामिन्द्रियवाचकत्वेऽपि न साङ्कर्यम्, भिन्नभिन्नार्थकत्वात् । सप्तधाम प्रियाणीत्यनेन छन्दांस्यभिधीयन्त इत्याह- छन्दांसीति । यत एतमग्नि होतृमैत्रावरुणादयः सप्त होत्रा अग्नि-टोमादिभेदेन सप्तधा यजन्ति, ततउच्यतेऽस्यार्थो मन्त्रेणेत्याह- इ - सप्त होत्रा इति । स्थानवाचकत्वाद् योनिशब्देन चित उच्यन्ते । अत आह— सप्त योनीरिति । ' सप्त सप्तेति । सप्तचितिकोऽग्निः सप्तर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतेवेन-मेतत्प्रीणाति तिस्र आहुतीर्जुहोति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति तिस्रः समिध आदधाति तत्षट् ' ( श ० ९ २ | ३ | ४५ ) । मन्त्रे पौनःपुन्येन सप्तशब्दप्रयोगः कृत्स्नस्याग्नेस्तृप्तिहेतुर्भवतीत्याह--सप्त सप्तेति । प्रकृताहुतीनां त्रित्वमपि तथैव प्रशंसति - तिस्र आहुतीरिति । समिधामाहुतीनां च मिलिता षट् संख्या भवतीत्याह - तत् षडिति । ' तिष्ठन् समिध आदधाति । अस्थीनि वै समिधस्तिष्ठन्तीव वा अस्थीन्यासीन आहुतीर्जहोति मासानि वा आहुतय आसत इत्र वै मांसान्यन्तराः समिधो भवन्ति बाह्या आहुतयोऽन्तराणि ह्यस्थीनि बाह्यानि मांसानि ' ( ० ९ | २ | ३ | ४६ ) | अथ समिदाहुतीनामस्थि - तिष्ठन्नित्यादिना । कठिनावयव-मांसात्मकत्वात् तत्सन्निवेशानुसारेण तास्तिष्ठन् आसीनो वा जुहुयादित्याह सन्निवेशसाधारण्यात् समिधामस्थित्वम् । तानि ह्यच्छ्रितत्वात् तिष्ठन्तीव भवन्ति । मृद्ववयवसन्निवेश-सामान्यादाज्यस्य मांसत्वम् । तानि च मांसान्यासीनानीव सन्ततानि भवन्ति । अस्थिमांसानुसारेण समिधो-ऽन्तराः, आज्याहुतयस्तु बाह्याः कर्तव्या इत्याह- अन्तरा इति । अध्यात्मपक्ष - सर्वात्मभावविवक्षया परमात्मन एव प्रसिद्धाग्निदेवतारूपेण स्तवनम् । तस्य सप्त समिधः सप्तजिह्वादय उच्यन्ते । उक्तमेव व्याख्यानम् । दयानन्दस्तु - हे अग्ने विद्वन्, यथाग्नेः सप्त समिधः सप्तजिह्वाः सप्त ऋषयः सप्त प्रियाणि धाम सप्त होत्राश्व सन्ति, तथा ते तव सन्तु । यथा विद्वांसस्तमग्नि सप्त यजन्ति, तथा त्वा यजन्तु । यथायमग्निर्वृते स्वाहा सप्त योनीरापृणते, तथा त्वमापृणस्व ' इति, तदपि यत्किञ्चित् अग्नेः सप्त समिधः का इत्यनुक्तेः । सप्त ऋषयः प्राणापान समानोदानव्यानदेवदत्तधनञ्जया इत्यप्यसाम्प्रतम्, तेषां सप्तत्वस्याप्रसिद्धेः, अनुल्लेखाच्च, नागकूर्म-कृकलादिभिर्दशत्वस्यापि सुवचत्वात् । सप्त धामानि नामानि जन्मानि कानीत्यपि न स्पष्टम् । जन्मनामस्थानानि धर्मार्थकाममोक्षाख्यानि धामानीत्यपि मूर्खजनप्रतारणमेव, तेषां परस्परमसम्बन्धात्, तथात्वे मानाभावाच्च । धामानि स्थानानि नामानि जन्मानीत्यस्य धामपदस्य शिष्टसम्मतार्थत्वेऽपि धर्मार्थादीनां धामार्थत्वे मानाभावात् । सप्त होत्रा सप्त ऋत्विजः के? इत्यस्यानुक्तेः । कथं सप्तधा यजनम्? घृतेन उत्तमवाण्या च सप्त चितयः कथं सम्पा द्यते? योनिशब्देन च सप्त चितयः कथं गृह्यन्ते इत्येतत्सर्वमव्यक्तमेव ॥ ७ ९ ॥ शुक्रज्योतिश्च चित्रज्योतिश्च स॒त्यज्योतिश्च॒ ज्योतिष्मा॑ांश्च । शुक्रश्चं ऋतपा-श्चात्यंहाः ॥ ८० ॥

२०

पृष्ठ 190

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 190 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५४ शुक्लयजुर्वेद संहिता [ अ ० १७ मन्त्रार्थ- शुद्ध, तेजस्वी, विचित्र प्रकाशवाले सत्य की ज्योति से दमकते हुए, प्रकाशपुंज से दीप्तिमान् सत्य और यज्ञ की रक्षा करने वाले सभी प्रकार के पापों से रहित मरुद्गण हमारे इस यज्ञ में पधारें ॥ ८० ॥

' वैश्वानरेण प्रचर्यं सर्वहुतेन हस्तेन मारुतान् जुहोत्युपविश्य वैश्वानरेण वा वैश्वानरं पृथुं कृत्वा शुक्रज्योति-रिति प्रतिमन्त्रम् ' ( का ० श्र ० १८/४/२३ ), ' विमुखेनारण्येऽनूच्यम् ' ( का ० श्र ० १८/४/२४ ) । वैश्वानरपुरोडाशेन यागं कृत्वा उपविश्य आहवनीये हस्तेन मारुतान् पुरोडाशान् सर्वहुतान् जुहोति शुक्रज्योतिरित्येकैकमन्त्रेण एकैकम् । अथवा वैश्वानरं पुरोडाशमतिविपुलं कृत्वा वैश्वानरपुरोडाशस्योपर्येव सर्वानपि मारुतान् जुहुयात् । अरण्येऽनुच्यं सप्तमं मारुतं पुरोडाशं विमुखसंज्ञकेन ' उग्रश्च ' इति मन्त्रेण जुहुयादध्वर्युरिति सूत्रद्वयार्थः । अरण्येऽ-नूच्यो वक्तव्यः पठनीयो वा मन्त्रो यस्य सोऽरण्येऽनूच्यः । अत्र ब्राह्मणम् —'अथातो वैश्वानरं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वैश्वानरो देवता तस्मा एतद्धविर्जुहोति तदेन हविषा देवतां करोति यस्यै वै देवताये हविगृह्यते सा देवता न सा यस्ये न गृह्यते द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरो वैश्वानरः ' ( ० ९ | ३ | १ | १ ) । वैश्वानरशब्दस्तद्देवत्यं हवि -राचष्टे । यतोऽस्मिन्नवसरेऽग्निर्वैश्वानरो देवता भवति, अतस्तत्प्रीणनार्थं तद्देवत्यं हविर्जहुयादित्यर्थः । न केवलमनेन अस्ये भागसम्पादनं क्रियते, अपि तु देवतात्वसम्पादनमपीत्याह - तदेनमिति । अत्रैव विस्तरेण वैश्वानरस्वरूप-वर्णनम् । तथाहि - ' स यः स वैश्वानरः । इमे स लोका इयमेव पृथिवी विश्वमग्निर्नरोऽन्तरिक्षमेव विश्वं वायुर्नरो द्यौरेव विश्वमादित्यो नरः ' ( श ० ९ ३ । १ । ३ ) । स्पष्टार्थं ब्राह्मणम् । तदेव अध्यात्ममाह - ' इदं तच्छिर इदमेव पृथिव्योषधयः श्मश्रूणि तदेतद्विश्वं वागेवाग्निः स नरः सोपरिष्टादस्य भवत्युपरिष्टाद्धयस्याग्निः ' ( श ० २ ९ | ३ | १ | ४ ), ' इदमेवान्तरिक्षम् ' ( श ० ९ | ३ | १ | ५ ), ' शिर एव द्योः ' ( श ० ९ | ३ | १ | ६ ), ' अथ मारुतान् जुहोति । प्राणा वै मारुताः प्राणानेवास्मिन्नेतद्द्धाति वैश्वानर हुत्वा शिरो वे वैश्वानरः शीर्षस्तत्प्राणान् दधाति ' ( श ० ९ | ३ | १ | ७ ) । वश्वानरयागानन्तरं मारुतानां होमं विधाय तान् प्राणात्मना प्रशंसति - अथेति । तद्धोमस्य वैश्वानरसम्बन्धादित्यर्थः । एतानि ब्राह्मणानि व्याख्यानपूर्वाङ्गतयोद्धृतानि । अथ मन्त्रो व्याख्यायते । षड् मरुद्देवत्या ऋचः । आद्या उष्णिक । एकैकस्यामृचि सप्त सप्त मरुतः शुक्रज्योतिरित्याद्याः । एकोनपञ्चाशन्मरुतो यूयमद्यास्मिन्नोऽ-स्माकं यज्ञे एन एत आगच्छतेति पञ्चमर्च्यन्वयः । एतनेति ' तप्तनप्तनथनाश्च ' ( पा ० सू ० ७१ १/४५ ) इति तस्य तनादेशः । अथ मरुतां नामानि व्याख्यायन्ते - शुक्रज्योतिः शुक्रं शुद्धं ज्योतिस्तेजो यस्य सः, शुक्रस्येव वा ज्योति-स्तेजो यस्य सः । चित्रज्योतिः चित्रं कमनीयदर्शनीयं ज्योतिर्यस्य सः । सत्यज्योतिः सत्यमत्यन्ताबाध्यं ब्रह्मरूपं ज्योतिर्यस्य सः । ज्योतिष्मान् ज्योतिस्तेजोऽस्यास्तीति ज्योतिष्यान् । शुक्रः शुच्यते सर्वथा निष्कल्मषो भवतीति शुक्रः शुक्लः, दीप्तो वा । शोचयति वा शत्रून् रोगान् दोषान् वेति शुक्रः । ' ऋन्द्र ' ( उ ० २ २ ९ ) इति निपातित: । ऋतपाऋतं सत्यं यज्ञं वा पातीति ऋतपाः । अत्यंहा अंहः पापम्, तदतिक्रम्य वर्तत इत्यत्यंहाः, सर्वतो महापुण्यमय इत्यर्थः । चकाराः समुच्चयार्थाः । सर्वे चैते स्वं स्वमंशं पुरोडाशं भक्षयन्तु । अध्यात्मपक्षे - सर्वाणीमानि नामानि ब्रह्मबोधकानि । चित्रमाश्वयं ज्योतिः प्रकाशो यस्य सः । श्रीरामः श्रीकृष्णः श्री शिवो वा । सत्यं ब्रह्मात्मकं बोधरूपं ज्योतिर्यस्य स सत्यज्योतिः । ज्योतिष्मान् ज्योतिरखण्डबोधा-त्मकं ज्योतिरस्यास्तीति ज्योतिष्मान् । शुक्रः शुच्यते पूतः सन् सदा स्वभावे तिष्ठतीति । ऋतपा ऋतं यज्ञं विश्वामित्रस्य पातीति ऋतपाः श्रीरामः । युधिष्ठिरस्य यज्ञं पाति राजसूयमिति ऋतपाः श्रीकृष्णः । अथवा ऋतं सुकृतफलं पाययतीति तपाः, तत्रभवान् साम्ब सदाशिवः । अत्यंहा अंहः पापं स्वभावतोऽतिक्रान्तवानित्यत्यंहाः, स मामवत्विति शेषः ।