वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 211–220
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 211–220
पृष्ठ 211
पाठ पढ़ें पाठ छिपाएँ
म ० ५-७ ] वेदार्थ पारिजात भाष्यसहिता १७५ मन्त्रार्थ - यथार्थं भाषण और परलोक पर विश्वास, गो आदि पशु तथा सुवर्ण आदि धन 1 स्थावर सम्पत्ति और कोति, क्रीडा और उसका आनन्द, पुत्र, पौत्र, दौहित्र आदि सन्तान, शुभदायक ऋचाओं का समूह और उनका पाठ करने का सामर्थ्य -- यह सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ ५ ॥
सत्यं यथार्थभाषित्वम् । श्रद्धा परलोकविश्वासः । जगद् जङ्गमं गवादि । धनं कनकादि । विश्वं स्थावरम् । महो दीप्तिः । क्रीडा अक्षद्यूतादिः । मोदः क्रीडादर्शनजो हर्षः । जातमुत्पन्नमपत्यादि । जनिष्यमाणं भविष्यदपत्यम् । सूक्तमृक्समूहः शोभनवचनं वा । सुकृतमृकूपाठजन्यं शुभादृष्टम्, शास्त्रीयकर्मजन्यमदृष्टं वा । एते मे यज्ञेन कल्पन्ताम् । अध्यात्मपक्षे-- श्रद्धा गुरुवेदान्तवाक्येषु विश्वासः । धनं ज्ञानविज्ञानादिकम् । मोदः साधुदर्शनजन्यो हर्षः । जातं पूर्वसिद्धभगवदर्शनोपयोगि साधनम् । जनिष्यमाणं भविष्यत्तादृशं साधनम् । क्रीडा भगवत्क्रीडानु-करणम्, परस्परसंलापेन तत्समर्थनम्, भक्तजनेषु तत्ख्यापनम् शास्त्राविरुद्धं मनोरञ्जनं वा । दयानन्दस्तु — ' सत्यधर्मोन्नतिकरणेन उपदेशाख्येन कल्पताम् ' इत्याह । तच्च निर्मूलम्, श्रौतसूत्र -ब्राह्मणादिसमर्थितयज्ञविरुद्धत्वात् ॥ ५ ॥
ऋ॒तं च॑ म॒मृत॑ च मेऽय॒क्ष्मं च मेऽनामयच्च मे जीवातु॑श्च मे दीर्घायुत्वं च मेऽन-मि॒त्र॑ च॒ मेऽभ॑यं च मे स॒खं च॑ मे॒ शय॑नं च मे सू षाश्च॑ मे सुदिने॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ ६ ॥
मन्त्रार्थ - यज्ञ आदि कर्म और उनका स्वर्ग आदि फल, रोगों का नाश तथा व्याधियों का अभाव, आयु बढ़ाने वाले साधन और दीर्घायु, शत्रुओं का अभाव और निर्भयता, सुख और साज - सज्जा, संध्यावन्दन से युक्त सुप्रभात और यज्ञ दान आदि से युक्त दिन - ये सब यज्ञ के फल के रूप में मुझें प्राप्त हों ॥ ६ ।! ऋतं यज्ञादिकर्म । अमृतं तत्फलभूतं स्वर्गादि । यक्ष्मणो रोगराजस्याभावोऽयक्ष्मं धातुक्षयादिरोगा -भावः । अनामयद् आमयति पीडयतीत्यामयत् न आमयद् अनामयत्, सामान्यव्याध्यादिराहित्यम् । जीवयतीति जीवातुः, व्याधिनाशकमौषधम् । दीर्घायुषो भावो दीर्घायुत्वं बहुकालमायुः पृषोदरादित्वात् सलोपः, आयु-रुदन्तो वा । अमित्राणामभावोऽनमित्रं शत्रुराहित्यम् । भयाभावोऽभयं भीतिराहित्यम् । सुखमानन्दः । शयनं संस्कृता शय्या । सूषाः शोभन उषाः स्नानसन्ध्यादियुक्तः प्रातः कालः । सुदिनं यज्ञदानाध्ययनादियुक्तं सर्वं दिनम् । एते मे यज्ञेन कल्पन्ताम् ॥ ६ ॥
य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे धृतिश्च मे विश्वे॑ च मे मह॑श्च मे संविच्च॑ मे ज्ञात्रं च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरे॑ च से लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ ७ ॥
" मन्त्रार्थ -- गुरु आदि नियन्ता और प्रजापालन की शक्ति, वर्तमान धन की रक्षा तथा आपत्ति में चित्त की स्थिरता, सबकी अनुकूलता और पूजासत्कार, वेदशास्त्र आदि का ज्ञान और विज्ञान की शक्ति, आज्ञा देने की एवं पुत्र आदि उत्पन्न करने की सामर्थ्य, हल आदि के द्वारा अन्न की प्राप्ति और खेती के विघ्नों का नाश -- यह सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ ७ ॥
पृष्ठ 212
पाठ पढ़ें पाठ छिपाएँ
१७६ शुक्लयजुर्वेदसंहिता अ ० १८ यन्ताश्वादेर्नियन्ता । धर्ता पोषकः पित्रादिः । क्षेमो विद्यमानधनस्य रक्षणशक्तिः, प्राप्तस्य ज्ञान-भक्त्यादेर्वा रक्षणं क्षेमः । धृतिः धैर्यम्, आपत्स्वपि स्थिरचित्तत्वम् । विश्वं सर्वानुकूल्यम् । महः पूजा, ब्राह्मं तेजो वा । संविद् वेदशास्त्रादिज्ञानम्, ब्रह्मात्मकं ज्ञानं वा । ज्ञातुर्भावो ज्ञानं विज्ञानसामर्थ्यम् । सूः पुत्रादिप्रेरणसाम-र्थ्यम् । प्रसः पुत्रोत्पत्त्यादिसामर्थ्यं माता वा । सीरं हलादिकृषिकृतधान्यनिष्पत्तिः । लयः कृषिप्रतिबन्धनिवृत्तिः । एते मे यज्ञेन कल्पन्ताम् । अध्यात्मपक्षे - अत्र पक्ष पूर्वमेव दिक् प्रदर्शिता । दयानन्दरीत्या चकारेभ्यस्तत्तदभीष्टाः पदार्था गृह्यन्ते । यज्ञपदेनापि तत्तद्वयुत्पत्तिलभ्या अने पदार्थाः स्वेच्छया गृह्यन्ते । तत्रेदं वक्तव्यं यदिच्छाया अव्याहतप्रसरत्वाद् वैदिके व्याख्याने तस्यादरो नैव योग्यः, ' न विधी परः शब्दार्थः ' इति शाबरभाष्यात् । कचिदयं महात्मा सुखमिति पदेन लौकिकं सुखं चकारेण च परमानन्दं गृह्णाति । अन्यत्र मय इत्यनेन ऐहिकसुखं गृह्णाति । कचिद् यत्र नान्योऽर्थः सम्भाव्यते, तत्र साधनं गृह्णाति । तत्सर्वं तस्य महात्मनोऽतिशाब्दन्यायं सर्वथा स्वातन्त्र्यमेव ॥ ७ ॥
शं च॑ मे॒मय॑श्च मे प्रि॒यं च॑ मेऽनुक॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्व मे॒ वसा॑यश्व मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ ८ ॥
मन्त्रार्थ - शारीरिक सुख तथा परलोक का सुख, प्रोति- उत्पादक वस्तु तथा सहज यत्नसाध्य पदार्थ, विहित विषय भोग का सुख एवं मन को स्वस्थ करने वाले बान्धव, सौभाग्य तथा धन, इस लोक का और पर लोक का कल्याण, धनसे भरा निवास योग्य गृह तथा यश - यह सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ ८ ॥
शम् ऐहिकं सुखम् । मय आमुष्मिकं सुखम् । अथवा शं मोक्षसुखम्, मयो यथोक्तमेव । लौकिक सुखं तु सुखशब्देनैवोक्तम् । प्रियं च प्रीतिकरं वस्तु । अनुकाम्यत इत्यनुकामः अनुकूलयत्नसाध्यः पदार्थः । कामो विषयेन्द्रियसंयोगजन्यं सुखम् । सुमनसो भावः सौमनसः, मनःस्वास्थ्यकरो बन्धुवर्गः । भगः सौभाग्यम् । द्रविणं, धनम् । भद्रम् ऐहिकं कल्याणम् । श्रेयः पारलौकिकं कल्याणम् । वसीयो वसतीति वस्तृ, अतिशयेन वस्तृ वसीयः । निवासयोग्यो धनधान्योपेतो गृहादिः, ' तुरिष्ठेमेयस्सु ' ( पा ० सू ० ६ । ४ । १५४ ) इति तृचो लोपः । यशः । सौमनसः कीर्तिः एते मे यज्ञेन कल्पन्ताम् । यद्वा अनुकामोऽनुकूलत्वनिमित्तं काम्यमानः पदार्थः । कामः शोभनेच्छा
स्वस्थान्तःकरणम् । भग ऐश्वर्यादि । एते मे यज्ञेन कल्पन्ताम् ॥ ८ ॥
ऊ ं च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धिश्च मे॒ सर्पो-तिश्च मे कषिश्च॑ मे॒ वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ ६ ॥
८ मन्त्रार्थ – अन्न, सच्ची और प्रिय वाणी, दूध तथा दूध का सार, घी और शहद, बान्धवों के साथ खान - पान, धान्य को सिद्धि एवं अन्न उत्पन्न होने के अनुकूल वर्षा, जय की शक्ति तथा आम आदि वृक्षों की उत्पत्ति - यह सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ ६ ॥
अन्नम्, सूनृता प्रिया सत्या वाक् । पयो दुग्धम्, रसस्तत्रत्यः सारः । घृतमाज्यम्, मधु क्षौद्रम् । समाना ग्धिर्भोजनं सग्धिः, अदेः क्तिनि बाहुलकाद् घस्लादेशे ' घसिभसोर्हलि च ' ( पा ० सू ० ६।४।१०० ) इत्युपधा-
पृष्ठ 213
पाठ पढ़ें पाठ छिपाएँ
म ० ९ -११ ] वेदार्थं पारिजातभाष्यसहिता १७७ लोपे, ' झलो झलि ' ( पा ० सू ० ८ २२६ ) इति सकारलोपे, ' झषस्तथोर्धोऽधः ' ( पा ० सू ० ८ | २ | ४० ) इति तकारस्य धकारे, ' झलां जश् झशि ' ( पा ० सू ० ८ | ४ | ५३ ) इति जश्त्वेन घकारस्य गकारे ' ग्धिः ' इति रूपम् । सग्धिर्बन्धुभिः सह भोजनम् । सपीतिर्बन्धुभिः सह पानम् । कृषिस्तत्कुतधान्यादिसिद्धिः । वृष्टिर्धान्यनिष्पत्त्यनुकूला सन्तुलिता वृष्टिः, नातिवृष्टिर्न वा खण्डवृष्टिः । जेतुर्भावो जैत्रं जयसामर्थ्यम् । उद्भिदो भाव औद्भिद्यम् आम्रादितरूणामुत्पत्तिः । पृथिवीमुद्भिद्य जातानां भाव औद्भिद्यम् । यद्वा ऊर्क, रसो मधुरादयः षड्रसाः ।
कृषिर्व्यवसायः । जयसाधनं जैत्रम् । एते मे यज्ञेन कल्पन्ताम् ॥ ९ ॥
र॒यश्च॑ मे॒ राय॑श्च मे पुष्टं च॑ मे॒ पुष्टश्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पूर्णं च॑ मे पूर्णत॑रं च मे कुय॑वं च॒ मेऽक्षितं च मेऽन्नं च मेऽक्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ १० ॥
मन्त्रार्थ --- सुवर्ण तथा मौक्तिक आदि मणियों, धन की तथा शरीर की पुष्टि, व्यापकता की शक्ति एवं ऐश्वर्य, धन - पुत्र आदि को तथा हाथी घोड़ा आदि की अधिकता, धान्य तथा अक्षय अन्न, भात आदि सिद्धान्न तथा भोजन पचाने की शक्ति भी यज्ञ के फल के रूप में मुझे प्राप्त हो ॥ १० ॥
यः सुवर्णादि । रायो मुक्तादिमणयः । पुष्टं धनपोषः । पुष्टिः शरीरपोषणम् । विभु व्याप्तिसामर्थ्यम् । प्रभु ऐश्वर्यम् । पूर्णं धनपुत्रादिबाहुल्यम् । अत्यन्तं पूर्णं पूर्णतरम्, गजतुरगादिबाहुल्यम् । कुयवं कुत्सितधान्यमपि । अक्षितं क्षयहीनं धान्यादि । अन्नमोदनादि । क्षुद् भुक्तान्नपरिपाक उद्दीप्तबुभुक्षा वा, तस्या अपि काम्यमानत्वात्, तामन्तरा भोजनबाहुल्यस्य नैरर्थक्यापातात् । यद्वा विभु समर्थम् । प्रभु प्रधानम् । पूर्ण सम्पूर्णम् । उत्तरोत्तराका-ङ्क्षा पूर्णतरम् | अक्षुदिति पदच्छेदेन क्षुद्राहित्यम् || १० || वित्तं च॑ मे॒ वेद्यं च मे भूतं च॑ मे भवि॒ष्यच्च॑ मे सुगं च॑ मे सुपथ्यं चं म ऋद्धं चं म ऋद्धिश्च मे क्लृप्तं च॑ मे॒ क्लृप्तिश्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥११ ॥
S मन्त्रार्थ - पूर्व प्राप्त धन की रक्षा तथा नूतन धन की प्राप्ति, पूर्व प्राप्त क्षेत्र आदि की रक्षा तथा भविष्य में भी क्षेत्र आदि की प्राप्ति, सुखगम्य देश और परम पथ्य पदार्थ, बड़े भारी यज्ञ का फल तथा यज्ञ आदि की समृद्धि, कार्यसाधक अपरिमित धन तथा कार्यसाधन को शक्ति, पदार्थ मात्र का तथा दुर्घट कार्यों का निर्णय करने को बुद्धि यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ ११ ॥
वित्तं पूर्व लब्धम्, ' विल लाभे ' । वेद्यं लब्धव्यम् । भूतं पूर्वसिद्धं क्षेत्रादि, ज्ञानविज्ञानादिकं वा । भविष्यत् सम्पत्स्यमानं क्षेत्रादि ज्ञानादि वा । सुखेन गम्यते यत्र तत् सुगम्, सुखगम्यो देश: । ' सुदुरोरधिकरणे ' ( पा ० सू ० ३।२।४८, वा ० ३ ) इति गमेः । सुपथ्यं शोभनं हितम् । ऋद्धं समृद्धं यज्ञफलम् । ऋद्धिर्यज्ञादिसमृद्धिः । क्लृप्तं कार्यक्षम द्रव्यादि । क्लप्तिः स्वकार्य सामर्थ्यम् । मतिः पदार्थमात्रनिश्वयः । सुमतिर्दुर्घटकार्यादिषु निश्वयः । यद्वा सुपथ्यं जनयुक्तं ग्रामादियुक्तं चौरव्याघ्रकण्टकादिशून्यं मार्ग सुपथ्यम् | आरोग्यानुगुणभोजनादिकं पथ्यम्, सुष्ठु पथ्यं सुपथ्यम्, परमार्थ भक्तिज्ञानवैराग्यादिसाधनानुगुणमाचरणं सुपथ्यम् । अनुष्ठितक्रतुफलमृद्धिः । अनुष्ठास्यमानसत्रफलं क्ऌप्तम् ॥ ११ ॥
२३
पृष्ठ 214
पाठ पढ़ें पाठ छिपाएँ
१७८ शुक्ल यजुर्वेदसंहिता [ अ ० १८ व्रीहय॑श्च मे यवा॑श्च मे॒ मदा॑श्च मे तिलश्व मे मुद्गाश्च॑ मे खल्वश्च मे प्रिय-वंश्च मेऽर्णवश्च मे श्यामाकोश्च मे नीवाराश्च मे गोधूमश्व मे मसुरोश्च मे यज्ञेन कल्पन्ताम् ॥ १२ ॥
मन्त्रार्थं - उत्कृष्ट कोटि के चावल और यव, उड़द और तिल, मूंग और चने, प्रियंगु और अणुधान्य, श्यामाक तथा नीवार, गेहूं और मसूर – ये सब भी यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ १२ ॥
व्रीहियवमाषतिलमुद्गगोधूममसूराः प्रसिद्धाः । व्रीहयः शाल्यादयः । खल्वाश्चणकाः । प्रियङ्गवः कङ्गवः तृण-प्रसिद्धाः । अणवश्वीनकाः । श्यामाकास्तृणधान्यानि ग्राम्याणि कोद्रवत्वेन प्रसिद्धानि । नीवारा आरण्यानि धान्यानि । एते धान्यविशेषा मे यज्ञेन कल्पन्ताम् ॥ १२ ॥
अश्म च मे मृत्तिका च मे गिरय॑श्च मे पवैताश्च मे सिकताश्च मे वनस्पतयश्च मे हिर॑ण्यं च मेऽय॑श्च मे श्यामं च॑ मे लोहं च॑ मे॒ सोमे॑ च मे॒ त्रषु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ १३ ॥
मन्त्रार्थ - सुन्दर पाषाण और श्रेष्ठ मृत्तिका, गोवर्धन आदि छोटे पर्वत तथा हिमालय आदि विशाल पहाड़, तथा रांगा - ये सुन्दर रेती तथा बिना फूल आये फलदायक वृक्ष, सुवर्णं तथा लोहा, तांबा, काँसा तथा फौलाद, शीशा सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥। १३ ॥ 1 अश्मा पाषाणः । मृत्तिका प्रशस्ता मृत्, ' मृदस्तिकन् ' ( पा ० सू ० ५ | ४ | ३ ९ ) इति स्वार्थिकः कन् ॥ गिरयः क्षुद्रपर्वता गोवर्धनार्बुद रैवतकादयः । पर्वता महान्तो विन्ध्य - मन्दर - हिमाचलादयः सिकताः च शर्कराः हेमरूप्ये वनस्पतयः पुष्पं विना फलवन्तः पनसोदुम्बरादयः । हिरण्यं सुवर्णं रजतं वा स्यात् कोषश्च हिरण्यं । लोहं ताम्रं कृताकृते ' ( अ ० को ० २१ ९ / ९ १ ) इति कोषात् । अयः कार्ष्णायसम् । श्यामं श्याममणिः कान्तिसारादि । रजतं कनकं वा, ' लोहोऽस्त्री शस्त्र के लौहे जोङ्ग सर्वतैजसे ' ( मेदिनी ० १७/५/८ ) इति कोषात् । सीसं प्रसिद्धम् त्रपु रङ्गम् । एते यज्ञेन कार्यविशेषेषु मे कल्पन्ताम् ॥ १३ ॥
- * अग्निश्च म आपश्च मे वीरुधंश्च म ओष॑धयश्च मे कृष्टपच्याश्च मेऽकृष्टपच्याश्च मेग्राम्याश्च मे पशवं आर॒ण्याश्च॑ मे वित्तं च॑ मे॒ वितिश्च मे भूतं च॑ मे॒ भूर्तश्च मे यज्ञेनं कल्पन्ताम् ॥ १४ ॥
मन्त्रार्थ - पृथ्वी पर अग्नि की तथा अन्तरिक्ष में जल को अनुकूलता, छोटे - छोटे तृण तथा पकते ही सूखने वाली औषधियां हल चलाकर उत्पन्न होने वाले तथा बिना हल जोते उत्पन्न होने वाले अन्न, गाय - भैंस आदि ग्राभ्य पशु तथा हाथी आदि जंगली पशु, पूर्व लब्ध तथा भविष्य में प्राप्त होने वाला धन, विद्यमान पुत्र आदि तथा अपना उपार्जित किया हुआ धन यज्ञ के फल के रूप में मेरे पास सुरक्षित रहें ॥ १४ ॥
पृष्ठ 215
पाठ पढ़ें पाठ छिपाएँ
म ० १४-१६ ] वेदार्थ पारिजातभाष्यसहिता १७ ९ अग्निः पृथिवीच्छन्नोऽग्निः । आपो वर्षणोदकानि । वीरुधो गुल्माः । ओषधयः फलपाकान्ताः । कृष्टपच्याः हलादिना कृष्ठे क्षेत्रे पच्यन्त इति कृष्टपच्याः, ' राजसूय सूर्य मृषोद्यरुच्य कुप्यकृष्टपच्याव्यथ्याः ' ( पा ० सू ० ३ | १ | ११४ ) इति क्यबन्तो निपातितः, भूमिकर्षणबीजवापादिकर्मनिष्पाद्या ओषधयो व्रीहियवाद्याः । तद्विपरीता अकृष्टपच्याः स्वयमेवोत्पद्यमाना नीवारगवेधुकादयः । ग्राम्या ग्रामे भवाः पशवो गोऽश्वमहिषाजाविगर्दभाश्वत राष्ट्रादयः । आरण्या अरण्ये भवाः पशवो हस्तिसिंहशरभ मृगगवयमर्कटादयः । वित्तं पूर्व लब्धम् । वित्तिर् भाविलाभः । भूतं जातपुत्रादिकम्, भूतिरैश्वयं स्वाजितम् । एतानि मे यज्ञेन कल्पन्तां सम्पद्यन्ताम् ॥ १४ ॥
वसु॑ च मे वसतिश्च॑ मे॒ कर्म॑ च मे शक्तिश्च मेऽर्थेश्च म॒ एम॑श्च म इत्या च॑ मे॒ गतिश्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ १५ ॥
मन्त्रार्थ - गो आदि धन तथा रहने के लिये सुन्दर घर, अग्निहोत्र आदि कर्म तथा उनके अनुष्ठान की शक्ति, इच्छित पदार्थ तथा प्राप्तियोग्य पदार्थ, इष्ट प्राप्ति का उपाय एवं इष्ट - प्राप्तिये सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ १५ ॥
वसु गवादिकं धनम्, निवाससाधनं वा । वसतिर्वासस्थानं गृहादिकम् । कर्म अग्निहोत्रादि । शक्तिस्तद-नुष्ठानसामर्थ्यम् । अर्थोऽभिलषितः पदार्थः, मनुष्यवती भूमिर्वा, सर्वस्याप्यर्थ्यमानस्य व्रीहियवघृत दुग्धवस्त्र-स्वर्ण ही कविविधमणिविविधपाषाण लोहेङ्गाल - पेट्रोल - डीजलादेस्तत्रैवान्तर्भावात् । एमः ईयते इत्येमः प्राप्तव्योऽर्थः, एतेनप्रत्यय औणादिकः । इत्या अयनम् इष्टप्राप्त्युपायः भावे क्यप् । गतिरिष्टप्राप्तिः परमा गतिर्वा । एते म यज्ञेन कल्पन्ताम् ॥ १५ ॥
अग्निश्च म इन्द्रश्च मे सोम॑श्च म इन्द्र॑श्च मे सविता च म इन्द्रश्च मे सर॑स्वती च म इन्द्रश्च मे पूषा चं म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे य॒ज्ञेन कल्पन्ताम् ॥ १६ ॥
मन्त्रार्थ - अग्नि और इन्द्र, सोम तथा इन्द्र, सविता और इन्द्र " सरस्वती तथा इन्द्र, पूषा तथा इन्द्र, बृहस्पति और इन्द्र - ये सब यज्ञ के फल के रूप में मेरे ऊपर प्रसन्न रहें ॥ १६ ॥
' अथार्धन्द्राणि जुहोति ' ( श ० ९ ३ २२ ९ ) । अर्धस्य इन्द्रदेवत्यत्वादर्धस्य नानादेवत्यत्वादर्धेन्द्राणि यजूंषि । अग्नि - सोम - सवितृ - सरस्वती - पूष - बृहस्पतयः प्रसिद्धा देवताः तैः समानभागित्वादिन्द्र एकैकया सह पठ्यते । तथा च ब्राह्मणम् - ' अथार्धेन्द्राणि जुहोति । सर्वमेतद्यदर्धेन्द्राणि सर्वेणैवैनमेतत्प्रीणात्यथो सर्वेणैवैनमेत-दभिषिञ्चति ' ( श ० ९ | ३ | २२ ९ ) । ' वाजश्च मे प्रसवश्च मे ' ( वा ० सं ० १८ १ ) इत्यारभ्य अष्टाभिरनुवाकैरेषा वसोर्धारा हूयते । तत्र एकस्मिन्ननुवाके ' अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे ' इत्यादयो मन्त्राः समाम्नाताः । तत्र ' द्वौ द्वौ कामौ संयुनक्ति ' ( श ० ९ ३ २२६ ) इति वचनेन द्वयोर्द्वयोरवसानविधानात् प्रतिमन्त्रं ' इन्द्रश्व मे ' इत्येतदर्थं भवति । अतस्ते मन्त्रा अर्धेन्द्रशब्देनोच्यन्ते । अतश्च ' अथार्धेन्द्राणि ' ( श ० ९ ३ २ ९ ) इत्यनेन तन्मन्त्रसाध्यं होमं स्तोतुमनुवदति – अथार्धेन्द्राणोति । अर्धेन्द्राणीतिशब्दो मन्त्रवाक्यपरः । तद्वैशिष्ट्येन द्रव्यस्य होमादुपचारेणा-धेन्द्राणि जुहोतीत्युक्तम् । एवमुत्तरत्राप्यर्धेन्द्रमन्त्रकरणकान् होमान् कुर्यादित्यर्थः । सर्वाधिपतित्वेन सर्वस्येन्द्र-सम्बन्धादर्धेन्द्राणामपि सर्वत्वात् तत्करणकहोमे कृते सर्वेणैवान्नेनैनमग्नि प्रीणात्यभिषिञ्चति चेत्याह-
पृष्ठ 216
पाठ पढ़ें पाठ छिपाएँ
१८० शुक्ल यजुर्वेद संहिता [ अ ० ] १८ अथवा अग्निः सर्वज्ञोऽग्निः । सर्वमेतदिति । इन्द्रशब्दस्य यास्कोक्ता नानार्थाः कार्याः । एते मे यज्ञेन रुद्रो वा कल्पन्ताम् सोमः ॥ सविता प्राणिनां प्रसवकर्ता । इन्द्र: ' इदि परमैश्वर्ये ' परमैश्वर्यवान् । सोमश्चन्द्रः, उमया सहितो देवतया युक्त इन्द्रो यज्ञेन सरस्वती वाणी । पुष्णातीति पूषा । बृहतां पतिर्बृहस्पतिर्देवगुरुः । तया तया कल्पताम् ॥ १६ ॥
मित्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म इन्द्र॑श्च मे धाता च॑ म॒ इन्द्र॑श्च मे त्वष्टा च म इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे विश्वे च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ १७ ॥
, मन्त्रार्थ - मित्र एवं इन्द्र देवता वरुण तथा इन्द्र, धाता और इन्द्र, त्वष्टा तथा इन्द्र, मस्त् और इन्द्र देव और इन्द्र -- ये सब यज्ञ के फल के रूप में मेरे ऊपर प्रसन्न रहें ॥ १७ ॥
विश्वे-मित्रः सूर्यः । वरुणः प्रचेताः । धाता जगद्धर्ता । त्वष्टा त्वक्षतीति त्वष्टा, ' त्वक्षू तनूकरणे ', त्वष्टा च मे देवा विश्वे देवगणाः । पूर्वोक्ता नाम सूर्यः, शत्रुबलस्य तनूकरणात् । मरुत एकोनपञ्चाशत्संख्याकाः । विश्वे देवास्तैः सहिता इन्द्राश्च मे यज्ञेन कल्पन्ताम् ॥ १७ ॥
समा॑श्च म॒ पृथि॒वी च॑ म॒ इन्द्रश्च म॒न्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म इन्द्रश्च मे दिशश्च म इन्द्र॑श्च मे यज्ञेनं कल्पन्ताम् ॥ १८ ॥
तथा इन्द्र, नक्षत्र मन्त्रार्थ - पृथ्वी और इन्द्र, अन्तरिक्ष एवं इन्द्र, स्वर्ग तथा इन्द्र, वर्ष की अधिष्ठात्री देवता रहें ॥ १८ ॥
और इन्द्र, दिशाएं एवं इन्द्र – ये सब यज्ञ के फल के रूप में मेरे ऊपर प्रसन्न प्रथनात् पृथिवी । अन्तरिक्षं भुवः स्थानम् । द्यौर्द्युलोकः । समाः संवत्सराः । नक्षत्राण्यश्विन्यादि- इरां दृणातीति सप्तविंशतिः । दिशः पूर्वादयः । एते मे यज्ञेन कल्पन्ताम् । अत्र अष्टादशकृत्व इन्द्रशब्दः श्रुतः ॥ सोऽयमिरादारिः वा, इरामन्नं व्रीह्यादि दृणाति विदारयति वर्षक्लेदितमङ्करं बीजं इरामन्नं भिनत्ति ददाति , तदिन्द्रकारितम् सोऽयमिराद इन्द्रः । इरां दधातीति सन् इन्द्र इति परोक्षेणोच्यते । इरां ददातीति वा, यो वर्षद्वारेण मेघं विदार्यं वर्षति सोऽयमिन्द्रः । वा, रश्मिभिर्जलमाकृष्य मेघेषु धारयति सोऽयमिराध इन्द्रः । इरां दारयत धारयत इति वा इतीन्द्रः । इन्दवे द्रवतीति वा । इरां धारयत इति वा अवग्रहादिकारितान् दोषान् निरुध्य प्रजाभ्योऽन्नं इति वा, क्रीडत्ययं सोमे इतीन्द्रः । इन्दुं सोमं पातुमसौ द्रवति झटित्यागच्छतीति इन्दुद्रव इन्द्रः । इन्दौ रमत वा अभ्यवहारयन् विभजमानश्च दीपयति इन्धे भूतानीति वा । भूतानि सौ अन्नोत्पत्त्याधिदेवस्थोऽध्यात्मस्थो ', समैन्धन् समदीपयन्नित्यर्थः । तिमन्तिकरोति सोऽयमिन्ध इन्द्रः, ' तद्यदेनं प्राणैः समैन्धन् तदिन्द्रस्येन्द्रत्वम् । इदं सर्वमसावद्राक्षीदि-इन्द्र इदं सर्वमकरोदित्याग्रायणः, इदङ्कर इन्द्र इति यावत् । इदं । दर्शनादित्यौपमन्यवः शत्रूणां दारयिता द्रावयिता वा । ईश्वरः सन् त्योपमन्यवः, इदंदर्शी इन्द्र इति यावत् । इन्दतेर्वा ऐश्वर्यकर्मणः इति निरुक्त ( १०१८ ) दिशा अन्येऽप्यर्था शत्रून् द्रावयति दारयति वा स इन्द्रः । आदरयिता वा यज्वनां स इन्द्र यथासम्भवमूहनीयाः ॥ १८ ॥
पृष्ठ 217
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२१ ] वेदार्थपारिजातभाष्यसहिता १८१ अशुश्च मे रश्मिश्च मेऽदा॑भ्यश्च मेऽधिपतिश्च म उपाशुश्च मेऽन्तय॒मश्च॑ म ऐन्द्रवायवरचं मे मैत्रावरुणश्च म आश्विनश्च॑ मे प्रतिप्रस्थानंश्च मे शक्रश्च॑ मे मन्थी चं मे यज्ञेन कल्पन्ताम् ॥ १ ९ ॥ मन्त्रार्थ -- अंशु तथा रश्मि नामक ग्रह अदाभ्य तथा निग्राह्य ग्रह, उपांशु तथा अन्तर्याम ग्रह, ऐन्द्रवायव तथा मंत्रावरुण ग्रह आश्विन और प्रतिप्रस्थान ग्रह, शुक्र और मन्थि प्रह - इन सबकी यज्ञ के फल के रूप में मुझे अनुकूलता प्राप्त हो ॥ १६ ॥
' अथ ग्रहान् जुहोति ' ( श ० ९ | ३ | २ | १० ) इतः कण्डिकात्रये ग्रहहोममन्त्राः । ग्रहाः सोमपात्राणि । अंश्वादयः सोमग्रहविशेषाः सोमप्रकरणे प्रसिद्धाः । अदाभ्यस्यैव गृह्यमाणत्वदशायां पृथक्कृत्य ग्रहणे रश्मिशब्देन निर्देश:, रश्मीनां तद्ग्रहणे साधनत्वात्, ' अो रूपे सूर्यस्य रश्मिषु ' ( वा ० सं ० ८ ४८ ) इति मन्त्रलिङ्गात् । अधिपतिशब्देन निग्राह्यो विवक्षितः । तस्य ज्येष्ठत्वादाधिपत्यम्, ' ज्येष्ठो वा एष ग्रहाणाम् ' इति श्रुतेः । प्रति-प्रस्थानशब्देनापि निग्राह्य एव विवक्षितः, द्विदेवत्यैः सह पाठात् । अन्ये प्रसिद्धाः । ऐन्द्रवायवादयो द्विदेवत्या
ग्रहाः । शुक्रो मन्थी च । एते सर्वे मे यज्ञेन कल्पन्ताम् ॥ १ ९ ॥
आ॒न॒य॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रुवश्च मे वैश्वानरश्च म ऐन्द्राग्नश्च मे म॒हावैश्वदे॒वश्च॑ मेमरुत्वतीयश्च मे निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पात्नीवतश्च मे हारियो-जनश्च मे यज्ञेन कल्पन्ताम् ॥ २० ॥
मन्त्रार्थं - आप्रयण और वैश्वदेव, ध्रुव तथा वैश्वानर, ऐन्द्राग्नी तथा महावैश्वदेव, मरुत्वतीय और निष्केवल्य, सावित्र तथा सारस्वत, पात्नीवत एवं हारियोजन नामक ग्रहों की यज्ञ के फल के रूप में मुझे अनुकूलता प्राप्त हो ॥ २० ॥
आग्रयणो वैश्वदेवः प्रातः सवनगतः । महावैश्वदेवस्तु तृतीयसवनगतः । ध्रुवाख्यस्यैव ग्रहस्य श्रवण-दशायां वैश्वानरसूक्तपाठात् तद्दशापन्नो ध्रुवो वैश्वानरशब्देनोच्यते । मरुत्वतीया इति बहुवचनं त्रित्वात् । मरुत्वतीयो महामरुत्वतीयः कुण्ठमरुत्वतीयश्चेति । अभिषेचनीये सारस्वतीनामपां ग्रहणमेव सारस्वतो ग्रहः, ' सारस्वतं ग्रहं
गृह्णाति ' इति तत्रान्नानात् । एते मे यज्ञेन निमित्तेन कल्पन्ताम् ॥ २० ॥
स्रुचश्च मे चमसाश्च॑ मे वायव्यानि च मे द्रोणकलशश्च॑ मे॒ ग्रावा॑णश्च मेऽधि॒षव॑णे च मे तच्च॑ आधव॒नय॑श्च मे वेद॑िश्च मे बहिश्च मेऽवभृथश्च मे स्वगाकारश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥ २१ ॥
मन्त्रार्थ - जुहू तथा चमस, वायव्य पात्र एवं द्रोणकलश, प्रावा और काष्ठफलक, सोमपात्र, पूतभूत् एवं अवनीय, वेवी और कुशा, अवमृथ स्नान और संयुवाक् पात्र - ये सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ २१ ॥
पृष्ठ 218
पाठ पढ़ें पाठ छिपाएँ
१८२ शुक्लयजुर्वेदसंहिता [ अं ० १८ काष्ठफलके । स्रुचो जुह्वादयः । चमसाश्चमसानि ग्रहपात्राणि । वायव्यानि पात्रविशेषाः हविरङ्गीकारात् । अधिषवणे । प्रसिद्धमन्यत् । पूतभृदाघवनीयो सोमपात्रविशेषो । स्वगाकारः शम्युवाकः तेन यथास्वं देवतानां , षट् च यथाकथञ्चनोपचारका इति एते मम यज्ञेन निमित्तेन कल्पन्ताम् । अत्र सोमधारका ग्रहास्त्रयस्त्रिंशत् ब्राह्मणम् -- ' अथ ग्रहान् जुहोति । विभागः । गृह्यते सोमो येषु ते ग्रहाः, गृह्यन्ते वा सोमा एभिरिति ग्रहाः । अत्र ( श ० ९ ३ | २ | १० ) । ' अंशुश्च मे यज्ञो वै ग्रहा यज्ञेनैवैनमेतदन्नेन प्रीणात्यथो यज्ञेनैवैनमेतदन्नेनाभिषिञ्चति ' होममनूद्य प्रशंसति -रश्मिश्च मे ' ( वा ० सं ० १८ / १ ९ - २१ ) इत्यादयो मन्त्रा ग्रहप्रतिपादकत्वाद् ग्रहाः । तत्साध्यमपि अथ ग्रहानिति । यज्ञो वे ग्रहा इति, यज्ञसाधनत्वाद् ग्रहाणां यज्ञत्वम् । यथेच्छं यत्किञ्चिज्ञ्जल्पितवान् । तद्यथा - अंशुर्व्याप्तिमान् एतत्सर्वमविज्ञायैव स्वामिदयानन्दो विद्युद्वायुश्च । तयोरयं सम्बन्धी । सूर्य: । अदाभ्य उपक्षयरहितः । अन्तर्यामो योऽन्तर्मध्ये याति स वायुः । इन्द्रो देवानां सम्बन्धी । ऐन्द्राग्न एवमेव शुक्रो मन्थी । आग्रयणो मार्गशीर्षादिनिष्पन्नो यज्ञविशेषः । व्यवहारा वैश्वदेवो विश्वेषां मरुत्वतीयाः । निष्कैवल्यश्च नितरां इन्द्रो वायुरग्निश्च विद्युत्, ताभ्यां निर्वृत्तः । मरुतां सम्बन्धिनो यथा व्याघ्रशब्दस्य केन चिच्छुष्क-केवलं सुखं यस्मिन्, तस्मिन् भवः । एवमादयो व्युत्पत्तिलभ्या अर्थास्तथैवोपस्थिता ग्रहप्रतिपादकत्वादेषां वैयाकरणेन विशेषेण आसमन्ताज्जिघ्रतोति व्याघ्र इत्यर्थः कृतः । श्रुत्या स्पष्टमत्र प्रलपन्ति । किमतोऽधिकं मन्त्राणां ग्रहत्वमुक्तम् । ये ज्योतिष्टोमादिक्रतुवृत्तान्तानभिज्ञास्त एव तथाभूतमनर्गलं वच्मि ॥ २१ ॥
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ ने॒ऽकेश्च॑ मे सूयैश्च मे प्राणश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च मेऽ-दि॑ितिश्च मे दिति॑िश्च मे द्योश्च॑ मे॒ऽङ्गुल॑यः शक्व॑रयो दिश॑श्च मे य॒ज्ञेन कल्पन्ताम् ॥ २२ ॥
मन्त्रार्थ - अग्निष्टोम और प्रवग्यं पुरोडाश और सूर्य का चर, प्राण और अश्वमेघ यज्ञ, पृथ्वी के साथ बिति-और अदिति देवता, द्युलोक और विराट् पुत्र के अवयव, सब प्रकार को शक्ति और पूर्व आदि दिशाओं की अनुकूलता ये सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ २२ ॥
कण्डिकाद्वयेन यज्ञक्रतुहोम:, ' अथैतान् यज्ञक्रतून् जुहोत्यग्निश्च म इति ' ( श ० ९ | ३ | ३ | १ ) इति श्रुतेः । अग्निश्चीयमानो वह्निरग्निष्टोमो वा । धर्मः प्रवर्ग्य: । ' इन्द्रायार्कवते पुरोडाशम् ' इति विहितो यागोऽर्कः । ' सौयं चरु ' निर्वपेत् ' इति विहितः सूर्यः । प्राणो गवामयनं सत्रयागः । अश्वमेधः प्रसिद्धः । पृथिव्यदितिदितयो दिवो देवताविशेषाः । अङ्गुलयो विराट्पुरुषावयवाः । शकरयः शक्तयः । दिशः प्राच्याद्याः । एते यज्ञेन कल्पन्ताम् ॥ २२ ॥
व्र॒तं च॑ म ऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्सरश्च॑ मेऽहोरात्रे ऊर्वष्ठ॒वे बृहद्रथन्त॒रे च॑ मे य॒ज्ञेनं कल्पन्ताम् ॥ २३ ॥
मन्त्रार्थ --- व्रत तथा ऋतुएँ, तप तथा संवत्सर, बिन और रात, जंघा और जानु, बृहद् तथा रथन्तर साम--ये सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ २३ ॥
व्रतं नियमः । ऋतवा वसन्तादयः । तपः कृच्छ्रचान्द्रायणादि, अनशनं वा तपः, ' निवृत्त्या वर्तमानस्य अथवा तपो नानशनात् परम् ' इत्युक्तः, यद्वा ' मनसश्चेन्द्रियाणां च निग्रहः परमं तपः ' इति स्मरणात्,
पृष्ठ 219
पाठ पढ़ें पाठ छिपाएँ
म ० २३-२४ ] वेदार्थ पारिजातभाष्यसहिता १८३ ' ब्रह्मचर्यं जपो होमः काले शुद्धात्पभोजनम् । अरागद्वेषलोभाश्च तप उक्तं स्वयम्भुवा ॥ ' ( म ० भा ० ११ | २४४ | १ ) इति भारतवचनात् । संवत्सरः प्रभवादिः । अहोरात्रे अहश्च रात्रिश्व अहोरात्रे दिवानिशे । ऊर्वष्ठीवे ऊरू च अष्ठीवन्तौ जानुनी च ऊर्वष्ठीवे अवयवविशेषी, ' अचतुरविचतुरसुचतुर ' ( पा ० सू ० ५/४/७७ ) इत्यादिना निपातितः । बृहद्रथन्तरे एतन्नाम सामनी । एतानि मे यज्ञेन कल्पन्ताम् । --अत्र ब्राह्मणम् – ' अथैतान् यज्ञक्रतून् जुहोति । अग्निश्च मे धर्मश्च म इत्येतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणात्यथो एतैरेवैनमेतद्यज्ञक्रतुभिरभिषिञ्चति ' ( श ० ९ | ३ | ३ | १ ) | पूर्ववद् यज्ञक्रतुमन्त्रसाध्यहोमं प्रशंसति — अथैतानिति । ' अग्निश्च मे धर्मश्च मे ' ( वा ० सं ० १८ / २२-२३ ) इत्यादयो मन्त्रा यज्ञक्रतवः, तत्राग्न्यादिपदानां यज्ञक्रतुप्रतिपादकत्वात् ॥ २३ ॥
mat च मे तिस्रश्च मे तिस्रश्च॑ मे॒ पञ्च॑ च मे पञ्च॑ च मे सप्त च॑ मे सप्त च॑ मे नव॑ च मे॒ नव॑ च म॒ एकदश च म एकादश च मे त्रयोदश च मे त्रयोदश व मे॒ पञ्च॑दश च मे पञ्च॑दश च मे स॒प्तद॑श च मे सप्तदंश च मे॒ नव॑दश च मे॒ नव॑दश च म एकवि-शतिश्च म एकवि ंशतिश्च मे त्रयोविशतिश्च मे त्रयोविशतिश्च मे पञ्च॑वि-शतिश्च मे पञ्चविधं शतिश्च मे सप्तविं शतिश्च मे सप्तर्विभूतिश्च मे नवविशतिश्च मे नव॑विशतिश्च म एकत्रिंशच्च म एकत्रिशच्च मे त्रयस्त्रि ंशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ २४ ॥
. मन्त्रार्थ - मुझे एक और तीन तीन तथा पाँच, पाँच एवं सात, सात तथा नौ नौ और ग्यारह, ग्यारह और तेरह, तेरह और पन्द्रह, पन्द्रह एवं सत्रह सत्रह तथा उन्नीस, उन्नीस और इक्कीस, इक्कीस तथा तेईस, तेईस एवं पच्चीस, पचीस तथा सत्ताईस, सत्ताईस तथा उत्तोस, उन्तीस और इकतीस, इकतीस एवं तैंतीस और फिर तैंतीस - इन सब संख्याओं से कहे जाने वाले संसार के सकल श्रेष्ठ पदार्थों को मुझे यज्ञ के फल के रूप में देवगण प्रदान करें ॥ २४ ॥
' अथायुजस्तोमान् जुहोति ' ( श ० ९ १३।३।२ ) इति श्रुतेरेकामादाय द्वितीयां विहाय तृतीयामादाय चतुर्थी विहाय परित्यक्तसमसंख्याकेन आत्तविषमसंख्याकेन मन्त्रेण अयुग्मान् स्तोमान् जुहुयात् । आदरातिशयद्योतनाय सर्वत्र पुनरुक्तिः । अयुग्मस्तोमहोमैः सर्वकामावाप्तिः । एतद्वै देवाः सर्वान् कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमायस्तथैवैतद् यजमानः सर्वान् कामानाप्त्वायुग्भिः स्तोमैः स्वर्ग लोकमेति ' ( श ० ९ | ३ | ३ | २ ), ' तद्वै त्रयस्त्रि-शादिति । अन्तो वै त्रयस्त्रिंशोऽयुजा स्तोमानामन्तत एव तद्देवाः स्वर्गं लोकमायंस्तथैवैतद्यजमानोऽन्तत एव स्वर्ग लोकमेति ' ( श ० ९ | ३ | ३ ३ ) । स्तोमाः सामविधानताण्ड्यादिनिर्दिष्टरीत्या मन्त्रविशेषाणां विन्यासविशेषा एव । ते च द्वेधा अयुजो युग्माश्च । ' स्तोमे डविधि: ' ( पा ० सू ० ५।१।५८, वा ० १ ) इति त्रयस्त्रिंशच्छब्दाद् उप्रत्यये टिलोपे त्रयस्त्रश इति रूपम् । अयुजां स्तोमानां त्रयस्त्रिशस्तोम एव अन्तिमो भवति, ततः परस्य अयुजस्तोमस्या-भावात् । देवानामिव यजमानस्यापि त्रयस्त्रिशपर्यन्तस्तोम होमेन सर्वकामाप्तिपूर्वकमन्ततः स्वर्गलोकप्राप्तिः । एतत्सर्वमविज्ञायैव दयानन्दोऽत्र संख्याविज्ञानं प्रतिपादयति । तच्चातीव तुच्छम् आधुनिक प्रभूत-प्रचलिते गणितशास्त्रे भागगुणादिनिरूपणस्य प्रारम्भिकरूपत्वात् । तत्र त्रयस्त्रिशत्पर्यन्तमेवायुजाम्, अष्टा-चत्वारिंशत्पर्यन्तमेव युग्मानां निर्देशे कारणानुक्तेश्च ॥ २४ ॥
पृष्ठ 220
पाठ पढ़ें पाठ छिपाएँ
१८४ शुक्लयजुर्वेद संहिता [ अ ० १८ चत॑स्रश्च मेऽष्टौ च॑ मे॒ष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे षोड॑श च मे॒ षोड॑श च मे श॒तश्च॑ मे श॒तिश्च॑ मे॒ चतु॑विशतिश्व मे॒ चतु॑वि ंशतिश्च मेऽष्टावि ंशतिश्च मेऽष्टाविंशतिश्च मे द्वात्रिंशच्च मे॒ द्वात्रिं शच्च मे षट्त्रिं शच्च मे षट्त्रि शब्च मे चत्वारि ४ शच्च॑ मे॒ चत्वारि शच्च॑ मे॒ चतु॑श्चत्वारि शञ्च मे चत॑श्चत्वारिंशच्च मे॒ऽष्टाच॑त्वारिशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥ २५ ॥
" और चौबीस, मन्त्रार्थ - चार तथा आठ, आठ और बारह, बारह एवं सोलह सोलह और बोस, बोस चालीस चालोस तथा चौवालीस, चौबीस तथा अठाइस, अठाइस और बत्तीस, बत्तीस एवं छत्तीस, छतीस और वाले पदार्थ यज्ञ के फल के रूप में चौवालीस तथा अड़तालीस और फिर अड़तालीस - इन सब संख्याओं से कहे जाने मुझे प्राप्त हों ॥२५ ॥
' अथ युग्मतो जुहोति । एतद्वे छन्दास्यब्रुवन् यातयामा वा अयुजस्तोमा युग्मभिर्वय, स्तोमैः लोकमेति स्वर्गं ' लोकमयामेति तानि युग्मभिः स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानो युग्मभिः स्तोमैः होमं प्रशंसति स्वर्गं - अथेति । ( श ० ९ | ३ | ३ | ४ ) | ' चतस्रश्च मेऽष्टौ च मे ' इत्यादयो मन्त्रा युग्मतः । तन्मन्त्रसाध्यं स्तोमैः स्वर्गं लोकं गमिष्याम पूर्वं छन्दांसि अयुज: । ' स्तोमा: ' इति सर्वत्र प्रयोगाद् यातयामाः अतश्च युग्मभूतैः अष्टाचत्वारिंशादिति ' इत्युक्त्वा तथैव अकुर्वन् । ततश्च युग्मतो होमेन तथैव यजमानोऽपि करोति । ' तद्वा आह । एका च मे तिस्रश्च मे ( श ० ९ ।३।३।१ ) अत्रापि पूर्ववदवधि प्रशंसति - तद्वा अष्टाचत्वारिंशादिति । ' स रोहेत्तादृक् तद् यद्वेव चतस्रश्च मेऽष्टौ च म इति यथा वृक्षं रोहन्नुत्तरामुत्तरा, शाखा, समालम्भ ) | उत्तरोत्तरस्तोमपरिग्रहे वृक्ष-स्तोमान् जुहोत्यन्नं वै स्तोमा अन्नेनैवैनमेतदभिषिञ्चति ' ( रा ० ९ | ३ | ३ | ६ स्तोमानन्नात्मना प्रशंसति - यद्वेव शाखारोहणक्रमेण तानेव द्विविधान् स्तोमान् स्तौति – त आहेति । पुनस्तानेव मनिष्ठाः । त एते यज्ञेन कल्पन्ता-स्तोमानिति । अन्नसाधनत्वात् स्तोमानामन्नत्वम् । अत्रोक्ताः संख्याः संख्ये यस्तो मिति || २५ || विश्व मे यवी च मे दित्यवाट् च मे दित्यौही चं मे पञ्चाविश्च मे पञ्चावी च॑ मे त्रिवत्सश्च मे त्रिवत्सा च॑ मे तुर्य॒वाट् च॑ मे तुयँही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥ २६ ॥
मन्त्रार्थ -- डेढ़ वर्ष का बछड़ा तथा डेढ़ वर्ष को ही बछिया, दो वर्ष का बछड़ा तथा दो वर्ष की ही बलिया, ढाई वर्ष का बैल तथा ढाई वर्ष की हो गाय, तीन वर्ष का बैल तथा तीन वर्ष की ही गाय -- ये सब यज्ञ के फल के रूप में मुझे प्राप्त हों ॥ २६ ॥
कण्डिकाद्वयं वयोहोमे विनियुक्तम् । ' अथ वयांसि जुहोति । पशवो वे वया ंसि पशुभिरेवैनमेतदनेन प्रीणात्यथो पशुभिरेवैनमेतदन्तेनाभिषिञ्चति ' ( श ० ९ | ३ | ३ | ७ ) । ' त्र्यविश्व मे त्र्यवी च मे ' इत्यादयो होमं मन्त्रा प्रशंसति- वयांसि । एकहायनप्रभृत्यापञ्चहायनात् पशवो वयांसोत्युच्यन्ते " तत्र तेषां प्रतिपादनात् । ततस्तन्मन्त्रसाध्यं सार्धसंवत्सरो अथ वयांसीति । अविः षण्मासात्मकः कालः, षडुभिर्मासैस्तत्प्रसवात् । त्रयोऽवयवा यस्य स त्र्यविः