वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 221–230

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 221–230

पृष्ठ 221

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 221 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २६-२८ ] वेदार्थपारिजातभाष्यसहिता १८५ वृषः । तादृशी गौत्र्यवी । द्विसंवत्सरो वृषो दित्यवाट् । तादृगी गौदित्योही । पञ्च अवयवा यस्य स पञ्चाविः सार्धद्विसंवत्सरो वृषः । तादृशी गौः पञ्चावी । त्रिवत्सः वत्सो वत्सरः, यो वत्सा यस्य स त्रिवत्सस्त्रिवर्षो वृषः । तादृगी गोस्त्रिवत्सा | तुर्यवाट्, तुयं चतुर्थं वर्षं वहतीति तुर्यवाट् सार्धत्रिवर्षो वृषः । तादृशो गौस्तुर्यौहो । एते यज्ञेन कल्पन्ताम् ॥ २६ ॥

पृ॒ष्ठवाट् च॑ मे पष्ठ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे ब॒हच्च॑ मेऽन॒-डवांश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥ २७ ॥

मन्त्रार्थ- --चार वर्ष का बेल तथा चार वर्ष की गाय, सेचन में समर्थ वृषभ तथा वन्ध्या गाय, तरुण वृषभ तथा घातिनी गाय, बोझा उठाने में समर्थ बैल तथा नई ब्याई हुई गाय के फल के रूप में मुझे देवगण प्रदान करें । अर्थात् मैं सब प्रकार की गायों तथा बैलों का पालन करने वाला बनूँ ॥ २७ ॥

पष्ठवाट्, पष्ठं वर्षचतुष्कं वहतीति पष्ठवाट्, चतुर्वर्षवयस्को वृषः, तादृशी गोः पष्ठोहो । उक्षा सेक्ता वृषः । वशा वन्ध्या गौः । अतियुवा वृष ऋषभः । बेहद् गर्भघातिनी गौः । अनड्वान्, अनः शकटं वहतीत्यनड्वान् शवहनक्षमो वृषः । अनसि वहे: ' क्विबनसो डश्च ' इति प्रक्रियामाह श्रीस्वामी रामाश्रमः । अर्थाद् वहेः क्विपि सम्प्रसारणे उह, इति रूपम्, अनसः सकारस्य डकारः । अनड् उह, अनडुह शब्दो निष्पन्नः । तस्य प्रथमैकवचनेऽ-नड्वानिति । धेनुः नवप्रसूता गौः । एते मम यज्ञेन निमितेन कल्पन्तां स्वव्यापारसमर्था भवन्तु । यद्वा एते मह्यमुपभोगक्षमा भवन्तु ॥ २७ ॥

वाजा॑य॒ स्वाहा॑ प्र॒स॒वाय॒ स्वाहा॑ऽभि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ऽह॒प॑त॑ये॒ स्व मुग्धाय॒ स्वाहा॑मु॒ग्धाय॑ वैत‌श॒नाय॒ स्वाहा॑विद॒शिन॑ आ॒न्त्याय॒नाय॒ स्वाहा॒ -ser भव॒नाय॒ स्वाहा भुव॑नस्य॒ पत॑ये॒ स्वाहाऽधिपतय॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । इयं ते॒ रामि॒त्राय॑ य॒न्ताऽसि॒ यम॑न ऊ॒र्जे वा॒ वृ॒ष्ट्ये॑ त्वा प्र॒जाना॒ त्वाधिपत्याय ॥ २८ ॥

मन्त्रार्थ - अधिक अन्न उत्पादक चैत्र मास के निमित्त यह श्रेष्ठ आहुति देता हूँ, वैशाख मास के निमित, जल क्रोड़ा में सुखदायक ज्येष्ठ मास के निर्मित यागरूप आबाढ़ मास के निमित्त चातुर्मास्य की यात्रा के निषेधक श्रावण के निमित्त, भाद्रपद मास के निमित्त, तुषार से मोहकारक आश्विन के निमित्त, थोड़ा घटने से विनाशी कार्तिक के निमित्त, निःशरहित अन्त में स्थित विष्णुरूप मार्गशीर्ष के निमित्त 1 स्वरूप में होने वाले लोकों के पोषक पौष मास के निमित्त, सम्पूर्ण प्राणियों के पालक माघ मास के निमित्त वर्षान्त के कारण अधिक पालक काल्गुन मास के निमित्त, बारहों मासों के अधिष्ठात्री देवता प्रजापति के निमित्त यह श्रेष्ठ आहुति दी जाती है । हे प्रजापतिस्वरूप अग्निदेव! यह यज्ञस्थान तुम्हारा राज्य है | अग्निष्टोम आदि कर्मों में सबके नियन्ता तुम मित्र के रूप में इस यजमान के प्रेरक हो, अधिक अन्न की प्राप्ति के लिये, वर्षा के लिये और प्रजाओं पर प्रभुता पाने के लिये मैं तुम्हारा अभिषेक करता हूँ ॥ २८ ॥

' अथ नामग्राहं जुहोति । एतद्वै देवाः सर्वान् कामानाप्त्वाऽथैतमेव प्रत्यक्षम प्रीणंस्तथैवैतद्यजमानः सर्वान् कामानात्वाऽथैतमेव प्रत्यक्षं प्रीणाति वाजाय स्वाहा प्रसवाय स्वाहेति नामान्यस्येतानि नामग्राहमेवं नमेतत्प्रीणाति ' २४

पृष्ठ 222

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 222 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८६ शुक्लयजुर्वेद संहिता [ अ ० १८ ( श ० ९ | ३ | ३ | ८ ) । ' त्र्यविश्च मे व्यवी च मे ' इत्यादिमन्त्राणामवसाने केचन ' वाजाय स्वाहा ' इत्यादयो मन्त्राः समाम्नाताः । तन्मन्त्रसाध्यं होमं प्रशंसति - अथेति । नामग्राहं जुहोति नाम गृहीत्वा जुहुयादित्यर्थः । ' नाम्न्या-दिशिग्रहो: ' ( पा ० सू ० ३ | ४ | ५८ ) इति नामशब्दे उपपदे ग्रहेर्णमुल्प्रत्ययः । वाजश्च मे प्रसवश्च म इत्यादिभिर्मन्त्रः सर्वान् कामानात्वा अथ तमेवाग्नि प्रत्यक्षमप्रीणन्, अतश्चैतेन तथैव यजमानोऽपि करोति । अत्र ' वाजाय स्वाहा ' इत्यादिमन्त्रेषु चतुर्थ्यां सम्प्रदानत्वप्रतीतेर्द्रव्यदेवतासम्बन्ध: प्रत्यक्ष इति प्रत्यक्षमप्रीणन्नित्युक्तम् । न चैवं वाजश्व म इत्यादिषु द्रव्यदेवतासम्बन्धः प्रत्यक्षः, किन्तु प्रथमया निर्देशात् परोक्षः । कानि नामानि यानि गृहीत्वा होमः क्रियते? तत्राह - वाजाय स्वाहेति । वाजोऽन्नं तस्मै स्वाहेति होममन्त्रः । वाजादीनि चैत्रादिमासानां नामानि । तन्नाम गृहीत्वा होतव्यमित्यर्थः । अन्नप्राचुर्याच्चैत्रोऽन्नरूपः । तस्मात् स वाजपदेनोच्यते । प्रसवाय अनुज्ञारूपाय | जलक्रीडादी स्वच्छन्दमभ्यनुज्ञादानात् प्रसवो वैशाखः । अ पिजाय, अप्सु जायत इत्यपिजः, शब्दस्वरूपप्राधान्यादेकवचनन्, छान्दसं वा । ' तत्पुरुषे कृति बहुलम् ' ( पा ० सू ० ६ | ३ | १४ ) इति सप्तम्या अलुक् । जलक्रीडारतत्वादपिजो ज्येष्ठः । वैशाखे अभ्यनुज्ञामात्रम्, ज्येष्ठे तु तत्र रणमिति विशेषः । क्रतवे यागरूपाय चातुर्मास्यादियागप्राचुर्यात् क्रतुराषाढः तस्मै । वसवे वासयतोति वसुः । चातुर्मास्ये यात्रानिषेधाद् वसुः श्रावणः तस्मै । अहर्पतये अह्नां पतिरहपतिस्तस्मै दिनस्वामिने । ' रोऽसुपि ' ( पा ० सू ० ८ / २ / ६ ९ ) इति सूत्रस्थेन ' अहरादीनां पत्यादिषु वा रेफः ' इति वार्तिकेण रेफादेशः । तापकरत्वाद् भाद्रपदस्य अहर्पतित्वम् । मुग्धाय अहे मोहरूपाय दिवसाय | कन्यायां सवितरि हिमप्रादुर्भावाद् मुग्धमह आश्विनः तस्मै । अमुग्धाय वैनंशिनाय, विनश्यतीति विनंशी, ' मस्जिनशोर्झलि ' ( पा ० सु ० ७ १/६० ) इति बाहुलकादझल्यपि नशेर्नुमागमः, विनंशी एव वेनंशिनः स्वार्थेऽण् । अल्पघटिकावत्त्वेन विनाशशीलाय कार्तिकाय अमुग्धाय स्नाननियमादिना पापनाशकत्वान्मोहह्निवर्तकाय कार्तिकाय । अविनंशिने आन्त्यायनाय न विनश्यतीत्यविनंशी, तस्मै विनाशरहिताय, अन्ते सर्वेषां नाशे भवमन्त्यम्, अन्त्यं च तदयनं च इत्यन्त्यायनम्, तत्र भव आन्त्यायनः, तस्मै सर्वनाशेऽप्यवशिष्टाय, अत एवाविनंशिने विष्णुरूपाय मार्गशीर्षाय ' मासानां मार्ग -शीर्षोऽहम् ' ( भ ० गी ० १० | ३५ ) इति गीतोक्तेः । आन्त्याय भौवनाय । भुवनानामयं भौवनः अन्ते स्वरूपे भव आन्त्यः, तस्मै । लोकस्वरूप पुष्टिकरत्वात् तत्र भवत्वम् । जाठराग्नेर्दीप्तिकरत्वात् पुष्टिकरत्वं पौषस्य । भुवनस्य पतये भुवनस्य भूतजातस्य पतये पालकाय माघाय स्वाहा । स्नानादिना पुण्यजनकत्वेन पालकत्वाद् माघस्य । अधिपतयेऽधिकपालकाय फाल्गुनाय, वर्षान्तत्वात् --- इति काण्वसंहिताभाष्ये सायणः । तदुक्तिमनुसृत्य परिष्कृत्य च महीधराचार्यो वाजसनेयिसंहिताभाष्ये व्याख्यातवान् । ' नामान्यस्यैतानि नामग्राहमेवैनमेतत्प्रीणाति ' ( श ० ९ | ३ | ३ | ८ ) इति श्रुत्या स्पष्टं विज्ञायते यत् संवत्सरा-त्मकस्याग्नेर्नामान्येव वाजादीनि । ' त्रयोदशैतानि नामानि भवन्ति । त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चिति-पुरीषाणि..... ( ० ९ २३ / ६ / ९ ) इति श्रुतेर्वाजादीनां चैत्रादिपरत्वव्याख्यानं युक्तमेव । प्रजापतये द्वादशमासा-धिष्ठात्रे प्रजापतिनामकाय देवाय स्वाहेति होमार्थः सर्वत्र । हे अग्ने, इयं ते तव राड् इदं राज्यम् । यत्र यत्र याग्याः क्रियन्ते, तत्र तत्र तवैव राज्यमित्यर्थः । किञ्च, हे अग्ने, त्वं मित्राय मित्रस्य सख्युयजमानस्य यन्ता नियामकोऽसि । षष्ठ्यर्थे चतुर्थी । कीदृशस्त्वम्? यमनः, यमयतीति यमनः, अग्निष्टोमादिकर्मसु सर्वान्नियमयन् । अत ऊर्जे विशिष्टा -न्नरसाय तथा वृष्ट्यै त्वा त्वामभिषिञ्चामीति शेषः । ' अग्नी प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ' ( म ० ३।७६ ) इति स्मृतेः । ततः प्रजानामाधिपत्याय प्रजास्वामित्वाप्त्यै त्वा-भिषिञ्चामि वसोर्धारया अत्र ब्राह्मणम् -'अथाह । इयं ते रामित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्ये त्वा प्रजानां त्वाधिपत्याये-त्यन्नं वा ऊर्गन्नं वृष्टिरन्नेनैवैनमेतत्प्रीणाति ' ( श ० ९ | ३ | ३ | १० ) | ' इयं ते राट् ' इति मन्त्रस्य प्रयोगं विधत्ते —

पृष्ठ 223

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 223 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १८-२९ ] वेदार्थपारिजातभाष्यसहिता १८७ अथाहेति । मन्त्रे ' ऊर्जे त्वा वृष्ट्ये त्वा ' इति प्रयुज्यते । ऊ इति साक्षादन्नमुच्यते । वृष्टिरन्नहेतुत्वादन्नम्, ऊर्जे वृष्ट्ये इत्यनेनान्नस्य प्रतीतेरन्नेनैव एनमग्नि प्रीणाति । ' यद्वेवाह । इयं ते रामित्राय यन्तासि यमन ऊर्जेला वृष्ट्यै त्वा प्रजानां त्वाधिपत्यायेतीदं ते राज्यमभिषिक्तोऽसीत्येतन्मित्रस्य त्वं यन्तासि यमन ऊर्जे च नोऽसि वृष्ट्यै चनोऽसि प्रजानां च न आधिपत्यायासीत्युपब्रुवत एवैनमेतदस्मै नः सर्वस्मा अस्येतस्मै त्वा सर्वस्मा अभ्य षिचामहीति तस्मादु हेदं मानुषं राजानमभिषिक्तमुपब्रुवते ' ( श ० ९ | ३ | ३ | ११ ) । मन्त्रं व्याख्यातुमनुवदति – द्वेवेति । यतोऽभिषिक्तोऽसि अत इदं राज्यं तवैवेत्युक्तं भवति । ' इयं ते ' इत्यनेनाभिषिक्तत्वादेव त्वं मित्रस्य यन्तासि । किञ्च? नोऽस्मत्सम्बन्धिनो यजमानस्य ऊर्जे नो यमनो नियन्ता । वृष्ट्यं च प्रजानामाधिपत्याय च नोऽसि, इत्येव प्रकारेण एनमुपब्रुवते स्तुत्या प्रोत्साहयन्ति । तदयं मन्त्रस्यार्थः- हे अग्ने, त्वमभिषिक्तोऽसि अतस्तवेदं राज्यं भवति । मित्राय मित्रस्य यजमानस्य यन्ता नियन्तासि । यजमानस्य ऊर्जे त्वामभ्यषिचामहि, वृष्ट्यै च त्वामभ्यषिचामहि, प्रजानामाधिपत्याय च त्वामभ्यषिचामहि । अतस्तस्य सर्वस्य यमनोऽसि । यत एवं देवानां राजानमग्निमुपब्रुवत इति । एवमेवाध्यात्मपक्षेऽपीश्वरपरत्वेनायं मन्त्रो व्याख्यातव्यः । तस्यैव सर्वाग्रणोत्वेन सर्वपापदाहकत्वेन सर्वप्रकाशकत्वेन अग्नित्वम् । तन्निमितत्वात् तदायत्तत्वाच्च सर्वमिदं तस्यैव राज्यम् । स चोपासकं मित्रं सखायं मन्यते, ' द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ' ( ऋ ० सं ० २ | १६४/२० ) इति मन्त्रवर्णात् । दयानन्दस्तु – ' यस्मिन् विदुषि वाजाय संग्रामाय स्वाहा सत्क्रियाप्रसवाय सन्तानोत्पत्तये परेश्वर्याय वा स्वाहा पुरुषार्थंबलयुक्ता सत्या वाणी, अपिजाय ग्रहणकरणार्थाय स्वाहा उत्तमक्रिया ' इत्यादिकं व्याख्यातवान्, तत्सर्वं यत्किञ्चित्प्रलापमात्रम् श्रुतिसूत्रविरुद्धत्वात्, निर्मूलत्वाच्च ॥ २८ ॥

आयु॑र्य॒ज्ञेन॑ फल्पता॑ प्रा॒णो य॒ज्ञेन॑ कल्पता॒ चक्षु॑र्य॒ज्ञेन॑ कल्पत॒ श्रोत्र॑ य॒ज्ञेन॑ कल्पत॒ वाग् य॒ज्ञेनं कल्पता॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पत॒ ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ स्व॒र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् । स्तोम॑श्च॒ यजु॑श्च॒ ऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ । स्वदे॒वा अग॑न्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट् स्वाहा॑ ॥ २६ ॥

3 मन्त्रार्थ - - यज्ञ के फल से मेरी आयु में वृद्धि हो, मेरे प्राण बलिष्ठ हों, नेत्रों को ज्योति बढ़े, श्रवण शक्ति यथावत् बनी रहे, वाणी में मिठास मरा रहे, मन सदा स्वच्छ रहे, आत्मा बलवान् हो, सभी वेद मेरे ऊपर प्रसन्न रहें, परमात्मा की दिव्य ज्योति प्राप्त हो, स्वर्ग की प्राप्ति हो, संसार का सर्वश्रेष्ठ सुख प्राप्त हो, महायज्ञ करने की सामर्थ्य प्राप्त हो, बृहन्- पंचदश आदि स्तोम, यजुमंन्त्र, ऋचाएँ, साम को गोतियाँ, बृहत्साम और रथन्तर साम ये सब यज्ञ के फल से मेरे ऊपर अनुग्रह करें । मैं इस यज्ञ के फल से देवभाव को प्राप्त कर स्वर्ग का लाभ करूँ, अमर हो जाऊँ । हिरण्यगर्भ की प्यारी सन्तान इन सब देवताओं को यह शुभ आहुति दी गई है । यह भली प्रकार गृहोत हो ॥ २६ ॥

आयुर्यज्ञेन कल्पतामित्यादिभिर्मन्त्रैः कल्पहोमः । तथा च ब्राह्मणम् -- ' अथ कल्पान् जुहोति । प्राणा वै कल्पाः प्राणानेवास्मिन्नेतद्दधात्यायुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामित्येतानेवास्मिन्नेतत् क्लृप्तान् प्राणान्

पृष्ठ 224

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 224 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८८ शुक्ल यजुर्वेदसंहिता अ ० १८ दधाति ' ( श ० ९ | ३ | ३ | १२ ) । क्लृपिधातुसाहित्येन मन्त्राणां कल्पशब्देनाभिधानम् । प्राणप्रतिपादकरूपत्वात् कल्पानां प्राणान् प्राणत्वमित्यभिप्रायेणोक्तम् - प्राणा वै कल्पा इति । एतानेवास्मिन्निति । एतानेव आयुरादीनेव कृत्स्नान् अस्मिन्नग्नौ निदधाति । ' द्वादश कल्पान् जुहोति । द्वादशमासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य अमृतेनै-मात्रा तावतैवास्मिन्नेतत् क्लृप्तान् प्राणान् दधाति यद्वेव कल्पान् जुहोति प्राणा वै कल्पा अमृतमु वै प्राणा, अतस्त-वैनमेतदभिषिञ्चति ' ( श ० ९ | ३ | ३ | १३ ) | कल्पहोमा द्वादश भवन्ति । अग्निश्च द्वादशमाससंवत्सरात्मकः सम्मितेनैवाग्नि प्रीणातीत्याह - द्वादश कल्पानिति । प्राणसम्बन्धे मरणाभावात् प्राणा अमृतं खल्विति यावत् प्राणा- । मम त्मकतायाः प्रशंसान्तरम् । यज्ञेन निमित्तेन आयुर्जीवनकाल: कल्पतां साध्यताम्, प्राप्यतामिति भोक्तेत्याहुर्मनीषिणः ' प्राणचक्षुःश्रोत्रवाङ्मनांसि यज्ञेन क्लृप्तानि भवन्तु, आत्मा देह: - ' आत्मेन्द्रियमनोयुक्तं परमात्मा यज्ञेन कल्पतां ( कठोप ० ११३ | ४ ) इति श्रुतेः । ब्रह्मा वेदो यज्ञेन कल्पताम् । ज्योतिः स्वयंप्रकाशः एव साध्यताम्, बुद्धिशुद्धयादिक्रमेण साक्षात्कृतो भवतु, यज्ञादिशुभकर्मणामनुष्ठानस्य ब्रह्मात्मसाक्षात्कार ' ( वृ ० उ ० ४ | ४ | २२ ) पर्यवसानात् ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन स्वः स्वर्गो यज्ञेन इति श्रुतेः, ' कर्मणैव हि संसिद्धिमास्थिता जनकादय: ' ( भ ० गी ० ३।२० ) इति स्मृतेश्व | भवतु । नाहं कल्पताम् । पृष्ठं स्तोत्रं स्वर्गस्थानं वा यज्ञेन कल्पताम् । यज्ञोऽपि यज्ञेनैव कल्पतां यज्ञेनैव क्लृप्तो यजुश्च यज्ञक्लृप्ती समर्थः । तथा च मन्त्रवर्णः - ' यज्ञेन यज्ञमयजन्त देवाः ' ( वा ० सं ० ३१।१६ ) इति । स्तोमश्च ऋक् च साम च बृहच्च रथन्तरं च यज्ञेन क्लृप्तानि भवन्तु । स्तोमस्त्रिवृत् पञ्चदशादिः यज्ञेन । क्लृप्तानि यजुरनियतपादा सन्तु । मन्त्रः । ऋग् नियतपादा । साम गीतिप्रधानम् । बृहद्रथन्तरे सामविशेषौ । सर्वाण्येतानि वसोर्धारया एवमग्निमभिषिच्य स्वात्मानं यजमानः प्रशंसति वयं यजमाना देवा भूत्वा स्वः स्वर्गम् अगन्म । गतवन्तः, गत्वा च अमृता अभूम अमरधर्माणो जाताः । ततः प्रजापतेर्हिरण्यगर्भस्य प्रजा अभूमेति फलसम्पदुक्तिः । अनेन वसोर्धारायाः सर्वकामप्राप्तिहेतुत्वममृतत्व हेतुत्वं चोक्तं भवति । वेट् स्वाहेति वसोर्धाराहोमार्थो मन्त्रः तथा च ब्राह्मणम् -- ‘ अथाह । स्तोमश्च यजुश्च ऋक् च साम च बृहच्च रथन्तरं चेति त्रयी हैषा विद्यानं वै त्रयी विद्यान्ननैर्वनमेतत्प्रीणात्यथो अन्नेनैवैनमेतदभिषिञ्चति स्वर्देवा अगन्माऽमृता अभूमेति स्वहिं गच्छत्यमृतो हि भवति प्रजापतेः प्रजा अभूमेति प्रजापतेहि प्रजा भवति वेट् स्वाहेति वषट्कारो हैष परोक्षं यद्वेट्कारो वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते तदेनमेताभ्यामुभाभ्यां प्रीणाति वषट्कारेण च स्वाहाकारेण ( श ० चाथो ९ ।३ । एताभ्यामेवैनमेतदुभाभ्यामभिषिञ्चत्यत्र तां सुचमनुप्रास्यति यदत्राज्यलिप्तं तन्नेद्बहिर्धाऽग्नेरसदिति ३ | १४ ) । त्रय्या विद्याया नानाविधफललक्षणस्यान्नस्य हेतोः कर्मणः प्रतिपादकत्वादन्नत्वम् । यतः सर्वा अपि प्रजाः प्रजापतिसम्बन्धिन्य इति व्याचष्टे -- प्रजापतेरिति । स्पष्टमन्यत् । अध्यात्मपक्षे - हे अग्ने भगवन्, मदीयायुरादानि सर्वाणि यज्ञे आराधने वयं त्वदीयाराधनोपयोगीनि प्रजापतेः परमेश्वरस्य भवन्तु । वयं भवत्प्रसादात् स्वो ब्रह्मात्मकं सुखमगन्म गतवन्तोऽमृताश्चाभूम ।, सिंहशिशोः यतो सिंहत्वमिव परमेश्वर-प्रजाः पुत्रा अभूम, ‘ अमृतस्य पुत्राः ( ऋ ० सं ० १० | १३ | १ ) इति मन्त्रवर्णात् पुत्रस्य परमेश्वरत्वमेव ॥ २ ९ ॥

वाज॑स्य॒ नु प्र॑स॒वे मा॒तरो॑ म॒हीमदिति नाम॒ वच॑सा करामहे ।

यस्या॑मि॒दं विश्वं भुव॑नमावेश तस्मा॑ नो दे॒वः स॑वि॒ता धर्मं साविषत् ॥ ३० ॥

जिस मन्त्रार्थ - - अन्न को अनुज्ञा में वर्तमान हम जगत् का निर्माण करने वाली, अदीन, पूजनीय भूमि में, प्रसिद्ध सबके प्रेर माता भूमि को वेदवाक्यों के द्वारा अनुकूल करते हैं, जिसमें यह सम्पूर्ण संसार प्रतिष्ठित है, उस प्रकाशात्मक परमात्मा हमारी धारणा को पुष्ट करें ॥ ३० ॥

पृष्ठ 225

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 225 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३०-३१ ] वेदार्थ पारिजात भाष्यसहिता १८ ९ ' वाजप्रसवीयानि वप्रावत् सम्भृत्य चमसवत् स्रुवेण वाजपेयिकानि वाजस्येममिति ' ( का ० ० १८/५/४ ), ' अग्निकानि च वाजस्य न्विति ' ( का ० श्र ० १८/५/५ ) | वप्रावद् अग्निक्षेत्रवपतवत् सर्वौषधमोदुम्बरे चमसे सम्भृत्य तस्मात् सर्वोषधात् चमसवत् स्रुवेणेत्योदुम्बरेण चतुष्कोणपुष्करेण स्रुवेण ' वाजस्येमं प्रसव ' इति सप्तभिर्मन्त्रैः ( ९।२३-२९ ) वाजपेयसम्बन्धीनि वाजप्रसवीयानि हुत्वा ' वाजस्य तु प्रसव ' ( ९ | ३० - ३६ ) इत्यादिभिः सप्तभिर्मन्त्रैः प्रतिमन्त्रमाग्निकानि तस्मादेव सर्वोषधात् तेनैव स्रुवेण जुहोतीति सूत्रार्थः । अत्र ब्राह्मणम् -'अथातो वाजप्रसवीयं जुहोति । अन्नं वे वाजोऽन्नप्रसवीय हास्येतदन्नमेवास्मा एतेन प्रसीति ' ( श ० ९ | ३ | ४ | १ ) | वाजप्रसवीयहोमं विधाय तत्प्रयोजनकथनद्वारा तस्य पदस्य प्रवृत्तिनिमित्तं दर्शयति---- अथात इति । वाजप्रसवीयमिति कर्मनामधेयम् । वाजप्रसवीयं जुहोति वाजप्रसवीयाख्यं होमं कुर्या -दित्यर्थः । वाजशब्देनान्नस्याभिधानादस्याग्नेरर्थे क्रियमाणमेतत्कर्म अन्नप्रसवीयम् । ततश्चैतेन कर्मणा अस्मा अग्नये सर्वमप्यन्नं प्रसौति, अनुजानाति । सर्वस्याप्यन्नस्य स्वामिनं करोतीत्यर्थः । ' सर्वोषधं भवति । सर्वमेतदन्नं यत्सर्वौषध ं, सर्वेणैवैनमेतदन्तेन प्रीणात्यथो सर्वेणैवैनमेतदन्नेनाभिषिञ्चति तेषामेकमन्नमुद्धरेत्तस्य नाश्नीया-द्यावज्जीवमौदुम्बरेण चमसेनौदम्बरेण स्रुवेण तयोरुक्तो बन्धुश्चतुः स्रक्ती भवतश्चतस्रो वे दिशः सर्वाभ्य एवैन-मेद्दिग्भ्योऽन्नेन प्रीणात्यथो सर्वाभ्य एवैनमेतद्दिग्भ्योऽन्नेनाभिषिञ्चति ' ( श ० ९ २ ३ ४ १४ ) । अत्र सर्वोषधय इति सप्त ग्राम्याः सप्तारण्याः परिगृह्यन्ते । ताश्चितिस्थले बीजवापावसरेऽभिहिताः । लोके यत्किञ्चिद्वस्तु तद् ग्राममारण्यं वा भवति । अतः सर्वमेतदन्नमित्युक्तम् । एतेन सर्वौग्धसम्पादितेन होमेन एनमग्नि सर्वेणैवान्नेन प्रीणात्यभिषिञ्चति च । तेषां चतुर्दशानामन्नानां मध्ये किमप्येकमन्नं परित्यजेत् तदन्नं यावज्जीवं नाश्नीयात् । तत्र पात्रविशेषं विधत्ते - औदुम्बरेण चमसेन औदुम्बरेण स्रुवेणेति । अत्र स्रुवेणैव वाजप्रसवीयो होम: क्रियते, न तु चमसेन । अथ पुनः सम्पातावनयनार्थमभिषेकार्थं च औदुम्बरचमसप्रयोगः । नवमेऽध्याये पञ्चमकण्डिकायामियमृग् व्याख्याता । वाजस्य अन्नस्य विरारूपस्य प्रसवेऽनुज्ञायां वर्तमाना वयं यां महीं भूमि नाम प्रसिद्धं यथा स्यात्तथा वचसा वेदवाक्येन एवंविधामनुकूलां करामहे कृतवन्तः । कीदृशीं भूमिम्? मातरं जगनिर्मात्रीम् । महीं महतीं महनीयाम् । अदितिमखण्डिताम् । इदं विश्वं भुवनं सर्वं भूतजातं यस्यां भूमावाविवेश । सविता देवस्तस्यां भूमौ नोऽस्माकं धर्मधारणमवस्थानं साविषत् प्रसुवतां प्रेरयतु ।

शेषव्याख्यानं तत्रैव ( ९ ।५ ) स्थलेऽवलोकनीयम् ॥ ३० ॥

विश्वे ' अ॒द्य म॒रुतो॒ विश्वं॑ रु॒तो विश्वे॑ भवन्त्व॒ग्नयः समिद्धाः ।

विश्वे ' नो दे॒वा अन॒साग॑मन्तु॒ विश्व॑मस्तु द्रविण॒ वाजो अ॒स्मे ॥ ३१ ॥

मन्त्रार्थ - आज इस यज्ञ में सभी मरुद्गण देवता आवें, सम्पूर्ण रुद्र, आदित्य आदि गणदेवता यहां आयें । ये सभी देवता हमारी दी हुई हवि को प्रेमपूर्वक ग्रहण करें । गार्हपत्य आदि सब अग्नियाँ प्रदीप्त हों । गो, भू, सुवर्ण आदि सम्पूर्ण धन और अन्न हमें प्राप्त हों ॥ ३१ ॥

शोधानादृष्टा वैश्वदेवी त्रिष्टुप् । अद्य अस्मिन् दिवसे विश्वे सर्वे मरुतः सप्तसप्तका आगमन्तु आगच्छन्तु । ' इषुगमियमां छ: ' ( पा ० सू ० ७ ३ ७७ ) इति प्राप्तछत्वस्याभावे रूपम् । विश्वे अन्ये च सर्वे गणदेवा वसवो रुद्रा आदित्याश्च ऊती ऊत्या, ' सुपां सुलुक ' ( पा ० सू ० ७ १ / ३ ९ ) इति पूर्वसवर्णः अनेन तर्पणेन निमित्त -भूतेन आगमन्तु । विश्वेदेवा गणदेवताश्च नोऽस्माकमवसा अन्नेन हविषा निमित्तेन हविर्ग्रहणाय आगमन्तु |

पृष्ठ 226

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 226 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ० शुक्लयजुर्वेदसंहिता [ अ ० १८ तदागमनेन च विश्वे सर्वेऽग्नयो गार्हपत्यादयः समिद्धाः सम्यग् दीप्ता भवन्तु तदर्थं होमेनेति यावत् । तेषां देवानां तुष्टया विश्वं सर्वं द्रविणं धनं गोभूहिरण्यादिकं वाजोऽन्नं च अस्मे अस्माकम् अस्तु । विभक्तेः ' सुपां सुलुक् ’ ( पा ० सू ० ७ । १ । ३ ९ ) इत्यनेन शे आदेशः । अध्यात्मपक्षे - सर्वात्मभूतो भगवानेवात्र मरुदादिरूपेणापि स्तूयते । दयानन्दस्तु - ' अस्यां पृथिव्यामद्य विश्वे मरुतो विश्वे प्राणिनः पदार्थाश्च विश्वे समिद्धा अग्नय इव ऊती ऊत्या रक्षणादिना सह भवन्तु । विश्वे देवा अवसा गमन्तु । यतोऽस्मे विश्वं द्रविणं वाजश्चास्तु ' इति, तदेत-त्सर्वमसङ्गतमेव, मनुष्येभ्यः प्रार्थनीयाभीष्टसिद्धेरसम्भवात् । नह्यल्पशक्तयो विद्वांसोऽपि मनुष्या सर्वमनुष्याणां

वाञ्छाः पूरयितुं समर्थाः । गौणार्थाश्रयणं च निर्मूलमेव ॥ ३१ ॥

वाजो ' नः सप्त प्रदिशश्चत॑स्रो वा परावतः ।

वाजो ' नो विश्वैर्वर्धन साताविहाऽवतु ॥ ३२ ॥

मन्त्रार्थ- -यज्ञ में हमारे द्वारा दिया गया अन्न सातों दिशाओं को, अर्थात भू आदि तीन लोक और पूर्व आदि चार दिशाओं को तथा बहुत दूर स्थित महः आदि चार लोकों को परिपूर्ण कर दे । इस लोक में धन - विभाग का समय आने पर यह अत्र सम्पूर्ण देवताओं के साथ हमारी रक्षा करे ॥ ३२ ॥

तिस्रोऽन्नदेवत्याः । तत्र आद्यानुष्टुप् द्वे त्रिष्टुभौ । नोऽस्माकं वाजोऽन्नं सप्त प्रदिशः चतस्रो दिशः प्राच्याद्याः प्रकृष्टाश्व त्रयो भूरादयो लोका एते सप्त प्रदिश उक्ताः । चतस्रो वा परावतः । परावच्छब्दो दूरवचनः । महर्जनस्तपः सत्यमित्येते चत्वारो दूरस्था लोकाः । महरादयो हि लोकत्रयमतीत्य वर्तन्ते । तान् सर्वान् वाजः पूरयत्विति । किञ्च वाजो नोऽस्मान् विश्वैर्देवैः सह धनसातौ धनसम्भजनकाले प्राप्ते । इह यज्ञे इह वा लोके । वाजोऽन्नं नोऽस्मान् विश्वैर्देवैः सह अवतु पालयतु । यद्वा नोऽस्माकं वाजोऽन्नं भुरादिलोकत्रयं प्राच्यादिचतुष्कं चेति सप्त प्रदिशः पूरयतु । परावतो दूरस्थाश्व पूरयतु | अर्थाद् महरादयः सत्यान्ताश्च प्रदिशः पूरयतु, अस्म-द्दत्तेनान्नेन सप्त लोका दिक्चतुष्टयं च तृप्यत्वित्यर्थः । किञ्च, धनसातौ धनस्य संभजनकाले प्राप्ते वाजोऽन्नं नोऽस्मान् विश्वैर्देवैः सहावतु । इह अस्मिन् लोके यज्ञे वा यदास्माकं धनेच्छा जायेत, तदा देवतर्पणक्षमं बह्वन्नमस्त्विति सामान्येन स्वकीयशुभकर्मार्जित-मनोपलक्षितं भोग्यभूतमैश्वर्यमेवात्र वाजपदेनाभिधीयते । तच्च हिरण्यगर्भोपासनादिसमुच्चितोत्कृष्टचयनादियागा-जितं सर्वलोकपूरकं सर्वदेवतर्पणसमर्थं सम्भवति । अध्यात्मपक्षे -- भक्तानां भगवानेवान्नं भवति । स एव सर्वं पूरयति सर्वतर्पणक्षमं भवति, तस्यैवानन्त-त्वात्, ' अहमन्नमहमन्नमहमन्नमहमन्नादः ' ( तै ० उ ० ३ | १० | ६ ) इति श्रुतेः । दयानन्दस्तु - ' हे विद्वांसः, यथा विश्वैर्देवैः सह वर्तमानो वाजोऽन्नादिः इह लोके धनसातौ धनानां विभक्तौ नोऽवतु प्राप्नोतु । यद्वा नो वाजो ज्ञानादिः सप्त प्रदिशः परावतश्चतस्रो दिश उपदेशेन पालयतु । तथैता यूयं सततं रक्षत ' इति, तदपि यत्किञ्चित्, वाजोऽन्नादिः कर्मणा प्राप्यते, न मनुष्यप्रार्थनयेति व्यर्थ एष प्रलापः । ज्ञानात्मक वाजोऽपि सप्त प्रदिशः पालयितुं समर्थः, तस्योपदेष्टृत्वायोगात् उपदेशमात्रेण शत्रुकृतप्रहारात् त्राणायोगाच्च ॥ ३२ ॥

पृष्ठ 227

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 227 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३३ ३४ ] वेदार्थ पारिजातभाष्यसहिता

वाजो ' नो अद्य प्रसूति दानं वाजो ' दे॒वाँ २ ॥ ऋतुभिः कल्पयाति ।

वाजो हि मा सवैवीरं जजान विश्वा आशा वाज॑पतिर्जयेयम् ॥ ३३ ॥

१ ९ १ मन्त्रार्थ - आज अन्न की अधिष्ठात्री देवता हमें दान के निमित्त प्रेरणा वे, अन्न ऋतुओं के साथ देवताओं को यथास्थान कल्पना करे, अन्न ही मुझे पुत्र - पौत्र आदि से युक्त करे, अन्न का स्वामी बनकर मैं सब दिशाओं को अपने वश में करने में समर्थ होऊं ॥ ३३ ॥

अद्य अस्मिन् दिने वाजोऽन्नम्, अन्नाधिष्ठात्री देवतेति यावत् । नोऽस्मान् प्रसुवाति अभ्यनुजानातु, दानार्थमिति शेषः । अन्नदानेच्छास्माकं भवत्वित्यर्थः । वाज ऋतुभिः कालैः सह देवान् कल्पयाति यथास्थानं कल्पयतू, यथाकालं यथायोग्यं देवानां यजने प्रवर्तयत् । हि चकारार्थः । वाजो हि वाजश्व मा मां सर्ववीरं सर्वे वीराः पुत्रपौत्रादयो यस्य तं तादृशं मां जजान जनयत् ' छन्दसि लुललिट: ' ( पा ० सू ० ३ | ४/६ ) इति काल-सामान्ये लिट् पुत्रपौत्रादिसमन्वितं मां करोत् । ततो वाजपतिः समृद्धान्नः सन्नहं विश्वा आशाः सर्वा दिशो जयेयम् । अन्नदानेन यज्ञादिना शक्तिमान् भूत्वा सर्वा दिशो दशीकुर्यामित्यर्थः । अन्ने सत्येव दानं देवयजनं यथाकालं पुत्रपौत्रादिमत्त्वं सर्वदिग्विजयित्वं च सम्पद्यते । अध्यात्मपक्षे - परमेश्वर एवात्र वाजः । स एव दान याग - पुत्रादि- जयादिपूरको भवति । दयानन्दस्तु - हे ' मनुष्याः, ययाद्य यद्वाजोऽन्नं नो दानं प्रसुवाति प्रेरयेत् । वाज ऋतुभिर्देवान् कल्पयाति समर्थयेत वसन्तादिभिः । यद्धि वाजः सर्ववीरं मां जजान, तेनाहं वाजपतिर्भूत्वा विश्वा आशा जयेयम्, तथा यूयमपि जयत ' इति, तदपि यत्किञ्चित् जडस्य वाजस्य तथा प्रार्थनायोगात् सम्बोधनस्य च निर्मूलत्वात् । वेगरूप गुणो वसन्तादिभिॠतुभिर्देवान् समीचीनान् गुणान् समर्थयेतेति केन किं श्लिष्यते? || ३३ ॥

वाज॑ः पु॒रस्ता॑दु॒तम॑ध्य॒तो नो वाज ' दे॒वान् ह॒विषा॑ वर्धयाति ।

वाजो हि मा सर्ववीरं चकार सर्वा आशा वाज॑पतिर्भवेयम् ॥ ३४ ॥

मन्त्रार्थं - अन्न हमारे आगे और मध्य से स्थित हो, अन्न हवि के रूप में देवताओं को तृप्त करता है, अन्न ने ही मुझे पुत्र - पौत्र आदि से युक्त किया है. अन्न का स्वामी बनकर मैं सब दिशाओं को जीतने में समर्थ होऊँ ॥ ३४ ॥

वाजोऽन्नं नः पुरस्ताद् भवतु । उत अपि च, नोऽस्माकं मध्यतो मध्येगृहं वाजो भवतु । नोऽस्माकं वाजो हविषा देवान् वर्धयाति वर्धयतु पुंष्णातु । हि चार्थे । वाजो हि वाजश्च मा मां सर्ववीरं पुत्रपौत्रादियुतं चकार करोतु । ततश्च वाजपतिर्वाजानां पतिः पालकः सन्नहं सर्वा आशा भवेयम् । अत्र दिग्रूपतया आत्मनो व्यापकता प्रार्थ्यते । यद्वा - सर्वा आशा भवेयं प्राप्नुयाम्, वशीकुर्यामित्यर्थः । भूप्राप्तावात्मनेपदीति धातुपाठसूत्रात् णिचा सहैवात्मनेपदं नान्यत्र । अत्र माधवीयायां धातुवृत्ती बहूक्तम् । अधिकं जिज्ञासुभिस्तत्रैवालोचनीयम् । अध्यात्मपक्षे - अवश्यमत्र वाजशब्देन वाजाधिष्ठात्री देवता भगवानेव वा विवक्षितौ, केवलस्य भोग्यस्यान्नादेर्भोक्तारं प्रति शेषत्वेन तादृङ्माहात्म्यानुपपत्तेः । दयानन्दस्तु --- ' यद्वाजो हविषा पुरस्तादुत मध्यतो नो वर्धयाति यद्वाजो देवांश्च वर्धयाति, यद्धि वाजो मा सर्ववीरं चकार, तेनाहं वाजपतिर्भवेयं सर्वा आशा जयेयम् ' इति, तदपि विसङ्गतम्, मन्त्रे जयेयमिति पदाभावात् । यत्पदमपि मूले नास्ति ॥ ३४ ॥

पृष्ठ 228

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 228 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ २ शुक्लयजुर्वेद संहिता

सं सृजाम पय॑सा पृथिव्याः सं मां सृजाम्य द्विरोषधीभिः ।

सोऽहं वाजसनेयमग्ने ॥ ३५ ॥

मन्त्रार्थ - हे अग्निदेव, मैं पृथ्वी के रस से अपने को [ अ ] ० १८ संयुक्त करता हूँ, जल और औषधियों से अपने को | अथवा हे अग्ने! मैं औषधिजल से हवन द्वारा संयुक्त करता हूँ । ऐसा करने के बाद मैं अन्न की उपासना करता तुमको संयुक्त करता हूँ और इस प्रकार अन्न की उपासना करता हूँ ॥ ३५ ॥

द्वे विराजो | ' दशकास्त्रयो विराडेकादशका वा ' ( ऋक्सर्वानुक्रमणी तृतीये ) इत्युक्तेरेकादशाक्षरत्रिपादा पादे सोऽहमिति तच्छब्द-विराट् । द्वितीयस्तु दशकः । तृतीयोऽपि व्यूहेन दशकस्तेनैकोना । अत्र कण्डिकायां भूमिसम्बन्धिरसेन मां स्वात्मानं संसृजामि श्रवणाद् यदोऽध्याहारः । तथा च हे अग्ने, योऽहं पृथिव्याः पयसा संसृष्टपयः प्रभृतिशरीरः सन् वाजमन्नं संयोजयामि, अद्भिरुदकैः, ओषधीभिश्च यवादिभिः, मां संसृजामि, सोऽहं । हे अग्ने, योऽहं त्वां पृथिव्याः सनेयं सम्भजेयम् । यद्वा व्यत्ययेनास्मदः स्थाने युष्मदादेशं कृत्वाग्निरेवोच्यते सोऽहं वाजं सनेयम् । पयसा त्वामद्भिस्त्वामोषधीभिः संसृजामि, होमाभिप्रायोऽयं संसर्गः1 । अध्यात्मपक्षे - अत्राप्यग्निः परमात्मैव प्रार्थ्यते, अग्निभावापन्नस्य परमात्मन एवाग्नित्वात् मां संसृजामि, अद्भिरोषधीभिः दयानन्दस्तु - ' हे अग्ने, रसविद्याविद् विद्वन, योऽहं पृथिव्याः यत्किञ्चित् पयसा, भोक्तुः शुद्धस्यात्मनः पृथिव्याः सह च संसृजामि, सोऽहं वाजं सनेयमेवं त्वमप्याचर ' इति, तदपि ॥ पयसा अौषधि सम्मिश्र गासम्भवात् मुले सहपदाभावाच्च ॥ ३५

पर्यः पृथिव्यां पय ओष॑धीषु पयोव्रि॑क्षि॒ पयोधाः ।

पर्यस्वतो: प्रदिर्शःसन्तुमह्य॑म् ॥ ३६ ॥

करो, औषधियों में रस डालो, लोक मन्त्रार्थ - हे अग्निदेव! पृथ्वी पर हमें देने के लिये रस को मेरे धारण लिये रस से भर जाँय ॥ ३६ ॥

में रस को स्थापित करो, आहुति देने से सारी दिशाएं और विदिशाएँ रूपम्, ' बहुलं हे अग्ने, त्वं पृथिव्यां पयो रसं धा धेहि, स्थापय । दधातेर्लुङि मध्यमैकवचने । दिवि स्वर्गे च पयो धेहि । सू ० ६/४/७५ ) इत्यडभावः ओषधीषु च पयो रसं धेहि छन्दस्य मायो s पि ' ( पा ० पयस्वती रसयुक्ताः सन्तु । आहुतिपरिणा-अन्तरिक्षे च पयो धेहि । किञ्च, मह्यं मदर्थे । प्रदिशो दिशो विदिशश्च मेन पृथिव्यादयो ममाभीष्टदा भवन्त्वित्यर्थः परमेश्वरस्यैव शक्तत्वात् । अध्यात्मपक्षे -- हे अग्ने परमेश्वर, पृथिव्यां पयो रसं धेहि, तत्र किं बहुना रसाघाने , दिवि द्युलोकेऽन्तरिक्षे तत्रत्य-ओषधीषु च पयो रसं धेहि । तत्र दधिदुग्धघृतादिरूपं च पयो धेहि । तथाभूतः सम्पद्यते । त्वत्प्रसादाद् मह्यं तर्पणोपयुक्तं पयो धेहि । तदीयाऽचिन्त्यशक्त्यैव आहुत्यादिपरिणामोऽपि प्रदिशः पयस्वत्यो रसवत्यो भवन्तु । पूर्वोक्तलोकत्रयं दिक्चतुष्टयं परावतश्चतस्रो महर्जनस्तपः सत्याख्याः यत्पयो दिव्यन्तरिक्षे यत्पयो धाः, तत्सर्वं दयानन्दस्तु - ' हे विद्वन्, त्वं पृथिव्यां यत्पय ओषधीषु भवन्तु ' इति, तदेतत्सर्वं वह्निना सिञ्चतीति-पयोऽहमपि धरामि । या: प्रदिशः पयस्वतीस्तुभ्यं सन्तु ता मह्यमपि ॥ वद् बाधितार्थमेव, परमेश्वरकार्यस्य मनुष्येष्वसम्भवात् ॥ ३६

पृष्ठ 229

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 229 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३७-३८ ] वेदार्थपारिजातभाष्यसहिता

वे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।

सर॑स्वत्यै वाचो य॒न्तुर्य॒न्त्रणाग्नेः साम्रज्येनाभिषिञ्चामि ॥ ३७ ॥

१ ९ ३ मन्त्रार्थ - सविता देवता की आज्ञा में रहता हुआ मैं अश्विनीकुमार की बाहुओं सरस्वती को वाणी से, प्रजापति के नियम के अनुसार, अग्नि के चक्रवर्तीपने से, तथा पूषा देवता के हाथों से, हे यजमान! मैं तुम्हारा अभिषेक करता हूँ || ३७ ॥ ' स्रुवं प्रास्य परिश्रित्स्पृक कृष्णाजिनमास्तीयं पुच्छादुत्तर ४ शेषेऽपः कृत्वा क्षीरोदके वा वाजपेयिकानीति श्रुतेः ( का ० श्री ० १८/५/६ - ८ ) । कर्मापवर्गे औदुम्बरं चतुष्कोणं , अभिषेकसामर्थ्यात्, प्रक्षिप्य अग्निपुच्छादुत्तरदिशि परिश्रित्संलग्नं प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्र स्थितो स्रुवमाहवनीये यजमानश्चयनं कृत्वान्वारब्धोऽध्वर्युणा सर्वौषधशेषेणाभिषिच्यते । किं कृत्वा? सर्वौषधशेषेऽपो ब्रह्मवर्चसकामो अभिषेकस्यैव द्रवद्रव्यसाध्यत्वादिति पूर्वपक्ष: । तत्र सिद्धान्तमाह- क्षीरोदके वेत्यादि जलानि कृत्वा, निरासः । नैव शेषेऽपामासेकः कार्यं इति, यतः शेषमध्ये क्षीरोदके विद्येते एव । कुत । ' एतज्ज्ञायत वा ' इत्यनेन पूर्वपक्ष-' वाजपेयिकानि ' इति श्रुतेः अत्र वाजपेयिकानि ' वाजप्रसवीयानि जुहोति ' ( श ० ५ | २ | २ | ४ ) इति इति चेत्, नामधेयात् क्षीरोदके स्त एवेति साम्प्रदायिकाः, ' औदुम्बरे पात्रेऽप आसिच्य पयश्च ' ( का ० श्री श्रुतेः ० १४ । | तत्र ५ च इत्युक्तेः । अतस्तन्मिश्रेणैवाभिषेको न जलसेक इत्यर्थं इति सूत्रत्रयार्थः । देवस्य त्वेति कण्डिकार्धं पूर्वं व्याख्यातम् | २० । ) सरस्वत्यै इति । लिङ्गोक्तदेवत्यं यजुः | सरस्वत्ये षष्ठ्यर्थे चतुर्थी । सरस्वती सम्बन्धिन्या वाचो वाण्या यन्तु नियन्तुः प्रजापतेर्यन्त्रेण नियमनेन अग्नेश्व साम्राज्येन चक्रवर्तित्वेन है यजमान, त्वामभिषिञ्चामि । मत्कृता-भिषेकेण वासिद्धि:, ऐश्वर्यम्, साम्राज्यं च तव सम्पद्यतामित्यर्थः । अध्यात्मपक्षे - हे साधक! सरस्वत्यै वागधिष्ठात्र्या देव्याः सम्बन्धिन्या वाचो नियन्तुः प्रजापतेः परमेश्वरस्य नियन्त्रणेनाग्नेः साम्राज्येन सम्यक् प्रकाशेन त्वामहमभिषिञ्चामि शोधयामि । दयानन्दस्तु - हे विद्वन् राजन् यथाहं त्वां सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै वाचा यन्तुरग्नेर्यन्त्रेण साम्राज्येनाभिषिञ्चामि ' इति, तदपि यत्किञ्चित्, अधिकारदानस्य लौकिकत्वे -नाभिषेकस्या लौकिकत्वेन सम्बन्धायोगात् । न च कलाकौशलप्रदर्शनेन राज्यमुत्पाद्यते । अभिषेकेण किञ्चित् पुण्यमदृष्टं वानभ्युपगच्छतो वासिद्धिरैश्वर्यं च कथमुपपद्यते? ॥ ३७ ॥

ऋताषाड् ऋ॒तद्या॑मग्निगैन्धर्वस्तस्योष॑धयोऽप्सरसो मुदो नामं । स नं इदं ब्रह्म क्षत्रं पा॑ति॒ ह तस्मै॒ स्वाहा वाट् ताभ्यः॒ स्वाहा॑ ॥ ३८ ॥

मन्त्रार्थ - सत्यवक्ता अविनाशी धाम वाला, पृथ्वी का धारक गन्धर्व नामक अग्नि हमारी क्षत्रिय जाति की रक्षा करे । हम उसके निमित्त यह आहुति देते हैं, यह भली प्रकार गृहीत इस ब्राह्मण जाति और करनेवाली मुद नामक औषधियां गन्धर्व नामक अग्नि की अप्सराएँ हैं, वे भी हमारी रक्षा करें हो ॥ प्राणियों को प्रसन्न निमित्त दी गई यह आहुति भली प्रकार गृहीत हो ॥ ३८ ॥ उन औषधियों के

' द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति प्रतिस्वाहाकार, राष्ट्रभृतो वाट्कारान्तः मन्त्रः ' २५ ( का ० श्रौ ० १८।५।१६ ) । ततो द्वादशगृहीतमाज्यं गृहीत्वा तद् विग्राहं विगृह्य विभज्येति पूर्वः यावत् पूर्वो ।

पृष्ठ 230

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 230 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ४ शुक्लयजुर्वेदसंहिता [ अ ० १८ द्वादशांशान् कृत्वा ऋताषाडिति द्वादशमन्त्रैः प्रतिस्वाहाकारं राष्ट्रभृत्संज्ञा आहुतीर्जुहोति । व्यतिषक्तेषु स न इदं द्वादश- ब्रह्मे-मन्त्रेषु पूर्वो मन्त्रः स्वाहावाडित्यन्तः, उत्तरस्ताभ्यः स्वाहेत्यन्तः । ततो मन्त्रे यानि च स्त्रीलिङ्गानि पुंलिङ्गानि तस्योषधयो s -त्यादीनि तानि व्यवहितपठितान्यपकृष्य पठित्वा पूर्वी मन्त्रः सम्पाद्यः । यानि स न इदं ब्रह्म क्षत्रं प्सरस इत्यादीनि तान्युत्कृष्य पठित्वोत्तरो मन्त्रः सम्पाद्यः । तेन ' ऋताषाड़तधामाग्निर्गन्धर्वः इत्युत्तरो मन्त्रः । पूर्वो पातु तस्मै स्वाहा वाट् ' इति पूर्वो मन्त्रः । ' तस्योषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहा ' सूत्रार्थः । गन्धर्वदेवत्यः, उत्तरोऽप्सरोदेवत्यः । एवमग्रे पञ्चस्वपि कण्डिकासु मन्त्रविभागो ज्ञेय इति तथा चात्र ब्राह्मणम् —'अथातो राष्ट्रभृतो जुहोति । राजानो वै राष्ट्रभृतस्ते हि राष्ट्राणि बिभ्रत्येता ह देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवेतत्प्रीणाति ता अस्मा इष्टाः प्रीता स यस्मै एत न तद्यद्राजानो सवनमनु-मन्यन्ते ताभिरनुमतः सूयते यस्मै वे राजानो राज्यमनुमन्यन्ते स राजा भवति न राष्ट्राणि बिभ्रति राजान उ एते देवास्तस्मादेता राष्ट्रभृतः ' ( श ० ९ | ४ | १ | १ ) । राष्ट्रभृतो जुहोति राष्ट्रभृदाख्यान् होमप्रयोजन-होमान् कुर्यात् । राष्ट्रभरणसाधारण्येन एतेषां राष्ट्रभृतां राजत्वमाह - राजानो वा इति । राष्ट्रभृतां पूर्वमेव सम्पादितः, माह - एताह देवता इति । ननु चात्र सोष्यमाण इति भविष्यत्कालिकः प्रयोगः, अभिषेकश्च । एवं तत्कथमौचिती भविष्यत्प्रयोगस्येति चेत्, उच्यते - अभिषेकात् पूर्वो यः कालस्तदपेक्षायां भविष्यत्प्रयोगः ता एवैतत्प्रीणाति ताभिरनुमतः सूयत इत्येतन्नोपपद्यते । कुत:? न खल्वभिषेकात् पूर्वमेतासां प्रीणनार्थं होमेन होमः क्रियते । अप्रीणिताश्च नानुमन्यन्त इति । नैष दोषः । अभिषेकात् पूर्वमेतद्देवतानुमत्यभावेऽपीदानीमनेन -प्रीणिताः प्राक्सम्पादितमभिषेकमनुमन्यन्ते । ततः स यजमानस्ताभिरनुमत एवाभिषिक्तो भवति । अन्यथाऽभि प्येतद्देवतानुमतिविरहेणानभिषिक्तप्रायो भवतीत्यर्थः । अथवा ' एष वै स सव: ' ( ० ९ | ४ | १ | १३ ) इति परस्तादप्यभिषेको वक्ष्यते, तत्कालापेक्षश्चायं लट्प्रत्ययः । अथैतेषां राष्ट्रभृत्संज्ञाप्राप्ति दर्शयति - तद्यद्राजान इति । ' राजानो वे राष्ट्रभृत: ' इति राजत्वस्योक्तत्वादेते देवा राजानः । राजानश्च राष्ट्राणि बिभ्रति । यत एवं तस्मादेता राष्ट्रभृतः 1 । पूर्वं राष्ट्र भरणेन राजत्वमुक्तम् । इदानीं तु राजत्वमुपजीव्य राष्ट्रभृत्संज्ञकत्वमुच्यते । १० ), अथ पूर्वमभिषेकसम्पादकानि ब्राह्मणानि – ' अथैनं कृष्णाजिनेऽभिषिञ्चति ' ( श ० ९ | ३ परिश्रितां | ४ | ' आसीनं भूतमभिषिञ्चेत् ' ( श ० ९ | ३ | ४ | १४ ), ' आस्पृष्टं परिश्रितः ' ( श ० ९ | ३ | ४ | १५ ) । अत्र कृष्णाजिनस्य भूत्वोदक्रामन्नथो स्पर्शो यजमानसम्बन्धिदेवात्माभिषेकहेतुर्भवति । ' गन्धर्वाप्सरोभ्यो जुहोति । गन्धर्वाप्सरसो हि कामयते ' ( श ० गन्धेन च वं रूपेण च गन्धर्वाप्सरसश्चरन्ति तस्माद्यः कश्च मिथुनमुपत्रैति गन्धं चैव स रूपं च च निरुक्तिः । ९ | ४ | १ | ४ ) । ' गन्धेन वै रूपेण च गन्धर्वाप्सरसश्वरन्ति ' इत्यनेन गन्धर्वशब्दस्य अप्सरः शब्दस्य ते च ताश्च गन्धर्वा-गन्धेन विशन्तीति गन्धर्वाः | अपशब्देन रूपमभिधीयते, तेन विशिष्टाः सरन्तीत्यप्सरसः, प्सरसः । पृषोदरादित्वात् सिद्धिः । मिथुनशब्देन मिथुनभावः स्त्री चाभिधीयते । ' मिथुनानि जुहोति । मिथुनाद्वा अधि प्रजातियों वै प्रजायते स राष्ट्रं भवत्यराष्ट्रं वै स भवति दा यो उ न प्रजायते तद्यन्मिथुनानि राष्ट्रं बिभ्रति मिथुना उ एते देवास्तस्मादेता राष्ट्रभृत आज्येन द्वादशगृहोतेन द्वादशैवाहुतयो भवन्ति तस्योक्तो बन्धुः ' ( श ० ९ | ४ | १/५ ) | प्रकारान्तरेण एतासां राष्ट्रभृत्संज्ञासम्बन्धं भवति खलु । अतश्च दर्शयति- यो वै मिथुनानि जुहोतीति । प्रजाति: प्रकर्षेण जननं पुत्रपौत्रादीनामुत्पत्तिः, सा मिथुनादेव पुरुषः प्रजायते पुत्रपौत्रादिपरम्परया विविधं जायते स एव राष्ट्रं भवति, तस्य प्रजाबाहुल्येन राष्ट्रसाधनसाम-र्थ्यात् । यस्तु न प्रजायते स राष्ट्रं न भवति, तस्य प्रजाभावेन राष्ट्रसाधनसामर्थ्याभावात् तत्परिमाणं च । एवं विधत्ते च - मिथुनानां आज्येन राष्ट्रभृत्त्वाद् मिथुनभूतानामेतेषां देवानामपि राष्ट्रभृत्त्वमित्यर्थः । प्रकृतहोमे द्रव्यं ' संवत्सरः ' द्वादशगृहीतेनेति । ग्रहणसंख्यानुसारेण ता द्वादशैवाहुतयो भवन्ति । तस्य ब्राह्मणं द्वादशमासाः इत्यादिना प्रागुक्तम् ।