वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 391–396
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 391–396
पृष्ठ 391
पाठ पढ़ें पाठ छिपाएँ
म०७१-८१ ] वेदार्थ पारिजातभाष्यसहिता ३५५ हे अग्ने, यस्य ते तव आस्ये मुखे स्रुचि घृतमिव, चमिव चम्बाम् अधिषवणचर्मणि सोम इव तत्र यथा सोमः सर्वदा स्थितः, तद्वन्नित्यं मया तवास्ये हविरहावि हुतम् । स त्वम् अस्मे अस्मासु वाजसनिं वाजस्य अन्नस्य सनि भोगं सुवीरं शोभनवी रोपेतं रयिं धनं प्रशस्तं लोकस्तुतं बृहन्तं महान्तं यशसं यशश्च पुंस्त्वमाषंम् | सर्वलोकप्रसिद्धं यशः सोमं वा धेहि देहीत्यर्थः, ' यशो वे सोमो राजा ' ( ऐ ० ब्रा ० १ ( १३ ) इति श्रुतेः । अध्यात्मपक्षे - हे अग्ने परमात्मन् स्रुचि घृतं चम्वि सोम इव तवास्येऽग्निरूपे मुखे मया अहावि नित्यं हविर्हतम् त्वमस्मे अस्मासु यशआदिकं धेहि । शेषं पूर्ववत् । ---दयानन्दस्तु - ' हे अग्ने विद्वन्, येन त्वया सोमो हविस्ते तवास्ये घृतं स्रुचीव चम्वि यज्ञपात्रे सोम ऐश्वर्य सम्पन्न हविरहावि, स त्वमस्मे सुवीरं प्रशस्तं यशसं वीर्यकरं बृहन्तं महान्तं रयिं धेहि ' इति, तदपि यत्किञ्चित्, मनुष्यमल्पशक्तिमन्त मल्पज्ञं जीवं प्रति तादृशप्रार्थनानुपपत्ते, यशसं रयिमिति विशेष्यविशेषणानुपपत्तेश्व ॥ ७ ९ ॥
अ॒श्विना॒ तेज॑सा॒ चक्षु॑ प्रा॒णेन॒ सर॑स्वती वी॒र्य॑म् ।
वाचेन्द्रो॒ बल॒नेन्द्रय दधुरिन्द्रियम् ॥ ८० ॥
मन्त्रार्थ - दोनों अश्विनीकुमारों ने तेज के साथ नेत्रों को, सरस्वती देवी ने प्राणों के साथ सामर्थ्य को और इन्द्र ने वाणी तथा बल के साथ इन्द्रियों की शक्ति को यजमान के निमित्त स्थापित किया है, अर्थात् हवि और सोम रस को पाकर इन देवताओं ने यजमान को ये सब शक्तियाँ प्रदान की हैं ॥ ८० ॥
' प्रतिगरिष्यत्युपविष्टेऽध्वर्यो शो सावेत्याहूय ' ( का ० श्र ० १ ९ । ६ । २६ ) । त्रयस्त्रिशव साग्र हसादना -नन्तरमध्वर्योर्होतुः पुरस्तात् प्रतिगरार्थ मुपवेशन मुक्तम् । तदाह - प्रतिगरिष्यतीत्यादिना । प्रतिगरिष्यत्यध्वर्यौ पुर उपविष्टे सत्यध्वर्यो शो सावो ३ म् इत्याहूय ' अश्विना तेजसेत्यनुवाक शसति ' ( का ० श्री ० १ ९ ।६।२६ ), आश्विनमनुवाकं ' अश्विना तेजसा चक्षुः ' ( वा ० सं ० २०/८० ) इत्येकादशचं शस्त्रं होता शंसेत् । प्रथमान्त्ये ऋचौ त्रिः शंसनीये मध्यस्थानां त्रयाणां तृचानामादिष्वाहावः कार्य इति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्याऽनुष्टुप् । आद्यः पादोऽष्टाः, द्वितीयो नवार्णः, तृतीयः षडर्णः, चतुर्थोऽष्टार्णः । अश्विना अश्विनौ तेजसा सह चक्षुरिन्द्रिय-मिन्द्राय दधुर्दधतुः । सरस्वतो प्राणेन सह वोर्यमिन्द्राय दधौ ददौ । इन्द्रः कल्पान्तरोयो बलेन सह वाचमिन्द्रिय-मिन्द्राय एतत्कल्पभवाय ददौ । सर्वापेक्षया दधुरिति बहुवचनम् । अध्यात्मपक्षे— अश्विसरस्वतोन्द्रभावापन्नः परमेश्वर इन्द्राय रूपादिदीप्तिमते जीवाय चक्षुरादीनि ददौ । दयानन्दस्तु – ' हे मनुष्याः, यथा सरस्वती अश्विनो अध्यापकोपदेशको इन्द्रः सभेश इन्द्राय जीवाय प्राणेन जोवनेन वीर्यं पराक्रमं तेजसा चक्षुः प्रत्यक्षमिन्द्रियं वाचा बलेनेन्द्रियं जीवचिह्नं दधुस्तथा धरन्तु ' इति, तदपि यत्किञ्चित्, मनुष्येषु प्राणनेत्रादिधारणसामर्थ्यायोगात्, उपदेशानर्थक्याच्च । नहि मनुष्याणामायत्तं प्राणादिधारणम्, सति तथा मरणाद्यनुपपत्तिः ॥ ८० ॥
गोम॑तू॒ षु णा॑स॒त्याश्वा॑वद्यातमश्विना । व॒र्ती द्रा नृपाय्य॑म् ॥ ८१ ॥
मन्त्रार्थ - हे सत्य व्यवहारयुक्त अश्विनीकुमारों, हे दुष्टों को रुलाने वालों! आप लोग अवश्य ही गायों और अश्वों से युक्त वर्तमान मार्ग से इस सोम रस का पान करने के लिये इस यज्ञ में आओ, अर्थात् यजमान ने इस यज्ञ में गायों और अश्वों का दान किया है, अत: इनकी सहायता से आप लोग यहाँ पधारें ॥। ८१ ॥
पृष्ठ 392
पाठ पढ़ें पाठ छिपाएँ
३५६ शुक्लयजुर्वेद संहिता [ ॐ ० २० गृत्समददृष्टा अश्विदेवत्यास्तिस्रो गायत्र्यः । आद्या पादनिचृद् गायत्री, ' त्रयः सप्तकाः पादनिचूत् ' । ( ४।४ ) इति द्वादशकाण्डी परिभाषायामृग्वेदसर्वानुक्रमण्यां कात्यायनवचनात् । उ, सु, निपाती पादपूरणार्थौ ८ | ३ | १०७ ) ऊषुणा सत्या, ' उ ' इति निपातः, तस्य ' इकः सुत्रि ' ( पा ० सू ० ६ | ३ | १३४ ) इति दीर्घः, ' सुत्र: ' ( पा ० सू ० णत्वम् । इति सकारस्य षत्वम् ' पूर्वपदात् संज्ञायामगः ' ( पा ० सू ० ८ | ४ | ३ ) इति नासत्यघटकनकारस्य मार्गेण, विभक्तिव्यत्ययः । हे नासत्या नासत्य, हे अश्विना अश्विनी, हे रुद्रा रुद्री शत्रूणां रोदयितारी, वर्तिः वर्त्या ० ३।१।१३० ) युवां नृपाय्यम्, नृभिः पीयते सोमो यस्मिन् स नृपाय्यो यज्ञः, तम् । ' ऋतौ कुण्डपाय्यसंचाय्यो ' ( पिबतेर्धातोरधिकरणे पा ० सू इत्यत्र कुण्डशब्देन नृशब्दोऽप्युपलक्ष्यते । तथा च नृशब्देऽपि तृतीयान्ते उपपदे यस्मिन् तत् । अश्वावद् यत्प्रत्ययो युगागमश्च निपात्यते । यातं गच्छतम् । किं कृत्वा? गोमद् गावो विद्यन्ते दीर्घः । गोयुक्त-अश्वाविद्यन्ते यत्र तत्, ' मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतो ' ( पा ० सू ० ६ | ३ | १३१ ) इति इत्युव्वटाचार्यः । मश्वयुक्तं च धनमादाय यज्ञं प्रति गच्छतमित्यर्थः । सदेवा नरो यस्मिन् यज्ञे पिबन्ति स नृपाय्य अध्यात्मपक्षे - अश्विनी तद्वत् सुन्दरी नासत्यो परमसत्यो रुद्रौ रावणादिशत्रूणां रोदयितारौ युवां नृपाय्यं यज्ञं प्रति गवाश्वादियुक्तं धनमादाय गच्छतम् । दयानन्दस्तु - हे ' नासत्यो रुद्रौ अश्विनौ यथा युवां गोमद् वर्तिर्वर्तमानं मार्गम् अस्पष्टत्वाच्च अश्वावन्नृपाय्यं । तथाहि नृणां पाथ्यं पानं सुयातम्, तथा वयमपि प्राप्नुयाम ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात्, नृपाय्यविशेषणत्वे वतिपदं मार्गपरं चेत्, तर्हि विशेषणेन तदनुरूपेणैव भाव्यम् । तथैव अश्वावदिति ॥ पदस्य तदनुरूपतैव न्याय्या । किञ्च नृपाय्यपदव्यपदेश्यं किम्? तदपि न स्पष्टम् ॥ ८१
न यत्परो॒ नान्त॑र आद॒धर्षैद् वृषण्वसू । दुःशो मर्त्यो रिपुः ॥ ८२ ॥
न हो मन्त्रार्थ - हे वृष्टिरूप धन देने वाले अश्विनीकुमारों! जो निन्दा करने वाला शत्रु हमारा सम्बन्धो ८२ ॥ अथवा हो, वह हमारी और इन्द्र की धर्षणा न कर सके ॥ वर्षतीति वृषा, ' कनिन् युवृषितक्षिराजिधन्विद्यु प्रतिदिव: ' ( उ ०१।१५६ ) इति कनिन्-वृषण्वसू वृष्णा वृष्ट्या प्रत्ययेन साधुः । वृषा वर्षणं वृष्टिर्वसु धनं ययोस्तौ वृषण्वसू, सम्बोधने हे वृषण्वसू! यद्वा शंसतीति दुःशंसोड-जलान्नादिवर्षणेन वासयतो लोकं स्थापयत इति वृषण्वसू, हे अश्विनौ! दुःशंसो दुर् दुष्टमपवादं मर्त्यो यद् यमिन्द्रं न पवदिता, रिपुः शत्रुः, मर्त्यो मनुष्यः परः असम्बद्धः, अन्तरः सम्बद्धा, स्वकीयोऽपीदृशो पराभवितुं न शक्तस्तमिन्द्रं आदधर्षन्न आधृष्णुयान्न पराभूयात् । स्वकीयः परकीयो वा पिशुनो रिपुर्यमिन्द्रं युवां वीर्यवन्तं कुरुतमित्यर्थः । इति अध्यात्मपक्षे - हे वृषण्वसू, वृष्णा तत्वज्ञानवृष्ट्या वासयतः साधकान् शेषः ब्रह्मणि । कीदृशमिन्द्रम् प्रतिष्ठापयत? यद् वृषण्वसू अश्विनौ शास्त्राचार्यौ तमिन्द्रं परमात्मानं स्वानुग्रहेण प्रकाशयतमिति रिपुनं आदधर्षत् परिवदितुं न यमिन्द्रं परः परकीयोऽसम्बद्धो मर्त्योऽन्तरः सम्बद्धः स्वकीयो दुःशंसो निन्दको समर्थः, सर्वंस्यात्मत्वात् सर्वप्राणिपरप्रेमास्पदत्वात् तादृशमिन्द्रं प्रकाशयतम् । योग्यः परो मर्त्यो दयानन्दस्तु – ' हे वृषण्वसू सभासेनेशौ युवां यद् यस्माद् दुःशंसो , तदपि दुःखेन यत्किञ्चित् शंसितुं रिपोर्मध्यस्थस्थ रिपुर्न स्यात्, नान्तरश्च योऽस्मानादधर्षत् तं प्रयत्नतो वशं नयतम् ' इति स प्रयत्नेन जेतव्य इति च वशीकरणाप्रसङ्गात्, भावार्थविरोधाच्च, राजपुरुषेर्यः प्रबलो दुष्टतमः शत्रुर्भवेत् विरोधाच्च ॥ ८२ ॥
पृष्ठ 393
पाठ पढ़ें पाठ छिपाएँ
II III ] वेदार्थ पारिजातभाष्यसहिता
तान आवोढमश्विना र॒यिं पि॒शङ्गा॑संदृशम् । धिष्ण्या॑ वरिवो॒विद॑म् ॥। ८३ ॥
३५७ मन्त्रार्थ - हे सबको धारण करने वाले अग्निरूप धर्यशील अश्विनीकुमारों! आप हमारे लिये पीतवर्ण के सुवर्ण रूप धन को प्राप्त कराने में हेतु बनें ॥ ८३ ॥
यौ युवामुक्तगुणोता तो नोऽस्माकम्, हे अश्विनौ हे धिष्ण्यो धिष्ण्याग्निरूपी धातारो वा, पिशङ्ग-सन्दृशं पिशङ्गं पीतं सम्यग् दृश्यते तत् पिशङ्गसन्दृशं पीतवर्णम्, सुवर्णमित्यर्थः, अनेकरूपदर्शनं वा रयि धनमावोढ-मावहतं प्रापयतम् । वतेर्लुङि परमैपदे मध्यमपुरुषद्विवचनम् । कीदृशं रयिम्? वरिवोविदम् वरिवो धनं विन्दति प्राप्नोतीति वरिवोविदः, वरिव इति धननामसु ( निघ ० २ १०/५ ), तम् । ' विदुल लाभे ' इत्यस्मात् ' इगुपधज्ञाप्रीकिर:: ' ( पा ० सू ० ३ | १ | १३५ ) इति कः । यद् धनं लब्धं सदन्यस्य धनलाभस्य हेतुभूतं स्यात्, तदर्थानुबन्धरूपं धनं प्रापयतमिति सम्बन्धः । . अध्यात्मपक्षे - यौ युवां परमात्मानं प्रकाशयतम्, तो हे अश्विनी हे धिष्ण्यो धिष्ण्याग्निसदृशौ ज्ञानरूपौ ज्ञानधातारौ वा, पिशङ्गसदृशं रयि ज्योतिर्मयं ज्ञानरूपं रयिं धनं यश्च वरिवो धनं विन्दति प्राप्नोति तं ज्ञानान्तर-प्राप्तिहेतुं धनमावोढम् आवहतम् । दयानन्दस्तु – ' हे अश्विनी, धिष्ण्यो विषणया धिया गृहीतो तो युवां नो वरिवोविदं येन वरिवः परिचरणं विन्दति तं पिशङ्गसंदृशं रयिमावोढम् ' इति, तदपि यत्किञ्चित्, सभासेनेशयोर्दानानधिकारित्वात्, सुवर्णसदृशं कि धनमित्यनुक्तेश्व । न चैश्वयं स्वर्णसदृशं भवति, तस्य नीरूपत्वात् ॥ ८३ ॥
पा॒व॒का न॒ः सर॑स्वती॒ वाजेभिर्वा॒जिनी॑वतो । य॒ज्ञं व॑ष्ट॒ धियाव॑सुः ॥ ८४ ॥
मन्त्रार्थ - पवित्र करने वाली, अन्नों द्वारा अन्नयुक्त, बुद्धिकर्म रूप फल को देने वाली सरस्वती देवी हमारी यज्ञ करने की इच्छा को पूरी करे ॥ ८४ ॥
मधुच्छन्दोदृष्टाः सरस्वती देवत्यास्तिस्रो गायत्र्यः । पावका पवनं पाव: ' भावे ' ( पा ० सू ० ३ | ३ | १८ ) इति घञ्, पावं कायति कथयतीति पावका, ' आतोऽनुपसर्गे कः ' ( पा ० सू ० ३ २/३ ) इति कप्रत्ययः, पावयित्री सरस्वती । वाजेभिरन्नैर्वाजिनीवती वाजा अन्नानि विद्यन्ते यस्यां सा वाजिनी यज्ञक्रिया, सा विद्यते यस्यां सा वाजिनीवती यज्ञक्रियाधिष्ठात्री । धियावसुः धिया कर्मणा वसु धनं यस्याः सा । समासेऽपि तृतीयायाश्छान्दसोऽ-लुक् । ज्ञानविज्ञानाधिष्ठात्री तथाविधा सरस्वती नोऽस्माकं यज्ञं वष्टु कामयताम् । यो हि यदिच्छति तत्प्रति-गच्छति, अतोऽस्मद्यज्ञं प्रत्यागच्छत्वित्यर्थः । अध्यात्मपक्षे – पावका पावयित्री सरस्वती ब्रह्मविद्यारूपा नोऽस्माकं यज्ञं यजनं ब्रह्मनिदिध्यासनरूपं वष्टुकामयताम्, तं च सफलयितुमागच्छेदित्यर्थः । कीदृशी सा? वाजेभिर्वाजिनीवती वाजं ब्रह्मात्मकमन्नमभि-व्यङ्ग्यतयाऽस्ति यस्यां सा वाजिनी ब्रह्माकारा वृत्तिः, तदधिष्ठात्री वाजिनीवती । वाजेभिर्ब्रह्मात्मके रन्नैविषये -र्वाजिनीवती । अनेकाभिर्ब्रह्माकाराभिर्वृत्तिभिर्ब्रह्मा का राऽपरोक्ष साक्षात्काररूपा चरमा वृत्तिरुत्पद्यते । धियावसुः, धिया उक्तया चरमया वृत्त्या या धनवतो, तादृशी सा नो यज्ञमागच्छत्वित्यर्थः । दयानन्दस्तु - ' हे अध्यापकोपदेशको, यथा वाजेभिर्विज्ञानादिगुणैर्वाजिनीवती पावका धियावसुः सरस्वती वाणी नो यज्ञं वष्टु, तथा युवामस्मान् शिक्षेताम् ' इति, तदपि यत्किञ्चित् वाण्या विज्ञानानाश्रयत्वात्, चिदात्मन एव ज्ञानाश्रयत्वात् ॥ ८४ ॥
पृष्ठ 394
पाठ पढ़ें पाठ छिपाएँ
३५८ शुक्लयजुर्वेद संहिता ज ० २०
चो॒द॒यि॒त्रो सूनृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥ ८५ ॥
देने मन्त्रार्थ--- सत्य और प्रिय वचनों की अथवा वैदिक शब्दों की प्रेरणा करने वाली, सुबुद्धियों को चेतना वाली सरस्वती देवी इस यज्ञ को रक्षा करे ॥ ८५ ॥
५८, सूनृतानां सुष्ठु नृत्यन्त्यनेनेति सूनृतानि प्रियसत्यवचनानि, ' घञर्थे कविधानम् ' ( पा ० सू ० तृच् ३ |, ३ | ततो वा ० २ ) इति कत्रत्ययेन साधु, तेषां वेदत्रयीशब्दानां चोदयित्री प्रेरयित्री । ' चुद प्रेरणे ' णिजन्तात् सुमतयस्तासाम्, ङीप् । देवमनुष्यादिषु प्रियसत्यवचनानां प्रेरयित्री वा । सुमतीनां सुष्ठु शोभना मतयो ३ | ४ | ११७ बुद्धयः ) इति शपोऽप्यार्ध -चेतन्ती चेतयन्ती प्रकटयन्ती वा सुमतिदात्रीत्यर्थ: । ' छन्दस्युभयथा ' ( पा ० सू ० । धातुकत्वात् णिचो लोपः । तथाविधा सरस्वती यज्ञं दधे धारयति, तदनुग्रहमन्तरा यज्ञाप्रवृत्तेः अध्यात्मपक्षे - या सूनृतानां प्रेरयित्री सुमतीनां च चेतन्ती उत्पादयित्री, तथाविधा " सरस्वती ब्रह्मविद्या-धिष्ठात्री नो यज्ञं ब्रह्मयज्ञं निदिध्यासनादिलक्षणं धारयतु । दधे, तथाऽयं दयानन्दस्तु - हे ' स्त्रियः, यथा सूनृतानां चोदयित्री सुमतीनां चेतन्ती सरस्वती अहं निष्प्रमाणत्वात् यज्ञं ॥ ८५ ॥
युष्माभिरप्यनुष्ठेयः ' इति, तदपि तुच्छम्, लौकिक्यां मानुष्यां तदसम्भवात्, यथा तथेत्यध्याहारस्य
महो अर्ण॒ः सर॑स्वती॒ प्रचे॑तयति के॒तुनां । धियो॒ विश्वा॒ विरा॑जति ॥ ८६ ॥
मन्त्रार्थ - सरस्वती देवी कर्म अथवा प्रज्ञा से महान् जल को प्रेरित करती है, अर्थात् सर्वत्र वर्षा कराती है । सकल प्राणियों की बुद्धि को प्रदीप्त करती है, उसकी हम स्तुति करते हैं ॥ ८६ ॥
या सरस्वती केतुना कर्मणा प्रज्ञया वा महो महद् अर्ण उदकं प्रचेतयति प्रज्ञापयति प्रेरयति, सर्वस्यां भूमी वृष्टि कारयतीत्यर्थः । किञ्च विश्वाः सर्वा धियः प्राणिनां बुद्धोविराजति । विराजयति प्रदीपयति, सर्वजन्तु-बुद्धोः प्रकाशयति, तांस्तुम इति शेषः । ' राजू दीप्तो ' अन्तर्भावितण्यर्थो द्रष्टव्यः अध्यात्मपक्षे - या सरस्वती केतुना कर्मानुष्ठानेन, उपासनाद्वारेत्यर्थः । महो अर्णः, महद् उदकं प्रचेत--यति केतुनैव सर्वा बुद्धीर्दीपयति, तथाविधां दिव्यां भगवतीं ज्ञानविज्ञान मूलभूतां स्तुमः । दयानन्दस्तु - ' हे स्त्रियः, यथा सरस्वती वाणी केतुना प्रज्ञानेन महो महद् अर्णोऽन्तरिक्षस्य तदपि यत्किञ्चित् शब्दसमुद्र स्त्रीणां प्रचेतयति प्रज्ञापयति, विश्वा धियो विराजति प्रकाशयति, तथा यूयं प्रवृत्ता भवत ' इति, राहित्याभ्यां च सम्बोध्यत्वे मानाभावात् । न च वाणी तत्रोदाहरणमर्हति चैतन्याचतन्याभ्यां ८६ ॥ विग्रहसाहित्य वैषम्यात् । न च साऽन्तरिक्षसमुद्रं प्रज्ञापयति, वाणीमतामपि तदज्ञानात् ॥
इन्द्रार्याहि चित्रभानो सुताइ॒मे त्वा॒यवः॑ः । अण्वी॑भि॒स्तना॑ पू॒तासः ॥ ८७ ॥
चाहने मन्त्रार्थ - हे अनेकों प्रकार की कान्ति वाले ऐश्वर्यवान् इन्द्रदेव! आप यहाँ आइये । यह आपको है ॥ ८७ ॥
वाला अंगुलियों और दशापवित्र से शोधित अभिषुत सोम आपके लिये ही यहाँ रखा हुआ भानवो दीप्तयो यस्य स मधुच्छन्दो दृष्टा इन्द्रदेवत्यास्तिस्रो गायत्र्यः । हे चित्रभानो, चित्रा सोमाः नानाविधा सुता अभिषुताः । त्वायवस्त्वां चित्रभानुस्तत्सम्बुद्धौ । हे इन्द्र! त्वमायाहि । किमित्यायामीति चेत्, इमे ' प्रत्ययोत्तरपदयोश्व ' ( पा ० सू ० ७७२।९ ८ ) कामयन्त इति त्वायवः, ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३ १ ८ ) इति क्यचि ' ( पा ० सू ० ६।३।८ ९ ) इत्यस्त्र इति त्वादेशे, ' आ सर्वनाम्नः ' ( पा ० सू ० ६ | ३ | ९ १ ) इत्यत्रानुवृत्तस्य ' दृग्दृशवतुषु ० ३ । २ । १७० ) इत्युप्रत्यये च रूपम् । योगविभागाद् दृग्दृशवतुभिन्नेऽपि कचिदात्वे, ' क्याच्छन्दसि ' ( पा ० सू धनदानेन च तनेति धननामसु तथा अण्वोभिरङ्गुलोभिः अण्वीत्य ङ्गुलिनाम ( नि ० घ ० २५ २ ) । तना च
पृष्ठ 395
पाठ पढ़ें पाठ छिपाएँ
म ० ८७ ¢ ९ ] • वेदार्थ पारिजातभाष्यसहिता ३५ ९ ( निघ ० २।१०।१ ९ ) । पूताः शोधिताः पवित्रीकृताः । अथवा तनाशब्दो दशापवित्रवाची । तृतीयैकवचनस्य पूर्व-सवर्णः । सोमास्त्वां कामयन्ते इन्द्रोऽस्मान् पिबत्विति । तदर्थ मायाहीत्यर्थः । अध्यात्मपक्षे - हे इन्द्र परमात्मन्, हे चित्रभानो चित्रदीते, लक्ष्म्यालङ्कृतत्वात् चित्रा नानाविधाः मलाः पीता हरिता व्यस्तनानाविधालङ्कारपीताम्बरादिकृताश्च भानवो दीप्तयो यस्य स चित्रभानुः, तत्सम्बुद्धौ । स्वमाह । इमे सुता अभिषुताः सोमा अनेके, अन्ये च भक्तसमर्पितोपहारास्त्वायवस्त्वां कामयन्ते । अन्यत् पूर्ववत् । ' अहमन्त्रमहमन्न महमन्नम् ' ( तै ० ३ | १० | ६ ) इत्यादिश्रुतिरीत्या भगवच्छेषा भक्ता एवं • भोग्यभावापन्ना भगवन्तं भोक्तारं सोऽस्मानङ्गीकरोत्विति कामयन्ते । दयानन्दस्तु - हे चित्रभानो इन्द्र, त्वया य इमे अण्वीभिः सुता निष्पादिताः, तना विस्तृतगुणेन पूतास-वायवो ये त्वां युवन्ति मिलन्ति, ते पदार्थाः सन्ति तानायाहि ' इति, तदपि यत्किञ्चित् । राजस्तुतौ वेदानां तात्पर्याभावेन तथार्थस्य निरर्थकत्वात् । न च राजपूजैव धर्मः, न वा तत्प्रवृत्तये वेदस्य प्रवृत्तिरिति विद्वांसो विदाङ्कुर्वन्तु । न च विद्याप्रकाशे चित्रा भानवो भवन्ति, तस्या नीरूपत्वात् । अङ्गुलीभिः के पदार्था राजानं मिलन्तीत्यनुक्तेश्व ॥ ८७ ॥
इन्द्राया॑हि धियेषि॒तो विप्र॑जूतः सु॒ताव॑तः । उप ब्रह्मणि वाघतः ॥ ८८ ॥
मन्त्रार्थ - हे इन्द्रदेव! अपनी बुद्धि से प्रेरित हुए आप श्रेष्ठ ब्राह्मणों से सेवित होते हुए यहाँ आइये । सोम का अभिषव करने वाले यजमान को और ऋत्विजों के स्तोत्र को सुनते हुए आप यहाँ हवि के समीप आकर बैठिये || ८८ || हे इन्द्र धिया स्वबुद्धया इषितः प्रेषितः सन्नायाहि, अनन्यप्रेषित इति यावत् । कीदृशस्त्वम्? विप्रजूतः, ' जु वेगितायां गती ' सोत्रस्तस्य ' ऊतियुतिजूतिसातिहेतिकीर्तयश्च ' ( पा ० सू ० ३ | ३ | ९ ७ ) इति निपातनाद् जूतिः, ग्रन्थिः प्रीतिर्वा, जूतिरस्त्यस्येति जूतः, विप्रैर्मेधाविभिर्जुतः सम्बन्धविशेषोऽस्त्यस्येति विप्रजूतः । • अथवा विप्रैर्मेधाविभिर्जूतोऽनुगतः सेवित इति यावत् स तथोक्तः । किमित्यागन्तव्यमिति चेत्? सुतावतः सुतवतः सोममभिषुतवतो यजमानस्य ब्रह्माणि हवींषि उप हविषां समीपे, छान्दसो दीर्घः, वाघत ऋत्विजः, वाघ इति ऋत्विनामसु ( निघ ० ३ | १८/३ ), वर्तन्त इति शेषः । ऋत्विजो हविरादाय स्थिताः प्रतीक्षन्त इत्ययाहीत्यर्थः । अध्यात्मपक्षे -- हे इन्द्र परमेश्वर, धिया स्निग्धया भक्तानुग्रहार्द्रया इषितः प्रेषितो विप्रजूतो विप्रैर्मेधावि-भिर्वा ब्रह्मविद्भिर्वा जूतः सेवितोऽनुगतो वा । तैः प्रीतिमान् वा आयाहि, भक्तानां हृदये यजमानस्थाने वा । किमर्थं मागन्तव्यमिति चेत्? सुतावतः सुतवतः, छान्दसो दीर्घः । सोममभिषुतवतो यजमानस्य उपब्रह्माणि वाघतो वर्तन्ते । हविषां समीपे वाघत ऋत्विजस्त्वां प्रतीक्षन्ते तदर्थमागन्तव्यमित्यर्थः । दयानन्दस्तु - हे इन्द्र, इषितो विप्रजूतो विप्रैर्जूतः शिक्षितो वाघतो यः शिक्षया वाचा हन्ति जानाति, सधिया सुतावतो ब्रह्माणि उपायाहि ' इति, तदपि यत्किञ्चित् शिक्षार्थस्य जुधातोरप्रसिद्धेः । त्वद्रीत्या किं राजार्थं भोजनादिनिर्माणमेव सर्वेषां कर्तव्यम् राज्ञश्च तद्ग्रहणमेव कार्यम्, नान्यत्किमपि? ब्रह्माण्यन्नानि धनानि वेत्युपहासास्पदमेव । किमन्नधनोपार्जन एव मानवजीवनस्य परिसमाप्ति:? एतत्सर्वमनालोच्येवायं महात्मा
मन्त्रार्थेषु कामचारं करोति । अत एव निघण्टुक्तमप्यर्थं लोकायतिकसरणावानयति ॥ ८८ ॥
इन्द्राया॑हि तूतु॑जान॒ उप॒ ब्रह्म॑णि हरिवः । सु॒ते द॑धिष्त्र न॒श्चत॑ः ॥ ८ ९ ॥
मन्त्रार्थ - हे अश्व वाले इन्द्रदेव! शीघ्रतापूर्वक आकर आप इन हवियों के समीप बैठिये । सोम के अभिषुत होने पर हमारे सोमरूप अन्न और हवि को उदरस्थ कीजिये ॥ ८ ९ ॥
पृष्ठ 396
पाठ पढ़ें पाठ छिपाएँ
३६० शुक्लयजुर्वेदसंहिता [ अ ० २० हे हरिवः! हरी अश्व विद्येते यस्यासौ हरिवान्, तत्सम्बुद्धौ ' मतुवसो रु सम्बुद्धौ छन्दसि प्रति ' आयाहि ( पा ० सू ० । ८ | ३ | १ ) इति नकारस्य रुत्वम् । हे इन्द्र, तूतुजानस्त्वरमाणः सन् त्वं ब्रह्माणि हवींषि उप हवींषि चनोऽन्नं सोमरूपं तूतुजान इति क्षिप्रनामनु ( निघ ० २ | १५ | १ ९ ) आगत्य च सुते सोमेऽभिषुते सति । पकारलोपेन नोऽस्माकं सकारोपजनेन, च हविः, ' चन इत्यन्ननाम ' ( निरु ० ६ । १६ ) । पच्यते यत् तत् पचनम्, कर्मणि ल्युट् शपः श्लो द्वित्वम्, चन इति, अन्ननामेति यावत् । दधिष्व उदरे धारय । ' धि धारणे ' तौदादिकस्य व्यत्ययेन अभ्यासस्यात्वं चं छान्दसम् । अध्यात्मपक्षे – हे इन्द्र परमेश्वर, हे हरिवो देवराजेन्द्ररूपधारिन्, यद्वा हरयो हनुमदादयो विद्यन्ते सेवक-त्वेन यस्य स हरिवान्, तत्सम्बुद्धौ । तूतुजानस्त्वरमाणः सन् उप ब्रह्माणि हवींषि प्रति आगच्छ । एत्य च सुते सोऽभिषुते सति नोऽस्माकं चनः सोमरूपमन्तं दधिष्व स्वोदरे धारय । ' दयानन्दस्तु - ' हे हरिव इन्द्र विद्येश्वर्यादिवर्धक, तूतुजानो नः सुते निष्पन्ने ब्रह्माणि च नो दधिष्व इति, तदपि न विदुषो मनुष्यस्यापि तादृशसामर्थ्याभावात् ॥ ८ ९ ॥ अ॒श्विना॑ पत॒ मधु॒ सर॑स्वत्याः॑ स॒जोष॑सा ॥ इन्द्रः सुत्रामा॑ वृत्र॒हा जुषन्त॑ स॒म्य॑ मधु॑ ॥ ९ ० ॥ मन्त्रार्थ - सरस्वती के साथ प्रीतियुक्त अश्विनीकुमार स्वादिष्ट सोम का पान करें । सुरक्षक वृत्रासुर का वाली औषधियों के वध करने वाले इन्द्रदेव मीठी सोममय हवि का सेवन करें । इस यज्ञ में बुद्धिबल को तीव्र करने मद्यवत् समझते रस को मन्त्रों से संस्कृत करके सुरा नामक यौगिक रस तैयार किया जाता है । जो लोग इसको लौकिक हैं । इस मन्त्रसिद्ध हैं, वे इस कर्म के रहस्य को न जानने से शास्त्र को श्रद्धा से वंचित हो विषयलोलुप बन जाते को पाया था ॥ ९ ० ॥ औषधरस का यह प्रभाव है कि इन्द्र पर्यन्त देवताओं ने इसकी सहायता से इन्द्रिय - बल और बुद्धि अश्विसरस्वतीन्द्रदेवत्याऽनुष्टुप् । अश्विना अश्विनौ मधु मधुरस्वादोपलक्षितं सोमं पिबतां भक्षयताम् ' ( उ ० ४ १ ९ ० ) इत्यसुन्प्रत्ययः, प्रीतिः, कोदृशी अश्विनौ? सरस्वत्या सजोषसा, जोषणं जोष:, ' सर्वधातुभ्योऽसुन् समानं जोषो ययोस्ती, सरस्वत्या सह प्रीतिमन्तावित्यर्थः । किञ्च सुत्रामा सुष्ठु त्रायते रक्षतीति तथोक्तः । ' । मये वृत्रहा च ’ वृत्रं हतवानिति वृत्रहा, ईदृश इन्द्रोऽश्विनौ सरस्वती च मधु मधुरं सोम्यं सोममयं हविर्जुषन्तां सेवन्ताम् ( पा ० सू ० ४ । ४ । १३८ ) इति सोमशब्दान्मयडर्थे यप्रत्ययः । अध्यात्मपक्षे - अश्विनौ तद्वत्सुन्दरी श्रीरामलक्ष्मणौ बलकृष्णो वा सरस्वत्या सीतया प्रीतिमन्तौ, श्रीरामः पत्नी बुद्धया प्रीतिमान्, लक्ष्मणश्च मातृबुद्धया प्रीतिमान् तो मधु मधुरस्वादोपेतं सोमं पिबताम् । इन्द्रः सुत्रामा वृत्रहा अश्विनी सरस्वती चैते सर्वे सोम्यं सोममयं मधु जुषन्ताम् । दयानन्दस्तु — ' हे मनुष्याः, यथा सजोषसावश्विनौ सरस्वत्या मधु विबताम्, यथा चेन्द्रः सुत्रामा योर्ग्रहणे वृत्रहा च सोम्यं मधु जुषन्ताम्, तथा युष्माभिरनुष्ठेयम् ' इति, तदपि यत्किञ्चित्, अश्विपदेनाध्यापकोपदेशक निर्मूलमेव, मुख्यार्थासम्भव मानाभावात् । तथैव सुत्रामवृत्रहपदाभ्यामपि कयोश्चिन्मनुष्ययोर्गोण्या वृत्त्यापि ग्रहणं, न चाश्व्यादिवत् समेषां एव गौणार्थग्रहणस्यौचित्यात् । न वा सर्वेभ्यो मनुष्येभ्यो ह्योषधिरसपानमेवोपदेष्टव्यम् कृते तत्सुलभम् ॥ ९ ० ॥ ॥ इति श्रीशुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां विशोऽध्यायः समाप्तः ॥