वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 381–390

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 381–390

पृष्ठ 381

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 381 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६०-६२ ] • वेदार्थपारिजातभाष्यसहिता ३४५ द्वार उभे रोदसी दोग्धि, अन्धकारमपनोद्य प्रकाशेन पूरयति, भूमिप्रकाश धरति 1 तथाहं सरस्वती श्रेष्ठज्ञानवती कामान् पिपर्मीत्यर्थः ' इति, तदप्यसङ्गतम्, विद्युतः स्वातन्त्र्यायोगेन सूर्यचन्द्रयोस्तत्करणत्वासम्भवात् दाष्टन्तेिऽ-श्विवत् करणानुपलब्धेश्च । अनुपलम्भपराहतश्च दान्तः ॥ ६० ॥

उ॒षासा॒नक्त॑मश्विना दिवेन्द्र सा॒यमि॑न्द्रि॒यैः ।

स॒ना॒ना॒ाने सु॒पेश॑सा॒ सम॑ञ्जते॒ सर॑स्वत्य ॥ ६१ ॥

मन्त्रार्थ - सरस्वती के साथ अश्विनीकुमार एकमत होकर सुन्दर रूप वाले उषाकाल रात्रि - दिन और सायंकाल के समय इन्द्र को सामर्थ्य से संयुक्त करते हैं ॥ ६१ ॥।

हे अश्विनी, उषासानक्ता उषाश्च आदित्यप्रभा च नक्तं च रात्रिश्चेत्युषासानक्तम् । दिवा दिने सायं सायङ्काले च इन्द्रमिन्द्रियैर्वीर्यैः सह सरस्वत्या च सह समञ्जाते संश्लेषयतः । सातत्याभिप्रायमेतत् । कीदृश्यों? सञ्जानाने सञ्जानीत इति सञ्जानाने, एकमतीभूते इत्यर्थः । सुपेशसा शोभनं पेशो रूपं ययोस्ते । शुक्लेन उषाः कृष्णेन रात्रिश्च सुरूपे । अध्यात्मपक्षे - अश्विनाविव दिवाहनी विद्याविद्ये इन्द्रं दिवासायं रात्रिन्दिवम् । सततमिन्द्रियैर्वीर्यै-रैहिकामुष्मिकाभ्युदयनिःश्रेयससादन सामर्थ्यंरिन्द्रमिन्द्रस्य परमात्मनोंऽशभूतमिन्द्रमुपलब्धिदीप्तिमन्तं समञ्जाते संश्लेषयतः । कीदृश्यो ते? सञ्जानाने एकमतीभूते सुपेशसा सुरूपे । अविद्या विद्यासाहाय्यमाश्रित्य ऐहिका-मुष्मिकाभीष्टं सम्पादयति । विद्या चाविद्यामाश्रित्यापवर्गं सम्पादयति । विद्यांशज्ञानमन्तराऽविद्याऽकिञ्चित्करी, तामन्तरा विद्याप्यकिञ्चित्कर्येव । देहबुद्ध्यादीनां श्रवणमननादीनां च अविद्यकत्वं प्रसिद्धमेव । तच्च ब्रह्मात्म-साक्षात्कारस्यापि जीवातुभूतम् । दयानन्दस्तु - ' हे विद्वांसः, यथा सुपेशसाऽश्विना सरस्वत्योषासानक्तं सायं च दिवा इन्द्रियैरिन्द्रस्य लिङ्गेरिन्द्रं विद्युतं सञ्जानाने समञ्जाते प्रकटयतः, तथा यूयं प्रसिद्धयत ' इति, तदपि यत्किञ्चित् भावानभि-व्यक्तेः । सुरूपाभ्यां सूर्यचन्द्राभ्यां सुशिक्षितया वाचा प्रमातारौ कथं जीवनलक्षणैविद्युतं समञ्जाते प्रकटयत इति न स्पष्टम् । किमिन्द्रे जीवलक्षणानि ज्ञानानि सन्ति न च तथात्वं तत्र दृश्यते, विद्युतो जडत्वेन तदसम्भवात् ॥ ६१ ॥

पातं नो अश्विना दिवा॑ पा॒हि नक्त॑ देव्य होतारा भिषजा पातमिन्द्र॒

सरस्वति ।

सचा॑ स॒ते ॥ ६२ ॥

मन्त्रार्थ - हे अश्विनीकुमारों! आप लोग दिन में हमारी रक्षा करो | हे सरस्वती देवी! आप हमारी रात्रि में रक्षा करें । हे देव सम्बन्धी होता एवं वैद्य अश्विनीकुमारों! सोम के अभिषुत होने पर आप सब इकट्ठे होकर इन्द्र की रक्षा करें ॥ ६२ ॥

• हे अश्विना अश्विनी, दिवा दिवसे नोऽस्मान् युवां पातं रक्षतम् | हे सरस्वति, ज्ञानविज्ञानाधिष्ठात्र महाशक्ते, हे देव्या देव्यौ देवसम्बन्धिनी होतारा होतारी भिषजा भिषजो देववैद्यौ, सुते सोमेऽभिषुते सति सचा सह एकीभूय युवामिन्द्रं पातं विस्रस्तमिन्द्रियादिसन्धानेन रक्षतम् ।

पृष्ठ 382

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 382 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४६ शुक्लयजुर्वेदसंहिता [ अ २० अध्यात्मपक्षे - हे ज्ञानवैराग्ये, उषासानक्तं दिवारात्री विद्यादशायामविद्यादशायां च नोऽस्मान् पातं रक्षतम् | हे सरस्वति त्वं च नक्तं पाहि । हे देव्यो परमात्मसम्बन्धिनौ होतारो जीवानां कल्याणाय आह्वातारो 1 युवां सुते उत्पन्ने आविर्भूते प्रेम्णि सचा सह एकीभूय यूयमिन्द्रं पातम् । दयानन्दस्तु - ' हे दैव्य अश्विनी, युवां दिवानक्तं नः पातम् | हे सरस्वति नः पाहि । हे होतारो, सचा भिषजा सुत इन्द्र पातम् ' इति, तदपि न सङ्गतम्, अश्विनोद्वित्वस्य सरस्वत्या एकत्वस्यासामञ्जस्यात्, इन्द्रपदस्य सोमलता कथमर्थं इत्यनुक्तेश्व ॥ ६२ ॥

ति॒स्रस्त्रे॒धा सर॑स्वत्य॒श्विना भारतीड ।

तीव्रं प॑रि॒स्रुता सोम॒मिन्द्रा॑य सुषुवुर्मदम् ॥ ६३ ॥

॥ ॥

मन्त्रार्थ --- तीन प्रकार से स्थित सरस्वती, अश्विनीकुमार और इड़ा- ये लोन देवता सोम का अभिषवण करते हैं, अर्थात् मध्यस्थान में सरस्वती, द्युलोक में भारती और पृथ्वी पर इड़ा - ये तीनों देवियां अश्विनीकुमारों के द्वारा महौषध के रस से युक्त अधिक हर्षित करने वाले सोम का अभिषवण करते हैं ॥ ६३ ॥

तिस्रो देव्यः, अश्विना अश्विनी च परिता सुरया सह सोममिन्द्राय सुषुवुरभिषुतवन्तः । कास्ता-स्तिस्रो देव्यः? इत्यत आह- सरस्वती, भारती, इडा च । कीदृश्यस्ताः? त्रेधा स्थिता इति शेषः । सरस्वती मध्यस्थाना, भारती आदित्यप्रभा घुस्थाना, इडा पृथिवीस्थाना । कीदृशं सोमं सुषुवुः? तीव्रं पटुतमं बुद्धयादि-पाटवकरम्, मदं तर्पणं तृप्तिकरम् मदजनकं वा । अध्यात्मपक्षे - अश्विनी, सरस्वती सुषुम्नास्था, इडा चन्द्रनाडीगता, भारती सूर्यनाडीगता तिस्रो देव्यस्त्रेधा स्थिता उद्बोधिताः परिस्रुता विश्वविस्मारकेण मादनगुणेन युक्तं सोमं प्रेमामृतरसं सुषुवुरुत्पादितवत्यः । कीदृशं सोमम्? तीव्रं सर्वेन्द्रियपाटवकरं मदं पूर्णतृप्तिजनकं च । दयानन्दस्तु - ' हे मनुष्याः, यथा सरस्वती भारती इडा तिस्रोऽश्विनौ च इन्द्राय परिस्रुता तीव्रं मद सोमम्, त्रिधा सुषुवुः, तथा यूयमपि सुषनोत ' इति, तदपि यत्किञ्चित्, असङ्गतेः, ओषधिरससम्पादने चेतावतामुप-योग र क्यात् । न च वाचस्तत्रोपयोगः । सिद्धान्ते तु महाभागस्येन्द्रस्य हविरपि पूष्णो हस्ताभ्यामश्विनोर्बाहुभ्यां सम्पाद्यते । तथैव तस्य सोमाभिषवेऽपि विशिष्टानां देवीनामश्विनोश्वोपयोगः श्लिष्टतरः ॥ ६३ ॥

अ॒श्विना॑ भेष॒जं मधु॑ भेषजं नः सर॑स्वती ।

इन्द्रे॒ त्वष्टा॒ यश॒ः श्रिय॑छ॒, रूप, रूपमधुः सुते ॥ ६ ॥

मन्त्रार्थ - सोम का अभिषव होने पर अश्विनीकुमार ने बलवान् इन्द्र में महौषधि रस, सरस्वती ने मधुरूप औषध, त्वष्टा देवता ने कोर्ति, लक्ष्मी और अनेक प्रकार के रूप स्थापित किये ॥ ६४ ॥

अश्विन नासत्या नोऽस्मत्सम्बन्धिनी सरस्वती त्वष्टा प्रयाजदेवता च इन्द्रे एतानि वस्तूनि अधु-रदधुः, स्थापयामासुः । कानोत्यत आह-- भेषजमौषधं मधु मधुरूपं भेषजं च यशः कीर्ति श्रियं लक्ष्मीं रूपं रूपं नानाविधं रूपं च ' नित्यवीप्सयो: ' ( वा ० सू ० ८ ११४ ) इति रूपशब्दस्य द्वित्वम् । कस्मिन्नवसरे इति चेत्, तत्राह - सुते सोमेऽभिषुते सति ।

पृष्ठ 383

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 383 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भ ० ६४-६६ ] वेदार्थ पारिजातभाष्यसहिता ३४७ अध्यात्मपक्षे - इन्द्रे भगवन्मार्गप्रवृत्ते जीवे अश्विनौ शास्त्राचार्यों भेषजं सरस्वती तज्जनिता उपासना-लक्षणा विद्या भेषजं पाशविक कामकर्मज्ञाननिवर्तकं वैदिककामकर्मज्ञानरूपमोषधं मधु भेषजं मधुरं भेषजम् अनुराग रसमदधुः । त्वष्टा च तैरनुकूलितो विश्वविधाता यशः श्रियं रूपं विविधं रूपमदधात् धारितवान् । कदा चैतत्? सुते सोमे भगवत्प्रेमाङ्कुरे जाते सति ॥ ६४ ॥

ऋतुथेन्द्रो वन॒स्पति॑ः शशमा॒नः प॑रि॒स्रुता॑ ।

लाल॑म॒श्विभ्या॒ मधु॑ दु॒हे धे॒नुः सर॑स्वतो ॥ ६५ ॥

मन्त्रार्थ- - प्रयाज देवता इन्द्र की स्तुति करता हुआ, प्रत्येक ऋतु में महौषध के रस के साथ अन्न के रस को इन्द्र के निमित्त देता है तथा अश्विनीकुमारों सहित सरस्वती धेनुरूप होकर इन्द्र के निमित्त मधु को दुहती है ॥ ६५ ॥

वनस्पतिः प्रयाजदेवः शशमानः संशममानः स्तुवन्निति यावत् I । ऋतुथा ऋतो ऋतो काले काले, ' ऋती ऋतौ काले काले ' ( निरु ० ८ १७ ) इति यास्कः । परिस्रुता सुरया सह कीलालमन रसमिन्द्र इन्द्राय इन्द्रार्थम् । चतुर्थ्येकवचनस्य ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इति सु: । सरस्वती अश्विभ्यां सह धेनुर्भूत्वा मधु दुहे दुग्धे | अध्यात्मपक्षे - वनस्पतिः, तदुपलक्षितवृक्षसमूहः, स्तुवन् परिस्रुता मादकेन गुणेन युक्तं कोलालं दिव्य-मन्नरसमृतुथा यथाकालं इन्द्राय इन्द्रार्थं श्रीरामार्थं दुहे दुग्धे । अश्विभ्यां सहिता सरस्वती धेनुर्भूत्वा इन्द्राय मधु दुहे दुग्धे । भुशुण्डीरामायणादौ वर्णितं रामचरितमानसेऽपि च यद् ऋतुकालानप्रतीक्ष्यैव सर्वेऽपि तरवस्तदा श्रीरामार्थं फलिनो जाताः, अवस्थाश्वानपेक्ष्यापि । दयानन्दस्तु – ' यथा धेनुः सरस्वती परिसुता सहर्तुथा शशमान इन्द्रो वनस्पतिर्मधु कीलालमश्विभ्यां कामान् दोग्धि तथाहं दुहे ' इति, तदपि यत्किञ्चित्, असम्बद्धत्वात् । भावार्थस्तु सर्वथापि मूलाक्षरासंस्पर्शी ॥६५ ॥

गोभि॒र्न सोम॑म॒श्विना॒ मास॑रेण परि॒स्रुता॑ ।

सम॑धात॒ सर॑स्वत्या॒ स्वाहेन्द्रे ' सुतं मधु ॥ ६६ ॥

मन्त्रार्थ - हे अश्विनीकुमारों! आप लोग सरस्वती के साथ दूध, घृत आदि के द्वारा महौषधों के रस से अभि g त मधुर सोम को इन्द्र के निमित्त स्थापित करें, जिससे कि इनकी श्रेष्ठ आहुति दी जाय ॥ ६६ ॥

हे अश्विना अश्विनौ, मासरेण पूर्वोक्तेन परिस्रुता सह गोभिनं गोप्रभृतिपशुभिश्च सह । नश्चार्थे । सुत-मभिषुतं सोमं मधु च इन्द्रे युवां समधातं समारोपयतम् । न केवलं युवामेव किन्तु सरस्वत्या सह स्वाहा स्वाहाकृतिभिश्व प्रयाजदेवैश्व सह युवां समधातम् । यद्वा -- हे स्वाहाकृतयः प्रयाजदेवाः, यूयं सरस्वत्या सह इन्द्रे सुतं मधु समधात समारोपयतेति वचनव्यत्ययः । अध्यात्मपक्षे - हे अश्विनी सिद्धसाधको, युवां गोभिर्न गोविकारैर्दधिदुग्धघृतैः, मासरेण परिस्रुता च सह सोममिन्द्रे समधातम् । न केवलं युवाम्, किन्तु सरस्वत्या स्वाहाकृतिभिः सह सर्वैः सर्वभावैर्भगवानिन्द्रः समाराध्यत इत्यर्थः ।

पृष्ठ 384

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 384 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४८ शुक्लयजुर्वेदसंहिता [ अ ० २० दयानन्दस्तु - ' हे अश्विना, परिस्रुता मासरेण प्रमितेन मण्डेन परिस्रुता सर्वतो मधुरादिरसेन सरस्वत्या स्वाहेन्द्रे गोभिर्दुग्धादिभिः, न इव सुतं मधु सोमं युवां समधातम् ' इति, तदपि यत्किञ्चित्, ओषधिरसधारणे वाण्या सम्बन्धायोगात् । श्रुतिसूत्रविरुद्धं च मासरपदव्याख्यानम् । व्रीहिश्यामाकयोश्चरू पक्त्वा तयोरोदनयोराचामी ( उष्णोदके ) ' मांड ' इति भाषायाम्, पृथक् पात्रद्वये निषिच्य अवस्राव्य तदुदकं नग्नहुप्रभृतिभिरचूर्णैः संसृज्य निदध्यात्, तन्मासरम्, तस्य चूर्णसंसृष्टस्य आचामस्य मासरमिति संज्ञा ॥ ६६ ॥

अ॒श्विना॑ ह॒विरिन्द्रयं नमुचेध्या सर॑स्वती ।

आ शुक्रर्मासुराद्वसु मुघमिन्द्रा॑याजनिरे ॥ ६७ ॥

मन्त्रार्थ - अश्विनीकुमार और सरस्वती ने बुद्धिपूर्वक नमुचि नामक दैत्य के यहाँ से " इन्द्र के निमित्त शुद्ध और बलकारक हवि एवं पूजनीय धन का आहरण किया ॥ ६७ ॥

' अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः ' ( का ० श्री ० १ ९ / ६ । १६ ) । अश्विना हविरिति प्रभृति तिस्र ऋचस्तिसृणां वपानां याज्यानुवाक्याः क्रमशो भवन्तीति सूत्रार्थः । तत्प्रकारमाह - ' प्रथमामनुच्य द्वितीया याज्या द्वितीयामनुच्य तृतीया याज्या तृतीयामनुच्य प्रथमा याज्या ' ( का ० श्री ० १ ९ / ६ / १७ ) इति । तथा च आश्विन पायागे ' अश्विना हविः ' ( वा ० सं ० २०/६७ ) इत्यनुवाक्या, ' यमश्विना ' ( वा ० सं ० २०६८ ) इति सारस्वतवपायागे ' यमश्विना ' ( वा ० सं ० २०१६८ ) इत्यनुवाक्या, ' तमिन्द्रम् ' ( वा ० सं ० २०१६ ९ ) इति याज्या याज्या,, ऐन्द्रवपायागे ' तमिन्द्रम् ' ( वा ० सं ० २० / ६ ९ ) इत्यनुवाक्या, ' अश्विना हविः ' ( वा ० सं ० २०६७ ) इति याज्येति सूत्रार्थः । श्रुतिरप्येवमेवाह । तथाहि - ' सर्वाः पुरोऽनुवाक्या भवन्ति सर्वा याज्या: ' ( श ० १२/८/२/३५ ), तथा ' सर्वाः प्रथमा भवन्ति सर्वा मध्यमाः सर्वा उत्तमाः ' ( श ० १२/८/२/३५ ) इति । अश्विसरस्वतीन्द्रदेवत्यास्तिस्रोऽनु-ष्टुभः । अश्विना अश्विनी सरस्वती च धिया बुद्धया नमुचेर्नमुचिसंज्ञकादासुराद् देत्यादिन्द्राय इन्द्रार्थमेतानि वस्तूनि आजनिरे आजहरे । कानि च तानोत्यत आह- हविः शुक्रं शुद्धममलिनम्, तथाविधमेवेन्द्रियं वीर्यं मघं महनीयं वसु धनं च । अध्यात्मपक्षे - अश्विना शास्त्राचार्यो सरस्वती तत्संस्कृता प्रज्ञा च इन्द्राय परमेश्वरांशाय जीवात्मने धिया बुद्धया आसुराद् नमुचेरज्ञान कार्यादहङ्कारात् सकाशात् शुक्रं निर्मलं ब्रह्मात्मस्वरूपं मघं महनीयं ज्ञानरूपं वसु धनं च आजोहरे । अहङ्कारेण तादृशं स्वरूपं धनमपहृतमासीत् । शास्त्राचाय तज्जन्या विवेकबुद्धिश्च एतस्याहङ्कारस्य सकाशात् तत्सर्वमाहृत्य इन्द्राय दत्तवन्तः । दयानन्दस्तु – ' अश्विनो सुवैद्यो सरस्वती च सुशिक्षिता स्त्री धिया नमुचेरविनश्वरात् कारणाद् उत्पन्नात् कार्याद् हविरादातुमर्हमिन्द्रियं मन आसुरान्मेघात् शुक्रं वीर्यं मघं पूज्यं वसु इन्द्राय ऐश्वर्याय आजहि रे ' इति, तदपि निरर्थकमेव अस्पष्टत्वात् ' अविनश्वरात् कारणादुत्पन्नात् कार्यात् ' इति नमुचेः पदस्य कथङ्कारमर्थ इत्यनुक्तेः । इन्द्रपदस्य ऐश्वर्यमर्थ इत्यपि निर्मूलम् ॥ ६७ ॥

यम॒श्विना॒ सर॑स्वती ह॒विषि॑न्द॒मव॑र्धयन् ।

स बि॑िभेद ब॒लं म॒घं नमु॑चावासुरे सच ॥ ६८ ॥

मन्त्रार्थ - अश्विनीकुमार और सरस्वती ने एक मत होकर जिस इन्द्र को हवि के द्वारा बढ़ाया, उस इन्द्र ने असुर नमुचि के साथ विवाद पैदा करके बल और पूजनीय मेघ को विदीर्ण किया, अर्थात् नमुचि के द्वारा रोके गये मेघों से मनुष्यों के कल्याण के लिये वृष्टि कराई ॥ ६८ ॥

पृष्ठ 385

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 385 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ०६८-७० ] वेदार्थपारिजातभाष्यसहिता ३४ ९ यमिन्द्रमश्विना सरस्वती च हविषा अवर्धयन् स इन्द्रो नमुची आसुरे सचा नमुचिना असुरेण सह मघं महनोयं बलं वरणीयं मेघं बलनामानमसुरं बिभेद विदारितवान् । सचेत्यव्ययं सहार्थे । तद्योगाच्च विभक्ति-व्यत्ययः । नमुचि मेघं विदार्य वृष्टिं कारितवानित्यर्थः । अध्यात्मपक्षे – यमिन्द्रं जीवमश्विनी शास्त्राचार्यो प्रज्ञा च हविषा ब्रह्माग्नौ समर्पितेन दृश्यरूपेण हविषा अवर्धयन् । उपाध्यपनोदनेन ब्रह्मात्मना प्रादुर्भावितवन्तः स इन्द्रोऽपोदितनानात्वतादात्म्याध्यासो नमुचिना तत्त्वज्ञानमन्तरा न मुञ्चत्यात्मानमिति नमुचिरहङ्कारः, तेन आसुरेण असुषु अनात्मसु रमन्ते येन तदज्ञान-मसुरम्, तद्भवेनाहङ्कारेण सह मघं महनीयं बलं वरं वरणीयं जननमरणाविच्छेदलक्षणं संसारं बिभेद विदारितवान् । दयानन्दस्तु - ' सचाश्विना सरस्वती च नमुचावासुरे हविषा यमिन्द्रमवर्धयन् स मधं बलं बिभेद ' इति, तदप्यसङ्गतम्, मेघस्य नाशरहितकारणादुत्पत्त्य सिद्धेः । कोऽयमिन्द्रो यं हविषा अश्व्यादयो वर्धयन्ति, यश्च बलं भिनत्ति । यस्य विभेदनेन नाशः क्रियते स कथं पूज्यः? पूज्यस्य च कथं विनाशः क्रियते? तस्मात् सर्वमेतत् यत्किञ्चित् ॥ ६८ ॥

तमिन्द्र॑ प॒शव॒ः सचा॒श्विनोभा सरस्वती ।

दधा॑ना अ॒भ्य॒नूषत ह॒विषा॑ य॒ज्ञ इन्द्रि॒यैः ॥ ६ ९ ॥

मन्त्रार्थ - यज्ञीय कर्म में घृत आदि के अङ्गभूत पशुओं की दोनों अश्विनीकुमारों और सरस्वती ने एकमत होकर यज्ञ में उस इन्द्र के निमित्त हवि की कल्पना कर उसके बल और उत्साह को बढ़ाते हुए उसकी स्तुति को ॥ ६ ९ ॥ तमिन्द्रं पूर्वोक्तगुणं पशवः कर्माङ्गभूता गोमेषाजा उभौ अश्विनौ सरस्वती च सचा सहभूताः सन्तो यज्ञे हविषा इन्द्रियैर्वीर्यैश्च दधानाः पुष्णन्तः सन्तस्तमुक्तगुणमिन्द्रमभ्यनूषत अवर्धयन् । नूषतिर्वृद्धयर्थ इत्युव्वाचार्यः, अस्तुवन्निति महीधराचार्यश्व । ' णू स्तवने ' तौदादिकः । अध्यात्मपक्षे - तं पूर्वोक्तगुणमिन्द्रं पशवस्तदुपकरणभूता देहेन्द्रियादयः, अश्विनौ सरस्वती च पूर्वोक्ता यज्ञे परमेश्वराराधनलक्षणे ब्रह्माग्नौ समर्पितेन हविषा दधानाः पुष्णन्तः, अभ्यनूषत अभिवर्धयन्ति । दयानन्दस्तु - ' हे मनुष्याः, सचाश्विनोभा इन्द्रिये यमिन्द्रं दध्यातां तं सरस्वती दध्यात् । ये च पशवो दध्युस्तं हविषा दधानाः सन्तो यज्ञेऽनूषत इन्द्रियैर्धनैरिन्द्रं बलादिगुणानां धारकं सोममव्यादयो धारयन्तु ' इति । व्याख्यानमेतन्निर्मूलम् इन्द्रियेन्द्रशब्दयोस्तथार्थत्वे मानाभावात् । पशवश्च कथं तं धारयेयुरित्यप्य-स्पष्टम् ॥ ६ ९ ॥

इन्द्र इन्द्रि॒यं द॒धुः स॑वि॒ता वरु॑णो॒ भग॑ः ।1

स सुत्रामा॑ ह॒विष्ष॑ति॒र्यज॑मानाय सश्चत ॥ ७० ॥

मन्त्रार्थ - जिन सविता, वरुण और भग नामक देवताओं ने इन्द्र के बल को बढ़ाया, वह हवियों का स्वामी सुरक्षक इन्द्र यजमान को इच्छित पदार्थ देकर सुखी करे ॥ ७० ॥

पृष्ठ 386

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 386 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५० शुक्लयजुर्वेदसंहिता [ अ ० २० ' य इन्द्र इति पुरोडाशानां पूर्ववत् ' ( का ० श्री ० १ ९ | ६ ( | वा १८ ० ) सं । ० ' २०/७० य इन्द्र ) इति , ' सविता तिस्रस्त्रयाणां ' ( वा ० सं पशुपुरोडा- ० २०।७१ ) शानां याज्यानुवाक्याः पूर्ववज्ज्ञेयाः । तथाहि - ' य इन्द्रे ' ), ' वरुणः क्षत्रम् ' ( वा ० सं ० २०७२ ) इति सावित्रस्य इत्येन्द्रस्य पशोरनुवाक्यायाज्ये । ' सविता ' ( वा ० सं ० २०/७१ ( वा ० सं ० २० | ७० ) इति वारुणस्य पशोरनु-पशोरनुवाक्यायाज्ये । ' वरुणः क्षत्रम् ' ( वा ० सं ० २०७२ ), ' य इन्द्रे ' । सविता वरुणो भग इति ये त्रयो वाक्यायाज्ये इति सूत्रार्थः । प्रत्येक मिन्द्र - सवितृ - वरुण देवत्यास्तिस्रोऽनुष्टुभः सुत्रामा शोभनत्राणकर इन्द्रा, यजमानाय देवा इन्द्रे इन्द्रियं दधुर्वीर्यं स्थापयामासुः, हविष्पतिर्हविषां स्वामी सुखयत्वित्यर्थः । ' षच सेवने ' लोडर्थे लङ्, यजमानम्, कर्मणि चतुर्थी, सश्चत सेवताम्, इष्टदानेन यजमानं । उव्वटाचार्यरीत्या तु — ये इन्द्रे इन्द्रियं अडभाव आर्षः । सचतेरेव छान्दसः शकार उपजन इति देवराजयज्वा । भगशब्देनात्रेन्द्रो लक्ष्यते । यजमानाय यजमानम्, दधुस्ते सर्वे यजमानेऽपोन्द्रियं वीर्यं दधतीति वाक्यपूर्तिः कार्या हविष्पतिः, स यजमानं सश्चत सचतां सेवताम् । पुरुषवचनव्यत्ययः । सश्चत सचतामित्यर्थः । यश्च सुत्रामा इन्द्रो परमेश्वराचंकाय अध्यात्मपक्षे - ये सविता वरुणो भग इन्द्रे जीवात्मनि इन्द्रियं वीर्यं यजमानं दधुस्ते सश्चत यजमानाय सचतामित्यर्थः । इन्द्रियं सामथ्यं दधतीति शेषः । यो हविषां पतिः स सुत्रामा यजमानाय सविता सुत्रामा दयानन्दस्तु - ' हे विद्वन् य इन्द्र इन्द्रियं दधुस्ते सुखिनः स्युः । अतो इति ये, भगो तदपि वरुणः यत्किञ्चित्, ऐश्वर्ये धनं हविष्पतिर्जनो यजमानो यजमानायेन्द्रियं सश्चत सेवते स प्रतिष्ठां प्राप्नुयात् ' ऐश्वर्येच्छु, सुत्रामा होमयोग्यपदार्थानां दधुरित्यस्य निरर्थकत्वात् । ' अतो भगो भजनीयः, वरुणः श्रेष्ठः, सविता रक्षको यज्ञकर्तारं सेवेत ' इति केन कि श्लिष्यते ॥ ७० ॥

स॒वि॒ता वरु॑णो॒ दध॒द्यज॑मानाय दा॒शुषे॑ ।

आव॑त॒ नम॑च॒र्व॑सु॒ ' सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ॥ ७१ ॥

को जीत लिया, सविता मन्त्रार्थ- सुरक्षक इन्द्र ने नमुचि नाम के असुर से धन, बल और इन्द्रियों करते हैं की ॥ ७१ सामर्थ्य ॥ और वरुण देवता हवि देने वाले यजमान के निमित्त धन और बल को धारण जग्राह । सविता वरुणो सुत्रामा इन्द्रो नमुचेरसुरात् सकाशाद् यद्वसु धनं बलमिन्द्रियं वीर्यं च आदत्त ददात्वित्यर्थः । कथम्भूताय भगश्च पशुपुरोडाशमन्त्रदेवाः । तन्नमुचेरानीतं वस्वादिकं यजमानाय दधद् दधतु दाने ' इत्यस्मात् ' दाश्वानुसाह्वान्-यजमानाय? दाशुषे हवींषि दत्तवते । दाशति ददातीति । दाश्वान्, ' दा मीढ्वांश्च ' ( पा ० सू ० ६ | १ | १२ ) इति वसन्तो निपातः सविता अध्यात्मपक्षे – ' नमुचेरसुरात् सुत्रामा इन्द्रो जीवो बलमिन्द्रियं सामथ्यं चादत्त दधद् जग्राह ददातु । तत्सर्वं । ज्ञादमार्गेण जगदुत्पादको वरुणो वरणीयो दाशुषे दानादिशोलाय यजमानाय भगवदाराधकाय ज्ञान प्राप्नुवन्ति भक्ता भगवदनुग्रहेण तदेव प्राप्नुवन्तीत्यर्थः । मिन्द्रियमादत्ते ' इति दयानन्दस्तु – ' वरुणः सविता सुत्रामा दाशुषे यजमानाय वसु दधतः धारयेयुः स नमुचेर्बल ? नमुचेर्धर्मममुक्तवतो बल तदपि यत्किञ्चित् असम्बद्धत्वात् । वरुणादयः किमर्थं यजमानाय वसु तु सवितृवरुणादयो शिक्षितं मनश्च ते कथं गृह्णीयुः? न चान्यस्य बलं मनश्चान्ये ग्रहीतुं शक्नुवन्ति । सिद्धान्ते, सुत्रामा सुरक्षको देवा महाभाग्यवन्तः समर्था अभियन्ते । त्वया तु देवतापलापायैव वरुण उत्तमः, सविता प्रेरकः जनोऽर्थः क्रियते । न च जननमरणवन्तो जन्तवस्तत्सर्वं कर्तुं प्रभवन्ति ॥ ७१ ॥

पृष्ठ 387

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 387 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७२-७३ ] वेदार्थपारिजातभाष्यसहिता ३५१

वरुणः क्षत्रमिन्द्रियं भगे'न सवि॒ता श्रय॑म् ।1

सुत्रामा॒ यश॑सा॒ बल॑ दधा॑ना य॒ज्ञमा॑शत ॥ ७२ ॥

मन्त्रार्थ - प्रहार से रक्षा करने की शक्ति, बल, ऐश्वर्य सहित लक्ष्मी को और यश के साथ सब प्रकार की सामर्थ्य को यजमान में स्थापित करते हुए सविता और इन्द्र देवता इस सौत्रामणी यज्ञ को व्याप्त करते रहते हैं ॥ ७२ ॥

भक्षितवन्तो व्याप्तवन्तो वा, ' अश भोजने ', वरुणः सविता सुत्रामा इन्द्रश्च यज्ञं सौत्रामण्याख्यमाशत अशूङ् व्याप्ती ' इति धात्वर्थानुरोधात् उभयत्रापि विकरणव्यत्ययः । किं कुर्वाणाः? क्षत्रं क्षतात् त्राणसामर्थ्यमिन्द्रियं वीर्यं भगेन भाग्येन सह श्रियं लक्ष्मीं यशसा सह बलं च दधाना यजमाने स्थापयन्तः । तत्र वरुणः क्षत्रमिन्द्रियं च दधाति, सविता भाग्येन सह श्रियं दधाति सुत्रामा यशो बलं च दधातीति विभागः । अध्यात्मपक्षे - परमेश्वरः सर्वात्मा । स एव वरुणः सन् क्षत्रं क्षतत्राणकरमिन्द्रियं सामर्थ्यम्, सविता भूत्वा भगेन सौभाग्येन युक्तां श्रियं सम्पत्तिम्, सुत्रामा सन् यशसा सह बलमर्च के दधानोऽर्चनं गृह्णाति । तदेवं, समष्टिरूपेणोच्यते - वरुणादयः क्षत्रादिकं दधाना आशत यज्ञमश्नन्ति, यज्ञमाराधनलक्षणमाशत अश्नन्ति गृहन्तीत्यर्थः । क्षत्रमिन्द्रियं दयानन्दस्तु – ' हे मनुष्याः, यथा वरुणः सविता सुत्रामा सूद्योगी सभेशो भगेन सह वर्तमानं श्रियं यज्ञं च प्राप्नोति तथा यशसा बलं दधानाः सन्तो यूयमाशत ' इति, तदपि यत्किञ्चित् क्षत्रमिन्द्रियं मूले भगेन यूयमिति श्रियं पदाभावात् । यद्यध्याहारलब्धं यूयमिति पदम्, तदापि यशसा सह बलं दधाना इतिवत् ७२ ॥ दधाना इति कुतो न सम्बद्धयेत? प्राप्नोतिपदं चापि मूले नास्ति, तस्माद्वेदबाह्यमेवैतत्सर्वम् ॥

अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे ' भिर्वा॒यं बल॑म् ।

ह॒विषेभ्यः॒ सर॑स्वती॒ यज॑मानमवर्धयन् ॥ ७३ ॥

मन्त्रार्थं - दोनों अश्विनीकुमार और सरस्वती गौं आदि पशुओं के द्वारा इन्द्रियों को दक्षिणारूप शक्ति को, तथा हवि के द्वारा इन्द्र और यजमान को सब प्रकार से बढ़ावा देते हैं ॥ ७३ ॥

' अश्विना गोभिरिति च हविषाम् ' ( का ० श्री ० १ ९ / ६ / १ ९ ) । अश्विना गोभिरिति तिस्रो हविषां याज्यानु-वाक्याः । चात् पूर्ववत् । अर्थात् ' अश्विना ' ( वा ० सं ० २० | ७३ ), ' ता नासत्या ' ( वा ० सं ० २०७४ इति ) इत्याश्विनपशुयागे सारस्वत पशुयागे पुरोऽनुवाक्यायाज्ये । ' ता नासत्या ' ( वा ० सं ० २०७४ ), ' ता भिषजा ' ( वा ० सं ० २०७५ ) इत्येन्द्रपशुयागे पुरोऽनुवाक्यायाज्ये, ' ता भिषजा ' ( वा ० सं ० २०७५ ), ' अश्विना गोभि ' ( वा ० सं ० २०७३ सरस्वती ) च इन्द्रं पुरोऽनुवाक्यायाज्ये इति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यास्तिस्रोऽनुष्टुभः । अश्विना अश्विनौ यजमानं च गोभिर्गवादिभिः पशुभि । इन्द्रियमिन्द्रियेण विभक्तिव्यत्ययः, इन्द्रियपाटवेन, अश्वेभिरश्वैर्दक्षिणा-रूपैः, वीर्यं बलं वीर्येण मनः सामर्थ्येन बलेन शरीरदाढर्येन हविषा पशुपुरोडाशेन च अवर्धयन् । इन्द्रस्य वर्धनं तृप्तिः, यज्ञमानस्य वर्धनं धनपुत्रपश्वादिपुष्टिः । अध्यात्मपक्षे - अश्विनौ सरस्वती च शास्त्राचार्यौ विद्या च इन्द्रं परमात्मानं यजमानं च गोविकारै-दग्धदध्याज्यादिभिः, इन्द्रियेण वीर्येण, अश्वैरश्वादिदक्षिणाभिः 1 वीर्येण मनः सामर्थ्येन, बलेन शरीरदाढर्येन हविषा "

पृष्ठ 388

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 388 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५२ शुक्लयजुर्वेदसंहिता [ अ ० २० पुरोडाशादिना अवर्धयन् । तत्तत्करणकमाराधनं परमेश्वरस्य तृप्त्यर्थं यजमानस्य गवादिप्राप्त्यर्थम् । तत्तद्रूपापन्नः परमात्मैव वा इन्द्रं देवं यजमानं च वर्धयति । दयानन्दस्तु - ' अश्विना सरस्वती गोभिरश्वेभिर्हविषेन्द्रियं वीर्यं बलमिन्द्रं यजमानमवर्धयन् ' इति, तदपि न निष्प्रमाणत्वात् । अव्यादयोऽश्वादिभिः कथं यजमानं वर्धयिष्यन्ति? मनुष्ये तादृशसामर्थ्याभावात् हविषाऽङ्गीकृतेन पुरुषार्थेनेति कथमर्थ:? ' हू दानादनयो: ' इति धातुरीत्याऽङ्गीकारार्थताया युक्तत्वेऽपि पुरुषार्थता । कथं युक्ता? इति सर्वत्रैव विप्रतिपत्तयः ॥ ७३ ॥

ता नास॑त्या सु॒पेश॑सा॒ हिर॑ण्यवर्तनी॒ नरा॑ ।

सर॑स्वती ह॒विष्म॒तीन्द्र कर्मसु नोऽवत ॥ ७४ ॥

मन्त्रार्थ -- सुवर्ण मार्ग से विचरण करने वाले, सुम्दर रूप वाले नराकार वे दोनों अश्विनीकुमार, हवि को समृद्ध करने वाली सरस्वती और हे इन्द्र, आप सब इस सौत्रामणी यज्ञरूप कर्म में हमारी रक्षा करें ॥ ७४ ॥

ता नासत्या तो नासत्यो न असत्यो, किन्तु सत्यावेव अश्विनी, सुपेशसा सुपेशसौ सुष्ठु शोभनं पेशो रूपं reat सुरूपी, हिरण्यवर्तनी हिरण्यदानोपलक्षितो वर्त निर्मार्गो ययोस्ती, हिरण्योपलक्षितो वर्तनिर्मार्गो ययोस्ती, यत्र पथि गच्छतस्तत्र तत्र हिरण्यमेव सम्पद्यते, नरा नरौ नृगुणयुक्तो नराकारी वा हविष्मती हविरस्ति यस्याः सा, सरस्वती च कर्मसु सौत्रामण्यादियागेषु नोऽस्मानवत अवन्तु रक्षन्तु, पुरुषव्यत्ययः । हे इन्द्र, त्वमपि कर्मसु वर्तमानान् नोऽस्मानवत अव, वचनव्यत्ययः । अत्र त्रयः पादाः परोक्षकृताः, चतुर्थस्तु प्रत्यक्षकृतः । अध्यात्मपक्षे - तौ रामलक्ष्मणौ नासत्यो अश्विनाविव सुन्दरी ध्रुवसत्यौ च । सरस्वती ज्ञानविज्ञाना-धिष्ठात्री सीता च कर्मसु कर्मफलेषु वर्तमानानस्मानवत अवन्तु । कीदृशी तौ? सुपेशसौ दिव्यरूपवन्तौ सुवर्णमर-तावपि यदीयद्युतिद्युतिमन्तो हिरण्यवर्तनी हिरण्यादिरत्नोपलक्षितलक्ष्मी लाञ्छितपन्थानो, नरा नरो नराकारो । सरस्वती च कीदृशी? हविष्मती, हविरुपलक्षितधनधान्याधिष्ठात्री महालक्ष्मीरूपा । एवं परोक्षमुक्त्वा प्रत्यक्षमेव भगवन्तं पश्यन्नृषिराह - हे इन्द्र! परमैश्वर्ययुक्त श्रीलक्ष्मणान्वित राम, त्वं कर्मसु संसारे वर्तमानान्, उपासनात्मकेषु कर्मसु वर्तमानान् वा नोऽस्मान् अव । दयानन्दस्तु - ' है इन्द्र विद्वन्! ता तो सुपेशसा सुरूपौ हिरण्यवर्तनी हिरण्यं सुवर्णं वर्तयतो नरा सर्वगुणानां नेतारी अध्यापकोपदेशको हविष्मती सरस्वती त्वं च कर्मसु नोऽस्मानवत ' इति, तदपि यत्किञ्चित्, अध्यापकादीनां रक्षायां विनियोगायोगात् हिन्दीभाष्यविरोधाच्च । तत्र तु सुवर्णवर्तयित्री सरस्वत्यभिप्रेता । प्रसिद्धान् देवविशेषानुपेक्ष्य मनुष्यपरत्वव्याख्यानं मन्त्राणां लोकायतीकरणमेव ॥ ७४ ॥

ता भि॒षजा॑ सु॒कर्म॑णा॒ सा सुधा॒ सर॑स्वती ।

स वृ॑त्र॒हा श॒तक्र॑तु॒रिन्द्रा॑य॒ दधा॑रिन्द्रि॒यम् ॥ ७५ ॥

मन्त्रार्थ - वे सुन्दर कर्म वाले वैद्य अश्विनीकुमार, वह कामदुधा सरस्वती और वृत्रासुर का वध करने वाला ऐश्वर्यवान् यजमान को इन्द्रियों को शक्ति को बढ़ावें ॥ ७५ ॥

ix

पृष्ठ 389

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 389 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७५-७७ ] वेदार्थपारिजातभाष्यसहिता ३५३ ताभिषजा तो भिषजो सुरवेद्यो अश्विनी, सा च प्रसिद्धा ज्ञानविज्ञानाधिष्ठात्री सरस्वती, स प्रसिद्धो वृत्रहा शतक्रतुः शतं बहूनि कर्माणि वृत्रत्रधादीनि यस्य स बहुकर्मा, इन्द्राय इन्द्रियं वीर्यं दधुः । ननु वृत्रहा शतक्रतुरिन्द्राय इन्द्रियं दधुरिति विरुद्धमिति चेन्न कल्पान्तरीय इन्द्र एतत्कल्पप्रभवाय ददातीत्यदोषः । स एका द्विधा बहुधापि भवेत् । यद्वा - देवानामचिन्त्यशक्तित्वेन माहाभाग्याद् दातृरूपेण पात्ररूपेण च सरस्वती बहुभवनं? ज्ञेयम् । कीदृशो भिषजी? सुकर्मणा सुकर्माणी शोभनं चिकित्सालक्षणं कर्म ययोस्तौ । कीदृशी सुदुघा या सुष्ठु दुग्धे सा सुदुधा सुदोहना । अध्यात्मपक्षे- -ता भिषजा तो भिषजो भवरोगवैद्यो सुकर्मणा सुकर्माणी रामलक्ष्मणौ सुदुघा सुदोहना सीता सरस्वती स वृत्रहा शतक्रतुरिन्द्र इन्द्राय देवराजाय इन्द्रियं वीर्यं दधुः, रावणवधादिभिरिन्द्रस्यैव बलवृद्धेः । इन्द्रस्य रथप्रेषणेन तत्र साहाय्यमस्त्येवेत्य भेदेऽपि परस्परमुपकार्योपकारकभावः । दयानन्दस्तु – ' हे मनुष्याः, यथा तो भिषजो सुकर्मणा सुकर्माणी सा सुदुघा भिषजोद्वित्वस्य सरस्वती स सरस्वत्या वृत्रहेव शतक्रतुरतुलप्रज्ञश्चेन्द्रायेन्द्रियं दधुः, तथा यूयमप्याचरत ' इति, तदपि यत्किञ्चित् ७५ ॥, एकत्वस्य च निर्निमित्तत्वापत्ते, इन्द्रशब्दस्यैश्वर्यार्थत्वस्य निष्प्रमाणकत्वाच्च ॥ यु॒व ँ, सु॒राम॑म॒श्विना॒ नमु॑चावासुरे सचा॑ । विपिपाना: सरस्वतीन्द्र स्वावत || ७६ ॥ मन्त्रार्थ - अश्विनीकुमारों और हे सरस्वती देवी! आप सब एकमत होकर नमुचि असुर के यहाँ विद्यमान रक्षा करें ॥ ७६ ॥

महौषधों के रसयुक्त ग्रहों को उसके यहाँ से लाकर स्वयं उसका पान करते हुए इस यज्ञ कर्म में उसकी ' ग्रहाणां युव ं सुरामं पुत्रमिवेति ' ( का ० श्र ० १ ९ / ६ / २ ० ) । त्रयाणां पयोग्रहाणां सुराग्रहाणां च युवॐ सुराममिति पुरोऽनुवाक्या, ' पुत्रमिव ' ( मा ० सं ० २०७७ ) इति याज्येति सूत्रार्थः । द्वे अश्विसरस्वतीन्द्र-देवत्ये अनुष्टुत्रिष्टुभो । हे अश्विनी, हे सरस्वति, युवं यूयम्, वचनव्यत्ययः, नमुचौ आसुरे दैत्ये वर्तमानं | पिपाना सुरामं सुरामयं ग्रहं सचा सह विपिपाना विविधं पिबन्तः सन्तः कर्मसु वर्तमाना इन्द्रमावत आसमन्ताद्रक्षत इत्यत्र विकरणव्यत्ययः । अध्यात्मपक्षे - हे अश्विनाविव सुन्दरी भवरोगवैद्यौ, सरस्वती ज्ञानविज्ञानाधिष्ठात्रो युवं यूयं नमुचौ सीतां मरणमन्तरा न मुञ्चतीति नमुची रावणः तस्मिन् । आसुरे वैश्रवणेऽपि आसुरभावाक्रान्ते सुरामं सुष्ठु रमन्ते रक्षत यस्मिन् । तत् सुरामं तत् । विपिपाना विविधं पिबन्तः कर्मसु भवदीयासु वासनासु वर्तमानमिवेन्द्रं देवराजमावृत दयानन्दस्तु - ' हे अश्विना सचा युवं हे सरस्वति त्वं च यथा नमुचौ प्रवाहेन नित्यस्वरूपे आसुरे मेघस्य मेघे कर्मसु सुरामं सुरम्यमिन्द्रं परमैश्वर्यमावत पालयत ' इति, तदपि यत्किञ्चित्, ग्रीष्मादिषु विनाशदर्शनेन ॥ ७६ ॥

प्रवाहरूपेणापि नित्यत्वायोगात् । अतिसुन्दरमैश्वर्यं किम्? कथं च तन्नित्ये मेघे भवतीत्यस्यानिरूपणाच्च

पु॒त्रमिव पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः काव्ये॑द॒सना॑भिः ।

यत्स॒रासं॒ व्यपि॑ब॒ः शची॑भिः॒ः सर॑स्वतो त्वा मघवन्नभिष्णक् ॥ ७७ ॥

मन्त्रार्थ - हे इन्द्र! असुरों के सहवास से अशुद्ध हुए सोमरस को पीकर जब तुम विपत्ति को प्राप्त हुए थे, प्रयोगों से तुम्हारी उसी उस समय दोनों हितकारी अश्विनीकुमारों ने मन्त्रद्रष्टा महर्षियों के काव्य और कर्मों के ४५

पृष्ठ 390

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 390 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५४ शुक्लयजुर्वेद संहिता [.०२० प्रकार रक्षा की थी, जैसे माता - पिता पुत्र की रक्षा करते हैं । हे इन्द्र! तुम नमुचि का वध करके रमणीय सोम रस का पान कर जब प्रसन्न हो जाते हो, तब सरस्वती वाणी तुम्हारी सेवा करती है ॥ ७७ ॥

इयं दशमेऽध्यायेऽन्तिमा कण्डिका तत्रैव व्याख्याता ॥ ७७ ॥

यस्मि॒न्नश्वा॑स ऋष॒भाव॑ उ॒क्षण ' व॒शा मे॒षा अ॑वस॒ष्टास आहु॑ताः ।

लाल॒पे सोम॑पृ॒ष्ठाय वे॒धसे हृदा म॒तिं ज॑नय॒ चारु॑म॒ग्नये॑ ॥ ७८ ॥

मन्त्रार्थ- - अझ रस के पानकर्ता, सोम की आहुति को ग्रहण करने वाले, बुद्धिमानों में श्रेष्ठ अग्निदेव के लिये अध्वर्यु, हृदय से बुद्धि को प्रकट करो, अर्थात् मन और बुद्धि का शोधन करो । इस शुद्ध व्यवहार में घोड़े, सेवन में समर्थ वृषभ और वन्ध्या भेड़ को सुशिक्षित कर छोड़ कर पुनः ग्रहण किया जाता है ॥ ७८ ॥

' पशुस्वष्टकृतो यस्मिन्नश्वासोऽहाव्यग्न इति ' ( का ० श्र ० १ ९ ६ २१ ) | पशुस्विष्टकृद्यागे ' यस्मिन्नश्वासः ' ( मा ० सं ० २०।७८ ) इति पुरोनुवाक्या, ' अहाव्यग्ने ' ( मा ० सं ० २०१७ ९ ) इति याज्येति सूत्रार्थ: । द्वे अग्निदेवत्ये जगतीत्रिष्टुभो । हे अध्वर्यो, तस्मे अग्नये हृदा मनसा सह मति बुद्धि चारु समीचीनां जनय । अग्न्यर्थं मनोबुद्धी शुद्धे संस्कृते कुरु । कथंभूतायाग्नये? कीलालपे कीलालमन्नरसं पिवतीति कीलालपस्तस्मै । यस्मिन्नग्नो सोमपृष्ठाय सोमः पृष्ठे यस्यासौ सोमपृष्ठस्तस्मै यस्य पृष्ठे सोमाहुतयो हूयन्त इत्यर्थः । वेधसे विदधाति शुभं करोतीति वेधाः, तस्मै शुभमतिकर्त्रे । यस्मिन्नग्नी अश्वासः अश्वाः, ऋषभासः ऋषभाः, उक्षण उक्षाण: सेच समर्था वृषाः, ' वा षपूर्वस्य निगमे ' ( पा ० सू ० ६ ४ ( ९ ) इत्युपधादीर्घाभावः । वशा वन्ध्याः, अजाः, मेषा एते पशवोऽवसृष्टाः, अवदायावदाय चतुरवत्तेन निक्षिप्ताः, तथा आहुता आदायादायाहुताः, तस्मै अग्नये मनोबुद्धी शुद्धे कुरु इति होतुर्वाक्यमध्वर्युं प्रति । अध्यात्मपक्षे - हे साधक, तस्मै अग्नये परमात्मने हृदा मनसा सह मति बुद्धि जनय । भगवच्चरणार्पण-बुद्धया अनुष्ठितेन स्वधर्मेण चारु संस्कृतां शुद्धां कुरु । कीदृशायाग्नये? कीलालपे भक्तिसमर्पित विविधान्न-रसपानक । सोमपृष्ठाय सोमस्य सोमात्मिकायाः प्रकृतेः पृष्ठे उपरिष्टाद् वर्तमानाय । अग्नीषोमात्मकं जगत् । तत्र सोमः प्रकृत्यात्मकः, पुरुषात्मकः अग्निः । उभयोर्योगेन विश्वमुत्पद्यते । वेधसे सर्वज्ञाय । यस्मिन् अश्वाः, ऋषभाः, उक्षाणो वशा वन्ध्याः, मेषा लोकहितार्थमवसृष्टाः संसारकार्यार्थं निर्मिताः आहुता आसमन्ताद् गृहीता दत्ताश्च । दयानन्दस्तु - ' हे विद्वन्, अश्वास ऋषभास उक्षाणो वशा मेषा अवसृष्टासः सुशिक्षिता आहुताः सन्तो यस्मिन् कार्यकराः स्युः, तस्मिन् त्वं हृदा सोमपृष्ठाय कोलालपे वेधसे अग्नये चारु मतिं कुरु ' इति, तदपि यत्किञ्चित्, अवसृष्टशब्दस्य शिक्षितार्थस्य निर्मूलत्वात् । सोमः पृष्ठो येन तस्मै सोमपृष्ठायेत्यपि निरर्थकम्, असङ्गतेः । सोमविद्यपृच्छकायेति हिन्दीभाष्यमपि विसङ्गतमेव, पृच्छतेः पृष्ठशब्दानिष्पत्तेः । अग्नितुल्याय विदुषे तेजस्विने कोदृशीं चारुमति प्रकटयेत्? प्रकृते तेन किमायातमित्यस्यास्पष्टत्वात् ॥ ७८ ॥

अहा॑व्यग्ने ह॒विर॒रास्ते॒ ते स्रुचीव घृतं च॒म्वीव॒ सोम॑ः ।

वा॒ज॒सनि॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धेहि य॒शसे॑ बृ॒हन्त॑म् ॥ ७६ ॥

मन्त्रार्थ - हे अग्निदेव! सब ओर से आपके मुख में हवियां दी गई हैं, जैसे कि स्रुवे में घृत और अधिषवण में सोम दिया गया है । आप हमें धन - धान्य, वीर पुत्र, धन - ऐश्वर्य और सभी लोकों में प्रशंसित विशाल यश दीजिये ॥ ७ ९ ॥