यजुर्वेद काण्वशाखा प्रथमोऽध्यायः

शुक्लयजुर्वेद काण्वशाखा – Shukla Yajurveda Kanva Shakha

अथ प्रथमो दशकः।

अथ प्रथमोऽध्यायः।

॥ओ३म्॥ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ।
दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे॥१॥ १

आप्या॑यध्वमघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्माः।
मा व॑ स्ते॒न ई॑शत॒ माघश॑ꣳ सः ॥२॥ २

ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीः।
यज॑मानस्य प॒शून् पा॑हि॒ वसोः॑ प॒वित्र॑मसि ॥३॥(१) ३

द्यौर॑सि पृथि॒व्य॑सि मात॒रिश्व॑नो घ॒र्मो॑ऽसि।
वि॒श्वधाः॑ पर॒मेण॒ धाम्ना॑॥१॥ ४

दृꣳह॑स्व मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत् ।
वसोः॑ प॒वित्र॑मसि श॒तधा॑रं॒ वसोः॑ प॒वित्र॑मसि स॒हस्र॑धारम् ॥२॥ ५

दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसोः॑ प॒वित्रे॑ण श॒तधा॑रेण।
सु॒प्वा॒ काम॑धुक्षः ॥ ३॥ ६

सा वि॒श्वायुः॒ सा वि॒श्वक॑र्मा॒ सा वि॒श्वधा॑याः।
इन्द्र॑स्य त्वा भा॒गꣳ सोमे॒नात॑नक्मि॒ विष्णो॑ ह॒व्यꣳ र॑क्षस्व ॥४॥(२) ७

अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् ।
इ॒दम॒हमनृ॑तात् स॒त्यमुपै॑मि॥१॥ ८

कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्ति॒ कस्मै॑ त्वा युनक्ति॒ तस्मै॑ त्वा युनक्ति ।
कर्म॑णे वां॒ वेषा॑य वाम् ॥२॥ ९

प्रत्यु॑ष्ट॒ꣳ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
उ॒र्व॒न्तरि॑क्ष॒मन्वे॑मि॥३॥ १०

धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒स्मान् धूर्व॑ति।
धूर्व॒ तं यं व॒यं धूर्वा॑मः ॥४॥११॥

दे॒वाना॑मसि॒ सस्नि॑तमं॒ वह्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम्।
अह्रु॑तमसि हवि॒र्धानं॒ दृह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत् ॥५॥ १२

विष्णु॑स्त्वा क्रमतामु॒रु वाता॒याप॑हत॒ रक्षो॒ यच्छ॑न्तां॒ पञ्च॑।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ॥६॥ १३

अ॒ग्नये॒ जुष्टं॑ गृह्णाम्य॒ग्नीषोमा॑भ्यां॒ जुष्टं॑ गृह्णामि।
भू॒ताय॑ त्वा॒ नारा॑तये॒ स्व॑रभि॒विख्ये॑षम्॥७॥१४॥(१४)

दृꣳह॑न्तां॒ दुर्याः॑ पृथि॒व्यामु॒र्व॒न्तरि॑क्ष॒मन्वे॑मि।
पृ॒थि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्या उ॒पस्थे॑।
अग्ने॑ ह॒व्यर॑क्षस्व॥८॥(३) १५

प॒वित्रे॑ स्थो वैष्ण॒व्यौ॑ स॑वि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒मि।
अछि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑॥१॥ १६

देवी॑रापो अग्रेगुवो अग्रेपुवः।
अग्र॑ इ॒मम॒द्य य॒ज्ञं न॑यत सु॒धातुं॑ य॒ज्ञप॑तिं देवा॒युव॑म्॥२१॥७॥

यु॒ष्मा इन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ता स्थ ।
अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि॥३॥ १८

दै॑व्याय॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॑।
यद्वोऽशु॑द्धः पराज॒घानै॒तद्व॒स्तच्छु॑न्धामि॥४॥(४) १९

शर्मा॒स्यव॑धूत॒ꣳ रक्षोऽव॑धूता॒ अरा॑तयः।
अदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु॥१॥ २०

अद्रि॑रसि वानस्प॒त्यो ग्रावा॑सि पृ॒थुबु॑ध्नः।
प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु॥२॥ २१

अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नम्।
दे॒ववी॑तये त्वा गृह्णामि॥३॥ २२

बृ॒हन् ग्रावा॑सि वानस्प॒त्यः स इ॒दं दे॒वेभ्यः॑।
ह॒व्य श॑मीष्व सु॒शमि॑ शमीष्व॒ हवि॑ष्कृ॒देहि॑॥४॥२३॥

कु॒क्कु॒टो॑ऽसि॒ मधु॑जिह्व॒ इष॒मूर्ज॒माव॑द।
व॒यसं॑घा॒ते सं॑घाते जेष्म॥५॥ २४

व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु ।
परा॑पूत॒रक्षः॒ प्रति॑पूता॒ अरा॑तयः॥६॥ २५

अप॑हत॒ꣳ रक्षो॑ वा॒युर्वो॒ विवि॑नक्तु।
दे॒वो वः॑ सवि॒ता प्रति॑गृह्णातु॒ हिर॑ण्यपाणि॒रछि॑द्रेण पा॒णिना॑॥७॥(५) २६

धृष्टि॑र॒स्यपा॑ग्ने अ॒ग्निमा॒मादं॑ जहि॒।
निष्क्र॒व्याद॑ से॒धा दे॑व॒यजं॑ वह॥१॥ २७

ध्रु॒वम॑सि पृथि॒वीं दृ॑ह ॥
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि द्विष॒तो व॒धाय॑॥२॥ २८

अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृह।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि द्विष॒तो व॒धाय॑।
ध॒र्त्रम॑सि॒ दिवं॑ दृह।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि द्विष॒तो व॒धाय॑॥३२॥९॥

विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ उप॑दधामि द्विष॒तो व॒धाय॑।
चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम्॥४॥(६) ३०

शर्मा॒स्यव॑धूत॒ रक्षोऽव॑धूता॒ अरा॑तयः ।
अदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु॥१३॥१

धि॒षणा॑सि पर्व॒ती प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु ।
दि॒वस्क॑म्भ॒न्य॑सि धि॒षणा॑सि पार्वते॒यी प्रति॑ त्वा पर्व॒ती वे॑त्तु॥२३॥२(३२)

धा॒न्य॑मसि धिनु॒हि दे॒वां धि॑नु॒हि य॒ज्ञं धि॑नु॒हि य॒ज्ञप॑तिम्।
धि॒नु॒हि माँ य॑ज्ञ॒न्य॑म्॥३॥ ३३

प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा ।
दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां।
दे॒वो वः॑ सवि॒ता प्रति॑गृह्णातु॒ हिर॑ण्यपाणि॒रछि॑द्रेण पा॒णिना॑ ।
चक्षु॑षे त्वा म॒हीनां॒ पयो॑सि ॥४॥३४॥

वे॒दो॑सि वेद॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑वः।
तेन॒ मह्यं॑ वे॒दो भ॑व॥५॥(७) ३५

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सं व॑पामि॒ समाप॒ ओष॑धीभिः॒ समोष॑धयो॒ रसे॑न ।
सꣳ रे॒वती॒र्जग॑तीभिः॒ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम् ।
जन॑यत्यै त्वा॒ सं यौ॑मि ॥१३॥६॥

इ॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ ।
घ॒र्मो॑सि वि॒श्वायु॑रु॒रुप्र॑था उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम् ॥२३॥७॥

अ॒ग्निष्टे॒ त्वचं॒ मा हि॑ सीद॒न्तरि॑त॒ रक्षो॒न्तरि॑ता॒ अरा॑तयः।
दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑ ॥३३॥॥८॥

मा भे॒र्मा सं वि॑क्था॒ अत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् ।
त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा ॥४॥(८) ३९

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑देऽध्वर॒कृतं॑ दे॒वेभ्यः॑ ।
इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जाः।
वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः ॥१॥ ४०

पृ॒थि॒व्यै वर्मा॑सि॒ पृथि॑वि देवयजनि।
ओष॑ध्यास्ते॒ मूलं॒ मा हि॑ꣳ सिषम् ॥२४॥१

व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याꣳ श॒तेन॒ पाशैः॑।
यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥३४॥२

अपा॒ररुं॑ वध्यासं पृथि॒व्यै दे॑व॒यज॑नात्।
व्र॒जं ग॑छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशैः॑।
यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।
अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् ।
व्र॒जं ग॑छ गो॒ष्ठानं॑ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशैः॑।
यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥४॥ ४३

गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि ।
सु॒क्ष्मा चासि॑ शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चासि ।
ऊर्ज॑स्वती॒ चासि॒ पय॑स्वती च ॥५॥४॥४

पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम् ।
यामैर॑य श्च॒न्द्रम॑सि स्व॒धाभि॒स्तां धीरा॑सो अनु॒दिश्य॑ यजन्ते ।
द्वि॒ष॒तो व॒धो॑ऽसि॥६॥(९)४५(४५)

प्रत्यु॑ष्ट॒ꣳ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ।
प्रत्यु॑ष्ट॒ꣳ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
अनि॑शितासि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ॥१४॥६॥

अदि॑त्यै॒ रास्ना॑सीन्द्रा॒ण्यै सं॒नह॑नम् ।
विष्णो॑र्वे॒ष्पो॑ऽस्यू॒र्जे त्वाद॑ब्धेन त्वा॒ चक्षु॒षाव॑पश्यामि॥२४॥७॥

अ॒ग्नेर्जि॒ह्वासि॑ सु॒भूर्दे॒वेभ्यः॑ ।
धाम्ने॑ धाम्ने भव॒ यजु॑षे यजुषे ।
स॒वि॒तुस्त्वा॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑ ।
स॒वि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑ ॥३४॥८॥

तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि।
प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नम्॥४॥४॥९॥
यस्ते॑ प्रा॒णः प॒शुषु॒ प्रवि॑ष्टो दे॒वानां॑ वि॒ष्ठामनु॒ यो वि॑तस्थे।
आ॒त्म॒न्वा॑न्त्सो॑मघृ॒तवा॒न्हि भू॒त्वाग्निं ग॑च्छ॒ स्व॒र्यज॑मानाय विन्द॥५॥(१०)५०

॥इति शुक्लयजुः काण्वसंहितायां प्रथमोऽध्यायः॥ १॥