विमानस्थानम्

Bimanasthanam

चरकसंहिता, विमानस्थान, १ (रसविमान)

अथातो रसविमानं व्याख्यास्यामः ।। चसं-३,१.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-३,१.२ ।।

इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषान् अनुप्रविश्यानन्तरं दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानम् अवहितमनसा यथावज् ज्ञेयं भवति भिषजा दोषादिमानज्ञानायत्तत्वात् क्रियायाः ।
न ह्य् अमानज्ञो दोषादीनां भिषग् व्याधिनिग्रहसमर्थो भवति ।
तस्माद् दोषादिमानज्ञानार्थं विमानस्थानम् उपदेक्ष्यामो ऽग्निवेश ।। चसं-३,१.३ ।।

तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः रसास्तावत्षट् मधुराम्ललवणकटुतिक्तकषायाः ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते ।। चसं-३,१.४ ।।

दोषाः पुनस् त्रयो वातपित्तश्लेष्माणः ।
ते प्रकृतिभूताः शरीरोपकारका भवन्ति विकृतिमापन्नास्तु खलु नानाविधैर् विकारैः शरीरम् उपतापयन्ति ।। चसं-३,१.५ ।।

तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति त्रयस् त्रयश् चोपशमयन्ति
तद्यथा कटुतिक्तकषाया वातं जनयन्ति मधुराम्ललवणस् त्व् एनं शमयन्ति कट्वम्ललवणाः पित्तं जनयन्ति मधुरतिक्तकषायास् त्व् एनच्छमयन्ति मधुराम्ललवणाः श्लेष्माणं जनयन्ति कटुतिक्तकषायास्त्वेनं शमयन्ति ।। चसं-३,१.६ ।।

रसदोषसंनिपाते तु ये रसा यैर् दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तान् अभिवर्धयन्ति विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति ।
एतद्व्यवस्थाहेतोः षट्त्वम् उपदिश्यते रसानां परस्परेणासंसृष्टानां त्रित्वं च दोषाणाम् ।। चसं-३,१.७ ।।

संसर्गविकल्पविस्तरो ह्य् एषाम् अपरिसंख्येयो भवति विकल्पभेदापरिसंख्येयत्वात् ।। चसं-३,१.८ ।।

तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावम् एकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत् ।। चसं-३,१.९ ।।

न त्व् एवं खलु सर्वत्र ।
न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर् विकल्पितानाम् अवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वम् अध्यवसातुं शक्यम् ।। चसं-३,१.१० ।।

तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवम् एवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् ।। चसं-३,१.११ ।।

तस्माद् रसप्रभावतश् च द्रव्यप्रभावतश् च दोषप्रभावतश् च विकारप्रभावतश् च तत्त्वमुपदेक्ष्यामः ।। चसं-३,१.१२ ।।

तत्रैष रसप्रभाव उपदिष्टो भवति ।
द्रव्यप्रभावं पुनर् उपदेक्ष्यामः ।
तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति ।। चसं-३,१.१३ ।।

तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद् वातं जयति सततमभ्यस्यमानं वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति विरुद्धगुणसंनिपाते हि भूयसाल्पम् अवजीयते तस्मात्तैलं वातं जयति सततम् अभ्यस्यमानम् ।
सर्पिः खल्वेवमेव पित्तं जयति माधुर्याच्छैत्यान्मन्दत्वाच्च पित्तं ह्य् अमधुरम् उष्णं तीक्ष्णं च ।
मधु च श्लेष्माणं जयति रौक्ष्यात् तैक्ष्ण्यात् कषायत्वाच् च श्लेष्मा हि स्निग्धो मन्दो मधुरश्च ।
यच् चान्यदपि किंचिद् द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात् तच् चैताञ्जयत्य् अभ्यस्यमानम् ।। चसं-३,१.१४ ।।

अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकम् अन्येभ्यो द्रव्येभ्यः तद्यथापिप्पली क्षारः लवणमिति ।। चसं-३,१.१५ ।।

पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्यो नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश् च ताः सद्यः शुभाशुभकारिण्यो भवन्ति आपातभद्राः प्रयोगसमसाद्गुण्यात् दोषसंचयानुबन्धाः सततम् उपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणम् उत्क्लेशयन्ति औष्ण्यात् पित्तं न च वातप्रशमनायोपकल्पन्ते ऽल्पस्नेहोष्णभावात् योगवाहिन्यस्तु खलु भवन्ति तस्मात्पिप्पलीर् नात्युपयुञ्जीत ।। चसं-३,१.१६ ।।

क्षारः पुनर् औष्ण्यतैक्ष्ण्यलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति स पचनदहनभेदनार्थम् उपयुज्यते सो ऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः संपद्यते ।
ये ह्य् एनं ग्रामनगरनिगमजनपदाः सततम् उपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति तद्यथा प्राच्याश् चीनाश्च तस्मात्क्षारं नात्युपयुञ्जीत ।। चसं-३,१.१७ ।।

लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम् अनतिगुरु अनतिस्निग्धम् उपक्लेदि विस्रंसनसमर्थम् अन्नद्रव्यरुचिकरम् आपातभद्रं प्रयोगसमसाद्गुण्यात् दोषसंचयानुबन्धं तद् रोचनपाचनोपक्लेदनविस्रंसनार्थम् उपयुज्यते ।
तद् अत्यर्थम् उपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति ।
ये ह्य् एनद् ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश् च भवन्ति ।
तद्यथा वाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः ते हि पयसापि सह लवणम् अश्नन्ति ।
ये ऽपीह भूमेर् अत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति लवणोपहतत्वात् ।
तस्माल्लवणं नात्युपयुञ्जीत ।
ये ह्य् अतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति ।। चसं-३,१.१८ ।।

तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः ।
सात्म्यमपि हि क्रमेणोपनिवर्त्यमानम् अदोषम् अल्पदोषं वा भवति ।। चसं-३,१.१९ ।।

सात्म्यं नाम तद् यद् आत्मन्युपशेते सात्म्यार्थो ह्य् उपशयार्थः ।
तत्त्रिविधं प्रवरावरमध्यविभागेन सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च ।
तत्र सर्वरसं प्रवरम् अवरमेकरसं मध्यं तु प्रवरावरमध्यस्थम् ।
तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरम् उपपादयेत् सात्म्यम् ।
सर्वरसमपि च सात्म्यम् उपपन्नः प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितम् एवानुरुध्येत ।। चसं-३,१.२० ।।

तत्र खल्विमान्यष्टाव् आहारविधिविशेषायतनानि भवन्ति तद्यथा प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि भवन्ति ।। चसं-३,१.२१ ।।

उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते यदायत्तम् ओकसात्म्यम् ।
इत्यष्टाव् आहारविधिविशेषायतनानि व्याख्यातानि भवन्ति ।। चसं-३,१.२२ ।।

एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति तान् बुभुत्सेत बुद्ध्वा च हितेप्सुरेव स्यात् न च मोहात् प्रमादाद्वा प्रियम् अहितम् असुखोदर्कम् उपसेव्यम् आहारजातम् अन्यद्वा किंचित् ।। चसं-३,१.२३ ।।

तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषांचित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति उष्णं स्निग्धं मात्रावत् जीर्णे वीर्याविरुद्धम् इष्टे देशे इष्टसर्वोपकरणं नातिद्रुतं नातिविलम्बितम् अजल्पन् अहसन् तन्मना भुञ्जीत आत्मानमभिसमीक्ष्य सम्यक् ।। चसं-३,१.२४ ।।

आत्मानम् अभिसमीक्ष्य भुञ्जीत सम्यग् इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्य् अस्यात्मन आत्मसात्म्यं भवति तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति ।। चसं-३,१.२५ ।।

रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः ।
वेद यो देशकालौ च शरीरं च स नो भिषक् ।। चसं-३,१.२६ ।।

विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः ।

द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च ।। चसं-३,१.२७ ।।

आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च ।
विमाने रससंख्याते सर्वमेतत्प्रकाशितम् ।। चसं-३,१.२८ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः ।। चसं-३,१.२९ ।।