गायत्री रहस्योपनिषद्

गायत्री रहस्य उपनिषद्

(The Gayatri Rahasya Upanishad)

प्रत्येक मूल संस्कृत श्रुति को क्लिक करने पर उसके नीचे उसका हिन्दी भाष्य खुल जाएगा।

⌄ सारी श्रुतियों का हिन्दी भाष्य दिखाएँ।

⌃ सारी श्रुतियों का हिन्दी भाष्य बन्द करें।

हिन्दी भाष्यकार का निवेदन।

हिन्दी भाष्यकार – द्वैपायन व्यासदेव प्रधान।

????????????
वन्देऽहं मङ्गलात्मानं भास्वन्तँ वेदविग्रहम् । 
याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम् ।।

जितेन्द्रियं जितक्रोधं सदा ध्यान परायणम् । 
आनन्दनिलयँ वन्दे योगानन्द मुनीश्वरम् ।।

प्रणौम्याद्यं दिनमणिँ योगीश्वर शिरोमणिम् । 
सर्वज्ञं याज्ञवल्क्यं तच्छिष्यं कात्यायनं मुनिम् ।।

याज्ञवल्क्य समारम्भां कण्वयोगी समध्यमाम् ।  
अस्मदाचार्य पर्यन्ताँ वन्दे गुरुपरम्पराम् ।।

भानुगुप्तायातयामँ वेदमानीय यो भुवि । 
अध्यापयत्कण्वमुख्यान् तस्मै वेदात्मने नमः ॥
????????????????????????

श्रीमन्नारायण की असीम कृपा से यह हिन्दी भाष्य विद्वज्जनों के सुखार्थ एवम् सनातनी आर्यजनों के लाभार्थ प्रकाशित किया जाता है। गुरुचरणों को ही ध्यान कर यथामति गूढ़ वैदिक विज्ञान को यहाँ उद्घाटित किया गया है।

????????????

(उपनिषद् आरम्भ)
ॐ स्वस्ति सिद्धम्।
ॐ नमो ब्रह्मणे।
ॐ नमस्कृत्य याज्ञवल्क्य ऋषिः स्वयम्भुवं परिपृच्छति।
हे ब्रह्मन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि। अथातो वसिष्ठः स्वयम्भुवं परिपृच्छति।
यो ब्रह्मा स ब्रह्मोवाच ।
ब्रह्मज्ञानोत्पत्तेः प्रकृतिं व्याख्यास्यामः।
को नाम स्वयंभूः पुरुष इति । तेनाङ्गुलीमथ्यमानात् सलिलमभवत् ।
सलिलात् फेनमभवत् ।
फेनाद्बुद्बुदमभवत् ।
बुद्बुदादण्डमभवत् ।
अण्डाद्ब्रह्माभवत् ।
ब्रह्मणो वायुरभवत् ।
वायोरग्निरभवत् ।
अग्नेरोङ्कारोऽभवत्।
ओंकाराद्वयाहृतिरभवत्।
व्याहृत्या: गायत्र्यभवत्।
गायत्र्याः सावित्र्यभवत्।
सावित्र्याः सरस्वत्यभवत् ।
सरस्वत्याः सर्वे वेदा अभवन्।
सर्वेभ्यो वेदेभ्यः सर्वे लोका अभवन्।
सर्वेभ्यो लोकेभ्यः सर्वे प्राणिनोऽभवन्॥ ||१||


हिन्दी भाष्य –
प्रणव (ओंकार) से मङ्गलाचरण निष्पन्न करते हुए सर्वत्र स्वस्ति (कल्याण) की सिद्धि हो (ऐसी कामना की गई है)। पवित्र ओंकार सहित ब्रह्माजी को नमन हो। स्वयम्भुव ब्रह्माजी को नमस्कार करते हुए ऋषि याज्ञवल्क्य परिप्रश्न करते हैं। हे ब्रह्मन्! गायत्री की उत्पत्ति (कैसे हुई यह) सुनने की इच्छा करता हूँ। वसिष्ठजी ने भी स्वयम्भुव ब्रह्माजी से पहले कभी यही परिप्रश्न किया था। जो ब्रह्म से ही उत्पन्न हैं, उन ब्रह्माजी ने कहा। ब्रह्मज्ञानके उत्पत्ति की कारणभूता प्रकृति की व्याख्या करेंगे। स्वयम्भु नाम का यह कौन पुरुष है? यह वह पुराण पुरुष भगवान् (नारायण) हैं जिनके अङ्गुली के मन्थन से सलिल उत्पन्न हुआ। सलिल से फेन हुआ। फेन से बुद्बुद। बुद्बुद से अण्डा, अण्डे से ब्रह्मा, ब्रह्मा से वायु, वायु से अग्नि, अग्नि से ओंकार, ओंकार से व्याहृति, व्याहृति से गायत्री हुई, गायत्री से सावित्री, सावित्री से सरस्वती, सरस्वती से चारों वेद, चारों वेदों से समस्त लोक और समस्त लोकों से समस्त प्राणी उत्पन्न हुए।

सलिल क्या है? जो प्रजापति को दृश्यमान हुआ, उन्हें पशु कहा (Observables in modern science)। पशु पाँच प्रकार के होते हैं छन्द, पोष, अन्न, सलिल और अग्नि । यह प्राणके सहारे रहते हैं । परोक्षप्रिय देवों की भाषा में सरिर को ही सलिल कहते हैं । सूर्य्यमाण इरायुक्त तत्त्वविशेष ही सरिर है। आपो वा इदमग्रे सलिलमासीत् में इसीका वर्णन है।

तैत्तिरीयब्राह्मणम् १।१।३।५ – अबधिरो भवति । य एवं वेद । प्रजापतिः प्रजा असृजत । तासाम-न्नमुपाक्षीयत । ताभ्यः सूदमुप प्राभिनत् । ततो वै तासामन्नं नाक्षीयत । यस्य सूदः संभारो भवति । नास्य गृहेऽन्नं क्षीयते । आपो वा इदमग्रे सलिलमासीत् । तेन प्रजापतिरश्राम्यत् ५

कथमिदꣳ स्यादिति । सोऽपश्यत्पुष्करपर्णं तिष्ठत् । सोऽमन्यत । अस्ति वै तत् ।…

और देखें – शतपथब्राह्मणम् ११।१।६।१ आपो ह वा इदमग्रे सलिलमेवास। ता अकामयन्त कथं नु प्रजायेमहीति ता अश्राम्यंस्तास्तपोऽतप्यन्त तासु तपस्तप्यमानासु हिरण्मयमाण्डं सम्बभूवाजातो ह तर्हि संवत्सर आस तदिदं हिरण्मयमाण्डं यावत्संवत्सरस्य वेला तावत्पर्यप्लवत।

यत् पर्यपश्यत् सरिरस्य मध्ये..में सरिर सलिलका वाचक है । सरत् इरा यस्य – इस व्युत्पत्तिसे नानाभावमें परिणत हुआ रस सरिर कहलाता है ।

तैत्तिरीयब्राह्मणम् १।२।१।४ – यत्पर्यपश्यत्सरिरस्य मध्ये । उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्या-यतनाद्धि जातम् । पर्णं पृथिव्याः प्रथनꣳ हरामि । याभिरदृꣳ हज्जगतः प्रतिष्ठाम् । उर्वीमिमां विश्वजनस्य भर्त्रीम् । ता नः शिवाः शर्कराः सन्तु सर्वाः । अग्ने रेतश्चन्द्र ꣳ! हिरण्यम् । अद्भ्यः संभूतममृतं प्रजासु । तत्संभरन्नुत्तरतो निधाय ४

इसी प्रकार अन्य ब्राह्मणों और आरण्यकों में भी सलिल की चर्चा कि गई है।

अथातो गायत्री व्याहृतयश्च प्रवर्तन्ते।
का च गायत्री काश्च व्याहृतयः ।
किं भूः किं भुवः किं सुवः किं महः किं जनः किं तपः किं सत्यं किं तत् किं सवितुः किं वरेण्यं किं भर्ग: किं देवस्य किं धीमहि किं धियः किं यः किं नः किं प्रचोदयात्।
ॐ भूरिति भूर्लोकः ।
भुव इत्यन्तरिक्षलोकः ।
स्वरिति स्वर्गलोकः ।
मह इति महर्लोकः ।
जन इति जनलोकः ।
तप इति तपोलोकः ।
सत्यमिति सत्यलोकः ।
तदिति तदसौ तेजोमयं तेजोऽग्निर्देवता । सवितुरिति सविता सावित्रमादित्यो वै। वरेण्यमित्यत्र प्रजापतिः।
भर्ग इत्यापो वै भर्गः।
देवस्य इतीन्द्रो देवो द्योतत इति स इन्द्रस्तस्मात् सर्वपुरुषो नाम रुद्रः। धीमहीत्यन्तरात्मा।
धिय इत्यन्तरात्मा परः।
य इति सदाशिवपुरुषः ।
नो इत्यस्माकं स्वधर्म।
प्रचोदयादिति प्रचोदितकाम इमान् लोकान् प्रत्याश्रयते यः परो धर्म इत्येषा गायत्री॥ ||२||

हिन्दी भाष्य –
अथ अतः – सलिल से लेकर प्राणियों की उत्पत्ति के विषय के बाद, अब क्रमप्राप्त गायत्री व्याहृतयश्च प्रवर्तन्ते – गायत्री और व्याहृतियों के विषय का प्रवर्तन करते हैं।

प्रश्न-गायत्री कौन है और व्याहृतियाँ कौन हैं? भू: क्या है ? भुवः क्या है? स्व: क्या है? मह: क्या है?जन: क्या है? तप: क्या है? सत्यं क्या है? तत् क्या है? सवितुः क्या है? वरेण्यं क्या है? भर्ग: क्या है? देवस्य क्या है? धोमहि क्या है? धियः क्या है? यः क्या है? नः क्या है? तथा प्रचोदयात् क्या है? 

उत्तर – ओंकार का ध्यान कर कहते हैं कि भूलोक को ही भूः पद से कहा है, भुवः से अन्तरिक्षलोक, स्वः से स्वर्गलोक, महः से महर्लोक, जनः से जनोलोक, तपः से तपोलोक, सत्यम् से सत्यलोक को ही कहा है।

सा च किं गोत्रा कत्यक्षरा कति पादा।
कति कुक्षयः।
कानि शीर्षाणि ।
सांख्यायनगोत्रा सा चतुर्विंशत्यक्षरा गायत्री त्रिपादा चतुष्यादा।
पुनस्तस्याश्चत्वारः पादाः षट् कुक्षिकाः पञ्च शीर्षाणि भवन्ति।
के च पादाः काश्च कुक्षयः कानि शीर्षाणि। ऋग्वेदोऽस्याः प्रथमः पादो भवति।
यजुर्वेदो द्वितीयः पादः ।
सामवेदस्तृतीयः पादः।
अथर्ववेदश्चतुर्थः पादः ।
पूर्वा दिक् प्रथमा कुक्षिर्भवति ।
दक्षिणा द्वितीया कुक्षिर्भवति ।
पश्चिमा तृतीया कुक्षिर्भवति ।
उत्तरा चतुर्थी कुक्षिर्भवति ।
ऊध्व्रा वै पञ्चमी कुक्षिर्भवति।
अधः षष्ठी कुक्षिर्भवति ।
व्याकरणोऽस्याः प्रथमः शीर्षों भवति ।
शिक्षा द्वितीयः। कल्पस्तृतीयः।
निरुक्तश्चतुर्थः ।
ज्योतिषामयनमिति पञ्चमः।
का दिक् को वर्णः किमायतनं कः स्वरः किं लक्षणं कान्यक्षरदैवतानि के ऋषयः कानि छन्दांसि काः शक्तयः कानि तत्त्वानि के चावयवाः ।
पूर्वायां भवतु गायत्री।
मध्यमायां भवतु सावित्री।
पश्चिमायां भवतु सरस्वती।
रक्ता गायत्री।
श्वेता सावित्री।
कृष्णा सरस्वती।
पृथिव्यन्तरिक्ष द्यौरायतनानि ॥ ||३||

अकारोकारमकाररूपोदात्तादिस्वरात्मिका।
पूर्वा सन्ध्या हंसवाहिनी ब्राह्मी।
मध्यमा वृषभवाहिनी माहेश्वरी ।
पश्चिमा गरुडवाहिनी वैष्णवी ।
पूर्वाह्ण्कालिका सन्ध्या गायत्री कुमारी रक्ता रक्ताङ्गी रक्तवासिनी रक्तगन्धमाल्यानुलेपनी पाशाङ्कुशाक्षमालाकमण्डलुवरहस्ता हंसारूढा ब्रह्मदैवत्या ऋग्वेदसहिता आदित्यपथगामिनी भूमण्डलवासिनी।
मध्याह्नकालिका सन्ध्या सावित्री युवती श्वेताङ्गी श्वेतवासिनी श्वेतगन्धमाल्यानुलेपनी त्रिशूलडमरुहस्ता वृषभारूढा रुद्रदैवत्या यजुर्वेदसहिता आदित्यपथगामिनी भुवोलोके व्यवस्थिता।
सायं सन्ध्या सरस्वती वृद्धा कृष्णाङ्गी कृष्णवासिनी कृष्णगन्धमाल्यानुलेपना शङ्खचक्रगदाभयहस्ता गरुडारूढा विष्णुदैवत्या सामवेदसहिता आदित्यपथगामिनी स्वर्गलोकव्यवस्थिता ॥ ||४||

अग्निवायुसूर्यरूपाऽऽहवनीयगार्हपत्यदक्षिणाग्निरूपा ऋग्यजु:सामरूपा भूर्भुवः स्वरिति व्याहृतिरूपा प्रातर्मध्याह्नतृतीयसवनात्मिका सत्त्वरजस्तमोगुणात्मिका जागृत्स्वप्नसुषुप्तरूपा वसुरुद्रादित्यरूपा गायत्रीत्रिष्टुजगतीरूपा ब्रह्मशङ्करविष्णुरूपेच्छाज्ञानक्रियाशक्तिरूपा स्वरा-ड्विराड्वषड्ब्रह्मरूपेति ।
प्रथममाग्नेयं द्वितीयं प्राजापत्यं तृतीयं सौम्यं चतुर्थमीशानं पञ्चममादित्यं षष्ठं गार्हपत्यं सप्तमं मैत्रमष्टमं भगदैवतं नवममार्यमणं दशमं सावित्रमेकादशं त्वाष्टुं द्वादशं पौष्णं त्रयोदशमैन्द्राग्नं चतुर्दशं वायव्यं पञ्चदशं वामदेवं षोडशं मैत्रावरुणं सप्तदशं भ्रातृव्यमष्टादशं वैष्णवमेकोनविशं वामनं विंशं वैश्वदेवमेकविंशं रौद्र द्वाविंशं कौबेरं त्रयोविंशमाश्विनं चतुर्विशं ब्राह्ममिति प्रत्यक्षरदैवतानि।
प्रथमं वासिष्ठं द्वितीयं भारद्वाजं तृतीयं गार्ग्यं चतुर्थंमौपमन्यवं पञ्चमं भार्गवं षष्ठं शाण्डिल्यं सप्तमं लौहितमष्टमं वैष्णवं नवमं शातातपं दशमं सनत्कुमारमेकादशं वेदव्यासं द्वादशं शुकं त्रयोदशं पाराशर्यं चतुर्दशं पौण्ड्रकं पञ्चदशं क्रतुं षोडशं दाक्षं सप्तदशं काश्यपमष्टादशमात्रेयमेकोनविंशमगस्त्यं विंशमौद्दालकमेकविंशमाङ्गिरसं द्वाविंशं नामिकेतुं त्रयोविंशं मौद्गल्यं चतुर्विंशमाङ्गिरसं वैश्वामित्रमिति प्रत्यक्षराणामृषयो भवन्ति ।। ||५||

गायत्रीत्रिष्टुब्जगत्यनुष्टुप्पङ् क्तिबृहत्युष्णिगदितिरिति त्रिरावृत्तेन छन्दांसि प्रतिपाद्यन्ते।
प्रहादिनी प्रज्ञा विश्वभद्रा विलासिनी प्रभा शान्ता मा कान्तिः स्पर्शा दुर्गा सरस्वती विरूपा विशालाक्षी शालिनी व्यापिनी विमला तमोऽपहारिणी सूक्ष्मावयवा पद्मालया विरजा विश्वरूपा भद्रा कृपा सर्वतोमुखीति चतुर्विंशतिशक्तयो निगद्यन्ते । पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्दवाक्यानि पादपायूपस्थत्वक्चक्षुःश्रोत्रजिह्वाघ्राणमनोबुद्ध्यहङ्कारचित्तज्ञानानीति प्रत्यक्षराणां तत्त्वानि प्रतीयन्ते। चम्पकातसीकुङ्कमपिङ्गलेन्द्रनीलाग्निप्रभोद्यत्सूर्यविद्युत्तारकसरोजगौरमरकतशुक्लकुन्देन्दुशङ्खपाण्डुनेत्रनीलोत्पलचन्दनागुरुकस्तूरीगोरोचन ( मल्लिका केतकी ) घनसारसन्निभं प्रत्यक्षरमनुस्मृत्य समस्तपातकोपपातकमहापातकागम्यागमनगोहत्याब्रह्महत्याभ्रुणहत्यावीरहत्यापुरुषहत्याऽऽजन्मकृतहत्या स्त्रीहत्यागुरुहत्यापितृहत्याप्राण हत्याचराचरहत्याऽभक्ष्यभक्षणप्रतिग्रहस्वकर्मविच्छेदनस्वाम्यार्तिहीनकर्मकरणपरधनापहरणशूद्रान्नभोजनशत्रुमारणचण्डालीगमनादिसमस्तपापहरणार्थ संस्मरेत् ॥ ||६||

मूर्धा ब्रह्मा शिखान्तो विष्णुर्ललाटं रुद्रश्चक्षुषी चन्द्रादित्यौ कर्णौ शुक्रबृहस्पती नासापुटे अश्विनौ दन्तोष्ठावुभे सन्ध्ये मुखं मरुतः स्तनौ वस्वादयो हृदयं पर्जन्य उरमाकाशो नाभिरग्निः। कटिरिन्द्राग्नी जघनं प्राजापत्यमूरू कैलासमूलं जानुनी विश्वेदेवौ जङघे शिशिरः गुल्फानि पृथिवीवनस्पत्यादीनि नखानि महती अस्थीनि नवग्रहा असृक्केतुर्मासमतुसन्धयः कालद्वयास्फालनं संवत्सरो निमेषोऽहोरात्रमिति वाग्देवीं गायत्रीं शरणमहं प्रपद्ये ॥ ||७||

य इदं गायत्रीरहस्यमधीते तेन क्रतुस्त्रमिष्टं भवति ।
य इदं गायत्री रहस्यमधीते दिवसकृतं पापं नाशयति ।
प्रातर्मध्याह्नयोः षण्मासकृतानि पापानि नाशयति ।
सायं प्रातरधीयानो जन्मकृतं पापं नाशयति ।
य इदं गायत्रीरहस्यं ब्राह्मणः पठेत् तेन गायत्र्याः षष्टिसहस्त्रलक्षाणि जप्तानि भवन्ति ।
सर्वान् वेदानधीतो भवति ।
सर्वेषु तीर्थेषु स्नातो भवति ।
अपेयपानात् पूतो भवति।
अभक्ष्यभक्षणात्। पूतो भवति ।
वृषलीगमनात् पूतो भवति।
अब्रह्मचारी ब्रह्मचारी भवति ।
पंक्तिषु सहस्त्रपानात् पूतो भवति ।
अष्टौ ब्राह्मणान् ग्राहयित्वा ब्रह्मलोकं स गच्छति ।
इत्याह भगवान् ब्रह्मा॥ ||८||