बृहद्देवता – मूलमात्रम्

Read, research and download the full sanskrit text of Brihaddevata or Bruhaddevata, Brihaddevta of Shaunaka.

अध्यायः १

।। अथ शौनकीयबृहद्देवताप्रारम्भः ।।
मन्त्रदृग्भ्यो नमस्कृत्वा समाम्नायानुपूर्वशः ।
सूक्तर्गर्धर्चपादानाम् ऋग्भ्यो वक्ष्यामि दैवतम् ।। १ ।।

वेदितव्यं दैवतं हि मन्त्रे मन्त्रे प्रयत्नतः ।
दैवतज्ञो हि मन्त्राणां तदर्थमवगच्छति ।। २ ।।

 तद्धितांस्तदभिप्रायान् ऋषीणां मन्त्रदृष्टिषु ।
विज्ञापयति विज्ञानं कर्माणि विविधानि च ।। ३ ।।

न हि कश्चिदविज्ञाय याथातथ्येन दैवतम् ।
लौक्यानां वैदिकानां वा कर्मणां फलमश्नुते ।। ४ ।।

प्रथमो भजते त्वासां वर्गोऽग्निमिह दैवतम् ।
द्वितीयो वायुमिन्द्रं वा तृतीयः सूर्यमेव च ।। ५ ।।

अर्थमिच्छन्नृषिर्देंवं यं यमाहायमस्त्विति ।
प्राधान्येन स्तुवन्भक्त्या मन्त्रस्तद्देव एव सः ।। ६ ।।

स्तुतिस्तु नाम्ना रूपेण कर्मणा बान्धवेन च ।
स्वर्गायुर्धनपुत्राद्यैर् अर्थैराशीस्तु कथ्यते ।। ७ ।।

स्तुत्याशिषौ तुऽ यास्वृक्षु दृश्येतेऽल्पास्तु ता इह ।
ताभ्याश्चाल्पतरास्ताः स्युः स्वर्गो याभिस्तु याच्यते ।।८।।

स्तुवन्तं वेद सर्वोऽयम् अर्थयत्येष मामिति ।
स्तौतीत्यर्थं ब्रुवन्तं च सार्थं मामेष पश्यति ।।९।।

स्तुवद्भिर्वा ब्रुवद्भिर्वा ऋषिभिस्तत्त्वदर्शिभिः ।
भवत्युभयमेवोक्तम् उभयं ह्यर्थतः समम् ।। १० ।।

प्रत्यक्षं देवतानाम यस्मिन्मन्त्रेऽभिधीयते ।
तामेव देवतां विद्यान् मन्त्रे लक्षणसंपदा ।। ११ ।।

तस्मात्तु देवतां नाम्ना मन्त्रे मन्त्रे प्रयोगवित् ।
बहुत्वमभिधानां च प्रयत्नेनोपलक्षयेत् ।। १२।।

सम्पूर्णमृषिवाक्यं तु सूक्तमित्यभिधीयते ।
दृश्यन्ते देवता यस्मिन्न् एकस्मिन् बहुषु द्वयोः ।। १३ ।।

देवतार्षार्थछन्दस्तो वैविध्यं च प्रजायते ।
ऋषिसूक्तं तु यावन्ति सूक्तान्येकस्य वै स्तुतिः ।। १४ ।।

श्रूयन्ते तानि सर्वाणि ऋषेः सूक्तं हि तस्य तत् ।
यावदर्थसमाप्तिः स्याद् अर्थसूक्तं वदन्ति तत् ।। १५ ।।

समानछन्दसो याः स्युस् तच्छन्दः सूक्तमुच्यते ।
वैविध्यमेवं सूक्तानाम् इह विद्याद्यथातथम् ।। १ ६।।

देवतानामधेयानि मन्त्रेषु त्रिविधानि तु ।
सूक्तभाञ्ज्यथवरभाञ्जि तथा नैपातिकानि तु ।। १७ ।।

सूक्तभाञ्जि भजन्ते वै सूक्तान्यृग्भाञ्जि वै ऋचः ।
मन्त्रैऽन्यदैवतेऽन्यानि निगद्यन्तेऽत्र कानिचित् ।। १ ८।।

सालोक्यात्साहचर्याद्वा तानि नैपातिकानि तु ।
तस्माद्बहुप्रकारेऽपि सूक्ते स्यात्सूक्तभागिनी ।। १९ ।।

देवता तद्यथा सूक्तम् अविशेष्यं प्रतीयते ।
भिन्ने सूक्ते वदेदेव देवतामिह लिङ्गतः ।। २० ।।

तत्र तत्र यथावच्च मन्त्रान्कर्मसु योजयेत् ।
देवतायाः परिज्ञानात् तद्धि कर्म समृध्यते ।। २१ ।।

आद्यन्तयोस्तु सूक्तानां प्रसङ्गपरिकीर्तनात् ।
स्तोतृभिर्देवता नाम्ना उपेक्षेतेह मन्त्रवित् ।। २२

तत्खल्वाहुः कतिभ्यस्तु कर्मभ्यो नाम जायते ।
सत्त्वानां वैदिकानां वा यद्वान्यदिह किंचन ।। २३ ।।

नवभ्य इति नैरुक्ताः पुराणाः कवयश्च ये ।
मधुकः श्वेतकेतुश्च गालवश्चैव मन्वते ।। २४ ।।

निवासात्कर्मणो रूपान् मङ्गलाद्वाच आशिषः ।
यदृच्छयोपवसनात् तथामुष्यायणाच्च यत् ।। २५ ।।

चतुर्भ्य इति तत्राहुर् यास्कगार्ग्यरथीतराः ।
आशिषोऽथार्थवैरूप्याद् वाचः कर्मण एव च ।। २६ ।।

सर्वाण्येतानि नामानि कर्मतस्त्वाह शौनकः ।
आशी रूपं च वाच्यं च सर्वं भवति कर्मतः ।।२७।।

यदृच्छयोपवसनात् तथामुष्यायणाच्च यत् ।
तथा तदपि कर्मैव तच्छृणुध्वं च हेतवः ।। २८ ।।

प्रजाः कर्मसमुत्था हि कर्मतः सत्त्वसंगतिः ।
क्वचित्संजायते सच्च निवासात्तत्प्रजायते ।। २९ ।।

यादृच्छिकं तु नामाभिधीयते यत्र कुत्रचित् ।
औपम्यादपि तद्विद्याद् भावस्यैवेह कस्यचित् ।। ३० ।।

नाकर्मकोऽस्ति भावो हि न नामास्ति निरर्थकम् ।
नान्यत्र भावान्नामानि तस्मात्सर्वाणि कर्मतः ।। ३१ ।।

मङ्गलात्क्रियते यच्च नामोपवसनाच्च यत् ।
भवत्येव तु सा ह्याशीः स्वस्त्यादेर्मङ्गलादिह । । ३२ ।।

अपि कुत्सितनामायम् इह जीवेत्कथं चिरम् ।
इति क्रियन्ते नामानि भूतानां विदितान्यपि ।। ३३ ।।

मन्त्रा नानाप्रकाराः स्युर् दृष्टा ये मन्त्रदर्शिभिः ।
स्तुत्या चैव विभूत्या च प्रभावाद्देवतात्मनः ।। ३ ४।।

स्तुतिः प्रशंसा निन्दा च संशयः परिदेवना ।
स्पृहाशीः कत्थना याञ्चा प्रश्नः प्रैषः प्रवह्लिका ।। ३५।।

नियोगश्चानुयोगश्च श्लाघा विलपितं च यत् ।
आचिख्यासाथ संलापः पवित्राख्यानमेव च ।। ३६ ।।

आहनस्या नमस्कारः प्रतिराधस्तथैव च ।
संकल्पश्च प्रलापश्च प्रतिवाक्यं तथैव च ।। ३७ ।।

प्रतिषेधोपदेशौ च प्रमादापह्नवौ च ह ।
उपप्रैषश्च यः प्रोक्तः संज्वरो यश्च विस्मयः ।। ३८ ।।

आक्रोशोऽभिष्टवश्चैव क्षेपः शापस्तथैव च ।
उपसर्गो निपातश्च नाम चाख्यातमित्यपि ।। ३९ ।।

भूतं भव्यं भविष्यं च पुमान् स्त्री च नपुंसकम् ।
एवंप्रकृतयो मन्त्राः सर्ववेदेषु सर्वशः ।। ४० ।।

वाक्यार्थदर्शनार्थीया ऋचोऽर्धर्चाः पदानि च ।
ब्राह्मणे चाथ कल्पे च निगद्यन्तेऽत्र कानिचित् ।। ४१ ।।

शब्देनोच्चरितेनेह येन द्रव्यं प्रतीयते ।
तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ।। ४२ ।।

अष्टौ यत्र प्रयुज्यन्ते नानार्थेषु विभक्तयः ।
तन्नाम कवयः प्राहुर् भेदे वचनलिङ्गयोः । । ४३ ।।

क्रियासु बह्वीष्वभिसंश्रितो यः पूर्वापरीभूत इहैक एव ।
क्रियाभिनिर्वृत्तिवशेन सिद्ध आख्यातशब्देन तमर्थमाहुः ।।४४।।

क्रियाभिनिर्वृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात् ।
संख्याविभक्त्यव्ययलिङ्गयुक्तो भावस्तदा द्रव्यमिवोपलक्ष्यः ।। ४५ ।।

यथा नानाविधैः शब्दैर् अपश्यन्नृषयः पुरा ।
विविधानीह वाक्यानि तान्यनुक्रमतः शृणु ।। ४६ ।।

रूपादिभि स्तुतिः प्रोक्ता आशीः स्वर्गादिभिस्तथा ।
यानि वाक्यान्यतोऽन्यानि तान्यपि स्यूरनेकधा ।।४७।।

मन्त्रे प्रशंसा भोजस्य चित्र इत् सोभरे स्तुतिः ।
आक्रोशार्थास्तु दृश्यन्ते माता चेत्यभिमेथति ।। ४८ ।।

ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु ।
याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वचि ।। ४९ ।।

आशीस्तु वात आ वातु दण्डेति परिदेवना ।
प्रश्नश्च प्रतिवाक्यं च पृच्छामि त्वेत्यृचौ पृथक् ।। ५० ।।

संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः ।
इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते ।। ५१ ।।

इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे ।
प्रतिषेधोपदेशौ तु अक्षैर्मेत्यक्षसंस्तुतौ ।। ५२ ।।

आख्यानं तु हये जाये विलापः स्यान्नदस्य मा ।
अवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा ।। ५३ ।।

नमस्कारः शुनःशेपे नमस्ते अस्तु विद्युते ।
संकल्पयन्निदं तुल्योऽहं स्यामिति यदुच्यते ।।
। ५४ ।।
संकल्पस्तु यदिन्द्राहं प्रलापस्त्वैतशस्य यः ।
महानग्न्याहनस्या स्यात् प्रतिराधो भुगित्यपि ।। ५५ ।।

प्रमादस्त्वेष हन्ताहं न स स्व इत्यपह्नवः ।
इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः ।। ५६ ।।

होता यक्षदिति प्रैषः को अद्येति तु विस्मयः ।
जामयेऽपह्नवो नैषा विततादिः प्रवल्हिका ।। ५७ ।।

न मृत्युरासीदित्येताम् आचिख्यासां प्रचक्षते ।
अभिशापोऽप्रजाः सन्तु भद्रमाशीस्तु गोतमे ।। ५८ ।।

बह्वप्येवंप्रकारं तु शक्यं द्रष्टुमितीदृशम् ।
वक्तुं प्रयोगतश्चैषाम् ऋक्सूक्तार्धर्चसंश्रितम् ।। ५९ ।।

एते तु मन्त्रवाक्यार्था देवतां सूक्तभागिनीम् ।
संश्रयन्ते यथान्यायं स्तुतिस्त्वत्रानुमानिकी ।। ६० ।।

भवद्भूस्य भव्यस्य जङ्गमस्थावरस्य च ।
अस्यैके सूर्यमेवैकं प्रभवं प्रलयं विदुः ।। ६१ ।।

असतश्च सतश्चैव योनिरेषा प्रजापतिः ।
यदक्षरं च वाच्यं च यथैतद्ब्रह्म शाश्वतम् ।। ६२ ।।

कृत्वैष हि त्रिधात्मानम् एषु लोकेषु तिष्ठति ।
देवान्यथायथं सर्वान् निवेश्य स्वेषु रश्मिषु ।। ६३ ।।

एतद्भूतेषु लोकेषु अग्निभूतं स्थितं त्रिधा ।
ऋषयो गीर्भिरर्चन्ति व्यञ्जितं नामभिस्त्रिभिः ।। ६४ ।।

तिष्ठत्येष हि भूतानां जठरे जठरे ज्वलन् ।
त्रिस्थानं चैनमर्चन्ति होत्रायां वृक्तबर्हिषः ।। ६५ ।।

इहैष पवमानोऽग्निर् मध्यमोऽग्निर्वनस्पतिः ।
अमुष्मिन्नेव विप्रस्तु लोकेऽग्निः शुचिरुच्यते ।। ६६ ।।

इहाग्निभूतस्त्वृषिभिर् लोके स्तुतिभिरीळितः ।
जातवेदा स्तुतो मध्ये स्तुतो वैश्वानरो दिवि ।। ६७ ।।

रसान् रश्मिभिरादाय वायुनायं गतः सह ।
वर्षत्येव च यल्लोके तेनेन्द्र इति स स्मृतः ।। ६८ ।।

अग्निरस्मिन्नथेन्द्रस्तु मध्यतो वायुरेव च ।
सूर्यो दिवीति विज्ञेयास् तिस्र एवेह देवताः ।। ६९ ।।

एतासामेव माहात्म्यान् नामान्यत्वं विधीयते ।
तत्तत्स्थानविभागेन तत्र तत्रेह दृश्यते ।। ७० ।।

तासामियं विभूतिर्हि नामानि यदनेकशः ।
आहुस्तासां तु मन्त्रेषु कवयोऽन्योन्ययोनिताम् ।। ७१ ।।

यथास्थानं प्रदिष्टास्ता नामान्यत्वेन देवताः ।
तद्भक्तास्तत्प्रधानाश्च केचिदेवं वदन्ति ताः ।। ७२ ।।

पृथक्पुरस्ताद्ये तूक्ता लोकादिपतयस्त्रयः ।
तेषामात्मैव तत्सर्वं यद्यद्भक्तिः प्रकीर्त्यते ।। ७३ ।।

तेजस्त्वेवायुधं प्राहुर् वाहनं चैव यस्य यत् ।
इमामैन्द्रीं च दिव्यां च वाचमेवं पृथक् स्तुताम् ।।७४।।

बहुदेवता स्तुतयो द्विवत्संस्तुतयश्च याः ।
प्राधान्यमेव सर्वासु पतीनामेव तास्वपि ।। ७५ ।।

स्थानं नामानि भक्तीश्च देवताया स्तुतौ स्तुतौ ।
संपादयन्नुपेक्षेत यां कांचिदिह संपदम् ।।७६।।

अग्निभक्तिस्तुतान्सर्वान् अग्नावेव समापयेत् ।
यदिन्द्रभक्ति तच्चेन्द्रे सूर्ये सूर्यानुगं च यत् ।।
७७।
निरुप्यते हविर्यस्यै सूक्तं च भजते च या ।
सैव तत्र प्रधानं स्यान् न निपातेन या स्तुता ।। ७८ ।।

इति त्रयाणामेतेषाम् उक्तः सामासिको विधिः ।
समासेनैवमुक्तस्तु विस्तरेण त्वनुक्रमः ।।७९।।

अवश्यं वेदितव्यो हि नाम्नां सर्वस्व विस्तरः ।
नहि नामान्यविज्ञाय मन्त्राः शक्या हि वेदितुम् ।।८०।।

सत्त्वान्यमूर्तान्यपि च देवतावन्महर्षयः ।
तुष्टुवुर्ऋषयः शक्त्या तासु तासु स्तुतिष्विह ।। ८१ ।।

यैस्त्वग्निरिन्द्रः सोमश्च वायुः सूर्यो बृहस्पतिः ।
चन्द्रोऽथ विष्णुः पर्जन्यः पूषा चाप्यृभवोऽश्विनौ ।।८२।।

रोदसी मरुतो देवाः पृथिव्यापः प्रजापतिः ।
देवौ च मित्रावरुणौ पृथक् सह च तावुभौ ।। ८३ ।।

विश्वे च देवाः सविता त्वष्टा वै रूपकृन्मतः ।
अश्वोऽन्नमृत्विजो वज्रो ग्रावणो रथसंयुताः ।।८४

स्तुताः पृथक् पृथक् स्वैः स्वैः सूक्तैर्ऋग्भिश्च नामभिः ।
स्तुतौ स्तुतौ प्रवक्ष्यामि तानि तेषामनुक्रमात् ।।८५।।

व्यवस्येन्मन्त्रमाग्नेयं लिङ्गैरग्नेश्च लक्षितम् ।
हविष्पङ्क्तिप्रधानैश्च नामाह्वानैश्च केवलैः ।। ८६ ।।

ऐन्द्रस्तु मन्त्रो वायव्यैर् लिङ्गैरैन्द्रैश्च लक्ष्यते ।
नामधेयैश्च वज्रस्य बलकृत्या बलेन च ।। ८७ ।।

सौर्यस्तु लिङ्गैः सूर्यस्य गुणैः सर्वैश्च तैजसैः ।
नामधेयैश्च चन्द्रस्य सूक्तं च भजतेऽत्र यैः ।। ८८ ।।

एतासां देवतानां तु नामधेयानुकीर्तनैः ।
यस्य यस्येह यावन्ति न व्यवस्यन्त्यतोऽन्यथा ।।८९।।

अयं प्रयोगस्त्वेतेषां ज्योतिषां त्रिषु वर्तताम् ।
लोकेषु मन्त्रविद्विद्वान् प्रयोगे नावसीदति ।। ९० ।।

नीयतेऽयं नृभिर्यस्मान् नयत्यस्मादसौ च तम् ।
तेनेमौ चक्रतुः कर्म सनामानौ पृथक् पृथक् ।। ९१ ।।

यद्विद्यते हि जातः सञ् जातैर्यद्वात्र विद्यते ।
तेनेमौ तुल्यनामानौ उभौ लोकौ समाप्न्रुतः ।। ९२ ।।

विसृजन्नयमेतेषां भ्राजते व्योम्नि मध्यमः ।
निपातमात्रे कथ्यन्ते तथाग्नेयानि कानिचित् ।। ९३ ।।

अर्चिभिः केश्ययं त्वग्निर् विद्युद्भिश्चैव मध्यमः ।
असौ तु रश्मिभिः केशी तेनैनानाह कैशिनः ।। ९४ ।।

एतेषां तु पृथक्त्वेन त्रयाणां केशिनामिह ।
संलक्ष्यन्ते प्रक्रियासु त्रयः केशिन इत्यृचि ।। ९५ ।।

न चैवैषां प्रसूतिर्वा विभूतिस्थानजन्म वा ।
निर्वक्तुं शक्यमेतैर्हि कृत्स्नं व्याप्तमिदं जगत् ।। ९६ ।।

वैश्वानरं श्रितो ह्यग्निर् अग्निं वैश्वानरः श्रितः ।
अनयोर्जातवेदास्तु तथैते जातवेदसी ।। ९७ ।।

सालोक्याच्चैकजातत्वाद् व्याप्तिमत्त्वात्तु तेजसः ।
तस्य तस्येह देवत्वं दृश्यन्ते च पृथक् स्तुताः ।।९८।।

यत्त्वाग्नेयमिति ब्रूमः सूक्तभाक् तत्र पार्थिवः ।
जातवेदस्यमित्युक्ते सूक्तेऽस्मिन्मध्यमः स्मृतः ।। ९९ ।।

वैश्वानरीयमिति तु यत्र ब्रूमोऽथ वा क्वचित् ।
सूर्यः सूक्तस्य भाक् तत्र ज्ञेयो वैश्वानरस्तुतौ ।। १०० ।।

सूर्यप्रसूतावग्नी तु दृष्टौ पार्थिवमध्यमौ ।
एतेषामेव लोकानां त्रयाणामध्वरेऽध्वरे ।। १०१ ।।

रोहात्प्रत्यवरोहेण चिकीर्षन्नाग्निमारुतम् ।
शस्त्रं वैश्वानरीयेण सूक्तेन प्रतिपद्यते ।। १०२ ।।

ततस्तु मध्यमस्थाना देवतास्त्वनुशंसति ।
रुद्रं च मरुतश्चैव स्तोत्रियेऽग्निमिमं पुनः ।। १०३ ।।

यथैतदुक्तमेतेषां विभूतिस्थानसंभवम् ।
तथा च देवदेवस्य तत्र तत्रेह दृश्यते ।। १०४ ।।

यद्यत्र पृथिवीस्थानं पार्थिवं चाग्निमाश्रितम् ।
तत्सर्वमानुपूर्व्येण कथ्यमानं निबोधत ।। १०५ ।।

जातवेदाः श्रितो ह्यग्निम् अग्निं वैश्वानरः श्रितः ।
द्रविणोदास्तथेध्मश्च श्रितश्चाग्निं तनूनपात् ।। १०६।।

नराशंसः श्रितश्चैनम् एनमेवाश्रितस्त्विलः ।
बर्हिर्द्वारश्च देव्योऽग्निम् एनमेव तु संश्रिताः ।। १०७ ।।

नक्तोषासा च दैव्यौ च होतारावेतदाश्रयौ ।
देव्यस्तिस्रः श्रिताश्चैनं त्वष्टा चैवैतदाश्रयः ।। १०८ ।।

श्रितो वनस्पतिश्चैनं स्वाहाकृतय एव च ।
अश्वश्च शकुनिश्चैव मण्डूकाश्चैतदाश्रयाः ।। १०९ ।।

ग्रावाणश्चैनमक्षाश्च नराशंसस्तथा रथः ।
दुन्दुभिश्चेषुधिञ्चैनं हस्तघ्नोऽभीशवो धनुः ।। ११० ।।

ज्या च तदाश्रितेषुश्च श्रिता अश्वाजनी च या ।
वृषभो द्रुघणश्चैनम् एनं पितुरुलूखलम् ।।११ १ ।।

नद्यश्चैवैनमापश्च सर्वा ओषधयश्च ह ।
रात्र्यप्वाग्नाय्यरण्यानी श्रद्धेळा पृथिवी तथा ।। ११२ ।।

भजेते चैनमेवार्ली द्वन्द्वभूते च रोदसी ।
मुसलोलूखले चैनं हविर्धाने च ये स्मृते ।। ११३ ।।

जोष्ट्री चोर्जाहुती चैनं शुतुद्र्या च विपाट् सह ।
यौ च देवौ शुनासीरौ तौ चाग्नी चैतदाश्रयौ ।। ११४ ।।

लोकोऽयं यच्च वै प्रातः सवनं क्रियते मखे ।
वसन्तशरदौ चर्तुं स्तोमोऽनुष्टुबथो त्रिवृत् ।। ११५ ।।

गायत्री चैकविंशश्च यच्च साम रथंतरम् ।
साध्याः साम च वैराजम् आप्त्याश्च वसुभिः सह ।। ११ ६।।

इन्द्रेण च मरुद्भिश्च सोमेन वरुणेन च ।
पर्जन्येनर्तुभिश्चैव विष्णुना चास्य संस्तवः ।। ११७ ।।

अस्यैवाग्नेस्तु पूष्णा च साम्राज्यं वरुणेन च ।
देवतामर्थतत्त्वज्ञो मन्त्रैः संयोजयेद्धविः ।। ११८ ।।

असंस्तुतस्यापि सतो हविरेकं निरुप्यते ।
देवतावाहनं चैव वहनं हविषां तथा ।। ११९ ।।

कर्म दृष्टे च यत्किंचिद् विषये परिवर्तते ।
इत्युक्तोऽयं गणः सर्वः पृथिव्यग्न्याश्रयो महान् ।। १२०

यश्चैन्द्रो मध्यमस्थानो गणः सोऽयमतः परः ।
विमानानि च दिव्यानि गणश्चाप्सरसां तथा ।। १२१ ।।

इन्द्राश्रयस्तु पर्जन्यो रुद्रो वायुर्बृहस्पतिः ।
वरुणः कश्च मृत्युश्च देवश्च ब्रह्मणस्पतिः ।। १२२ ।।

मन्युश्च विश्वकर्मा च मित्रः क्षेत्रपतिर्यमः ।
तार्क्ष्यो वास्तोष्पतिश्चैव सरस्वांश्चैवमत्र ह ।। १२३ ।।

अपांनपाद्दधिक्राश्च सुपर्णोऽथ पुरूरवाः ।
ऋतोऽसुनीतिर्वेनश्च तस्यैतस्याश्रयेऽदितिः ।। १२४ ।।

त्वष्टा च सविता चैव वातो वाचस्पतिस्तथा ।
धाता प्रजापतिश्चैव अथर्वाणश्च ये स्मृताः ।। १ २५।।

श्येनश्चैवैवमग्निश्च तथेळा चैव या स्मृता ।
विधातेन्दुरहिर्बुध्न्यः सोमोऽहिरथ चन्द्रमाः ।। १२६ ।।

विश्वानरश्च वै देवो रुद्राणां संस्तुतो गणः ।
मरुतोऽङ्गिरसश्चैव पितरश्चर्भुभिः सह ।। १२७ ।।

राका वाक् सरमाप्त्याश्च भृगवोऽघ्न्या सरस्वती ।
यम्युर्वशी सिनीवाली पथ्या स्वस्तिरुषाः कुहूः ।। १२८ ।।

पृथिव्यनुमतिर्धेनुः सीता लाक्षा तथैव गौः ।
गौरी च रोदसी चैव इन्द्राण्याश्चैष वै पतिः ।। १२९ ।।

छन्दस्त्रिष्ट्रुप् च पङ्क्तिश्च लोकानां मध्यमश्च यः ।
एतेष्वेवाश्रयो विद्यात् सवनं मध्यमं च यत् ।। १३० ।।

ऋतू च ग्रोष्महेमन्तौ यश्च सामोच्यते बृहत् ।
शक्वरीषु च यद्गीतं नाम्ना तत्साम शाक्वरम् ।। १३१ ।।

।। इति बृहद्देवतायां प्रथमोऽध्यायः ।।

अध्यायः २

आह चैवास्य द्वौ स्तोमाव् आश्रयौ शाकटायनः ।
यश्च पञ्चदशो नाम्ना संख्यया त्रिणवश्च यः ।। १ ।।

संस्तुतश्चैव पूष्णा च विष्णुना वरुणेन च ।
सोमवाय्वग्निकुत्सैश्च ब्रह्मणस्पतिनैव च ।। २

बृहतस्पतिना चैव नाम्ना यश्चापि पर्वतः ।
कासुचित्केचिदित्याहुर् निपाता स्तुतिषु स्तुताः ।। ३ ।।

मित्रश्च श्रूयते देवो वरुणेन सहासकृत् ।
रुद्रेण सोमः पूष्णा च पुनः पूषा च वायुना ।। ४ ।।

वातेनैव च पर्जन्यो लक्ष्यतेऽन्यत्र वै क्वचित् ।
ऋक्ष्वर्धर्चेषु पादेषु सूक्तेष्वेषु तु कृत्स्नशः ।। ५ ।।

रसादानं तु कर्मास्य वृत्रस्य च निबर्हणम् ।
स्तुतेः प्रभुत्वं सर्वस्य बलस्य निखिला कृतिः ।। ६ ।।

इत्यैन्द्रो मध्यमस्थानो गणः सम्यगुदाहृतः ।
यः परस्तु गणः सौर्यो द्युस्थानस्तं निबोधत ।। ७ ।।

तस्य मुख्यतमौ देवाव् अश्विनौ सूर्यमाश्रितौ ।
वृषाकपायी सूर्योषाः सूर्यस्यैव तु पत्नयः ।। ८ ।।

अमुतोऽर्वाङ् निवर्तन्ते प्रतिलोमास्तदाश्रयाः ।
पुरोदयात्तामुषसं सूर्यां मध्यंदिने स्थिते ।। ९

वृषाकपायीं सूर्यस्य तामेवाहुस्तु निम्रुचि ।
तस्याश्रये सरण्यूश्च भगः पूषा वृषाकपिः ।। २.१० ।।

यमो वैश्वानरो विष्णुर् वरुणश्चैकपादजः ।
पृथिवी च समुद्रश्च देवाः सप्तर्षयश्च ये । । ११ । ।
आदित्याः केशिसाध्याश्च सविता वसुभिर्मनुः ।
दध्यङ्ङथर्वा विश्वे च वाजिनो देवपत्नयः ।। १ २।।

असौ तृतीयं सवनं लोकः साम च रैवतम् ।
वैरूपं चैव वर्षाश्च शिशिरोऽथ ऋतुस्तथा ।। १३ ।।

त्रयस्त्रिंशश्च य स्तोमः क्लृप्त्या सप्तदशश्च यः ।
छन्दश्च जगती नाम्ना तथातिछन्दसश्च याः ।। १४ ।।

पौरुषं चाहुरस्यैतत् सर्वमेव ते पौरुषम् ।
एतस्यैव तु विज्ञेया देवाः संस्तविकास्त्रयः ।। १५ ।।

चन्द्रमाश्चैव वायुश्च यं च संवत्सरं विदुः ।
केचित्तु निर्वपन्त्यस्य सौर्यवैश्वानरं हविः ।। १६ ।।

सौर्यवैश्वानरीयं हि तत्सूक्तमिव दृश्यते ।
ऋगर्धर्चोऽथवा पादो द्वृचो वा यदि वा तृचः ।। १७ ।।

अनेन तु प्रवादेन दृष्टा मूर्धन्वता स्तुतिः ।
सूर्यवैश्वानराग्नीनाम् ऐकात्म्यमिह दृश्यते ।। १८ ।।

हरणं तु रसस्यैतत् कर्मामुत्र च रश्मिभिः ।
येन नातिविजानन्ति सर्वभूतानि चक्षुषा ।। १९ ।।

विभागमिममेतेषां विभूतिस्थानसंभवम् ।
संयग्विजानन्मन्त्रेषु तं तु कर्मसु योजयेत् ।। २.२० ।।

‘अध्यापयन्नधीयानो मन्त्रं चैवानुकीर्तयन् ।
स्थानं सालोक्यं सायुज्यम् एतेषामेव गच्छति ।। २१ ।।
अग्नेस्तु यानि सूक्तानि पञ्च नामानि कारवः।
षड्विंशतिस्तथेन्द्रस्य प्राहुः सूर्यस्य सप्त च ।। २२ ।।

तेषां पृथङ्निर्वचनम् एकैकस्येह कर्मजम् ।
उच्यमानं यथान्यायं शृणुध्वमखिलं मया ।। २३ ।।

जातो यदग्रे भूतानाम् अग्रणीरध्वरे च यत् ।
नाम्ना संनयते वाङ्गं स्तुतोऽग्निरिति सूरिभिः ।। २४ ।।

द्रविणं धनं बलं वापि प्रायच्छद्येन कर्मणा ।
तत्कर्म दृष्ट्वा कुत्सस्तु प्राहैनं द्रविणोदसम् ।। २५ ।।

अयं तनूनपादग्निर् असौ हि तननात्तनुः ।
ततस्तु मध्यमो जज्ञे स्थानेऽयं मध्यमात्ततः ।। २६ ।।

अनन्तरां प्रजामाहुर् नपादिति कृपण्यवः ।
नपादमुष्य चैवायम् अग्निस्तेन तनूनपात् ।। २७ ।।

पृथक्त्वेन समासैस्तु यज्ञे यच्छस्यते नृभिः ।
स्तुवन्त्याप्रीषु तेनेमं नराशंसं तु कारवः ।। २८ ।।

पुनाति यदिदं विश्वम् एवाग्निः पार्थिवोऽथ च ।
वैखानसर्षिभिस्तेन पवमान इति स्तुतः ।। २९ ।।

भूतानि वेद यज्जातो जातवेदाथ कथ्यते ।
यच्चैष जातविद्योऽभूद् वित्तं जातोऽधिवेत्ति वा ।। २.३० ।।

विद्यते सर्वभूतैर्हि यद्वा जातः पुनः पुनः ।
तेनैष मध्यभागेन्द्रो जातवेदा इति स्तुतः ।। ३ १ ।।

अणिष्ठ एष यत्तु त्रीन् व्याप्यैको व्योम्नि तिष्ठति ।
तेनैनमृषयोऽर्चन्तः कर्मणा वायुमब्रुवन् ।।३२।।

त्रीणीमान्यावृणोत्येको मूर्तेन तु रसेन यत् ।
तयैनं वरुणं शक्त्या स्तुतिष्वाहुः कृपण्यवः ।। ३३ ।।

अरोदोदन्तरिक्षे यद् विद्युद्वृष्टिं ददन्नृणाम् ।
चतुर्भिर्ऋषिभिस्तेन रुद्र इत्यभिसंस्तुतः ।। ३४ ।।

चतुर्विधानां भूतानां प्राणो भूत्वा व्यवस्थितः ।
ईष्टे चैवास्य सर्वस्य तेनेन्द्र इति स स्मृतः ।। ३५ ।।

इरां दृणाति यत्काले मरुद्भिः सहितोऽम्बरे ।
रवेण महता युक्तस् तेनेन्द्रमृषयोऽब्रुवन् ।। ३६ ।।

यदिमां प्रार्जयत्येको रसेनाम्बरजेन गाम् ।
कालेऽत्रिरौर्वशश्चर्षी तेन पर्जन्यमाहतुः ।। ३७ ।।

तर्पयत्येष यल्लोकाञ् जन्यो जनहितश्च यत् ।
परो जेता जनयिता यद्वाग्नेयस्ततो जगौ ।। ३८ ।।

बृहन्तौ पाति यल्लोकाव् एष द्वौ मध्यमोत्तमौ ।
बृहता कर्मणा तेन बृहस्पतिरितीळितः ।। ३९ ।।

ब्रह्म वाग् ब्रह्म सत्यं च ब्रह्म सर्वमिदं जगत् ।
पातारं ब्रह्मणस्तेन शौनहोत्र स्तुवञ्जगौ ।। २.४० ।।

अन्नं क्षितिभ्यो विदधद् यदृतुष्वविशत्क्षितौ ।
तेनैनमाह क्षेत्रस्य वामदेव स्तुवन्पतिम् ।। ४१ ।।

मनसेमं तु यद्दृश्यं मध्यमं लोकमाश्रितम् ।
शंसत्सत्येन सत्ये वै स एष स्तुतवानृतम् ।। ४२ ।।

रवेणान्तारसैः क्षिप्तै स्थितो व्योम्न्येष मायया ।
ऋतस्य श्लोक इत्येष पुनश्चैनं ततोऽब्रवीत् ।। ४३ ।।

वास्तुप्रयच्छंल्लोकस्य मध्यमः स तु पाति यत् ।
तेन वास्तोष्पतिं प्राह चतुर्भिरिममौर्वशः ।। ४४ ।।

वाचा वेदा ह्यधीयन्ते वाचा छन्दांसि तत्र ह ।
अथो वाक् सर्वमेवेदं तेन वाचस्पति स्तुतः ।। ४५. ।।

न कुतश्चन यद्दीनो वृत्वा तिष्ठति मध्यमः ।
राहूगण ऋषिस्तेन प्राहैनं गोतमोऽदितिम् ।। ४६ ।।

प्रजाभ्यस्त्वेष यच्छर्म कमिच्छन्मनसा सुखम् ।
हिरण्यगर्भस्तेनैनम् ऋषिरर्चन्नुवाच कम् ।। ४७ ।।

इह प्रजाः प्रयच्छन्स संगृहीत्वा प्रयाति च ।
ऋषिर्विवस्वतः पुत्रं तेनाहैनं यमो यमम् ।। ४८ ।।

मित्रीकृत्य जना विश्वे यदिमं पर्युपासते ।
मित्र इत्याह तेनैनं विश्वामित्र स्तुवन्स्वयम् ।। ४९ ।।

निदाघमासातिगमे यदृतेनावति क्षितिम् ।
विश्वस्य जनयन्कर्म विश्वकर्मैष तेन सः ।। २.५० ।।

सरांसि घृतवन्त्यस्य सन्ति लोकेषु यत्त्रिषु ।
सरस्वन्तमिति प्राह वाचं प्राहुः सरस्वतीम् ।। ५१ ।।

प्राणभूतस्तु भूतेषु यद्वेनत्येषु तिष्ठति ।
तेनैनं वेनमाहर्षिर् वेनो नामेह भार्गवः ।। ५२ ।।

ससृजे मासि मास्येनम् अभिमत्य तपोऽग्रजम् ।
तेनैनं मन्युरित्याह मन्युरेव तु तापसः ।। ५३ ।।

यदन्तकाल भूतानाम् एक एव नयत्यसून् ।
तेनासुनीतिरुक्तोऽयं स्तुवता श्रुतबन्धुना ।। ५४ ।।

निदाघमासातिगमे जन्म मध्ये भवत्यपाम् ।
नप्तारमाह तेनैनम् ऋषिर्गृत्समद स्तुवन् ।। ५५ ।।

अपामम्बरगर्भौघम् आदधत्सोऽष्टमासिकम् ।
यत्क्रन्दत्यसकृन्मध्ये दधिक्रास्तेन कथ्यते ।। ५६ ।।

मासेन संभृतं गर्भं नवमेनाथ मासिकम् ।
स्वयं क्रन्दन्दधात्युर्व्यां धातेत्यृग्भिः स गीयते ।। ५७ ।।

स्तीर्णेऽन्तरिक्षे क्षियति यद्वा तूर्णं क्षरत्यसौ ।
अरिष्टनेमिस्तार्क्ष्यर्षिस् तार्क्ष्यं तेनैवमुक्तवान् ।। ५८ ।।

रुवन्व्योम्न्युदयं याति कृन्तत्राद्विसृजन्नपः ।
पुरूरवसमाहैनं स्ववाक्येनोरुवासिनी । । ५९ ।।

यत्तु प्रच्यावयन्नेति घोषेण महता मृतम् ।
तेन मृत्युमिमं सन्तं स्तौति मृत्युरिति स्वयम् ।। २.६० ।।

नाम्ना संकुसुको नाम यमपुत्रो जघन्यजः ।
संवर्तयंस्तमः सूर्याद् उषसं च प्रवर्तयन् ।। ६१ ।।

उदितो भासयंल्लोकान् इमांश्चैष स्वरश्मिभिः ।
स्वयं वसिष्ठस्तेनैनम् ऋषिराह स्तुवन्भगम् ।। ६२ ।।

१२-पूषन्, विष्णु, केशिन्, विश्वानर, वृषाकपिं
पुष्यन् क्षितिं पोषयति प्रणुदन् रश्मिभिस्तमः ।
तेनैनमस्तौत्पूषेति भरद्वाजस्तु पञ्चभिः ।। ६३ ।।

त्रीणि भान्ति रजांस्यस्य यत्पदानि तु तेजसा ।
तेन मेधातिथिः प्राह विष्णुमेनं त्रिविक्रमम् ।। ६४ ।।

कृत्वा सायं पृथग्याति भूतेभ्यस्तमसोऽत्यये ।
प्रकाशं किरणैः कुर्वंस् तेनैनं केशिनं विदुः । । ६५ ।।

संप्रत्येकैकशस्त्वेनं यन्मन्यन्ते पृथङ्नराः ।
विश्वे विश्वानरस्तेन कर्मणा स्तुतिषु स्तुतः ।। ६६ ।।

वृषैष कपिलो भूत्वा यन्नाकमधिरोहति ।

वृषाकपिरसौ तेन विश्वस्मादिन्द्र उत्तरः[१] ।
रश्मिभिः कम्पयन्नेति वृषा वर्षिष्ठ एव सः ।। ६७ ।।

सायाह्नकाले भूतानि स्वापयन्नस्तमेति यत् ।
वृषाकपिरितो वा स्याद् इति मन्त्रेषु दृश्यते ।। ६८ ।।

त्रिषु धन्वेति हीन्द्रेण प्रयुक्तो वारिषाकपे ।
विष्णातेर्विशतेर्वा स्याद् वेवेष्टेर्व्याप्तिकर्मणः ।
विष्णुर्निरुच्यते सूर्यः सर्वं सर्वान्तरश्च यः ।। ६९ ।।

पञ्च षड्विंशतिश्चैव यानि नामानि सप्त च ।
सम्यगग्नीन्द्रसूर्याणां तान्युक्तानि यथाक्रमम् ।। २.७० ।।

नैपातिकानां नाम्नां तु प्रागुक्तैर्नामलक्षणैः ।
संपन्नानां पृथक्त्वेन परिसंख्या न विद्यते ।। ७१ ।।

पार्थिवी मध्यमा दिव्या वागपि त्रिविधा तु या ।
तस्याः सूक्तानि नामानि यथास्थानं निबोधत ।।
।७२।।
कृत्स्नं तु भजते सूक्तम् एषा नद्य स्तुता भुवि ।
यदा चैनं भजन्त्यापो यदा चौषधयो यदा ।। ७३ ।।

अग्नायी नामतोऽप्येषा भूत्वाग्नेयेषु केषुचित् ।
स्तुता निपातमात्रेण तत्र तत्रेह दृश्यते ।। ७५ ।।

मध्ये सत्यदितिर्वाक् च भूत्वा चैषा सरस्वती ।
समग्रं भजते सूक्तं त्रिभिरेव तु नामभिः ।। ७६ ।।

एषैव दुर्गा भूत्वर्चं कृत्वा स्यात्सूक्तभागिनी ।
तन्नामानि यमीन्द्राणी सरमा रोमशोर्वशी ।
भवत्यग्र५या सिनीवाली राका चानुमतिः कुहूः ।। ७७ ।।

गौर्धेनुर्देवपत्न्योऽघ्न्या पथ्या स्वस्तिश्च रोदसी ।
नैपातिकानि ऋग्भाञ्जि येषां नामानि कानिचित् ।। ७८ ।।

यदा तु वाग्भवत्येषा सूर्यामुं लोकमाश्रिता ।
तथा सूक्तमुषा भूत्वा सूर्या च भजतेऽखिलम् । । ७९ ।।

वृषाकपाय्यृचं भूत्वा सरण्यूर्द्वे च ते ध्रुवम् ।
निपातमात्रं भजते द्युवच्च पृथिवी सती ।। २.८० ।।

सूर्यामेव सतीमेतां गौरीं वाचं सरस्वतीम् ।
पश्यामो वैश्वदेवेषु निपातेनैव केवलाः ।। ८१ ।।

घोषा गोधा विश्ववारा अपालोपनिषन्निषत् ।
ब्रह्मजाया जहूर्नाम अगस्त्यस्य स्वसादितिः ।। ८२ ।।

इन्द्राणी चेन्द्रमाता च सरमा रोमशोर्वशी ।
लोपामुद्रा च नद्यश्च यमी नारी च शश्वती ।। ८३ ।।

श्रीर्लाक्षा सार्पराज्ञी वाक् श्रद्धा मेधा च दक्षिणा ।
रात्री सूर्या च सावित्री ब्रह्मवादिन्य ईरिताः ।। ८४ ।।

नवकः प्रथमस्त्वासां वर्गस्तुष्टाव देवताः ।
ऋषिभिर्देवताभिश्च समूदे मध्यमो गणः ।। ८५ ।।

आत्मनो भाववृत्तानि जगौ वर्गस्तथोत्तमः ।
उत्तमस्य तु वर्गस्य य ऋषिः सैव देवता ।। ८६ ।।

आत्मानमस्तौद्वर्गस्तु देवतां यस्तथोत्तमः ।
तस्मादात्मस्तवेषु स्याद् य ऋषिः सैव देवता ।। ८७ ।।

संवादेष्वाह वाक्यं यः स तु तस्मिन्भवेदृषिः ।
यस्तेनोच्येत वाक्येन देवता तत्र सा भवेत् ।। ८८ ।।

उच्चावचेषु चार्थेषु निपाताः समुदाहृताः ।
कर्मोपसंग्रहार्थे च क्वचिच्चौपम्यकारणात् ।। ८९ ।।

ऊनानां पूरणार्था वा पादानामपरे क्वचित् ।
मिताक्षरेषु ग्रन्थेषु पूरणार्थास्त्वनर्थकाः ।। २.९० ।।

कमीमिद्विति विज्ञेया ये त्वनेकार्थकाश्च ते ।
इव न चिन्नु चत्वार उपमार्था भवन्ति ते ।। ९१ ।।

उपमार्थे नकारस्तु क्वचिदेव निपात्यते ।
मिताक्षरेषु ग्रन्थेषु प्रतिषेधे त्वनल्पशः ।। ९२ ।।

इयन्त इति संख्यानं निपातानां न विद्यते ।
वशात्प्रकरणस्यैते निपात्यन्ते पदे पदे ।। ९३ ।।

उपसर्गास्तु विज्ञेयाः क्रियायोगेन विंशतिः ।
विवेचयन्ति ते ह्यर्थं नामाख्यातविभक्तिषु ।। ९४ ।।

अद्य श्रदन्तरित्येतान् आचार्यः शाकटायनः ।
उपसर्गान् क्रियायोगान् मेने ते तु त्रयोऽधिकाः ।।९५।।

त्रीण्येव लोके लिङ्गानि पुमान् स्त्री च नपुंसकम् ।
नामसूक्तप्रयोगेषु वाच्यं प्रकरणं तथा ।। ९६ ।।

तेषां तु नामभिर्लिङ्गैर् ग्रहणं सर्वनामभिः ।
कृताकृतस्य सदृशो गृहीतस्य पुनर्ग्रहः ।। ९७ ।।

पादसूक्तऋगर्धर्चनामान्यन्यानि यानि च ।
सर्वे नामानि चैवाहुर अन्ये चैवं यथा कथा ।। ९८ ।।

प्रधानमर्थः शब्दो हि तद्गुणायत्त इष्यते ।
तस्मान्नानान्वयोपायैः शब्दानर्थवशं नयेत् ।। ९९ ।।

अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् ।
विप्रकृष्टं च संदध्याद् आनुपूर्वीं च कल्पयेत् ।। २.१०० ।।

लिङ्गं धातुं विभक्तिं च संनमेत्तत्र तत्र च ।
यद्यत्स्याच्छान्दसं मन्त्रे तत्तत्कुर्यात्तु लौकिकम् ।। १०१ ।।

यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् ।
अर्थश्चाप्यभिधेयः स्यात् तावद्भिर्गुणविग्रहः ।। १ ०२।।

धातूपसर्गावयवगुणशब्दं द्विधातुजम् ।
बह्वेकधातुजं वापि पदं निर्वाच्यलक्षणम् ।। १०३ ।।

धातुजं धातुजाज्जातं समस्तार्थजमेव वा ।
वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् ।। १०४।।

द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च ।
पञ्चमस्तु बहुव्रीहिः षष्ठस्तत्पुरुषः स्मृतः ।। १०५ ।।

विग्रहान्निर्वचः कार्यं समासेष्वपि तद्धिते ।
प्रविभज्यैव निर्भूयाद् दण्डार्हो दण्ड्य इत्यपि ।। १० ६।।

भार्या रूपवती चास्य रूपवद्भार्य इत्यपि ।
इन्द्रश्च सोमश्चेत्येवम् इन्द्रासामौ निदर्शनम् ।। १०७ ।।

शब्दरूपं पदार्थश्च व्युत्पत्तिः प्रकृतिर्गुणः ।
सर्वमेतदनेकार्थं दशानवगमे गुणाः ।। १०८ ।।

सामान्यवाचिनः शब्दा विशेषे स्थापिताः क्वचित् ।
पलायने यथा वृत्तिः को नु मर्या इतीषते ।। १ ०९।।

विशेषवाचिनस्त्वन्ये सामान्ये स्थापिताः क्वचित् ।

हिमेनाग्निमिति मन्त्रे हिमशब्दो निदर्शनम् । ।
२.११० ।।
पदमेकं समादाय द्विधा कृत्वा निरूक्तवान् ।
पूरुषादः पदं यास्को वृक्षेवृक्ष इति त्वचि ।। १११ ।।

अनेकं सत्तथा चान्यद् एकमेव निरुक्तवान् ।
अरुणो मा सकृन्मन्त्रे मासकृद्विग्रहेण तु ।। ११ २।।

पदव्यवायेऽपि पदे एकीकृत्य निरुक्तवान् ।
गर्भं निधानमित्येते न जामय इति त्यृचि ।। ११३ ।।

पदजातिरविज्ञाता त्वः पदेऽर्थः शितामनि ।
स्वरानवगमोऽधायि वने नेत्यृचि दर्शितः ।। ११ ४।।

शुनःशेपं नराशंसं द्यावा नः पृथिवीति च ।
निरस्कृतेतिप्रभृतिष्व् अर्थादासीत्क्रमो यथा ।। ११५ ।।

वर्णस्य वर्णयोर्लोपो बहूनां व्यञ्जनस्य च ।
अत्राणीति कपिर्नाभा दनो यामीत्यघासु च ।। ११ ६।।

अर्थात्पदं स्वाभिधेयं पदाद्वाक्यार्थनिर्णयः ।
पदसंघातजं वाक्यं वर्णसंघातजं पदम् ।। ११७।।

अर्थात्प्रकरणाल्लिङ्गाद् औचित्याद्देशकालतः ।
मन्त्रेष्वर्थविवेकः स्याद् इतरेष्विति च स्थितिः ।। ११ ८।।

इति नानान्वयोपायैर् नैरुक्ते यो यतेत सः ।
जिज्ञासुर्ब्रह्मणो रूपम् अपि दुष्कृत्परं व्रजेत् ।।१ १ ९।।

यथेदमग्रे नैवासीद् असदप्यथवापि सत् ।
जज्ञे यथेदं सर्वं तद् भाववृत्तं वदन्ति तु ।। २.१२०।।

भावप्रधानमाख्यातं षड्विकारा भवन्ति ते ।
जन्मास्तित्वं परीणामो वृद्धिर्हानं विनाशनम् ।। १२१ ।।

एतेषामेव षण्णां तु येऽन्ये भावविकारजाः ।
ते यथावाक्यमभ्यूह्याः सामर्थ्यान्मन्त्रवित्तमैः ।। १२२।।

देवानां च पितॄणां च नमस्कारैस्तथैव च ।
अथ व्यस्तं समस्तं वा शृणु व्याहृतिदैवतम् ।। १२३।।

व्याहृतीनां समस्तानां दैवतं तु प्रजापतिः ।
व्यस्तानामयमग्निश्च वायुः सूर्यश्च देवताः ।। १२४।।

वाग्देवत्योऽथवाप्यैन्द्रो यदि वा परमेष्ठिनः ।
ओंकारो वैश्वदेवो वा ब्राह्मो दैवः क एव वा ।। १२५ ।।

आग्नेयं प्रथमं सूक्तं मधुछन्दस आर्षकम् ।
ज्ञेयाः सर्वेऽन्यदेवत्यास् तृचाः सप्तात उत्तराः ।। १ २६।।

वायव्यः प्रथमस्त्वेषाम् एन्द्रवायव उत्तरः ।
मैत्रावरुणोऽथाश्विनोऽप्यैन्द्रोऽतो वैश्वदेवकः ।। १ २७।।

तन्नामा विश्वलिङ्गो वा गायत्रोऽन्त्यस्तु यस्तृचः ।
बहुदैवतमन्यत्तु वैश्वदेवेषु शस्यते ।। १ २८।।

लुशे दुवस्यौ शार्याते गोतमेऽथ ऋजिश्वनि ।
अवत्सारे परुच्छेपे अत्रौ दीर्घतमस्यृषौ ।।१२९।।

वसिष्ठे नाभानेदिष्ठे गये मेधातिथौ मनौ ।
कक्षीवति विहव्ये च बहुष्वन्येष्वथर्षिषु ।।२.१३०।।

अगस्त्ये बृहदुक्थे च विश्वामित्रे च गाथिनि ।
दृश्यन्ते विप्रवादाश्च तासु तासु स्तुतिष्विह ।।१३१।।

बह्वीनां संनिपातस्तु यस्मिन्मन्त्रे प्रदृश्यते ।
आचार्यौ यास्कशाण्डिल्यौ वैश्वदेवं तदाहतुः ।। १३२।।

पादं वा यदि वार्धर्चम् ऋचं वा सूक्तमेव वा ।
वैश्वदेवं वदेत्सर्वं यत्किंचिद्बहुदैवतम् ।। १३३ ।।

ऋषिभिर्देवताः सर्वा विश्वाभि स्तुतिभि स्तुताः ।
संज्ञा तु विश्वमित्येषा सर्वावाप्तौ निपातिता ।। १३४।।

सारस्वतस्तु सप्तम एताः प्रउगदेवताः ।
सरस्वतीति द्विविधम् ऋक्षु सर्वासु सा स्तुता ।। १३५।।

नदावद्देवतावश्च तत्राचार्यस्तु शौनकः ।
नदीवन्निगमाः षट् ते सप्तमो नेत्युवाच ह ।। १३६।।

अम्ब्येका च दृषद्वत्यां चित्र इच्च सरस्वती ।
इयं शुष्मेभिरित्येतं मेने यास्कस्तु सप्तमम् ।। १३७।।

पशोः सारस्वतस्यैतां याज्यां मैत्रायणीयके ।
प्राधान्याद्धविषः पश्यन् वाच एवैतरोऽब्रवीत् ।। १३८।।

सुरूपकृत्नुमित्यैन्द्रं सप्त चान्यान्यतः परम् ।
षळादह स्वधामनु मारुत्योऽनन्तरा ऋचः ।। १३९।।

एका वीळु चिदिन्द्राय मरुद्भिः सह गीयते ।
तस्या एकान्तरायास्तु अर्धर्चोऽन्त्यो द्विदेवतः ।। २.१४० ।।

मरुद्गणप्रधानो हीत्थं चेन्द्रो विचिकित्सितः ।
मन्दू समानवर्चसा मन्दुना वा सवर्चसा ।। १४१

मन्दू इति प्रगृह्णन्ति येषामेव द्विदेवतः ।
एकदेवत्यमाश्राव्यो विज्ञायाध्ययनात्पदम् ।। १४२ ।।

रोदसी देवपत्नीनाम् अथर्वाङ्गिरसे यथा ।
मरुद्गणप्रधानेयम् आचार्याणां स्तुतिर्मता ।। १४३।।

मरुद्गणप्रधानत्वाद् इन्द्रस्तु विचिकित्सितः ।
मरुद्गणं महेन्द्रस्य समांशं सकलं विदुः ।। १४४।।

अग्निमित्यग्निदैवत्यं पादस्तत्र द्विदेवतः ।
निर्मथ्याहवनीयार्थाव् अग्निनाग्निः समिध्यते ।। १४५।।

‘पादो द्वधग्निदैवतो निर्मथ्याहवनीयौ’ ।
द्वितीये द्वादशर्चे तु प्रत्यृचं यास्तु देवताः ।
स्तूयन्ते ह्यग्निना सार्धं तासां नामानि मे शृणु ।। १४६।।
प्रथमायां स्तुतश्चेध्मो द्वितीयायां तनूनपात् ।
नराशंसस्तृतीयायां चतुर्थ्यां स्तूयते त्विळः ।। १४७।।

बर्हिरेव तु पञ्चम्यां द्वारो देव्यस्ततोऽन्यया ।
नक्तोषासा तु सप्तम्याम् अष्टम्यां संस्तुतौ सह ।। १४८।।

दैव्याविति तु होतारौ नवम्यामृचि संस्तुताः ।
तिस्रो देव्यो दशम्यां तु ज्ञेयस्त्वष्टैव तु स्तुतः ।। १४९।।

एकादश्यां तु सूक्तस्य स्तुतं विद्याद्वनस्पतिम् ।
द्वादश्यां तु स्तुता देवीर् विद्यात्स्वाहाकृतीरिति ।। २.१५०।।

सूक्तेऽस्मिन्प्रत्यृचं यास्तु देवता परिकीर्तिताः ।
ता एव सर्वास्वाप्रीषु द्वितीया तु विकल्पते ।। १५१ ।।

प्रैषैः सहाप्रीसूक्तानि तान्येकादश सन्ति च ।
यजूंषि प्रैषसूक्तं वा दशैतानीतराणि तु ।। १५२।।

सौत्रामणानि तु त्रीणि प्राजापत्याश्वमेधिके ।
पुरुषस्य तु यन्मेधे यजुःष्वेव तु तानि षट् ।। १५३ ।।

अत्रैव प्रैषसूक्तं स्यान् न यजुःष्वाद्रियेत तत् ।
तेषां प्रैषगतं सूक्तं यच्च दीर्घतमा जगौ ।। १५४।।

मेधातिथौ यदुक्तं च त्रीण्येवोभयवन्ति तु ।
ऋषौ गृत्समदे यच्च वाध्र्यश्वे च यदुच्यते ।। १५५।।

नराशंसवदत्रेश्च ददर्श च यदौर्वशः ।
तनूनपादगस्त्यश्च जमदग्निश्च यज्जगौ ।। १५६ ।।

विश्वामित्र ऋषिर्यश्च जगौ वै काश्यपोऽसितः ।
मेधातिथेर्ऋचां यास्तु प्रोक्ता द्वादश देवताः ।। १५७ ।।

संपद्यन्ते यथाग्निं ताः संपदं तां निबोधत ।
इध्मो यः सर्वमेवाग्निर् अयं हीध्मः समिध्यते ।।

ध्मातेर्वै तत्कृतं रूपं ध्मातो हीध्मः समिध्यते ।। १५८।।

।। इति बृहद्देवतायां द्वितीयोऽध्यायः ।।

अध्यायः ३

तनूनपादयं त्वेव नाम्ना यच्छत्यसौ तनुम् ।
नापादिति प्रजामाहुर् अमुतोऽस्य च संभवम् ।।१।।

नराशंसमिहैके तु अग्निमाहुरथेतरे ।
नराः शंसन्ति सर्वेऽस्मिन्न् आसीना इति वाध्वरे ।।२।।

एतमेवाहुरन्येऽग्निं नराशंसोऽध्वरे ह्ययम् ।
नरैः प्रशस्य आसीनैर् आहुश्चैर्ऋत्विजो नरः ।। ३ ।।

इळस्त्वृषिकृतं रूपम ईडेश्च स्तुतिकर्मणः ।
इळावांस्तेन वोक्तोऽग्निर् इडिना वर्द्धिकर्मणा ।। ४ ।।

बर्हिरेवायमग्निस्तु सर्वं हि परिबृंहितम् ।
अन्नेन यद्धतो वा सन्न् इध्मेन परिबृंहितः ।। ५ ।।

द्वारस्तु देव्यौ याः प्रोक्ता विश्वेषां तास्तु पत्नयः ।
अग्नायीमनुवर्तन्ते तथाग्नाय्यग्निमेव च।।६।।

.अग्नौ ध्रुवं स्थितास्तास्तु संस्तूयन्तेऽग्निना सह ।
प्राधान्यं तासु कैवाग्ने स्तुतिष्वेव हविःषु च ।। ७ ।।

नक्तोषासौ च ये देव्याव् आग्नेय्यावेव ते स्मृते ।
श्याव्याग्नेयी हि कालस्य तस्यैवोषाः कलेव तु ।। ८ ।।

तम उच्छत्युषा नक्तानक्तीमां हिमबिन्दुभिः ।
अपि वाव्यक्तवर्णेति नञ्पूर्वाञ्चेरिदं भवेत् ।। ९ ।।

सा हि दोषा भवत्यादौ निशीथे सा तमस्वती ।
नाम्ना भवत्युषाश्चैव सैषा प्रागुदयाद्रवेः ।। १० ।।

देव्याविति तु होताराव् अग्नि पार्थिवमध्यमौ।
दिव्यादग्नेर्हि जज्ञाते दैव्यौ तेनेह जन्मना ।। ११ ।।

तिस्रस्तु देव्यो याः प्रोक्तास् त्रिस्थानैवेह सा तु वाक् ।
त्रिविधेनोच्यते नाम्ना ज्योतिःषु त्रिषु वर्तिनी ।। १२।।

अग्निमेवानुगेळा तु मध्यं प्राप्ता सरस्वती ।
अमुं स्थिताधि लोकं तु भारती भवति ह्यसौ ।। १३ ।।

सैषा तु त्रिविधा वाग्वै दिवि च व्योम्नि चेह च ।
व्यस्ता चैव समस्ता च भजत्यग्नीनिमानपि ।। १४।।

त्वष्टा तु यस्त्वयमेव पार्थिवोऽग्निरिति स्तुतिः ।
पार्थिवस्यास्य वर्चः स्युः कस्याप्यृक् चार्तवेषु च ।।१५।।

त्विषितस्त्वक्षतेर्वा स्यात् तृर्णमश्नुत एव वा ।
कर्स्मसृऽत्तारणो वेति तेन नामैतदश्नुते ।। १६ ।।

यः सहस्रतमो रश्मी रवेश्चन्द्रमुपाश्रितः ।
सोऽपि त्वष्टारमेवाग्निं परं चेह च यन्मधु ।। १७ ।।

प्रादाद्ब्रह्मापि सुप्रीतः सुताय तदथर्वणः ।
स चाभवदृषिस्तेन ब्रह्मणा दीप्तिमत्तरः ।। १८ ।।

तमृषिं निषिषेधेन्द्रो मैवं वोचः क्वचिन्मधु ।
न हि प्राक्ते मधुन्यस्मिञ् जीवन्तंत्वोत्सृजाम्यहम् ।। १९।।

तमृषिं त्वश्विनौ देवौ विवक्ते मध्वयाचताम् ।
स च ताभ्यां तदाचष्टे यदुवाच शचीपतिः ।। २० ।।

तमब्रूतां तु नासत्याव् आश्व्येन शिरसा भवान् ।
मध्वाशु ग्राहयत्वावां मेन्द्रश्च त्वा वधीत्ततः ।।२१ ।।

आश्व्येन शिरसा तौ तु दध्यङ्ङाह यदश्विनौ ।
तदस्येन्द्रोऽहरत्स्वं तन् न्यधत्तामस्य यच्छिरः ।।२२।।

दधीचश्च शिरश्चाश्व्यं कृतं वज्रेण वज्रिणा ।
पपात सरसो मध्ये पर्वते शर्यणावतो ।। २३ ।।

तदद्भ्यस्तु समुत्थाय भूतेभ्यो विविधान्वरान् ।
प्रादाय युगपर्यन्तं यास्वेवाप्सु निमज्जति ।। २४ ।।

त्वष्टा रूपविकर्ता च योऽसौ माध्यमिके गणे ।
स्तुतः स च निपातेन सूक्तं तस्य न विद्यते ।। २५ ।।

वनस्पतिं तु यं प्राहुर् अयं सोऽग्निर्वनस्पतिः ।
अयं वनानां हि पतिः पाता पालयतीति वा ।। २६ ।।

अग्निर्गृत्समदेनायं वनस्पतिरितीळितः ।
मन्दस्वेत्यस्य सूक्तस्य षळृचस्य तृतीयया ।। २७ ।।

यूपवत्तरुवच्चैव स्तुतिर्यास्य प्रसङ्गजा ।
सर्वेणाञ्जन्ति सूक्तेन तृतीये सा तु मण्डले ।। २८ ।।

स्वाहाकृतयोऽनेकाश्च विदुषां मतयोऽभवन् ।
तत्सर्वं त्वयमेवाग्निर् भवतीति विनिश्चयः ।। २९ ।।

अयं हि कर्ता स्वाहानां कृतिस्तासामिहैकजा ।
अयं प्रसूतिर्भूतानां सर्वेषामयमव्ययः ।। ३० ।।

तनूनपाद्द्विताया च नराशंसवती च या ।
समस्येते प्रयोक्तव्ये त्रिष्वेवोभयवत्सु तु ।। ३१ ।।

नराशंसवती वा स्याद् द्वितीया च प्रजार्थिनाम् ।
बलकामोऽन्नकामो वा भूतिमिच्छेदथापि यः ।।३२।।

आग्नेयं सूक्तमैभिर्यद् वैश्वदेवमिहोच्यते ।
तद्विश्वलिङ्गं गायत्रं वैश्वदेवेषु शस्यते ।। ३३ ।।

इन्द्र सोमं पिबेतीदं यद्द्वादशकमार्तवम् ।
तस्मिन्सहर्तुना सप्त प्रत्यृचं स्तौति देवताः ।। ३४ ।।

तत्रर्तुनेति षदस्वृक्षु चतसृष्वृतुभिः सह ।
पुनर्द्वयोर्ऋतुनेति बहुत्वैकत्वलक्षिताः ।। ३५ ।।

ऋतवो देवताभिश्च निपातेनेह संस्तुताः ।
तथर्तुप्रैषसूक्ते च तथा गार्त्समदेऽपि च ।। ३६ ।।

मुख्यया त्विन्द्रमेवास्तौन् मरुतस्तु द्वितीयया ।
तृतीयया तु त्वष्टारं चतुर्थ्या चाग्निमेव च ।। ३७ ।।

पञ्चम्या तु पुनः शक्रं षष्ट्या देवावृतावृधौ ।
सप्तम्याद्याभिरग्निं च चतुर्भिर्द्रविणोदसम् ।। ३८ ।।

आदेशाद्दैवतं ज्ञेयम् ऋङ्मन्त्राणां न लिङ्गतः ।
न शक्यं लिङ्गतो ह्यासां ज्ञातुं तत्त्वेन दैवतम् ।।३९।।

एकादश्या तु नासत्यौ द्वादश्याग्निमिमं पुनः ।
पृथक्पृथक्स्तुतीदं तु सूक्तमाह रथीतरः ।। ४० ।।

बहुदैवे द्विदैवे वा गुणैर्वा यत्र कर्मजैः ।
स्तूयते देवतैकैका विभक्तस्तुति तद्विदुः ।। ४१ ।।

वैश्वदेवानि सूक्तानि त्रिविधानि भवन्ति तु ।
सूर्यसंस्तवसंयुक्तं विश्वलिङ्गं पृथक्स्तुति ।। ४२ ।।

पृथक्स्तुतीति यत्प्रोक्तं तद्विद्याद्बहुदैवतम् ।
विश्वलिङ्गं तु तद्यत्र विश्वैः स्वैः कर्मजैर्गुणैः ।। ४३ ।।

विश्वानुद्दिश्य यद्देवान् स्तौति सूर्यमनेकधा ।
देवानेवाभिसंस्तौति तं प्राहुः सूर्यसंस्तवम् ।। ४४ ।।

न तु भागस्य सूक्तादौ सक्तेष्वेवौषसेषु वा ।
न सावित्रे ह्रयामीति न सूर्यायां क्रतौ मखे ।। ४५ ।।

न चैवैवं प्रवादेषु मन्त्रेष्वन्येषु केषुचित् ।
न च यत्र सजोषेति पदं वा स्यात्सजूरिति ।। ४६ ।।

यस्मिन्प्रसङ्गादपि तु बह्वीनां परिकीर्तनम् ।
वैश्वदेवं तदप्याह स्थविरो लामकायनः ।। ४७ ।।

असंस्तुतं स्तुतं वापि प्रदिष्टं दैवतं क्वचित् ।
मन्त्रैस्तदृषयोऽर्चन्ति तां तु बुध्येत शास्त्रवित् ।। ४८ ।।

आदौ हि मध्ये चान्ते च पृथक्त्वेषु च कर्तृभिः ।
कर्माण्यनपदिष्टानि प्रदिष्टान्यपि तु क्वचित् ।।४९।।

कर्मैव तावत्सावित्र्यां निविदि स्तौति कर्मणा ।
यद्धेनुः सप्त्यनड्वाहौ वोळहा दोग्ध्याशुरेव वा ।।५०।।

भागे यत्स्तौति चाग्न्यादीन् मित्राधींश्चाश्वसंस्तुतौ ।
यदैभिरिति चैतस्मिन् वैश्व देवेऽग्निमर्चति ।। ५१ ।।

तदाहुरादावन्ते च प्रायशोऽन्या स्तुवन्नृचः ।
प्रतियोगात्प्रसङ्गाद्वा स्तौत्यन्यामपि देवताम् ।। ५२ ।।

यस्यां वदत्यर्थवादान् सा ज्ञेया सूक्तभागिनी ।
यां तु स्तौति प्रसङ्गेन सा विज्ञेया निपातिनी ।। ५३ ।।

चतुर्धा भण्यते तस्मिन् सूक्ते वा सक्तूभागिनी ।
पस्मिन्सर्वास्तु राजर्षीन् ऋषीन्वापि स्तुवन्नृषिः ।। ५४ ।।

मेधातिथिरगस्त्यस्तु बृहदुक्थो मनुर्गयः ।
ऋजिश्वा वसुकर्णश्च शार्यातो गोतमो लुशः ।। ५५ ।।

स्वस्त्यात्रेयः परुच्छेपः कक्षीवान् गाथिनौर्वशौ ।
नाभाकश्चैव निर्दिष्टो दुवस्युर्ममतासुतः ।। ५६ ।।

विहव्यः कश्यप ऋषिर् अवत्सारश्च नाम यः ।
वामदेवो मधुच्छन्दाः पार्थो दक्षसुतादितिः ।। ५७ ।।

जुहूऽर्गृत्समदश्चर्षिर् देवाः सप्तर्षयश्च ये ।
यमोऽग्निस्तापसः कुत्सः कुसीदी त्रित एव च ।। ५८ ।।

बन्धुप्रभृतयश्चैव चत्वारो भ्रातरः पृथक् ।
विष्णुश्च नेजमेषश्च नाम्ना संवननश्च यः ।। ५९ ।।

एते तु सर्व एवास्य विश्वैः स्वैः कर्मजैर्गुणैः ।
समस्तैरथ च व्यस्तैः पृथक्सूक्तेषु तुष्टुवुः ।। ६० ।।

पार्थिवौ द्रविणोदोऽग्निः पुरस्ताद्यस्तु कीर्तितः ।
तमाहुरिन्द्रं दातृत्वाद् एके तु बलवित्तयोः ।। ६१ ।।

अयं हि द्रविणोदोऽग्निर् अयं दाता बलस्य हि ।
जायते च बलेनायं मथ्यत्यृषिभिरध्वरे ।। ६२ ।।

हवींषि द्रविणं प्राहुर् हविषो यत्र जायते ।
दातारश्चर्त्विजस्तेषां द्रविणोदास्ततः स्वयम् ।।६३।।

ऋषीणां पुत्र इत्येषां दृश्यते सहसो यहो ।
मध्यमाद्वा यतो जज्ञे तस्माद्वा द्राविणोदसः ।।६४।।

द्रविणोदोऽग्निरेवायं द्रविणोदास्तदोच्यते ।
आग्नेयेष्वेव दृश्यन्ते प्रवादा द्रविणोदसः ।। ६५ ।।

ऐन्द्रस्य नवकस्येह यदैन्द्रावरुणं परम् ।
तस्योत्तरं च सोमानं स्तूयते ब्रह्मणस्पतिः ।। ६६ ।।

ऋग्भिः पञ्चभिराद्याभिस् तिसृभिः सदसस्पतिः ।
नराशंसोऽन्त्यया चर्चा सोमेन्द्रौ तु निपातितौ ।।६७।।

चतुर्थ्यां सोम इन्द्रश्च पञ्चम्यां दक्षिणाधिका ।
प्रसङ्गादृषिणा प्रोक्ताः सम्बन्धा स्थानलोकयोः ।। ६८ ।।

प्राजापत्यं तथेन्द्रः स्याद् इति तस्येह नामनी ।
कथिते द्वै च षट् चान्या एषां चाद्यः प्रजापतिः ।। ६९।।

शिष्टानि यानि नामानि तानि वक्ष्याम्यतः परम् ।
सत्पतिः कश्च कामश्च सदसस्पतिरेव च ।।७०।।

इळस्पतिर्वाचस्पतिस् ततस्तु ब्रह्मणस्पतिः ।
तृतीयान्त्ये तु सूक्तस्य प्रथमं पञ्चमं च यत् ।।७१।।

चतुर्भिरितरैस्त्वेनं न सूक्तं नाप्यृगश्नुते ।
सर्वाण्येव तु सर्वासां देवतानां प्रजापतेः ।। ७२ ।।

नामानि कथयन्त्येते सम्यग्भक्तिदिदृक्षवः ।
तदाहुनैंतदेवं स्याद् अष्टानामेष हि स्मृतः ।। ७३ ।।

तैरेव चास्य कल्प्यन्ते क्रतवश्च हवींषि च ।
मरुद्भिर्मध्यमस्थानैर् अयमग्निस्तु पार्थिवः ।। ७४ ।।

नवकेनेह सूक्तेन प्रति त्यमिति संस्तुतः ।
मरुतां साहचर्यात्तु सूक्तेऽस्मिन्नाग्रिमारुते ।। ७५ ।।

मन्यते मध्यमं चैव यान्कोऽग्निं न तु पार्थिवम् ।
स्यादयं पार्थिवस्त्वेव तथा रूपं हि दृश्यते ।। ७६ ।।

हूयसे पीतये चेति वैद्युते न तदस्ति हि ।
अथ स्यादभिधानस्य देवतायाः पृथक् पृथक् ।।७७।।

ऋचोऽर्धर्चस्य पादस्य कथं जायेत दैवतम् ।
यथा निविदि सावित्र्यां स्तूयते कर्म कर्मणा ।। ७८ ।।

दोग्ध्री धेनुर्वोढानड्वान् आशुः सप्तिः पुरंधिया ।
यथा च शंनोमित्रीया वरुणः प्राविता भुवत् ।। ७९ ।।

सूक्तप्रावेणौभिरग्ने परोक्ष्यास्तत्र देवताः ।
शब्दानां द्वैपदादीनां द्विदैवबहुदैवतम् ।। ८० ।।

असंस्तुतं संस्तुतवत् प्रदिष्टं दैवतं क्वचित् ।
यत्र द्विदैवते मन्त्र एकवद्देवतोच्यते ।। ८१ ।।

विभक्तस्तुति तद्विद्याद् बहुष्वबहुवच्च यत् ।
आशीर्वादेषु संज्ञासु कर्मसंस्थासु देवताः ।
बह्व्यो ह बहुवत्तत्र द्विपदे यत्र संस्तुते ।। ८२ ।।

सुधन्वन आङ्गिरसस्यासन्पुत्रास्त्रयः पुरा ।
ऋभुर्विभ्वा च वाजश्च शिष्यास्त्वष्टुश्च तेऽभवन् ।।८३।।

शिक्षयामास तांस्त्वष्टा त्वाष्ट्रं यत्कर्म किंचन ।
परिनिष्ठितकर्माणो विश्वे देवा उपाह्वयन् ।।८४।।

विश्वेषां ते ततश्चक्रुर् वाहनान्यायुधानि तु ।
धेनुं सबर्दुघां चक्रुर् अमृतं सवरुच्यते ।। ८५ ।।

बृहस्पतेरथाश्विभ्यां रथं दिव्यं त्रिवन्धुरम् ।
इन्द्राय च हरी देवप्रहितेनाग्निनापि यत् ।। ८६ ।।

एकं चमसमित्युक्ते ज्येष्ठ आहेत्यथो दिवि ।
उक्त्वा ततक्षुश्चमसान् यथोक्तं तेन हर्षिताः ।।८७।।

त्वष्टा च सविता चैव देवदेवः प्रजापतिः ।
सर्वान्देवान् समामन्त्र्य अमृतत्वं ददुश्च ते ।। ८८ ।।

तेषामाद्यन्त्ययोर्नाम्ना दृश्यते बहुवत्स्तवः ।
तृतीयसवने तेषां तैस्तु भागः प्रकल्पितः ।। ८९ ।।

अपिबत्सोममिन्द्रश्च तैस्तत्र सवने सह ।
तेषां स्तुतिरिदं सूक्तं त्वयमित्यष्टकं परम् ।। ९० ।।

इहेन्द्राग्नी स्तुतौ देवौ तृतीयस्वादिरश्विनौ ।
हिरण्यपाणिं सावित्र्यश् चतस्रश्चाप्यथोत्तराः ।।९१।।

एकाग्नेर्द्वे तु देवीनां द्वादश्यां देवपत्नयः ।
इन्द्राणी वरुणानी च अग्नायी च पृथक् स्तुताः ।। ९२ ।।

द्यावापृथिव्यौ द्वे च स्यात् स्योनेत्यृक् पार्थिवी स्मृता।
देवानां वात इत्येषा सूक्तशेषस्तु वैष्णवः ।। ९३ ।।

वायोस्तीव्रेन्द्रवायुभ्यां द्वृचो द्वाभ्यां ततः परम् ।
तृचो मित्रावरुणयोस् तथेन्द्राय मरुत्वते ।।९४।।

तृचो विश्वेषां देवानां पूष्ण आघृणये तृचः ।
आसक्तो हि घृणिस्तस्य दध्नः पूर्णो दृती रथे ।।९५।।

आघृणिस्तत्स्तुतः पूषा कीरिभी रिभ्यते ततः ।
यथा हि मधुनः पूर्णो दृतिरर्थ्येति चाश्विनौ ।। ९६ ।।

आ वर्तनि मधुनेति दृतिरेव च दृश्यते ।
अर्धाष्टमा अपां ज्ञेया अध्यर्धान्त्याग्निदेवता ।। ९७ ।।

कस्य नूनं तु कार्य्याद्या आग्नेय्यृक् सवितुस्तृचः ।
भगमक्तस्य भागी वा परं यच्चिच्च वारुणम् ।।९८।।

वसिष्वा हीति चाग्नेये ऋगग्नेर्मध्यमस्य तु ।
जराबोधेति विज्ञेया वैश्वदेव्युत्तमा नमः ।। ९९ ।।

पराश्चतस्रो यत्रेति इन्द्रोलूखलयो स्तुतिः ।
मन्येते यास्ककात्थक्याव् इन्द्रस्येति तु भागुरिः । । १०० ।।

यच्चिद्ध्यूलूखलस्य द्वे द्वे परे मुसलस्य तु ।
चर्माधिषवणीयं वा सोमं वान्त्या प्रशंसति ।। १०१ ।।

ऐन्द्र यच्चिद्धि सत्येति उत्तरं चाश्विनातृचात् ।
आश्विनादुत्तरः कस्त उषस्यस्तृच उत्तमः ।। १०२ ।।

स्तूयमानः शश्वदिति प्रीतस्तु मनसा ददौ ।
शुनःशेपाय दिव्यं तु रथं सर्वं हिरण्मयम् ।। १०३ ।।

आग्नेयं यत्त्वमैन्द्रे च त्रिश्चिदित्याश्विनं ततः ।
ऋतेऽर्थवादं कर्मैतद् इन्द्रस्येति तु शंसति ।। १०४ ।।

पादोऽग्नये ह्वयामीति मैत्रावरुण उत्तरः ।
तृतीयो रात्रिसंस्तावः सूक्तं सावित्रमुच्यते ।। १ ०५।।

पञ्चैतानि जगौ दृष्ट्वा सूक्तान्याङ्गिरसो मुनि ।
हिरण्यस्तूपतां प्राप्य सख्यं चेन्द्रेण शाश्वतम् ।।१ ०६।।

आग्नेयं प्रेति मरुतां क्रीळं त्रीणि पराण्यतः ।
उत्तिष्ठ ब्राह्मणस्पत्यं यं रक्षन्ति त्रयस्तृचाः ।। १०७ ।।

वरुणार्यममित्राणां मध्यं आदित्यदैवतः ।
पौष्णं सं पूषन्षड्रौद्र्यस् तृतीया न तु केवला ।।१ ०८।।

मित्रेण वरुणेनात्र विश्वेदेवैश्च संस्तवः ।
उक्तमत्रर्षिणा पूर्वम् आदेशाद्दैवतं विना ।। १०९ ।।

ज्ञातुं न शक्यते लिङ्गात् तथापि क्वचिदुच्यते ।
आदित्या वसवो रुद्रास् त्वमग्न इति संस्तुताः ।।१ १०।।

तिस्रः सौम्योऽग्न आग्नेये प्रगाथेनाश्विनौ स्तुतौ ।
सहोषसा लिङ्गभाजा अयं सोम सुदानवः ।। ११ १।।

अर्धर्चो देवदेवस्य एषो इत्याश्विने परे ।
आदित्यं मन्यते यास्को हविषेति सह स्तुतम् ।।११२।।

सहौषसे ततः सौर्यम् उदु त्यमिति संस्तुतः ।
द्युभक्तिर्येन वरुणो रोगघ्नस्तृच उत्तमः ।। ११३ ।।

रोगापनुत्तिराद्याभ्याम् उद्यन्निस्युत्तमे तृचे ।
अर्धर्चे तु द्विषद्द्वेषः ऐन्द्रः सव्यः शतर्चिषु ।। ११४ ।।

स्वयमिन्द्रसमं पुत्रम् इच्छतोऽङ्गिरसो मुनेः ।
वज्र्येव सव्यो भूत्वर्षेर् योगित्वात्पुत्रतां गतः ।। १ १५।।

प्रथमे मण्डले ज्ञेया ऋषयस्तु शतर्चिनः ।
क्षुद्रसूक्तमहासूक्ता अन्त्ये मध्येषु मध्यमाः।।११६।।

नवकं जातवेदस्यं नन् चिद् यत्तु वया इति ।
वैश्वानरीयं तत्सूक्तं वह्निमाग्नेयमुत्तरम् ।। ११७ ।।

ऐन्द्राण्यस्मै ततस्त्रीणि वृष्णो शर्धाय मारतम् ।
आग्नेयानि तु पश्वेति नवशश्वद्धि वामिति ।। १ १८।।

दशाश्विनानीमानीति इन्द्रावरुणयो स्तुतिः ।
सौपर्णेयास्तु याः काश्चिन्निपातस्तुतिषु स्तुताः ।।१ १९।।

उपप्रयन्तः सूक्तानि आग्नेयान्युत्तराणि षट् ।
हिरण्यकेशो रजसः तृचोऽग्नेर्मध्यमस्य तु ।। १२० ।।

इत्थेति पञ्च त्वैन्द्राणि यामित्यस्यां निपातिताः ।
दध्यङ् मनुरथर्वा च मारुतानि प्र ये ततः ।। १२१।।

चत्वार्या नो वैश्वदेवे द्वे देवानां स्तुतिमते ।
आ नो भद्राश्च देवानां भद्रं यावच्छतं पुनः ।। १२२।।

मधु वातास्तृचे तस्मिन् परमं मध्वपीष्यते ।
अदितिर्द्यौरिति त्वस्यां विभूतिः कथितादितेः ।।१२३।।

त्वं सौम्यमौषसम् एता उ त्यास्तृचोऽश्विनोः ।
अश्विताग्नेः ससोमस्य अग्नीषोमाविति स्तुतिः ।।१२४।।

गोतमादौशिजः कुत्सः परुच्छेपादृषेः परः ।
कुत्सद्दीर्घतमाः शश्वत् ते द्वे एवमधीयते ।।१२५।।

इमं कुत्स आङ्गिरसो ददर्श
जातवेदस्यं जगाद षोळशर्चम् ।
पूर्वो देवा इत्यृचो देवदेवास्
त्रयः पादा उत्तमायास्ततोऽर्धम् ।। १२६ ।।

तस्यैव वा यस्य तत्पूर्वसूक्तं मित्रा-
दिभ्यो वात्र षड्भ्यः प्रकृताभ्यः ।
अन्त्योऽर्धर्चस्तु वा षण्णां स्तुतानां
पूर्वो देवाः पादस्तु त्रिभि स्तुताः ।। १२७ ।।

भरद्वाजे गृत्समदे वसिष्ठे नोधस्यगस्त्ये विमदे नभाके ।
कुत्से नोदर्का बहुदैवतेषु तथा द्विदेवेषु समानधर्मिणः ।।१२८

द्वे विरूपे सूक्तमौषसायाग्नये स प्रत्नथेति द्रविणोदसेऽग्नये ।
वैश्वानरस्येति वैश्वानरीयम् अस्मात्पूर्वं शुचयेऽग्नये पुनः ।।१२९

जातवेदस्यं सूक्तसहस्रमेक
ऐन्द्रात्पूर्वं कश्यपार्षं वदन्ति ।
जातवेदसे सूक्तमाद्यं तु तेषाम्
एकभूयस्त्वं मन्यते शाकपूणिः ।। १३० ।।

स यो वृषैन्द्राणि पञ्च वैश्वदेवानि चन्द्रमाः ।
त्रीण्यैन्द्राग्ने य इन्द्राग्नी ततमित्यार्भवे परे ।। १३ १।।

त्रितं गास्त्वनुगच्छन्तं क्रूरा सालावृकीसुताः ।
कूपे प्रक्षिप्य गाः सर्वास् तत एवापजह्रिरे ।। १३२ ।।

स तत्र सुषुवे सोमं मन्त्रविन्मन्त्रवित्तमः ।
देवांश्चावाहयत्सर्वांस् तच्छुश्राव बृहस्पतिः ।। १३३ ।।

आगच्छतोऽथ तान्दृष्ट्वा क्व वसत्यस्य तत्त्वतः ।
सर्वदृक्त्वं च वरुणस्यार्यम्णश्चेत्युपालभत् ।। १३५ ।।

कूपेष्टकाभिर्व्रणितान्य् सङ्गान्येवाभयन्मम ।
दृष्ट्वा सर्वानहं स्तौमि यद्यप्येको न पश्यति ।।१ ३५।।

बृहस्पतिप्रचोदिता विश्वेदेवगणास्त्रयः ।
जग्मुस्त्रितस्य तं यज्ञं भागांश्च जगृहुः सह ।। १ ३६।।

बृहस्पतिस्त्रितस्यैतज् ज्ञानं विज्ञानमेव च ।
तृचेनान्त्येन सूक्तस्य जगादर्षिरसाविति । । १३७ । ।
द्यावापृथिव्योरीळेति आग्नेयः पाद उत्तरः ।
आश्विनः सूक्तशेषः स्याद इदं रात्र्युषसो स्तुतिः ।। १३८।।

इमा रौद्रं परं सौर्यं चित्रं पश्चाश्विनान्यतः ।
नासत्याभ्यामिति त्वन्त्ये अन्त्या दुःस्वप्ननाशिनो ।।१३९।।

ऐन्द्रं कद्वैश्वदेवं च प्रौषसे पृथुरुत्तरे ।
ऋषिर्दानं च भाव्यस्य प्रातरित्यत्र शंसति ।। १४० ।।

काक्षीवतं कदित्थेति यदैन्द्रमुपदिश्यते ।
परोक्षं वैश्वदेवं तत् प्रदिष्टं स्वरसामसु ।। १४१ ।।

अधिगम्य गुरोर्विद्यां गच्छन्स्वनिलयं किल ।
कक्षीवानध्वनि श्रान्तः सुष्वापारण्यगोचरः ।। १४२ ।।

तं राजा स्वनयो नाम भावयव्यसुतो व्रजन् ।
क्रीडार्थं सानुगोऽपश्यत् सभार्यः सपुरोहितः ।।१४३।।

अथैनं रूपसंपन्नं दृष्ट्वा देवसुतोपमम् ।
कन्यादाने मतिं चक्रे वर्णगोत्राविरोधतः ।। १४४ ।।

संबोध्यैनं स पप्रच्छ वर्णगोत्रादिकं ततः ।
राजन्नाङ्गिरसोऽस्मीति कुमारः प्रत्युवाच तम् ।। १४५ ।।

पुत्रोऽहं दीर्घतमस औचथ्यस्य ऋषेर्नृप ।
अथास्मै स ददौ कन्या दशाभरणभूषिताः ।। १४६ ।।

तावतश्च रथाञ्छ्यावान् वीड्वङ्गान्वै चतुर्युजः ।
वधूनां वाहनार्थाय धनकुप्यमजाविकम् ।। १४७ ।।

निष्काणां वृषभाणां च शतं शतमदात्पुनः ।
एतदुत्तरसूक्तेन शतमित्यादिनोदितम् ।। १४८ ।।

शतमश्वाञ्छतं निष्कान् रथान्दश वधूमतः ।
चतुर्युजो गवां चैव सहस्रं षष्ठ्युपाधिकम् ।। १४९ ।।

स्वनयाद्भावयव्याद्यः कक्षीवान्प्रत्यपद्यत ।
प्रतिगृह्य च तुष्टाव प्रातः पित्रे शशंस च ।। १५० ।।

फलप्रदर्शनं तस्य क्रियते प्रायशस्त्विह ।
द्वितीयां तु पितापश्यत् सुगुरित्यादिकामृचम् ।। १५१।।

काक्षीवतं सर्वमिति भगवानाह शौनकः ।
एषा तु दैर्घतमसी सानुलिङ्गा कथं भवेत् ।। १५२ ।।

उच्यते प्रातरित्युक्ते सूनोर्दानेन हर्षितः ।
राज्ञश्चाशिषमाहाथ सुगुरित्यादिना किल ।। १५३ ।।

कर्माणि याभिः कथितानि राज्ञां
दानानि चोच्चावचमध्यमानि ।
नाराशंसीरित्यृचस्ताः प्रतीयाद्
याभि स्तुतिर्दाशतयीषु राज्ञाम् ।। १५४ ।।

पञ्चामन्दान्भावयव्यस्य गीता जायापत्योः संप्रवादो द्वृचेन ।
संप्रवादं रोमशयेन्द्रराज्ञोर एते ऋचौ मन्यते शाकपूणिः ।।

इन्द्रे जायापत्योश्चेतिहासं द्वृचेऽस्मिन्मन्यते शाकटायनः ।
प्रादात्सुतां रोमशां नाम नाम्ना बृहस्पतिर्भावयव्याय राज्ञो।।

।। इति बृहद्देवतायां तृतीयोऽध्यायः ।।

अध्यायः ४

ततस्तमर्थं हरिवान्विदित्वा प्रियं सखायं स्वनयं दिदृक्षुः ।
अभ्याजगामाशु शचीसहायः प्रीत्यार्चयत्तं विधिनैव राजा ।। १ ।।

अभ्याजगामाङ्गिरसी च तत्र हृष्टा तयोः सा चरणौ ववन्दे ।
इन्द्रः सखित्वादथ तामुवाच रोमाणि ते सन्ति न सन्ति राज्ञि ।। २ ।।

सा बालभावादथ तं जगाद उपोप मे शक्र परामृशेति ।
तां पूर्वया सान्त्व्य नृपः प्रहृष्टो अन्वव्रजत्साथ पतिं पतिव्रतां ।। ३ ।।

अथाग्नेये अग्निमित्युत्तरे यं पञ्चैन्द्राणि प्र तदैन्दव्यृगत्र ।
शं तमिन्द्रापर्वतौ सह स्तुतौ त्विन्द्रं मेन इह यास्कः प्रधानम् ।। ४ ।।

ऋक्षु स्तुतः पर्वतवद्धि वज्रो द्विवत्स्तुतौ चेन्द्रमाहुः प्रधानम् ।
आ त्वा वायोनव पञ्चेन्द्रवाय्वोर् एका वायोरुत्तरं द्विप्रधानम् ।। ५

तत्र पञ्च वरुणमित्रदेवा दिवादिभ्यः कथिताभ्यः परे द्वे ।
द्वे द्वे पदे संस्तुते रोदसी च देवाश्चार्धर्चेन विभक्तमन्यत् ।। ६ ।।

मैत्रावरुणं सुषुमेति सूक्तं प्रप्र पौष्णं वैश्वदेवं तृतीयम् ।
अस्तु श्रौषड् वैश्वदेवं तृतीयं वैश्वदेवं स्याद्बहुदेवतेषु ।। ७ ।।

बहुशस्तु वैश्वदेवेषु सन्त्यृचः पादार्धर्चा द्वैपदास्त्रैपदाश्च ।
द्विप्रधाना अपि चैकप्रधाना बहुप्रधाना अपि वैश्वदेवाः ।।८

वैश्वदेवी मैत्रावरुणी द्वितीया तिस्रोऽश्विभ्यां तत ऐन्द्री ततोऽग्नेः ।
मारुत्येका तत ऐन्द्राग्न्यनन्तरा बार्हस्पत्या चोत्तमा स्तौति देवान् ।। ९

ऋषीनृषिर्वा स्तौति दध्यङ्ह मेऽस्याम् आत्मानं वा तेषु शंसन्स्वजन्म ।
तस्मादस्यां विप्रवदन्ति केचिद् इन्द्राग्नी तस्यां तु निपातभाजौ ।। १० ।।

द्वावुचथ्यबृहस्पती ऋषिपुत्रौ बभूवतुः ।
आसीदुचथ्यभार्या तु ममता नाम भार्गवी । । ११ ।।

तां कनीयान्बृहस्पतिर् मैथुनायोपचक्रमे ।
शुक्रस्योत्सर्गकाले तु गर्भस्तं प्रत्यभाषत ।। १२ ।।

इहास्मि पूर्वसंभूतो न कार्यः शुक्रसंकरः ।
तच्छ्रुक्रप्रतिषेधं तु न ममर्ष बृहस्पतिः ।। १३ ।।

स व्याजहार तं गर्भं तमस्ते दीर्घमस्त्विति ।
स च दीर्घतमा नाम बभूवर्षिरुचथ्यजः ।। १४ ।।

स जातोऽभ्यतपद्देवान् अकस्मादन्धतां गतः ।
ददुर्देवास्तु तन्नेत्रे ततोऽनन्धो बभूव सः ।। १५ ।।

स वेदिषद इत्यस्तोच् चतुर्भिर्जातवेदसम् ।
समिद्ध आप्रियोऽन्त्यैन्द्रो तमित्यग्नेः पराणि षट् ।। १६ ।।

स्तुतौ तु मित्रावरुणौ सूक्तैर्मित्रमिति त्रिभिः ।
मित्रं मैत्रीं वदन्येताम् आ धेनवश्च शंसति ।। १७ ।।

अदितिं वाथवाप्यग्निं तथा रूपं हि दृश्यते ।
अग्निं मेनेऽदितिं त्वेव कुत्से चेह च शौनकः । । १८ ।।

ऋषिरत्र प्रसङ्गाद्वा दर्शनाद्वानुकीर्तयेत् ।
बिष्णोर्नु कमिति त्रीणि वैष्णवानि पराण्यतः ।। १९।।

प्र वश्च तिसृभिर्ऋग्भिर् इन्द्राविष्णु सह स्तुतौ ।
गृहाणि वा वैष्णवानि ता वामित्यृचि काङ्क्षति ।।२०।।

जीर्णं तु दीर्घतमसं खिन्नास्तत्परिचारिणः ।
दासा बद्ध्वा नदीतोये दृष्टिहीनमवादधुः ।। २१ ।।

तत्रैकस्त्रैतनो नाम शस्त्रेणैनमपाहनत् ।
शिरश्चांसावुरश्चैव स्वयमेव न्यकृन्तत ।। २२ ।।

हत्वा दीर्घतमास्तं तु पापेन महता वृतम ।
आत्माङ्गान्यनुदच्चैव तत्रोदोन्मोह्नितो भृशम् ।। २३ ।।

अङ्गदेशसमीपे तु तं नद्यः समुदक्षिपन् ।
अङ्गराजगृहे युक्ताम् उशिजं पुत्रकाम्यया ।। २४ ।।

राज्ञा च प्रहितां दासीं भक्तां मत्वा महातपाः ।
जनयामास चोत्थाय कक्षीवत्प्रमुखानृषीन् ।। २५ ।।

तुष्टाव चैव सूक्ताभ्याम् अबोधीत्यश्विनावृषिः ।
प्रेति द्यावापृथिव्यौ तु पराभ्यामेतदुत्तरम् ।। २६ ।।

किमार्भवं परे मा नो मेध्यस्याश्वस्य संस्तवः ।
ईर्मान्तास इति त्वस्यां नीयमानं प्रशंसति ।। २७ ।।

स्वयूथ्यास्तस्य चैवात्र बहवः संस्तुता हयाः ।
नियुक्ताश्चानियुक्ताश्च प्रसङ्गादनुकीर्तिताः ।। २८ ।।

संज्ञप्तवदसंज्ञप्तं भविष्यं चाह भूतवत् ।
तस्य मांसस्य सूनस्य चरूणां हविषस्तथा ।। २९ ।।

वासोऽधिवाससोश्चात्र यद्विशस्यं च कीर्तितम् ।
गात्रस्य शूलस्थूणानां स्वधितेश्च प्रकीर्तनम् ।। ३०

छागस्य कीर्तनं चात्र इन्द्रापूष्णोः सह स्तुतिः ।
सूक्तं यदस्यवामीयं वैश्वदेवं तदुच्यते ।। ३१ ।।

प्रवादा विधिधास्तत्र देवानां चात्र कीर्तनम् ।
सूक्तेऽस्यर्चि परोक्षोक्ता वक्ष्यामि भ्रातरस्त्रयः ।। ३२ ।।

अग्निस्तु वामः पलितो वायुर्भ्राता तु मध्यमः ।
घृतपृष्ठस्तृतीयोऽत्र सप्त वै रश्मय स्तुताः ।। ३३ ।।

परास्तु कथयन्त्यग्निं यथा वर्षति पाति च ।
अहोरात्रान्दिनान्मासान् ऋतूंश्च परिवर्तिनः ।। ३४ ।।

पञ्चधा च त्रिधा चैव षोढा द्वादशधैव च ।
संवत्सरं चक्रवच्च पराभिः कीर्तयत्यृषिः ।। ३५ ।।

क्षेत्रज्ञानं च धेनुं च गौरीं वाचं सरस्वतीम् ।
धर्मं पूर्वयुगीयं च साध्यान्देवगणांस्तथा ।। ३६ ।।

विविधानि च कर्माणि अग्निवायुविवस्वताम् ।
विभूतिमग्नेर्वायोश्च जगति स्थास्नुजङ्गमे ।। ३७ ।।

हरणं रश्मिभिर्वारो विसर्गं पुनरेव च ।
कर्मानुकीर्तनं चात्र पर्जन्याग्निविवस्वताम् ।। ३८ ।।

मातापुत्रौ तु वाक्प्राणौ माता वागितरः सुतः ।
सरस्वन्तमिति प्राणो वाचं प्राहुः सरस्वतीम् ।। ३९ ।।

शरीरमिन्द्रियैर्युक्तं क्षेत्रमित्यभिधीयते ।
वेद तत्प्राण एवैकस् तस्मात्क्षेत्रज्ञ उच्यते ।। ४०

मेधे शकस्तस्य धूमः सलिलं वास एव वा ।
सोम उक्षा भवन्त्यस्य पावकाश्च त्रयोऽधिपाः ।। ४१ ।।

गौरीरन्तं वैश्वदेवम् उपरि स्यात्पृथक्स्तुतिः ।
इन्द्रं मित्रमिमे सौर्यौ सौरी वान्त्या सरस्वते ।।४२।।

सूक्तमल्पस्तवं त्वेतज् ज्ञानमेव प्रशंसति ।
प्रवादबहुलत्वाच्च ततः सलिलमुच्यते ।। ४३ ।।

मारुतैन्द्रस्तु संवादः कयेति परमः स्मृतः ।
मरुतामयुजस्त्वैन्द्रयो युग्माः सर्वाः सहान्त्यया ।। ४४

एकादशी प्रथमा च मारुतस्तृच उत्तरः ।
तृचस्यैव तु तत्रोक्तं कर्तृत्वमितरस्य तु ।। ४५।।

इतिहासः पुरावृत्त ऋषिभिः परिकीर्त्यते ।
समागच्छन्मरुद्भिस्तु चरन्व्योम्नि शतक्रतुः ।। ४६।।

दृष्टवा तुष्टाव तानिन्द्रस् ते चेन्द्रमृषयोऽब्रुवन् ।
तेषामगस्त्यः संवादं तपसा वेद तत्त्वतः ।। ४७।।

स तानभिजगामाशु निरुप्यैन्द्रं हविस्तदा ।
मरुतश्चाभितुष्टाव सूक्तैस्तन्न्विति च त्रिभिः ।।४८।।

महश्चिदिति चैवेन्द्रं सहस्रमिति चैतया ।
निरुप्तं तद्धविश्चैन्द्रं मरुद्भ्यो दातुमिच्छति ।। ४९।।

चिज्ञायावेक्ष्य तद्भावम् इन्द्रो नेति तमब्रवीत् ।
न श्वो नाद्यतनं ह्यस्ति वेद कस्तद्यदद्भुतम् ।।५० ।।

कस्यचित्त्वर्थसंचारे चित्तमेव विनश्यति ।
किं न इत्यब्रवीदिन्द्रम् अगस्त्यो भ्रातरस्तव ।। ५१ ।।

मरुद्भिः संप्रकल्पस्व वधीर्मा नः शतकतो ।
किं नो भ्रातरिति त्वस्याम् इन्द्रो मान्ययुपालभत् ।।५२।।

अगस्त्यस्त्वरमित्यस्यां क्षुब्धमिन्द्रं प्रशामयत् ।
प्रादात्संवननं कृत्वा तेभ्य एव च तद्धविः ।।५३ ।।

सुते चकार सोमेऽथ तानिन्द्रः सोमपीथिनः ।
तस्माद्विद्यान्निपातेन सेन्द्रेषु मरुत स्तुतान् ।। ५४ ।।

प्रीतात्मा पुनरेवर्षिस् तांस्तुष्टाव पृथक्पृथक् ।
मरुतः प्रति सूक्ताभ्याम् इन्द्रं षड्भिः परस्तु सः ।। ५५ ।।

स्तुतश्चतसृभिश्चेन्द्र स्तुतास इति तैः सह ।
मरुद्भिः सह यत्रेन्द्रो मरुत्वांस्तत्र सोऽभवत् ।। ५६।।

ऋतौ स्नातामृषिर्भार्यां लोपमुद्रां यशस्विनीम् ।
उपजल्पितुमारेभे रहःसंयोगकाम्यया ।। ५७

द्वाभ्यां सा त्वब्रवीदृग्भ्यां पूर्वीरिति चिकीर्षितम् ।
रिरंसुस्तामथागस्त्य उत्तराभ्यामतोषयत् ।।५८।।

विदित्वा तपसा सर्वं तयोर्भावं रिरंसतोः ।
श्रुत्वैनः कृतवानस्मि ब्रह्मचार्युत्तमे जगौ ।।५९।।

प्रशास्य तं परिष्वज्य गुरू मूर्ध्न्यवजघ्रतुः ।
स्मित्वैनमाहतुश्चोभाव् अनागा असि पुत्रक । । ६ ०।।

युवो रजांसीति ततः सूक्तैः पञ्चभिरश्विनौ ।
अगस्त्य एव तुष्टाव कतरेति परेण तु ।। ६१

द्यावापृथिव्यौ सूक्तेन आ नो विश्वान्दिवौकसः ।
पितुमन्नं समिद्धाप्र्यो अग्निमग्ने नयेति च । । ६ २।।

बृहस्पतेरनर्वाणं कङ्कतोपनिषत्परम् ।
अपां तृणानां सूर्यस्य केचिदेतां स्तुतिं विदुः । । ६३ । ।
ददर्श तदगस्त्यो वा विषघ्नं विषशङ्कया ।
अदृष्टाख्यो नष्टरूपः सूक्तस्यानयोऽत्र तु द्वृचः ।। ६४।।

अस्तौद्गृत्समदोऽग्निं च जातवेदस्यमाप्रियः ।
यज्ञेनाथ समिद्धोऽग्निर् अतोऽग्निं सप्तभिर्हुवे । ।६५। ।
संयुज्य तपसात्मानम् ऐन्द्रं बिभ्रन्महद्वपुः ।
अदृश्यत मुहूर्तेन दिवि च व्योम्नि चेह च ।। ६६

तमिन्द्रमिति मत्वा तु दैत्यौ भीमपराक्रमौ ।
धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः ।। ६७ ।।

विदित्वा स तयोर्भावम् ऋषिः पापं चिकीर्षतोः ।
यो जात इति सूक्तेन कर्माण्यैन्द्राण्यकीर्तयत् ।। ६८ ।।

उक्तेषु कर्मस्वैन्द्रेषु भीस्तावाशु विवेश ह ।
इदमन्तरमित्युक्त्वा ताविन्द्रस्तु निबर्हयत् ।। ६९ ।।

निहत्य तौ गृत्समदम् ऋषिं शक्रोऽभ्यभाषत ।
यथेष्टं मां सखे पश्य प्रियत्वं आगतोऽसि मे ।। ७० ।।

वरं गृहाण मत्तस्त्वम् अक्षयं चास्तु ते तपः ।
प्रह्वस्तं प्रत्युवाचर्षिर् अस्माकं वदतां वर ।। ७१ ।।

तनूनामस्तु चारिष्टिर् वाक् चास्तु हृदयंगमा ।
सुवीरा रयिमन्तश्च वयं त्वामिन्द्र धीमहे ।। ७२ ।।

इन्द्र त्वां च विजानीमो वयं जन्मनि जन्मनि ।
त्वद्गतञ्चैष मे भावो पापागस्त्वं रथीतरः ।। ७३ ।।

निरुक्तं तदिदं वार्यम् इन्द्र श्रेष्ठान्यृचान्त्यया ।
वव्रे वरमिदं सर्वं तदाकर्ण्य शचीपतिः ।। ७४ ।।

तथेत्युक्त्वा तुराषाट् तु पाणौ जग्राह दक्षिणे।
ऋषिश्चास्य सखित्वेन पाणिना पाणिमस्पृशत् । । ७५ । ।
सहितौ जग्मतुश्चैवं महेन्द्रसदनं प्रति ।
तत्रैनमार्हयत्प्रीत्या स्वयमेव पुरंदरः । । ७६ ।।

कर्मणा विधिदृष्टेन तमृषिं चाभ्यपूजयत् ।
सखित्वाच्च पुनश्चैनम् उवाच हरिवाहनः ।। ७७ ।।

गृणन्मादयसे यस्मात् त्वमस्मानृषिसत्तम ।
तस्माद्गृत्समदो नाम शौनहोत्रो भविष्यसि । । ७८ ।।

ततो द्वादशभिः सूक्तैस् तुष्टावेन्द्रं श्रुधीत्यृषिः ।
ददर्श संस्तुवन्नेव तत्र स ब्रह्मणस्पतिम् ।।७९ ।।

बृहस्पतिं तु तुष्टाव दृष्टलिङ्गाभिरेव च ।
स तमप्यभितुष्टाव चतुर्भिरित उत्तरैः ।। ८० ।।

गणानां विश्वमित्यस्यां सहेन्द्राब्राह्मणस्पती ।
बृहस्पतिं प्रसङ्गाद्वा ब्रह्मणस्पतिमेव च ।। ८१ ।।

तुष्टाव कर्मणैकेन प्रभावस्यान्तरं द्वयोः ।
मित्रावरुणदक्षांशातुविजातभगार्यम्णाम् । ।८२। ।
आदित्यानामिमाः सूक्तम् इदं वारुणमुच्यते ।
वारुणी यो म इत्याद्या दुःस्वप्नाद्यप्रणाशिनी ।।८३ ।।

धृतव्रता वैश्वदेवम् शतमैन्द्रं परं तु यत् ।
प्र हि क्रतुमिति त्वस्याम् इन्द्रासोमौ सह स्तुतौ ।।८४

सरस्वती त्वमित्यस्मिन्न् अर्धर्चं मध्यमा तु वाक् ।
बृहस्पतिस्तुतिर्यो नस् तं व ऋङ् मरुतां स्तुतिः ।।८५।।

अस्माकं वैश्वदेवं स्याद् आदावस्येति चास्य ऋक् ।
द्यावापृथिव्योस्त्वाष्ट्र्यौ वा अथवैन्द्र्यौ परे ततः ।।८६ ।।

द्वे द्वै राकासिनोवाल्योः षड् गुङ्ग्वाद्यास्तथान्त्यया ।
तत्पूर्वं द्वे ऋचौ कुह्वाः कुहूमहमिति स्मृते ।।८७

तदुत्तरे द्वेऽनुमतैर अनु नोऽन्विदिति स्मृते ।
धातुश्चतस्रस्तत्रादो धाता ददातु नो रयिम् ।। ८८ ।।

रौद्रं मारुतं तु प्ररम् आ ते धारावरा इति ।
वामतस्तु मृगं दृष्ट्वा बिभ्यदेत्य ऋषिः स्वयम् ।। ८९ ।।

स्तुहि श्रुतमिति त्वस्यां तमेवास्तौत्प्रसादयन् ।
अपां नपादुपेत्यत्र स्तुतः सूक्ते ततः परे ।। ९० ।।

तुभ्यमित्यार्तवे सूक्तं सावित्रादाश्विनं परम् ।
सोमः पूषादितिश्चैव सोमपौष्णेऽन्त्यया स्तुताः ।। ९१ ।।

वायव्ये चैन्द्रवायवी पञ्चाथ प्राउगास्तृचाः ।
प्रेत्यृक्स्तौति हविर्धाने अग्निस्तत्र निपातभाक् ।
द्यावापृथिव्यौ द्यावेति हविर्धाने ततः परे ।। ९२ ।।

स्तुतिं तु पुनरेवेच्छन्न् इन्द्रो भूत्वा कपिञ्जलः ।
ऋषेर्जिगमिषोराशां ववाशास्थाय दक्षिणाम् । । ९३ । ।
स तमार्षेण संप्रेक्ष्य चक्षुषा पक्षिरूपिणम् ।
पराभ्यामभितुष्टाव सूक्ताभ्यां तु कनिक्रदत् ।। ९४ ।।

प्रशास्य गां यस्तपसाभ्यगच्छद् ब्रह्मर्षितामेकशतं च पुत्रान् ।
स गथिपुत्रस्तु जगाद सूक्तं सोमस्य मेत्याग्नेयं यत्परे च ।। ९५ ।।

वैश्वानरीये समित्समिदाप्र्यो द्वे आग्नेये उत्तरे त्वत्र सूक्ते ।
द्यावापृथिव्या उषसो निपाता आपोऽथ देवाः पितरश्च मित्रः । । ९६ ।।

आग्नेयेषु दृश्यन्ते स्तुतास्तु वैश्वानरो वरुणो जातवेदाः ।
स्तुयेतैका यत्र यत्रास्तुतिर्वा निपात्यर्थांश्चोपमार्थांश्च विद्यात् । । ९७ ।।

राजर्षयो गृत्समदा वसिष्ठा भरद्वाजाः कुशिका गोतमाश्च ।
विश्वेऽश्विनावङ्गिरसोऽत्रयोऽदितिर् भोजाः कण्वा भृगवो रोदसी दिशः । । ९८ ।।

सावित्रसौभ्याश्विनमारुतेषु ऐन्द्राग्नेये रौद्रसौर्यौषसेषु ।
आदावन्ते सक्तमध्ये स्तुतास्तु न व्याघ्नन्ति देवताः सूक्तभाजः ।। ९९ ।।

अग्नेः सप्तदशोऽध्याय ऊर्ध्वं ऊ षु ण ऊतये ।
एते काण्व्यावृचौ यौप्याव् अञ्जन्ति पञ्च च । । १०० ।।

शेषा बहुभ्यो यूपेभ्यो वैश्वदेवी त्वृगष्टमी ।
अस्यान्त्या व्रश्चना योक्ता षष्ठमैन्द्राग्नमुच्यते । । १०१ ।।

अग्निमुषसं वैश्वदेवो दधिक्रामिति चैतया ।
आग्नेन्द्री त्वग्न इन्द्रश्चर्क् परो वैश्वानरस्तृचः ।। १०२ ।।

प्र यन्तु मारुतञ्चान्त्या शतधारं गुरुस्तवः ।
प्र वो वाजा ऋतून्स्तौति ऋत्विज स्तौति मन्थत ।। १०३ ।।

पुरोष्यास इति त्वस्यां धिष्ण्यानग्नीन्प्रशंसति ।
ज्ञेयाश्चैव तु होतारम् ते दैव्याश्चैव तत्र तु ।। १०४ ।।

त्रयोविंशतिरैन्द्राणि इच्छन्तीति पराण्यतः ।
सूक्ते प्रेति तु नद्यश्च विश्वामित्रः समूदिरे ।। १०५।।

पुरोहितः सन्निज्यार्थं सुदासा सह यन्नृषिः ।
विपाट्छुतुद्रयोः संभेदं शमित्येते उवाच ह ।। १०६ ।।

प्रवादास्तत्र दृश्यन्ते द्विवद्बहुवदेकवत् ।
अच्छेत्यर्धर्चे पच्छो वा नदीष्वप्येकवन्नि ते ।। १०७ ।।

आद्ये द्वृचे द्विवत्सार्धे विश्वामित्रवचः श्रुतेः ।
एताभिर्ऋग्भिर्वा नद्य ऋषि बहुवदूचिरे ।। १०८ ।।

षष्ट्याष्टम्या चतुर्थ्या च दशम्या चेतरा ऋषेः ।
सप्तम्यामृचि षष्ठ्यां च यौ देवौ परिकीर्तितौ ।। १०९ ।।

निपातिनौ तु तौ ज्ञेयौ ऐन्द्रापार्वत्यृगुत्तमे ।
करोति पुत्रिकां नाम यथा दुहितरं तथा । । ११० । ।
तस्यां सिञ्चति रेतो वा तच्छासदिति कीर्तितम् ।
रिक्थस्य दुहितुर्दानं नेत्यृचि प्रतिषिध्यते ।। १११

तस्याश्चाह यवीयांसं भ्रातरं ज्येष्ठवत्सुतम् ।
सुदासश्च महायज्ञे शक्तिना गाथिसूनवे ।। ११२ ।।

निगृहीतं बलाच्चेतः सोऽवसीदद्विचेतनः ।
तस्मै ब्राह्मीं तु सौरीं वा नाम्ना वाचं ससर्परीम् । । ११३ । ।
सूर्यक्षयादिहाहृत्य ददुस्ते जमदग्नयः ।
कुशिकानां ततः सा वाग् अमतिं तामपाहनत् ।। ११४ ।।

उपेति चास्यां च कुशिकान् विश्वामित्रोऽनुबोधयत् ।
लब्ध्वा वाचं च हृष्टात्मा तानृषीन्प्रत्यपूजयत् ।।११५

ससर्परीरिति द्वाभ्याम् ऋग्भ्यां वाचं स्तुवन्स्वयम् ।
स्थिरावित्यनसोऽङ्गान्यनडुहश्च गृहान्व्रजन् ।। ११६ ।।

ततश्च स्वशरीरेण गृहान्गच्छन्परीददे ।
पराश्चतस्रो यास्त्वत्र वसिष्ठद्वेषिण्यः स्मृताः । । ११७ ।।

विश्वामित्रेण ताः प्रोक्ता अभिशापा इति स्मृताः ।
द्विषद्द्वेषास्तु ता प्रोक्ता विद्याश्चैवाभिचारिकाः ।। ११८ ।।

वसिष्ठास्ता न शृण्वन्ति तदाचार्यकसंमतम् ।
कीर्तनाच्छ्रवणाद्वापि महादोषश्च जायते ।। ११ ९।।

शतधा भिद्यते मूर्धा कीर्तितेन श्रुतेन वा ।
तेषां बालाः प्रमीयन्ते तस्मात्तास्तु न कीर्तयेत् ।। १२० ।।

विश्वांश्च देवांस्तुष्टाव चतुर्भिरिममित्यृषिः ।
अस्तौद्विश्वात्मना सर्वान् मन्यमानः परं पदम् । । १२१ ।।

देवानामसुरत्वं तद् एकं महदितीरयन् ।
अश्विनौ मित्र ऋभवो धेनुर्मित्र इहेह वः ।। १ २२।।

वैश्वदेवीति विज्ञेया मैत्री मित्राय पञ्च तु ।
ऐन्द्रार्भवस्तृचस्त्वत्र आर्भवे सूक्त उत्तमः ।। १२३ ।।

पूर्वे द्वृचे निपातीन्द्र उषो वाजेन पञ्चमात् ।
औषसादुत्तरास्त्वन्त्ये षट् पृथग्देवतास्तृचाः ।
ऐन्द्रावरुणः प्रथमो बार्हस्पत्यस्तथापरः ।। १२४ ।।

पौष्णसावित्रसौम्याश्च मैत्रावरुण उत्तमः ।
तुष्टाव जमदग्निश्च तेन देवावृतावृधौ ।। १२५ ।।

देवर्षिपितृपूजार्थं पापाचान्त्रचाणि यच्छुनः ।
यस्य वै श्येनरूपेण आहरद्वृत्रहा मधु ।। १२६ ।।

सोऽग्निं तु पञ्चदशभिर् इन्द्रं षोडशभिः परैः ।
ऋषिस्त्वामिति तुष्टाव सूक्तैरेति तु गौतमः ।। १ २७।।

स भ्रातरमिति त्वासु तिसृष्वग्निर्निपातभाक् ।
वरुणेनाभिसंस्तौति आहुरन्ये निपातिनम् । । १२८ ।।

लिङ्गोक्तदैवते सूक्ते एके प्रत्यग्निरेव तु ।
ऋषिर्बोधदिति द्वाभ्यां स्तौति सोमकमेव तु ।। १ २९।।

तस्यैव चायुषोऽर्थाय पराभ्यामश्विनौ स्तुतौ ।
अञ्जसा न जनिष्येऽहं ब्रुवाणं गर्भमेव तु ।। १३० ।।

अन्वशाददितिः पुत्रम् इन्द्रमात्महितैषिणी ।
स जातमात्रो युद्धाय ऋषिमेवाजुहाव तु ।। १३१

गोधयन्वामदेवस्तं कृत्वात्मनि बलं तथा ।
दिनानि दश रात्रीश्च विजिग्ये चैनमोजसा ।। १३२ ।।

स तं क इममित्यस्यां विक्रीणन्नृषिसंसदि ।
स्वयं तेनामितुष्टाव नकिरिन्द्रेति गौतमः ।। १३२ ।।

किमादुतासीति चास्यां मन्युमर्धे पराणुदत् ।
अथास्य रूपवीर्याणि धैर्यकार्याणि तान्यृषिः ।। १३४ ।।

विविधानि च कर्माणि शशंसादितये तथा ।
अहमित्यात्मसंस्तावस् तृचे स्तुतिरिवास्य हि ।। १३५ ।।

प्र सु ष विभ्यो नवभिर् ऋग्भिः श्येनस्य संस्तवः ।
पराभिस्त्वेति पञ्चर्चे सोमेनेन्द्र स्तुतः सह ।। १३६ ।।

सोमप्रधानामैतां तु क्रौष्टुकिर्मन्यते स्तुतिम् ।
दिवश्चिदिति चैतेन तृचेनेन्द्रेण संस्तुताम् । । १ ३७।।

उषसं मध्यमां मेने आचार्यः शाकटायनः ।
वाममृचि स्तुताश्चात्र भगः पूषेति चार्यमा ।। १ ३८।।

करूळतीति पूषोक्तोऽदन्तकः स इति श्रुतेः ।
अस्माकमुत्तमं सूर्यं स्तौतित्याहाश्वलायनः ।। १३ ९।।

इन्द्रस्य हरयो ह्यश्वा अग्नेरश्वास्तु रोहितः ।
सूर्यस्य हरितश्चैव वायोर्नियुत एव च ।। १४० ।।

रासभः सहितोऽश्विभ्याम् अजाः पूष्णश्च वाजिनः ।
पृषत्योऽश्वास्तु मरुतां गावोऽरुण्यस्तथोषसाम् ।। १४१ ।।

सवितुर्वाजिनः श्यावा विश्वरूपा बृहस्पतेः ।
सहैते देवताभिस्तु स्तूयन्तेऽप्यल्पशोऽन्यथा ।। १४२ ।।

आयुषं वाहनं चापि स्तुतौ यस्येह दृश्यते ।
तमेव तु स्तुतं विद्यात् तस्यात्मा बहुधा हि सः ।। १४३ ।।

कनीनका तूक्तशेषो हर्यो स्तुतिरिहोच्यते ।
चात्वार्यतश्च विज्ञेयान्यू अप्रगृह्याणि विद्रधे ।। १४४ ।।

।। इति बृहद्देवतायां चतुर्थोऽध्यायः ।।

अध्यायः ५

प्रेति पञ्चार्भवं त्रीणि दाधिक्राणि पराण्यतः।
ऋग्द्यावापृथिव्यौ स्तौति दाधिक्राणां मुखे तु या ॥१॥

परोक्षैरमुतो वाग्भिर नामभिश्च स्तुतास्त्रयः।
अग्निर्वायुश्च सूर्यश्च हंसः शुचिषदित्यृचि ॥२॥

नियुक्ता सूर्यदेवत्या हंस इत्यैतरेयके ।
द्वै त्वैन्द्रावरुणे सूक्ते ततस्त्रीण्याश्विनानि कः ॥३॥

अग्रं वायो विहीत्येषु वायव्याः सप्त कीर्तिताः ।
नव चैवेन्द्रवायव्या इन्द्रस्तिस्रः शतेन षट् ॥ ४॥

इदं कथितदेवत्यं यस्तस्तम्भोत्तमो द्वृचः।
स्तुतिरिन्द्राबृहस्पत्योर् अष्टावेता ऋचः स्मृताः॥५॥

सूक्तं तु तद्बार्हस्पत्यम् इदमित्यौषसे परे।
पुरोधातुः कर्मशंसा स इन्द्राजोच्यते तृचे ॥६॥

तत्सावित्रे द्वे तु को वैश्वदेवं मही द्यावापृथिवीयं परं तु यत् ।
क्षेत्रस्येति तिस्रस्तु क्षैत्रपत्याः शुनं वाहाः शुनदेवी त्वृगुत्तरा ॥ ७॥

वायुः शुनः सूर्य एवात्र सीरः शुनासीरौ वायुसूर्यौ वदन्ति ।
शुनासीरं यास्क इन्द्रं तु मेने सूर्येन्द्रौ तौ मन्यते शाकपूणिः ॥ ८॥

शुनासीरौ पञ्चम्यां तु स्तुतौ तौ द्वे तु सीतायै षष्ठी सप्तमी च ।
शुनं नः फालाः कृषिं स्तौति पादः शुनं कीनाशाः कृषिजीवान्मनुष्यान् ॥ ९॥

स्तुतः पादेऽत्र पर्जन्यस्तृतीये अन्त्यं त्वृषिर्धनकामो जगाद ।
कृषिं वा स्तौति सर्वं हि सूक्तं समुद्रादित्यग्नेर्मध्यमस्य ॥१०॥

आदित्यं वा ब्राह्मणोक्तं प्रदिष्टम् आग्नेयं वाप्याज्यसूक्तं हि दृष्टम् ।
अपां स्तुतिं वा यदि घृतस्तुतिं गव्यमेके सौर्यमेतद्वदन्ति ॥ ११ ॥

स्वर्भानुदृष्टं सूर्यस्य अपहत्य तमोऽत्रयः।
सप्तविंशतिभिः सूक्तैर् अबोधीत्यग्निमस्तुवन् ॥१२॥

त्रैवृष्णस्त्रसदस्युश्च अश्वमेध ऋणंचयः।
स्तूयमानाः परीक्ष्याः स्युर् अत्रिष्वेते क्वचित्क्वचित् ॥१३॥

ऐक्ष्वाकुस्त्र्यरुणो रात्रा त्रैवृष्णो रथमास्थितः।
संजग्राहाश्वरश्मींश्च वृशो जानः पुरोहितः॥१४॥

स ब्राह्मणकुमारस्य रथो गच्छञ्छिरोऽच्छिनत् ।
एनस्वीत्यब्रवीच्चैव स राजैनं पुरोहितम् ॥ १५॥

सोऽथर्वाङ्गिरसान्मन्त्रान् दृष्ट्वा संजीव्य तं शिशुम् ।
क्रोधात्संत्यज्य राजानम् अन्यदेशं समाश्रितः ॥१६॥

हरोऽव्यग्नेर्ननाशास्य तस्यापक्रमणादृषेः।
अग्नौ प्रास्तानि हव्यानि न ह्यपच्यन्त कानिचित् ॥१७॥

ततः प्रव्यथितो राजा सोऽभिगम्य प्रसाद्य तम् ।
आभीत्वा स वृशं जानं पुनरेव पुरोदधे ॥१८॥

स प्रसन्नो वृशोऽन्वैच्छद् धरमग्नेर्नृपक्षये ।
अविन्दत पिशाचीं तां जायां तस्य च भूपतेः ॥ १९ ॥

निषणः स तया सार्धम् आसन्द्यां कशिपावपि ।
तामुपामन्त्रयां चक्रे कमेतं त्वमिति त्वृचा ॥ २० ॥

हरः कुमाररूपेण ब्रुवंस्तामभ्यभाषत ।
विज्योतिषेति चोक्तायां सहसाग्निरुदज्वलत् ॥ २१॥

सहमानः समायान्तं प्रकाशं च प्रकाशयन् ।
पिशाचीमदहत्तां स यत्र चोपविवेश सा ॥ २२॥

एव एव परामृष्टो भाल्लविब्राह्मणे द्वृचः।
निदानसंज्ञके ग्रन्थे छन्दोगानामिति श्रुतिः ॥ २३॥

भवेदेव परामर्शः सूक्तस्यास्य व्यपेक्षया।
भवन्ति बाह्या मन्त्रा हि विधिदृष्टेन चोदिताः ॥ २४ ॥

दृश्यन्ते ब्राह्मणे मन्त्रा एकदेशे प्रदर्शिताः।
जामदग्न्यस्तथैवाप्र्य स्तोकीयाश्चैतरेयके ॥ २५॥

आप्रियः सुसमिद्धाय पञ्चमं सूक्तमत्र तु।
एवमृग्वैश्वदेवी वा अन्त्या चैन्द्राग्न्युपोत्तमे ॥२६

ऐन्द्राणि द्वादश त्रीति उशना त्वत्र संस्तुतः।
उशनेति तु पादेन सं ह यद्वामनेन च ॥ २७ ॥

इन्द्राकुत्सेति चैतस्यां कुत्सेनेन्द्र स्तुतः सह ।
यत्त्वा सूर्येति चात्रीणां पञ्चर्ये कर्म कीर्त्यते ॥ २८॥

अनस्वन्तेति सूक्तेऽस्मिन्न् आग्नेयेऽत्रिर्ऋषिः स्वयम् ।
दानतुष्टः शशंसैतान् राजर्षीनिति केचन ॥ २९ ॥

आशीरध्येषणाच्चैभ्यो अग्निं प्रति च दृश्यते ।
अयुतं च गवां त्रीणि शतान्यथ च विंशतिम् ॥ ३०॥

सौवर्णं शकटं गोभ्यां त्र्यरुणोऽदान्नृपोऽत्रये ।
अश्वमेधः शतं चोक्ष्णां त्रसदस्युर्धनं बहु ॥ ३१ ॥

राज्ञः प्रति च तत्सूक्तं बभाष इति केचन।
आत्मा हि नात्मने दद्याद् अग्रहीन्नृपतेर्ऋषिः ॥ ३२ ॥

अत्रेः सुतमृषिं बभ्रुम् आर्त्विज्याय ऋणंचयः।।

सहस्रदक्षिणे सोमे वव्रे तं सोऽप्ययाजयत् ॥ ३३ ॥

ददौ च रौशमो राजा सहस्राणि शतानि च।
तस्मै चत्वारि चत्वारि महावीरं च काञ्चनम् ॥ ३४ ॥

प्रवर्ग्येषु महावीराः सौवर्णास्तस्य चाभवन् ।
प्रतिगृह्य ऋषिर्गच्छन् मध्यमेनाग्निना पथि ॥ ३५॥

पृष्ट इन्द्रेण चाचख्यौ भद्रं चतसृभिश्च तत् ।
को नु वां वैश्वदेवानि एकादश पराण्यतः ॥ ३६॥

मारुतानि दश प्रेति इळाभीत्यृचि तु स्तुता।
उदित्यृचि तृतीयायां सविता शौनकोऽब्रवीत् ॥ ३७॥

उपेति बार्हस्पत्यस्तु तृचो मारुत्यृगुत्तरा ।
तमु ष्टुहीति रौद्री तु प्र सुष्टुतिरिति त्वृचि ॥ ३८॥

शौनकादिभिराचार्येर् देवता बहुधेरिता ।
इळस्पतिं शाकपूणिः पर्जन्याग्नी तु गालवः ॥ ३९॥

यास्कस्तु पूषणं मेने स्तुतमिन्द्रं तु शौनकः।
वैश्वानरं भागुरिस्तु मारुत्येष समाश्विना ॥ ४० ॥

वायव्याध्वर्यवः सौमी दशेत्यैन्द्री परा तु या।
अग्निं धर्मं पराञ्जन्ति अश्विनौ स्तोत्यृगच्छ च॥४१॥

प्रेति वायुं पूषणं च अर्धर्चेऽग्निरिहोच्यते ।
प्रथमेऽथ द्वितीये च स्तुता एति दिवौकसः॥४२॥

आ वाचं मध्यमां स्तौति ततोऽन्या तु बृहस्पतिम् ।
ज्यायांसमिति चादित्यं प्र वो वायुरिहोच्यते ॥४३॥

तं प्रत्नथेति सौमो वा दैव्यैन्द्री वा प्रजापतेः।
परोक्षवैश्वदेवं तद् आह कौषीतकिः स्वयम् ॥४४॥

तेषु तृतीयमित्युक्तं देवान्हुव इदं परम् ।
देवानां पत्नीरिति तु देवपत्न्यो द्वृचे स्तुताः ॥४५॥

अयं चतुर्णामिति चेन्द्रवायू त्रिभि स्तुतौ वायवा याहि वायुम् ।
रथं त्वृचा रोदसी स्तूयतेऽत्र यस्या स्तुता मरुतो रुद्रपत्न्याः ॥४६॥

आ रुद्रास इति त्वस्यां रुद्राणां संस्तुतो गणः ।
मरुतां तु गणस्यैतन् नाम रुद्रा इति स्मृताः ॥४७॥

असावग्निरयं चोभाव् अग्नी पार्थिवमध्यमौ ।
अग्ने मरुद्भिरित्यस्यां मरुद्भिः सह संस्तुतौ ॥४८॥

मध्यमा वाक स्त्रियः सर्वाः पुमान् सर्वश्च मध्यमः।
गणाश्च सर्वे मरुतो गुणभेदात्पृथक् पृथक् ॥४९॥

राजर्षिरभवद्दार्भ्यो रथवीतिरिति श्रुतः ।
स यक्ष्यमाणो राजात्रिम् अभिगम्य प्रसाद्य च ॥५०॥
द्र. ऋ. ५.६१
आत्मानं कार्यमर्थं च ख्यापयन्प्राञ्जलि स्थितः।
अवृणीतर्षिमात्रेयम् आर्त्विज्यायार्चनानसम् ॥५१॥

स सपुत्रोऽभ्यगच्छत्तं राजानं यज्ञसिद्धये ।
श्यावश्वश्चात्रिपुत्रस्य पुत्रः खल्वर्चनानसः॥५२॥

साङ्गोपाङ्गान्सर्ववेदान् यः पित्राध्यापितो मुदा।
अर्चनानाः सपुत्रोऽथ गत्वा नृपमयाजयत् ॥ ५३ ॥

यज्ञे च विततेऽपश्यद् राजपुत्रीं यशस्विनीम् ।
स्नुषा मे राजपुत्री स्याद् इति तस्य मनोऽभवत् ॥ ५४॥

श्यावाश्वस्य च तस्यां वै सक्तमासीत्तदा मनः।
संयुज्यस्व मया राजन्न् इति याज्यं च सोऽब्रवीत् ॥५५॥

श्यावाश्वाय सुतां दित्सुर् महिषीं स्वां नृपोऽब्रवीत् ।
किं ते मतमहं कन्यां श्यावाश्वाय ददामि हि ॥५६॥

अत्रिपुत्रोऽदुर्बलो हि जामाता त्वावयोरिति ।
राजानमब्रवीत्सापि नृपर्षिकुलजा ह्यहम् ॥५॥

नानृषिर्नौ तु जामाता नैष मन्त्रान् हि दृष्टवान् ।
ऋषये दीयतां कन्या वेदस्याम्बा भवेत्तथा।
ऋषिर्मन्त्रदृशं वेदपितरं मन्यते यतः ॥५८॥

प्रत्याचष्टे स तं राजा सह संमन्त्र्य भार्यया।
अनृऋषिर्नैव जामाता कश्चिद्भवितुमर्हति ॥५९॥

प्रत्याख्यात ऋषिस्तेन वृत्ते यज्ञे न्यवर्तत ।
श्यावाश्वस्य तु कन्याया मनो नैव न्यवर्तत ॥६०॥

ततस्तौ तु निवर्तेताम् उभावेवाभिजग्मतुः।
शशीयसीं तरन्तं च पुरुमीळहं च पार्थिवम् ॥६१॥

तरन्तपुरमीळ्हौ तु राजानौ वैददश्व्यृषी।
ताभ्यां तौ चक्रतुः पूजाम् ऋषिभ्यां नृपती स्वयम् ॥१२॥

ऋषिपुत्रं महिष्याश्च दर्शयामास तं नृपः।
तरन्तानुमता चैव प्रादाद्बहुविधं वसु ॥६३॥

अजाविकं गवाश्वं च श्यावाश्वाय शशीयसी ।
अत्रिं याज्यार्चितो गत्वा पितापुत्रौ स्वमाश्रमम् ॥६४॥

अभ्यवादयतामत्रिं महर्षिं दीप्ततेजसम् ।
श्यावाश्वस्य मनस्यासीन् मन्त्रस्यादर्शनादहम् ॥६५॥

न लब्धवानहं कन्यां हन्त सर्वाङ्गशोभनाम् ।
अप्यहं मन्त्रदर्शी स्यां भवेद्धर्षो महान्मम ॥ ६६॥

इत्यरण्ये चिन्तयतः प्रादुरासीन्मरुद्गणः।
ददर्श संस्थितान्पार्श्वे तुल्यरूपानिवात्मनः ॥ ६७॥

समानवयसश्चैव मरुतो रुक्मवक्षसः।
तांस्तुल्यवयसो दृष्ट्वा देवान्पुरुषविग्रहान् ॥ ६८॥

श्यावाश्वो विस्मितोऽपृच्छत् के ष्ठेति मरुतस्तदा ।
ततस्तु मरुतो देवान् रुद्रसूनूनबुध्वत ॥ ६९ ॥

य ईं वहन्त इत्याभिर् बुद्ध्वा तुष्टाव तांस्तथा ।
अतिक्रमं हि तं मेने ऋषिर्विपुलमात्मनः ॥ ७० ॥

यन्न दृष्ट्वैव तुष्टाव यच्च के ष्ठेति पृष्ठवान् ।
स्तुता स्तुत्या तथा प्रीता गच्छन्तः पृश्निमातरः॥ ७१ ॥

अवमुच्य स्ववश्नोभ्यो रुक्मं तस्मै तदा ददुः।
मरुत्सु तु प्रयातेषु श्यावाश्वः सुमहायशाः ॥ ७२॥

रथवीतेर्दुहितरम् अगच्छन्मनसा तदा।
स सद्य ऋषिरात्मानं प्रवक्ष्यन् रथवीतये ॥ ७३ ॥

एतं मे स्तोममित्याभ्यां दौत्ये रात्रीं न्ययोजयत् ।
रथवीतिमपश्यन्तीं संप्रेक्ष्यार्षेण चक्षुषा ।। ७४ ॥

रम्ये हिमवतः पृष्ठे एष क्षेतीति चाब्रवीत् ।
ऋषेर्नियोगमाज्ञाय देव्या रात्र्या प्रचोदितः ॥ ७२ ।।

आदाय कन्यां तां दार्भ्य उपेयायार्चनानसम् ।
पादौ तस्योपसंगृह्य स्थित्वा प्रह्वः कृताञ्जलिः॥ ७६॥

रथवीतिरहं दार्भ्य इति नाम शशंस च।
मया संगतिमिच्छन्तं त्वां प्रत्याचक्षि यत्पुरा ॥ ७७ ॥

तत्क्षमस्व नमस्तेऽस्तु मा च मे भगवन्क्रुधः ।
ऋषेः पुत्रः स्वयमृषिः पितासि भगवन्नृषेः ॥ ७८ ॥

हन्त प्रतिगृहाणेमां स्नुषामित्येवमब्रवीत् ।
पाद्यार्घ्यमधुपर्कैश्च पूजयित्वा स्वयं नृपः ॥ ७९ ॥

शुक्लमश्वशतं दत्त्वा अनुजज्ञे गृहान्प्रति ।
शशीयसीं तरन्तं च पुरुमीळ्हं च पार्थिवम् ॥ ८० ॥

षडभिःसनदिति स्तुत्वा जगामर्षिरपि क्षयम् ।
ऋतेन मैत्रावरुणान्य् एकादश पराणि तु ॥ ८१ ॥

षडश्विनानि गर्भार्थं पञ्चर्चोपनिषत्स्तुतिः।
सप्त कृत्वापराधान्यै विफले दारसंग्रहे ॥ ८२ ॥

ऋषिः कृतोऽश्वमेधेन भारतेनेति वै श्रुतिः।
तमष्टमेऽपराधे तु वृक्षद्रोण्यां स पार्थिवः ॥ ८३ ॥

ऋबोसे ह विनिक्षिप्य स्कन्नं रात्रौ न्यधारयत् ।
सोऽश्विनाविति सूक्तेन तुष्टावर्षिः शुभस्पती ।। ८४॥

तौ तं तस्मात्समुद्धृत्य चक्रतुः सफलं पुनः ।
तृचः स्वस्यैव गर्भार्थं स्वपतस्तस्य गर्भवत् ॥ ८५ ॥

यथा वात इति ज्ञेये त्वश्विन्यामितरे ऋचौ।
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् ॥ ८६ ॥

भाववृत्तं तु तद्वत्स्यात् तथारूपं हि दृश्यते।
जरायुगर्भशब्दाभ्याम् एतद्रूपं हि दृश्यते ॥ ८७॥

महे उषस्ये सावित्रे युञ्जतेऽच्छेति वै स्तुतः।
पर्जन्यो बलिति त्वस्मिन् पृथिवी मध्यमा स्तुता ॥८८॥

अद्या नो देव सवितर् इयं दुःस्वप्ननाशनी ।
वारुणं तु प्र सम्राजे इन्द्राग्न्यैन्द्राग्नमुत्तरम् ॥ ८९ ॥

विष्णुन्यङ्गं परं प्रेति मारुतं सूक्तमुत्तमम् ।
एवयामरुदाख्यातं द्योर्नैन्द्रं प्रतिपूर्वकम् ॥९०॥

श्रीसूक्तमाशीर्वादस्तु श्रीपुत्राणां पराणि षट् ।
तत्स्याद्वा लक्ष्म्यपनुदम् अग्निस्तत्र निपातभाक् ॥९१॥

प्रजावज्जीवपुत्रौ वा गर्भकर्मणि संस्तुतौ ।
नानारूपा पयस्विन्यः संस्रवन्तीति संस्तुताः ॥९२॥

आशीर्वादेषु संज्ञाषु कर्मसंस्थासु देवता ।
निपातभाग् लिङ्गवाक्यात् परीक्षेतेह मन्त्रवित् ॥९३॥

मन्त्र प्रयोगमन्त्रयोः प्रयोगो बलवत्तरः ।
विधेस्तयोः परीक्षा स्यान् मन्त्राः स्युरभिधायकाः ॥९४॥

तस्मात्तेन विसंवादो मन्त्राणां तद्गतानि तु ।
गुणाभिधायकानि स्युः संविज्ञानपदानि तु ॥९५॥

मन्त्रेषु गुणभूतेषु प्रधानेषु च कर्मसु ।
प्रधानगुणभूताः स्युर् देवता इति गम्यते ॥९६॥

त्रिसांवत्सरिकं सत्त्रं प्रजाकामः प्रजापतिः।
आहरत्सहितः साध्यैर् विश्वैर्देवैः सहेति च ॥ ९७ ॥

तत्र वाग्दीक्षणीयायाम् आजगाम शरीरिणी।
तां दृष्ट्वा युगपत्तत्र कस्थाथ वरुणस्य च ॥९८॥

शुक्रं चस्कन्द तद्वायुर् अग्नौ प्रास्यद्यदृच्छया।
ततोऽर्चिभ्यो भृगुर्जज्ञे अङ्गारेष्वङ्गिरा ऋषिः ॥ ९९॥

प्रजापति सुतौ दृष्ट्वा दृष्टा वागभ्यभाषत।
आभ्यामृषिस्तृतीयोऽपि भवेदत्रैव मे सुतः ॥१००॥

प्रजापतिस्तथेत्युक्तः प्रत्यभाषत भारतीम् ।।

ऋषिरत्रिस्ततो जज्ञे सूर्यानलसमद्युतिः ॥ १०१॥

योऽङ्गारेभ्य ऋषिर्जज्ञे तस्य पुत्रो बृहस्पतिः।
बृहस्पतेर्भरद्वाजो विदथीति य उच्यते ॥ १०२॥

मरुत्स्वासीद्गुरुर्यश्च स एवाङ्गिरसो नपात् ।
सपुत्रस्य तु तस्यैतन् मण्डलं षष्ठमुच्यते ॥ १०३ ॥

त्वं ह्यग्न इति तत्रादाव् आग्नेयानि त्रयोदश।
सूक्तानि त्रीणि मूर्धानत् अग्नेर्वैश्वानरस्य तु ॥ १०४ ॥

एकान्नत्रिंशदेवात्र पिबेत्यैन्द्राण्यतः परम् ।
अग्ने स क्षेषदित्यस्यां देवौ यौ तु निपातितौ ॥ १०५॥

प्रोतये नू म इत्येते वैश्वदेव्यावृचौ स्मृते ।
ऋग्द्वितीया पदं चान्त्यम् ऐन्द्रमेति गवां स्तुतिः ॥१०६॥

आसस्राणास इत्यस्यां वायुरिन्द्रश्च संस्तुतौ ।
इन्द्रः प्राधान्यतो वात्र स्तुतो वायुर्निपातभाक् ॥ १०७॥

अयं देवस्तृचं सौम्यम् ऐन्द्रमेके प्रचक्षते ।
य आनयदिति त्वस्य तृचोऽधीति बृबुस्तुतिः॥ १०८ ॥

पितरं स्तौति शंयुश्च तृचस्यान्त्ये पदे स्वकम् ।
स्वादुष्किलायमिति तु सौम्यः पञ्चर्च उत्तरः ॥ १०९॥

इन्द्रः प्रधानतो वात्र स्तुतः सोमो निपातभाक्।
इन्द्रस्येन्द्रयोऽनुपानीयाः श्रूयन्ते ह्यैतरेयके ॥११०॥

अगव्यूति स्तौति देवान् पादो भूमिमथोत्तरः।
बृहस्पतिं तृतीयस्तु इन्द्रमेवोत्तमं पदम् ॥ १११ ॥

वनस्पते वीड्वङ्गः परं यत् तदाचार्या भाववृत्तं वदन्ति ।
ऋचस्तु तिस्रस्तु रथाभिमर्शना उपेति तिस्रो दुन्दुभेः संस्तवोऽत्र ॥ ११२ ॥

समश्वपर्णा इति चार्यमैन्द्रं दशादितोऽग्नेस्तृणपाणिकस्य।
तृचः परो मारुतः पृश्निसूक्ते द्वृचः परो वैश्वदेवः पुनश्च ॥

आदित्यो वा मारुत एव वा स्याद्
आ मा पूषन्निति पौष्णाश्चतस्रः।
द्वृचं परं मारुतं तत्र विद्याद्
अन्त्या द्युभ्वोः कीर्तना पृश्नये वा ॥११४॥

स्तुषे सूक्तानि वै चत्वारि वैश्वदेवान्यतः परम् ।
द्वितीयाग्निं चतुर्थी च वायुं पञ्चम्यथाश्विनौ ॥ ११५॥

स्तौत्यृक् तु सप्तमी वाचम् अत्र पूषणमष्टमी ।
त्वष्टारं नवमो रुद्रं भुवनस्येत्यथोत्तरे ॥ ११६ ॥

मारुत्यौ यो रजांसीति विष्णुमेव जगावृषिः।
अभ्यन्द्रयेति च सावित्री रौदस्याग्नेव्युताश्विनी॥११७॥

अग्नीपर्जन्यावनयो सौर्यौ चोदु त्यदित्यृचौ ।
वयं चत्वारि पौष्णानि त्वैन्द्रापौष्णस्य चोत्तरम् ॥११८॥

रथीतमं कपर्दिनं रौद्रमेके प्रचक्षते ।
ऐन्द्राग्ने प्र नु वोचेति इयं सारस्वतं स्तुषे ॥ ११९॥

आश्विने चोषसे चैव मारुतं तु वपुर्न्विति।
उपेति च द्वृचेऽश्विभ्याम् आराधनं च शंसति ॥१२०॥

मैत्रावरुणमेवैकं विश्वेषां वः सतामिति ।
श्रुष्टीति चैन्द्रावरणं समैन्द्रावैष्णवं परम् ॥ १२१ ॥

द्यावापृथिव्यौ सविता इन्द्रासोमौ बृहस्पतिः।
पृथक्पृथक् परैः सूक्तैः सोमारुद्रेति तौ स्तुतौ ॥१२२॥

चक्रं रथो मणिर्भार्या भूमिरश्वो गजस्तथा।
एतानि सप्त रत्नानि सर्वेषां चक्रवर्तिनाम् ॥ १२३ ॥

अभ्यावर्ती चायमानः प्रस्तोकश्चैव सार्ञ्जयः ।
आजग्मतुर्भरद्वाजं जितौ वारशिखैर्युधि ॥ १२४ ॥

अभिगम्योचतुस्तौ तं प्रसाद्याख्याय नामनी ।
युधि वारशिवैर्ब्रह्मन्न् आवां विद्धि विनिर्जितौ ॥१२५॥

भवत्पुरोहितावावां क्षत्रबन्धूञ्जयेवहि ।
क्षत्रं तदपि विज्ञेयं ब्रह्म यत्पाति शाश्वतम् ॥ १२६ ॥

ऋषिस्तौ तु तथेत्युक्त्वा पायुं पुत्रमभाषत।
अधर्षणीयौ शत्रूणां कुरुष्वैतौ नृपाविति ॥ १२७ ॥

पितरं स तथेत्युक्त्वा युद्धोपकरणं तयोः ।
जीमूतस्येति सूक्तेन पृथक्त्वेनान्वमन्त्रयत् ॥ १२८॥

प्रथमा त्वस्य सूक्तस्य योद्धारं स्तौति वर्मिणम् ।
धनुषश्च द्वितीया तु तृतीया ज्याभिमन्त्रिणी ॥१२९॥

स्तौत्यृगार्त्नी तु इषुधिं स्तौति पञ्चमी ।
अर्धेन सारथिः षष्ठ्या रश्मयोऽर्धेन संस्तुतः ॥ १३०॥

अश्वांस्तु सप्तमी स्तौति आयुधागारमष्टमी।
नवमी रथगोपांस्तु दशमी रणदेवताः ॥ १३१॥

इषुं चैकादशी स्तौति द्वादशी कवचस्तुतिः।
त्रयोदशी कशां स्तौति हस्तत्राणं चतुर्दशी ॥१३२॥

प्रथमे पञ्चदश्यास्तु पादे दिग्ध इषु स्तुतः।
अयोमुखी द्वितीये तु अर्धेऽस्त्रं वारुणं परे ॥ १३३ ॥

षोळश्यां त्वस्य सूक्तस्य धनुर्मुक्त इषु स्तुतः।
सप्तदश्यां तु युद्धादेः कवचस्य तु बध्यतः॥ १३४ ॥

स्तुतिरष्टादशी ज्ञेया युयुत्सो स्तुतिरुत्तमा।
आशास्ते चोत्तमे पादे ऋषिरात्मन अशिषः ॥ १३५॥

सूक्तनानेन तु स्तुत्वा संग्रामाङ्गान्यृषिस्तयोः।
ततः प्रस्थापयामास पुनर्वारशिखान्प्रति ॥ १३३ ॥

एतत्त्यत्ते चतसृभी राज्ञो साहाय्यकाम्यया।
भरद्वाजोऽभितुष्टाव प्रोतस्तेन पुरंदरः ॥ १३७॥

अभ्यावर्तिनमभ्येत्य हर्युपीयानदीतटे ।
सहितश्चायमानेन जघानैनान्छचीपतिः ॥ १३८॥

तौ तु वारशिखाञ्जित्वा ततोऽभ्यावर्तिसार्ञ्जयौ।
भरद्वाजाय गुरवे ददतुर्विविधं वसु ॥१३९॥

भरद्वाजश्च गर्गश्च दृष्टाविन्द्रेण वै पथि ।
द्वयान् प्रस्तोक इत्याभिर् दानं तद्वै शशंसतुः ॥१४०॥

ऋषिरप्यभितुष्टाव दानं तत्र च तस्य तु ।
ऋचैकया द्वयाँ अग्ने दत्तं संकीर्तयन् स्वयम् ॥ १४१॥

प्रसङ्गात्त्विह याः सूक्ते देवताः परिकीर्तिताः।
ता एव सूक्तभाजस्तु मेने रथीतर स्तुतौ ॥ १४२ ॥

प्राजापत्यो मरीचिर्हि मारीचः कश्यपो मुनिः।
तस्य देव्योऽभवञ्जाया दाक्षायण्यस्त्रयोदश ॥ १४३ ॥

अदितिदितिर्दनुः काला दनायुः सिंहिका मुनिः।
क्रोधा विश्वा वरिष्टा च सुरभिर्विनता तथा ॥ १४४ ॥

कद्रूश्चैवेति दुहितः कश्यपाय ददौ स च ।
तासु देवासुराश्चैव गन्धर्वोरगराक्षसाः ॥ १४५ ॥

वयांसि व पिशाचाश्च जज्ञिरेऽन्याश्च जातयः।
तत्रैका त्वदितिर्देवी द्वादशजनयत्सुतान् ॥ १४६ ॥

भगश्चैवार्यमांशश्च मित्रो वरुण एव च ।
धाता चैव विधाता च विवस्वांश्च महाद्युतिः ॥ १४७॥

त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।
द्वन्द्वं तस्यास्तु तज्जज्ञे मित्रश्च वरुणश्च ह ॥ १४८ ॥

तयोरादित्ययोः सत्त्रे दृष्ट्वाप्सरसमुर्वशीम् ।
रेतश्चस्कन्द तत्कुम्भे न्यपतद्वासतीवरे ॥ १४९ ॥

तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ ।
अगस्त्यश्च वसिष्ठश्च तत्रर्षी संबभूवतः॥ १५०॥

बहुधा पतिते शुक्रे कलशेऽथ जले स्थले।।

स्थले वसिष्ठस्तु मुनिः संभूत ऋषिसत्तमः ॥ १५१ ॥

कुम्भे त्वगस्त्यः संभूतो जले मत्स्यो महाद्युतिः।
उदियाय ततोऽगस्त्यः शम्यामात्रो महायशाः ॥१५२॥

मानेन संमितो यस्मात् तस्मान्मान्य इहोच्यते ।
यद्वा कुम्भादृषिर्जातः कुम्भेनापि हि मीयते ॥१५३॥

कुम्भ इत्यभिधानं तु परिमाणस्य लक्ष्यते।
ततोऽप्सु गुह्यमाणासु वसिष्ठः पुष्करे स्थितः ॥१५४॥

नामास्य गुणतो जज्ञे वसतेः श्रैष्ठ्यकर्मणः ।
अदृश्यमृषिभिर्हीन्द्रं सोऽपश्यत्तपसा पुरा ॥ १५६ ॥

सोमभागानथो तस्मै प्रोवाच हरिवाहनः ।
ऋषयो वा इन्द्रमिति ब्राह्मणात्तद्धि दृश्यते ॥ १५७ ॥

वसिष्ठश्च वसिष्ठाश्च ब्राह्मणा ब्रह्मकर्मणि ।
सर्वकर्मसु यज्ञेषु दक्षिणीयतमास्तथा ॥ १५८ ॥

तस्माद्येऽद्यापि वासिष्ठाः सदस्याः स्युस्तु कर्हिचित् ।
अर्हयेद्दक्षिणाभिस्तान् भाल्लवेयी श्रुतिस्त्वियम् ॥१५९॥

ऋषिस्तु मैत्रावरुणिः सूक्तैः षोळशभिः परैः।
तुष्टावाग्निमिति त्वग्निम् आप्र्यस्तत्र जुषस्व नः ॥१६०॥

प्राग्नयेऽथ प्र सम्राजो द्वितीयं प्राग्नये तृचम् ।
वैश्वानरीयाण्येतानि त्वे हैन्द्राणि पराण्यतः॥१६१ ॥

दश पञ्च च सूक्तानि निपातो मरुतां स्तुतिः।
नकिः सुदास इत्यस्यां दानं पैजवनस्य तु ॥ १६२ ॥

वसिष्ठेन चतुर्भिस्तु द्वे नप्तुरिति कीर्तितम् ।।

संवादं सूक्तमैन्द्रं वा श्वित्यञ्चस्तु प्रचक्षते ॥ १६३ ॥

वसिष्ठागस्त्ययोरत्र कीर्त्यते तनयैः सह ।
इन्द्रेण चैव संवादो महिमा जन्म कर्म च ॥ १६४॥

पराणि प्रेति चत्वारि वैश्वदेवानि तत्र तु।
स्तोत्यृगब्जामहिं तत्र मा नोऽहिं बुध्न्यमेव च ॥ १६५ ॥

अहिराहन्ति मेघान्स एति वा तेषु मध्यमः।
योऽहिः स बुध्न्यो वुध्ने हि णोऽन्तरिक्षेऽभिजायते॥१६६

उदु ष्य सवितुः सूक्तं शं नो वाजिनदैवतः।
द्वृचोऽर्धर्चश्च भागोऽत्र भगमुग्र इति श्रुतिः ॥ १६७ ॥

पादश्चैव तृतीयोऽत्र पञ्चम्यामहिदैवतः।
यथार्धर्चो भगमुग्रस् तथा नूनं भगोऽपि च ॥ १६८ ॥

स हि रत्नानि सविता सुवातीति भगः स वा।
वैश्वदेवानि पञ्चोर्ध्वः पञ्चर्चो भगदैवतः॥ १६९॥

प्रातर्जितमुषस्यान्त्या द्रष्टृभ्योऽत्राशिरेव वा।
एके तु द्रातरित्यस्यां भगमेव प्रचक्षते ॥१७० ॥

आदावन्ते तु ऋषयः कीर्तयन्ति प्रसङ्गतः।
सूक्तेऽस्मिन्देवतास्त्वन्या अन्यास्तत्र भवन्ति च ॥

सालोक्यात्साहचर्याद्वा संस्तवादथवा पुनः ।
गणस्थानाद्भक्तितो वा कीर्त्यन्तेऽन्यास्तु देवताः ॥

दाधिक्रमथ सावित्रं रौद्रमित्यनुपूर्वशः।
दाधिके प्रथमायास्तु देवताः परिकीर्तिताः ॥ १७३ ॥

ता ज्ञेया आप आप्यं स्याद् आर्भवः प्रथमस्तृचः।
उत्तमा वैश्वदेवी वा आर्भवी वा निगद्यते ॥ १७४ ॥

वैश्वदेवे तथा शास्त्रे आर्भवं शस्यते हि तत् ।
दशमेऽह्नि समस्तं समुद्रज्येष्ठा अपां स्तुतिः ॥ १७५ ॥

इति बृहद्देवतायां पञ्चमोऽध्यायः ॥

अध्यायः ६

१- ऋग्वेद ७.५०-६६ के देवता
आ मामिति तु सूक्तेन प्रत्यृचं देवता स्तुताः ।
मित्रवरुणावग्निश्च देवा नद्यस्तथैव च ।। १ ।।

तृचावादित्यदेवत्यौ रोदस्योः प्रेति यस्तृचः ।
वास्तोष्पत्यश्चतस्रस्तु सप्त प्रस्वापिन्यः स्मृताः ।। २ ।।

परं चत्वारि सूक्तानि मारुतानि क ईमिति ।
तेषां तु पितरं देवं त्र्यम्बकं स्तौत्यृगुत्तमा ।। ३ ।।

स्तुतौ तु मित्रावरुणौ सूक्तैर्यदिति सप्तभिः ।
अश्विनौ तु परैर्देवाव् अष्टभिः प्रति वामिति ।। ४ ।।

यदद्यैकोत्सूर्यस्तिस्र उद्वेतीत्यर्धपञ्चमाः ।
सौर्यस्तच्चक्षुरिति तु गीयते चक्षुर्देवता ।। ५ ।।

२-ऋग्वेद ७.६६-८५ के देवता
आदित्यानां तद्वो अद्य द्वे ऋचौ शौनकोऽब्रवीत् ।
अन्याः सर्वा ऋचः सौर्यो यदद्याद्याः प्रकीर्तिताः ।। ६ ।।

इमे चेतार इत्याद्याः सत्रे मित्रो मितः स्तुतः ।
अर्यम्णो वरुणस्यापि मित्रस्यैता नव स्मृताः ।। ७ ।।

यदद्य सूर इत्याद्या दशादित्या ऋचः स्मृताः ।
सविता वादितिर्मित्रो वरुणश्चार्यमा भगः ।। ८ ।।

स्तुता उदु त्यदित्येतास् तिस्रः सौर्यस्ततः पराः ।
आशीस्तच्चक्षुरित्येताम् आचार्यः शौनकोऽब्रवीत् ।। ९ ।।

उषास्तु सप्तभिर्व्युषाः सूक्तान्येभ्यः पराणि तु ।
चत्वारीन्द्रावरुणेति इन्द्रावरुणयो स्तुतिः ।। १० ।।

३-वसिष्ठ क्षीर वरुण का कुत्ता ः ऋग्वेद ७.८६-८९
उदु ज्योतिरिति त्वस्मिन्न् अर्धर्चे मध्यम स्तुतः ।
वरुणस्य गृहान्नात्रौ वसिष्ठः स्वप्न आचरत् ।। ११ ।।

प्राविवेशाथ तं तत्र श्वा नदन्नभ्यधावत ।
क्रन्दन्तं सारमेयं स धावन्तं दष्टुसुद्यतम् ।। १२ ।।

यदर्जुनेति च द्वाभ्यां सान्त्वयित्वा व्यसुष्वपत् ।
स तं प्रस्वापयामास जनमन्यं च वारुणम् ।। १३ ।।

ततस्तु वरुणो राजा स्वैः पाशैः प्रत्यबध्यत ।
स बद्धः पितरं सूक्तैश् चतुर्भिरित उत्तरैः ।। १४ ।।

अभितुष्टाव धीरेति मुमोचैर्न ततः पिता ।
ध्रुवासु त्वेति चोक्तायां पाशा अस्मात्प्रमोचिरे ।। १५ ।।

४-ऋग्वेद ७.९०-९६ के देवता ।
पराणि त्रीणि सक्तानि वायव्यानि प्र वीरया ।
अत्र तास्त्वैन्द्रवायव्या स्तुतौ यासु द्विवत्स्तुतिः ।। १६ ।।

प्र वीरयोक्ता वायव्या प्राउगीत्यैतरेयके ।
पदस्य व्यत्ययं कृत्वा वायोः प्राधान्यमुच्यते ।। १७ ।।

ते सत्येन तृचो यावत् तरश्चतुर्ऋचः पुनः ।
उशन्तैका प्र सोता चर्ग द्वयोरेता नव स्मृताः ।। १८ ।।

एन्द्राग्ने शुचिमित्येते प्रेति सारस्वते परे ।
ऋचा सरस्वान् स इति जनीयन्तश्च तिसृभिः ।। १९ ।।

५-नाहुषऔर सरस्वतीती की कथा ः ऋग्वेद ७.९५-९६
राजा वर्षसहस्राय दीक्षिष्यन्नाहुषः पुरा ।
चचारैकरथेनेमां ब्रुवन् सर्वाः समुद्रगाः ।। २० ।।

यक्ष्ये वहत भागान्मे द्वन्द्वशो वाथवैकशः ।
प्रत्यूचुस्तं नृपं नद्यः स्वल्पवीर्याः कथं वयम् ।। २१ ।।

वहेम भागात्सर्वांस्ते सत्रे वार्यसहस्रिके ।
सरस्वतीं प्रपद्यस्व सा ते वक्ष्यति नाहुष ।। २२ ।।

तथेत्युक्त्वा जगामाशु आपगां स सरस्वतीम् ।
सा चैनं प्रतिजग्राह दुदुहे च पयो घृतम् ।। २३ ।।

एतदत्यद्भुतं कर्म सरस्वत्या नृपं प्रति ।
वारुणिः कीर्तयामास प्रथमस्य द्वितीयया ।। २४ ।।

६-ऋग्वेद ७. ९७-१०४ के देवता ।
यज्ञे बार्हस्पत्यमैन्द्रं वैष्णवे तु परे ततः ।
उरुमैन्द्र्यश्च तिस्रः स्युः पार्जन्ये तिस्र उत्तरे ।। २५ ।।

स्तौतीन्द्रं प्रथमा त्वत्र द्वितीयाद्या बृहस्पतिम् ।
यज्ञ आद्येन्द्रमेवास्तौद् अन्त्या त्विन्द्राबृहस्पती ।।२६।।

तृतीया नवमी चैव स्तौतीन्द्राब्रह्मणस्पति ।
संवत्सरं तु मण्डूकान् ऐन्द्रासोमं परं तु यत् ।। २७ ।।

ऋषिर्ददर्श राक्षोघ्नं पुत्रशोकपरिप्लुतः ।
हते पुत्रशते तस्मिन् सौदासैर्दुःखितस्तदा ।। २८ ।।

७-ऋग्वेद ७. १०४ का विस्तृत विवरण ।
ये पाकशंसमृक्सौम्या आग्नेयी तत् उत्तरा ।
एकादशी वैश्वदेवी सौम्यस्तस्याः परो द्वृचः ।। २९ ।।

यदि वाहमृगाग्नेयी ऐन्द्री यो मेति तु स्मृता ।
ग्राव्णी प्र या जिगातोति वि तिष्ठध्वं तु मारुती ।।३०।।

प्र वर्तयेति पञ्चेन्द्र्य पेन्द्रासोमी त्वृगुत्तमा ।
ऋषिस्त्वाशिषमाशास्ते मा नो रक्ष इति त्वृचि ।।३ १।।

दिवि चैव पृथिव्यां च तथा पालनमात्मनः ।
उलूकयातुं जह्येतान् नानारूपान्निशाचरान् ।।३२।।

पञ्चदश्यां तु सूक्तस्य अष्टम्यां चैव वारुणिः ।
दुःखशोकपरीतात्मा शपते विलपन्निव ।। ३३ ।।

हते पुत्रशते तस्मिन् वसिष्ठो दुःखितस्तदा ।
रक्षोभूतेन शापात्तु सुदासेनेति वै श्रुतिः ।। ३४।।

अष्टम मण्डल
८-कण्व श्री- प्रगाथ की कथा
कण्वश्चैव प्रगाथश्च घोरपुत्रौ बभूवतुः ।
गुरुणा तावनुज्ञाताव् ऊषतुः सहितौ वने ।। ३५ ।।

वसतोस्तु तयोस्तत्र कण्वपत्न्या शिरः स्वपत् ।
कृत्वा कनीयान्कण्वस्य उत्सङ्गे नान्वबुध्यत ।। ३६ ।।

शप्तुकामस्तु तं कण्वः क्रुद्धः पापाभिशङ्कया ।
बोधयामास पादेन दिधक्षन्निव तेजसा ।। ३७ ।।

विदित्वा तस्य तं भावं प्रगाथः प्राञ्जलि स्थितः ।
मातृत्वे च पितृत्वे च वरयामास तावुभौ ।। ३८ ।।

स घौरो वाथ काण्वो वा वंशजैर्बहुभिः सह ।
ददर्शान्यैश्च सहित ऋषिर्मण्डलमष्टमम् ।। ३९ ।।

९-ऋग्वेद ८.१-२१ के देवता
माचिदैन्द्राणि चत्वारि अन्वस्य स्थूरमित्यृचि ।
तुष्टावाङ्गिरसी नारी वसन्ती शाश्वती पतिम् ।। ४० ।।

स्त्रियं सन्तं पुमांसं तम् आसङ्गं कृतवानृषिः ।
स्वस्य दानं स्तुहीत्यृग्भिश् चतुर्भिः परिकीर्तितम् ।।४१।।

शिक्षेत्यृग्भ्यां तु काश्यस्य विभिन्दोः परिकीर्तितम् ।
पाकस्थाम्नस्तु भोजस्य चतुर्भिर्यमिति स्तुतम् ।।

पौष्णौ प्रेति प्रगाथौ द्वौ मन्यते शाकटायनः ।
ऐन्द्रमेवाथ पूर्वं तु गालवः पौष्णमुत्तरम् ।। ४३ ।।

ऐन्द्राणामिह सूक्तानाम् उत्तमस्योत्तमे तृचे ।
दानं राज्ञः कुरुङ्गस्य स्थूरं राय इति स्तुतम् ।। ४४ ।।

१०-ऋग्वेद ८.५-१८ के देवता
दूरादित्याश्विने सूक्ते सप्तत्रिंशत्तमी यथा ।
इत्यर्धर्चो द्वृचश्चान्त्यः कशोर्दानस्तुतिः स्मृता ।। ४५ ।।

महानैन्द्रं प्रत्नवत्याम् अग्निं वैश्वानरं स्तुतम् ।
मन्यते शाकपूणिस्तु भार्म्यश्वश्चैव मुद्गलः ।। ४६ ।।

तृचे तु शतमित्यस्मिन् दानं तैरिन्दिरं स्मृतम् ।
परं नु मारुतं प्रेति आ नस्त्रीण्याश्विनानि च ।। ४७ ।।

त्वमाग्नेयं य इन्द्रेति षळैन्द्राण्युत्तमस्य तु ।
उपोत्तमायामर्धर्चे देवो वास्तोष्पति स्तुतः ।। ४८ ।।

इदमादिन्यदेवत्यं तिसृभिस्त्वदिति स्तुता ।
षष्ठ्या चतुर्थ्या सप्तम्या उतेत्याचिन्यगष्टमी ।। ४९ ।।

११-ऋग्वेद ८.१९ ः त्रसदस्यु के दानों की स्तुति
स्तुताः शमिति पच्छस्तु अग्निसूर्यानिलास्त्रयः ।
वरुणार्यममित्राणां प्रगाथो यमिति स्तुतिः ।। ५० ।।

आग्नेये स्तुती राजर्षेस् त्रसदस्योरदादिति ।
पञ्चाशतं वधूनां च गवां तिस्त्रश्च सप्ततीः ।। ५१ ।।

अश्वोष्ट्राणां तथैवासौ वासांसि विविधानि च ।
रत्नानि वृषभं श्यावं तासामग्नेसरं पतिम् ।। ५२ ।।

कृत्वा दारानृषिर्गच्छन्न् इन्द्रायैतच्छशंस च ।
वयं सूक्तेन शक्रं च प्रीतस्तेन शचीपतिः ।। ५३ ।।

ऋषे वरं वृणीष्वेति प्रह्वस्तमृषिरब्रवीत् ।
काकुत्स्थकन्याः पञ्चाशद् युगपद्रमये प्रभो ।। ५४ ।।

कामतो बहुरूपत्वं यौवनं चाक्षयां रतिम् ।
शङ्खनिधिं पद्मनिधि मद्गृहेष्वनपायिनम् ।। ५५ ।।

१२-ऋषि द्वारा मांगे गये वर । सोभरि और चित्र की कथा ।
प्रासादान् विश्वकर्मासौ सौवर्णांस्त्वत्प्रसादतः ।
कुर्वीत पुष्पवाटीं च पृथक्तासां सुरद्रुमैः ।। ५६ ।।

मा भूत्सपत्नीस्पर्धासां सर्वमस्त्विति चाब्रवीत् ।
आ गन्त मारुतं सूक्तं वयमित्यैन्द्रमुत्तरम् ।। ५७ ।।

कण्वस्य सोभरेश्चैव यजतो वंशजैः सह ।
कुरुक्षेत्रे यवाञ्जक्षुर् हवींषि विविधानि च ।। ५८ ।।

आखवः सोऽभितुष्टाव इन्द्रं चित्रं सरस्वतीम् ।
इन्द्रो वेत्यनयर्चा स दानशक्तिं प्रकाशयन् ।। ५९ ।।

१३-सोभरि और चित्र की कथा ( क्रमशः) ।
ऋग्वेद ८.२२-२५
आखुराजोऽभिमानाच्च प्रहर्षितमनाः स्वयम् ।
संस्तुतो देवयच्चित्र ऋषये तु गवां ददौ ।। ६० ।।

अयुतानां सहस्रं वै निजग्राह स्तुवन्नृषिः ।
ऋषिं चोवाच हृष्टात्मा नाहमर्हाम्यृषे स्तुतिम् ।। ६१ ।।

तिर्यग्योनौ समुत्पन्नो देवता स्तोतुमर्हसि ।
तमन्त्ययापुनश्चास्तौद् ओ त्यं सूक्तेन चाश्विनौ ।।६२।।

ईळिष्वेत्येतदाग्नेयं सखायश्चैन्द्रमुत्तरम् ।
यथा वरो सुषाम्या इत्य् उत्तमस्त्वौषसस्तृचः ।। ६३ ।।

अष्टौ तु सहितास्त्वेता देवता बिभिदुर्बलम् ।
उषाश्चेन्द्रश्च सोमश्च अग्निः सूर्यो बृहस्पतिः ।। ६४ ।।

अङ्गिराः सरमा चैव ता वामित्युत्तरस्य तु ।
आदौ मैत्रावरुण्यस्तु नव द्वादश तूत्तराः ।। ६५ ।।

वैश्वदेव्यो वरू राजा यच्चादादृषये वसु ।
कीर्तितं तत्तृचे त्वस्मिन्न् ऋज्रमुक्षण्यायने ।। ६६ ।।

१४-ऋग्वेद ८.२६-३१ के देवता । ८.२९ पृथक्कर्मस्तुति है ।
अश्विनौ ददतुः प्रीतौ तदिहोक्तं सुषामणि ।
आश्विनं तु युवोर्युक्ष्व वायव्या उत्तरास्तु याः ।। ६७ ।।

यं सवर्णा मनुर्नाम लेभे पुत्रं विवस्वतः ।
वैश्वदेवानि पञ्चैतान्य् अग्निरुक्थे जगाद सः ।। ५८ ।।

बभ्रुरेक इति त्वेता लिङ्गतो द्विपदा दश ।
स्तूयन्ते देवता ह्यासु कर्मभिः स्वैः पृथक्पृथक् ।। ६९ ।।

स्तुताः कर्मगुणैः स्वैः स्वैर् देवता यत्र तत्र तु ।
पृथक्कर्मस्तुतिर्नाम वैश्वदेवं तदेव तु ।। ७० ।।

ऋग्वेद ८.३२-३४ के देवता
तासां बभ्रुरिति त्वाद्या सौम्याग्नेयी त्वृगुत्तरा ।
त्वाष्ट्री चैन्द्री च रौद्री च पौष्णी वैष्णव्यृगाश्विनी ।।७१ ।।

नवमी मैत्रावरुणी ऋग्दशम्यत्रिसंस्तवः ।
यजमानप्रसङ्गाच्च य इज्यात्र प्रकीर्तिता ।।७२।।

यो जयति द्वृचे शक्रो यजतां पतिरीळितः ।
तस्य द्युमान् द्वृचे यज्वा चतसृष्वपि मक्ष्विति ।।७३।।

यज्वनोरेव दंपत्योः पञ्च या दंपती ऋचः ।
आ शर्माशीरैतु पौष्ण्यौ परे मित्रोऽर्यमा यथा ।।७४।।

वरुणश्च स्तुतास्त्वत्र आदित्या अग्निमग्नये ।
सूक्तानि प्र कृतानीति त्रीण्यैन्द्राणि पराण्यतः ।।७५।।

१६-इन्द्र और व्यंस की बहन ।
ऋग्वेद ८.३५-४६ के देवता
अध इत्यत्र कन्या तं स्त्रीलिङ्गेनेन्द्रमब्रवीत् ।
स हि तां कामयामास दानवीं पाकशासनः ।।७६।।

ज्येष्ठां स्वसारं व्यंसस्य तस्यैव युवकाम्यया ।
अग्निनेत्याश्विनं सूक्तम् ऐन्द्रसूक्ते परे ततः ।।७७।।

ऐन्द्राग्नं परमाग्नेयम् ऐन्द्राग्नं वारुणे परे ।
उत्तरे वारुणे त्वन्त्य आ वामित्वाश्विनस्तृचः ।।७८।।

सूक्ते इमे समाग्नेये ताभ्यामैन्द्रे ततः परे ।
वशायाश्व्यात यत्प्रादात् कानीनस्तु पृथुश्रवाः ।।७९।।

तदत्र संस्तुतं दानम् आ स इत्येवमादिभिः ।
आ नः प्रगाथौ वायव्यौ सूक्तस्योपोत्तमा च या ।।८०।।

२-ऋग्वेद ८.४७-५६ के देवता
मित्रार्यमाणौ मरुतः सुनीथो घ द्वृचे स्तुताः ।
द्विचत्वारिंशकात्प्रीतस् त्रिशोकाय पुरंदरः ।। ८१ ।।

गिरिं निकृत्य वज्रेण गा दशवसुरैर्हृताः ।
यः तृन्तदिति चैतस्याम् ऋषिस्तु स्वयमब्रवीत्।। ८२।।

स्तुता नवम्या त्वदितिर महीत्यादित्यदैवते ।
अन्त्या मञ्चोषसेऽपि स्युः सौम्यं स्वादोरिति स्मृतम् ।।८३

पराण्यष्टौ तु सूक्तानि ऋषीणां तिग्मतेजसाम् ।
ऐन्द्राण्यत्र तु षड्विंशः प्रगाथो बहुदैवतः ।। ८४ ।।

२८-ऋग्वेद ८.६०-६७ के देवता ।
ऋगन्त्याग्नेरचेत्यग्निः सूर्यमन्त्यं पदं जगौ ।
प्रस्कण्वश्च पृषध्रस्य प्रादाद्यद्वसु किंचन ।। ८५ ।।

तदूभूरीदिति सूक्ताभ्याम् अखिलं त्विह संस्तुतम् ।
ऐन्द्राण्युभयमित्यत्र षळाग्नेयात्पराणि तु ।।

निपातमाह देवानां दाता म हति भागुरिः ।। ८६ ।।

ऋचं यास्कस्तृचं त्वेतं मन्यते वैश्वदेवतम् ।
आदित्यदैवतं सूक्तं त्यान्न्वित्यत्र परं तु यत् ।। ८७ ।।

धीवराः सहसा मीनान् दृष्ट्वा सारस्वते जले ।
जालं प्रक्षिप्य तान्बद्ध्वोद् अक्षिपन्सलिलात्स्थलम् ।।८८।।

शरीरपातभीतास्ते तुष्टुवुश्चादितेः सुतान् ।
मुमुचुस्तांस्ततस्ते च प्रसन्नास्तान् समुदिरे ।। ८९ ।।

धीवराः क्षुद्भयं मा वो भूत् स्वर्गं प्राप्त्यथेति च ।
उतेति माता तत्रैषां तृचेनाभिष्टुतादितिः ।। ९० ।।

१५ःऋग्वेद ८.६८-७५ के देवता
मातृत्वादभिसंबन्धात् स्तूयेतैषां स्तुतौ स्तुतौ ।
ऐन्द्राण्या त्वा रथं त्रीणि स्तौत्यृतूनुप मेति षट् ।। ९१ ।।

कक्षीश्वमेधयोरत्र पञ्च दानस्तुतिः पराः ।
अपादिन्द्रस्य चाग्नेश्च विश्वेषां चैव संस्तवः ।। ९२ ।।

द्वृचस्य प्रथमोऽर्धर्चः शेषो वरुणदैवतः ।
त्वमाग्नेयेऽथवा सूक्तम् उत्तरं हविषां स्तुतिः ।। ९३ ।।

पयः पश्वोषधीनां च तथारूपं हि दृश्यते ।
उदित्याश्विनमाग्नेये परे सूक्ते विशोविशः ।। ९४ ।।

ऋग्भ्यामहमिति द्वाभ्यां स्तौत्यात्मानमृषिः स्वयम् ।
आत्मानमात्मना स्तुत्वा स्तौति दानं श्रुतर्वणः ।।९५।।

आत्मादानाभिसंबन्धात् परुष्णीं च महानदीम् ।
परया परुष्णीमिन्द्रं त्रिभिः सूक्तैरिमं न्विति ।।९६।।

अयं कृत्नुरिदं सौम्यं त्रोण्यैन्द्राणि पराण्यतः ।
नहीति तेषां प्रथमे वैश्वदेव्यृगवीवृधत् ।। ९७ ।।

देवानामिति देवानां प्रेष्टमाग्नेयमुत्तरम् ।
त्रीण्याश्विनात्या म इति ऐन्द्राणि तमितीति च । । ९८ । ।
२१-अपाला की कथा
अपालात्रिसुता त्वासीत् कन्या त्वग्दोषिणी पुरा ।
तामिन्द्रश्चकमे दृष्ट्वा विजने पितुराश्रमे ।।९९।।

तपसा बुबुधे सा तु सर्वमिन्द्रकीर्षितम् ।
उदकुम्भं समादाय अपामर्धे जगाम सा ।। १०० ।।

दष्ट्वा सोममपामन्ते तुष्टावर्चा वने तु तम् ।
कन्या वारिति चैतस्याम् एषोऽर्थः कथितस्ततः ।। १० १।।

सा सुषाव मुखे सोमं सुत्वेन्द्रं चाजुहाव तम् ।
असौ य एषीत्यनया पपाविन्द्रश्च तन्मुखात् ।। १०२ ।।

अपूपांश्चैव सक्तूंऽश्च भक्षयित्वा स तद्गृहात् ।
ऋग्भिस्तुष्टाव सा चैनं जगादैनं तृचेन तु ।। १०३ ।।

सुलोमामनवद्याङ्गीं कुरु मां शक्र सुत्वचम् ।
तस्यास्तद्वचनं श्रुत्वा प्रीतस्तेन पुरन्दरः ।। १०४ ।।

२२-अपाला की कथा ( शेषांश) ।
ऋग्वेद ८.९२-९३ के देवता
रथछिद्रेण तामिन्द्रः शकटस्य युगस्य च ।
प्रक्षिप्य निश्चकर्ष त्रिः सुत्वक् सातु ततोऽभवत् ।। १ ०५।।

तस्यास्त्वगपहता या पूर्वा सा शल्यकोऽभवत् ।
उत्तरा त्वभवद्गोधा कृकलासस्त्वगुत्तमा ।। १०६ ।।

इतिहासमिदं सूक्तम् आहतुर्यास्कभागुरी ।
कन्येति शौनकस्त्वैन्द्रं पान्तमित्युत्तरे च ये ।। १०७ ।।

उत्तमा त्वार्भवी प्रोक्ता उत्तरस्यैतरेयके ।
छान्दोमिके तृतीये तद् आर्भवं शस्यते यतः ।। १ ०८।।

२३ देवों के पास से सोम के पलायन की कथा ।
मारुतं गौः परं सूक्तम्[१] आत्वैन्द्राणि पराणि षट्[२] ।
सूक्ते द्वितीय[३] एतेषाम् इतिहासं प्रचक्षते ।
अपक्रम्य तु देवेभ्यः सोमो वृत्रभयार्दितः ।। १ ०९।।

नदीमंशुमतीं[४] नाम्ना अभ्यतिष्ठत्कुरून्प्रति ।
तं बृहस्पतिनैकेन अभ्यवाद्वृत्रहा सह ।।१ १०।।

योत्स्यमानः सुसंहृष्टैर् मरुद्भिर्विविधायुधैः ।
दृष्ट्वा तानायतः सोमः स्वबलेन व्यवस्थितः ।। ११ १।।

मन्वानो वृत्रमायान्तं जिघांसुमरिसेनया ।
व्यवस्थितं धनुष्मन्तं तमुवाच बृहस्पतिः ।। १ १२।।

मरुत्पतिरयं सोम एहि देवान्पुनर्विभो ।
श्रुत्वा देवगुरोर्वाक्यम् अनर्थं वृत्रशङ्कया ।।१ १ ३।।

सोऽब्रवीन्नेति तं शक्रः स्वर्ग एव बलाद्बली ।
इयाय देवानादाय तं पपुर्विधिवत्सुराः ।। १ १४।।

२४-सोम के पलायन की कथा ( क्रमशः) ।
जघ्नुः पीत्वा च दैत्यानां समरे नवतीर्नव ।
तदेतदप्यवेत्यस्मिंस् तृचे सर्वं निगद्यते ।। ११५ ।।

इन्द्रं च मरुतश्चैव तथैव च बृहस्पतिम् ।
तृचस्य देवता ह्येता इन्द्रमेवाह शौनकः ।। ११६ ।।

ऐन्द्राबार्हस्पत्य उक्तो ब्राह्मणे त्वैतरेयके ।
तृचेनेन्द्रमपश्यंस्तं नेमोऽयमिति भार्गवः ।।१ १७।।

तुष्टावेन्द्रो द्वृचेनायम् अहं पश्य च मामृषे ।
स हि स्तुवन्नेम एको नेन्द्री अस्तीति चाब्रवीत् ।। १ १८।।

२५-ऋग्वेद ८.१०० संबन्धी विवरण । विष्णु द्वारा इन्द्र की सहायता
तदाकर्ण्येन्द्र आत्मानम् ऋग्भ्यां तुष्टाव दर्शयन् ।
ऋषिस्तं दृष्ट्वा सुप्रीतो विश्वेत्ता त इति द्वृचे ।।१ १९।।

विविधानि च कर्माणि दानमैन्द्रं च शंसति ।
मनोजवास्तु सौपर्णी समुद्रं वज्रसंस्तवः ।। १२०।।

वाचं सर्वगतां देवीं स्तौति यद्वागिति द्वृचे ।
त्रील्लोकानभितप्येमान् वृत्रस्तस्थौ स्वया त्विषा ।।१२१ ।।

तं नाशकद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोऽब्रवीत् ।
वृत्रं हनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके ।।१२२।।

उद्यतस्यैव वज्रस्य द्यौर्ददातु ममान्तरम् ।
तथेति विष्णुस्तच्चक्रे द्यौश्चास्य विवरं ददौ ।। १२३ ।।

२६-ऋग्वेद ७,१०१ के देवताओं से संबन्धित विवरण
तदेतदखिलं प्रोक्तं सखे विष्णविति त्वृचि ।
मैत्रावरुण्यः सूक्ताद्याश् चतस्रस्त्वृधगित्यृचः ।। १२४।।

प्रेति मित्राय पादाश्च अर्यम्णो वरुणस्य च ।
त्रयश्चतुर्थः सर्वेषाम् आदित्यानामिति स्तुतिः ।।१२५।।

परा त्वादित्यदेवत्या आ म इत्यश्विनो द्वृचः ।
वायव्ये सौर्ये उषस्या प्रभां वा चन्द्रसूर्ययोः ।।१२६।।

पावमानी प्रजा हेति मातेत्यृग्भ्यां तु गौ स्तुता ।
त्वमग्ने बृहदाग्नेये परेऽग्निस्त्वृचि संस्तुतः ।। १२७ ।।

मरुद्भिः सह रुद्रैश्च आग्ने याहीति मध्यमः ।
प्रजा हेत्यपि वार्धर्चे प्रथमेऽग्निरिहोच्यते ।। १२८ ।।

पादे तृतीय आदित्यस् तुरीये मध्यम स्तुतः ।
रुहस्ये ब्राह्मणेऽप्येवं व्याख्यतं ह्यैतरेयके ।। १२९ ।।

नवम मण्डल
२७-ऋग्वेद ९.१-८६ के देवता
पवमान स्तुतः सोमो नवमे त्विह मण्डले ।
पवमानवदाप्र्यस्तु समिद्ध इति संस्तुताः ।। १३० ।।

अत्र आयूंषीति चासु तिसृष्वग्निर्निपातभाक् ।
अविता न इति त्वस्मिंस् तृचे पूष्णा सह स्तुतः ।।१ ३१ ।।

आग्नेय्यौ द्वे ऋचावत्र यत्त इत्युत्तरे ततः ।
उभाभ्यामिति सावित्री आग्निसावित्र्यृगुत्तरा ।। १३२ ।।

पुनन्तु मां वैश्वदेवी आग्नेयी त्वृगुप प्रियम् ।
उत्तरे च व इत्येते स्वाध्यायाध्येतृ संस्तवः ।। १३३ ।।

सूक्ते निरुक्ते स्रक्वेऽग्नी रक्षोहा धर्मसंस्तवः ।
सूर्यःवच्चात्मवच्चापि पवित्रमिति चोच्यते ।। १३४ ।।

२८-ऋग्वेद ९.८७.९६.११२. के देवता
आर्भवस्तु भवेत्पाद ऋभुर्धीर इति स्मृतः ।
निपातैस्तु त्रिभिः पादैस् त्रयो देवा इहोदिताः ।।१३५।।

ब्रह्मा देवानां तिस्रोक्तास् त्रिभिस्त्वेतैर्द्वृचैर्द्वृचैः ।
सूर्यवच्चात्मवच्चापि स्तूयते सोम एव वा ।। १३६।।

अनावृष्ट्यां तु वर्तन्त्यां पप्रच्छर्षीञ्छचीपतिः ।
काले दुर्गे महत्यस्मिन् कर्मणा केन जीवथ ।। १३७ ।।

शकटं शाकिनी गावः कृषिरस्यन्दनं वनम् ।
समुद्रः पर्वतो राजा एवं जीवामहे वयम् ।। १३८ ।।

स्तुवन्नेव शशंसास्य ऋषिराङ्गिरसः शिशुः ।
नानानीयेन सूक्तेन ऋषीणामेव संनिधौ ।। १३९ ।।

२९- इन्द्र और ऋषिगण । तप का माहात्म्य ।
तानिन्द्रस्त्वाह सर्वांस्तु तपध्वं सुमहत्तपः ।
न ह्यृते तपसः शक्यम् इदं कृछ्रं व्यपोहितुम् ।। १४० ।।

अथ ते वै तपस्तेपुः सर्वे स्वर्गजिगीषवः ।
ततस्ते तपसोग्रेण पावमानीर्ऋचोऽब्रुवन् ।। १४१ ।।

अनसूयुरधीयानः शुश्रूषुस्तपसान्वितः ।
दश पूर्वापरान् वंश्यान् पुनात्यात्मानमेव च ।। १४२ ।।

पापं यच्चाकरोत्किंचन् मनोवाग्देहभोजनैः ।
पूतः स तस्मात्सर्वस्मात् स्वाध्यायफलमश्नुते ।। १ ४३।।

पावमान्यः परं ब्रह्म शुक्रं ज्योतिः सनातनम् ।
गायत्र्योऽन्तेऽत्र यश्चासां प्राणानायम्य तन्मनाः ।। १ ४४।।

पावमानं पितॄन्देवान् ध्यायेद्यश्च सरस्वतीम् ।
पितॄंस्तस्योपवर्तेत क्षीरं सर्पिर्मधूदकम् ।। १४५ ।।

एतत्सूक्तशतं सौम्यं मण्डलं सचतुर्दशम् ।
पावमानमिति ख्यातम् अनुवाकास्तु सप्त वै ।। १४६ ।।

दशम मण्डल
३०-ऋग्वेद १०.१-८ के देवता । त्रिशिरस् और इन्द्र ।
सप्ताग्नेयानि सूक्तानि ददर्शाथ डति त्रितः ।
प्र केतुनेति त्वाष्ट्रस्तु त्रिशिराः सूक्तमुत्तरम् ।। १४७ ।।

ऋचस्त्वस्य षळाग्नेय्यस् तृचस्त्वस्येति यः परः ।
तेनेन्द्रमभितुष्टाव स्वप्रान्त इति नः श्रुतिः ।। १४८ ।।

अभवत्स हि देवानां पुरोधाः प्रियकाम्यया ।
असुराणां स्वसुः पुत्रस् त्रिशिरा विश्वरूपधृक् ।।१४९।।

तमृषिं प्रहितं त्विन्द्रो देवेषु बुबुधेऽसुरैः ।
सोऽस्य वज्रेण तान्याशु शिरांसि त्रीण्यथाछिदत्।। १५०।।

तस्य यत्सोमपानं तु मुखं सोऽभूत्कपिञ्जलः ।
कलविङ्कः सुरापाणम् अन्नादं तित्तिरिस्त्वभूत् ।।१५१।।

३१-ऋग्वेद १०.९-१४ के देवता
तं वागभ्यवदद्ब्राह्मी ब्रह्महासि शतक्रतो ।
प्रपन्नं हतवान्यस्माद् विश्वरूपं पराङ्मुखम् ।। १५२ ।।

तमभ्यसिञ्चत्सूक्तेन ऋषिराप इति स्वयम् ।
सिन्धुद्वीपोऽपनुत्त्यर्थं तस्याश्लीलस्य पाप्मनः ।। १५३।।

मैथुनार्थमभीप्सन्तीं प्रत्याचष्टे यमी यमः ।
तदो चिदिति संवादो विवस्वत्सुतयोस्तयोः ।। १५४ ।।

वृषाग्नेये हविर्धाने युजे वामत्र संस्तुते ।
परेयिवांसमित्यत्र स्तूयते मध्यमो यमः ।। १५५ ।।

अथर्वाणोऽथ भृगवोऽङ्गिरसः पितरः सह ।
षष्ट्यां देवगणास्तत्र संस्तूयन्ते द्युभक्तयः ।। १५६ ।।

पितृभिश्चाङ्गिरोभिश्च संस्तुतो दृश्यते यमः ।
मन्त्रेषु बहुशः पादे विवस्वन्तं पिता हि सः ।। १५७।।

संस्कार्यप्रेतसंयुक्तैः पितृभि स्तूयते यमः ।
प्रेहि प्रेहिति तिसृषु प्रेताशिष उदाहृताः ।। १५८ ।।

पितॄणां हि पतिर्देवो यमस्तस्मात्स सूक्तभाक् ।
अति द्रव तृचे श्वानौ परं पित्र्यमुदीरताम् ।। १५९।।

उत्तरेण तु सूक्तेन श्मशाने कर्म शंसति ।
पितृदेवासुराणां च अभवन्नग्नयस्त्रयः ।
हव्यकव्यवहौ चोभौ सहरक्षाश्च नाम यः ।। १५० ।।

तत्र मैनमिति त्वेतत् कव्यवाहनसंस्तुतिः ।
इतराणि तु दैवस्य स्तुतिर्नास्यासुरस्य च ।। १६१ ।।

३३-सरण्यू की कथाः ऋग्वेद १०.१७
अभवन्मिथुनं त्वष्टुः सरण्यूस्त्रिशिराः सह ।
स वै सरण्यूं प्रायच्छत् स्वयमेव विवस्वते ।। १६२ ।।

ततः सरण्य्वां जज्ञाते यमस्ययौ विवस्वतः ।
तौ चाप्युभौ यमावेव ज्यायांस्ताभ्यां तु वै यमः ।। १ ६३।।

।। इति वृहद्देवतायां षष्ठोऽध्यायः ।।

गौर्धयति मरुतां इति – ऋ. ८.९४
आ त्वा गिरो इति -ऋ. ८.९५- अयं त एमि इति८.१००
अस्मा उषास इति – ऋ. ८.९६
ऋ. ८.९६.१३-१५

अध्यायः ७

सुष्ष्ट्वा भर्तुः परोक्षं तु सरण्यू_ सदृशीं स्त्रियम् ।
निक्षिप्य मिथुनं तस्याम् अश्वा भूत्वापचक्रमे ॥ १ ॥

अविज्ञानाद्विवस्वांस्तु तस्यामजनयन्मनुम् ।
राजर्षिरभवत्सोऽपि विवस्वानिव तेजसा ॥ २ ॥

स विज्ञाय त्वपक्रान्तां सरण्यूमश्वरूपिणीम् ।
त्वष्ट्रीं प्रति जगामाशु वाजी भूत्वा सलक्षणः ॥ ३

सरण्यूश्च विवस्वन्तं विदित्वा हयरूपिणम् ।
मैथुनायोपचक्राम तां च तत्रारुरोह सः ॥ ४ ॥

ततस्तयोस्तु वेगेन शुक्रं तदपतद्भुवि ।
उपाजिघ्रच्च सा त्वश्वा तच्छुक्रं गर्भकाम्यया ॥ ५ ॥

आघातमात्राच्छुक्रात्तु कुमारौ संबभूवतुः ।
नासत्यश्चैव दस्रश्च यौ स्तुतावश्विनाविति ॥ ६ ॥

इतिहासमिमं यास्कः सरण्यूदेवते द्वृचे ।
विवस्वतश्च त्वष्टुश्च त्वष्टेति सह मन्यते ॥ ७ ॥

पूषेति पादौ पौष्णौ द्वाव् आग्नेयावुत्तरौ तु यौ ।
स्यात्तृतीयोऽपि वा पौष्णस्तिस्रश्चान्याः परास्तु याः ॥८॥

अपां स्तुतिस्त्वृगत्रैका तृचात्सारस्वतात्परा ।
स्तुतः परोक्षः सोमस्तु द्रप्स इत्युत्तरे तृचे ॥ ९ ॥

अब्देवताशीर्वादो वा पयस्वत्युत्तरा तु या ।
चतस्रस्तास्तुतिर्मृत्योर् अन्त्ये क्लृप्ताश्च कर्मणि ॥ १०॥

मृतशिष्टेभ्य आशास्ते इमे ज्योग्जीवनं पुनः ।
इमं जीवेभ्य आशास्ते तेभ्यः परिधिकर्मणि ॥ ११ ॥

यथा धात्र्युत्तरा त्वाष्ट्री ततो यान्या इमास्त्विति ।
स्त्रीणामाशिषमाशास्ते तयैवाञ्जनकर्मणि ॥ १२ ॥

उदीर्ष्व नारीत्यनया मृतं पत्न्यनुरोहति ।
भ्राता कनीयान्प्रेतस्य निगद्य प्रतिषेधति ॥ १३ ॥

कुर्यादेतत्कर्म होता देवरो न भवेद्यदि ।
प्रेतानुगमनं न स्याद् इति ब्राह्मणशासनात् ॥ १४ ॥

वर्णानामितरेषां च स्त्रीधर्मोऽयं भवेन्न वा ।
शान्त्यर्थं धनुरादाने प्रेतस्यर्चं धनुर्जपेत् ।
यस्मादेताः प्रयुज्यन्ते श्मशाने चान्त्यकर्मणि ॥ १५ ॥

तस्माद्वदेत्तृचस्वास्य देवतां मृत्युमेव तु ।
मन्त्रेषु ह्यनिरुक्तेषु देवतां कर्मतो वदेत् ॥ १६ ॥

मन्त्रतः कर्मतश्चैव प्रजापतिरसंभवे ।
पराश्चतस्रो यास्त्वत्र उप सर्पेति पार्थिवी ॥ १७ ॥

तासां प्रयोगः प्रेतस्य अस्थिसंचयकर्मणि ।
प्रतीचीने यथाहानि अपहृत्येतराणि तु ॥ १८ ॥

अहःसु पितरो दधुर् इत्याशास्तेऽन्त्ययाशिषः ।
अहः स्वागामिषु च मां प्रयन्तं समजीवयन् ॥१९॥

नि वर्तध्वमितीदं तु गवां केचिदपां विदुः ।
अर्धर्चः प्रथमायास्तु अग्नीषोमीय उत्तरः ॥ २० ॥

ऐन्द्री षष्ठी द्वितीयायाम् उभौ देवौ निपातितौ ।
दशाक्षरं तु शान्त्यर्थं मानसं सूक्तमुच्यते ॥ २१ ॥

त्रीण्यैन्द्राणि कुहेत्यत्र आग्नेयाभ्यां पराणि तु ।
तृचोऽत्रास्त्याश्विनस्त्वेक ऐन्द्राणामुत्तमे युवम् ॥२२॥

भद्रं सौम्यं प्र हि पौष्णं त्रीण्यैन्द्राणि पराण्यसत् ।
तेषामाद्येन मत्तः सन् स्वानि कर्माणि शंसति ॥ २३ ॥

यथा चरति भूतेषु यथा वर्षति पाति च ।
सूक्ते तदस्मिन्नष्टाभिर् ऋग्भिरुक्तमभूर्विति ॥ २४ ॥

सप्तेति मरुत स्तौति स्तौति वज्रमृगुत्तरा ।
अग्निमिन्द्रं च सोमं च पीवानं मेषमर्चति ॥ २५
’ ॥
पूर्वोऽर्धर्चोऽपरस्तस्याः पर्जन्यं वायुना सह ।
वि क्रोशनास इत्यग्निम् उत्तरा सूर्यमेव तु ॥ २६ ॥

एतौ मेऽयं य इत्येते स्तुतिश्चैवेन्द्रवज्रयोः ।
वृक्षेवृक्षे धनुश्चेन्द्रं देवानामिति तु त्रयः ॥ २७ ॥

शीतोष्णवर्षदातारः पर्जन्यानिलभास्कराः ।
अन्त्ये सूर्योनिलौ चोभौ स्तूयेते च पदे सह ॥ २८ ॥

सा ते जीवातुरित्यस्याम् इन्द्रो वा सूर्य एव वा ।
विश्वो अन्यस्तु संवाद ऋषेः शक्रस्य चैव हि ॥२९॥

युग्माः शक्रस्य विज्ञेया वसुक्रस्येतरा ऋचः ।
स्नुषेन्द्रस्यागतान्देवान् दृष्ट्वा शक्रमनागतम् ॥ ३० ॥

यज्ञं परोक्षवत्प्राह श्वशुरो नागतो मम ।
यद्यागच्छेद् भक्षयेत्स धानाः सोमं पिबेदपि ॥ ३१ ॥

इति तस्या वचः श्रुत्वा तत्क्षणादेत्य वज्रधृक् ।
तिष्ठन्वेद्यामुत्तरस्याम् उच्चैराह स रोरुवत् । । ३२ । ।
तृतीयया चतुर्थ्या च प्र देवत्रेत्यपां स्तुतौ ।
अपांनपादित्यनेन नाम्नाग्निर्मध्यम स्तुतः ॥ ३३ ॥

एति यद्वैश्वदेवं तु तस्य प्रेत्यैन्द्रमुत्तरम् ।
वैश्वदेवी प्र मेत्येका सं मेत्येन्द्रो द्वृचः परः ॥ ३४ ॥

कुरुश्रवणमर्चतः परे द्वे त्रासदस्यवम् ।
मृते मित्रातिथौ राज्ञि तन्नपातमृषिः परैः ॥ ३५ ॥

उपमश्रवसं यस्य चतुर्भिः स व्यशोकयत् ।
प्रावेपा इति सूक्तं यत् तदक्षस्तुतिरुच्यते ॥ ३६ ॥

अत्राक्षान्द्वादशी स्तौति नवम्याद्या च सप्तमी ।
त्रयोदशी कृषिं स्तौति कितवं चानुशासति ।
अक्षांस्तु शेषा निन्दन्ति अबुध्रं वैश्वदेवते ॥ ३७ ॥

सावित्रमेके मन्यन्ते महो अग्ने स्तवं परम् ।
आचार्याः शौनको यास्को गालवश्चोत्तमामृचम् ॥३८॥

नमः सौर्यमैन्द्रमस्मिन् सौर्ये षष्ट्या तु या स्तुताः ।
निपातिन्यस्ताः सूक्तान्ते वैश्वदेवोऽत्र तु द्वृचः ॥ ३९ ॥

आश्विनानि तु यस्त्रीणि ऐन्द्राण्यस्तेव सु प्र च ।
ऐन्द्राणामुत्तमायास्तु स्तुतोऽर्धर्च बृहस्पतिः ॥ ४० ॥

परे दिवस्पर्याग्नेये प्रथमस्योत्तमेन तु ।
द्यावापृथिव्यौ विश्वे च पच्छोऽर्धर्च्चेन संस्तुताः ॥ ४१ ॥

आसीत्काक्षीवती घोषा पापरोगेण दुर्भगा ।
उवास षष्टि वर्षाणि पितुरेव गृहे पुरा॥४२॥

आतस्थे महतीं चिन्तां न पुत्रो न पतिर्मम ।
जरां प्राप्तां मुधातस्मात् प्रपद्येऽहं शुभस्पती ॥ ४३ ॥

यथैतौ मामकस्तात आराध्यावाप यौवनम् ।
आयुरारोग्यमैश्वर्यं सर्वभूतहत्थे विषम् ॥ ४४ ॥

रूपवतां च सौभाग्यम् अहं तस्य सुता यदि ।
समापि मन्त्राः प्रादुःस्युर् यैस्तोष्येते मयाश्विनौ ॥४५॥

चिन्तयन्तीति सूक्ते द्वे यो वां पारे ददर्श सा ।
स्तुतौ तावश्विनौ देवौ प्रीतौ तस्या भगान्तरम् ॥४६॥

प्रविश्य विजरारोगां सुभगां चक्रतुश्च तौ ।
भर्तारं ददतुस्तस्यै सुहस्त्यं च सुतं मुनिम् ॥४७॥

ददतुस्तत्सुपर्णाभ्यां यन्नासत्येति कीर्त्यते ।
काक्षीवत्यै च घोषायै न तस्यामाजुरोऽनया ॥ ४८ ॥

प्राजापत्यासुरी त्वासीद् विकुण्ठा नाम नामतः ।
सेछन्तीन्द्रसमं पुत्रं तेपेऽथ सुमहत्तपः ॥ ४९ ॥

सा प्रजापतितः कार्मांल्लेभेऽथ विविधान् वरान् ।
तस्यां चेन्द्रः स्वयं जज्ञे जियांसुर्दैत्यदानवान् ॥ ५० ॥

एकदा दानवैः सार्धं समरे समसज्यत ।
जघान तेषां नवतीर् नव सप्त च सप्तकान् ॥ ५१ ॥

भित्त्वा स्वबाहुवीर्येण हैमरौप्यायसीः पुरीः ।
हत्वा सर्वान् यथास्थानं पृथिव्यादिव्यवस्थितान् ॥५२॥

पृथिव्यां कालकेयांश्च पौलोमांश्चैव धन्विनः ।
तांश्च व्युत्सादयामास प्रह्लादतनयान्दिवि ॥ ५३ ॥

राज्यं प्राप्य स दैत्येषु स्वेन वीर्येण दर्पितः ।
देवान्बाधितुमारेभे मोहितोऽसुरमायया ॥ ५४ ॥

बाध्यमानास्तु तेनापि असुरेणामितौजसा ।
उपाधावन्नृषिश्रेष्ठं तत्प्रबोधाय सप्तगुम् ॥ ५५ ॥

ऋषिस्तु सप्तगुर्नाम तस्यासीत्सुप्रियः सखा ।
स चैनमभितुष्टाव जगृभ्मेति करे स्पृशन् ॥ ५३ ॥

ततः स बुद्ध्वा चात्मानं सप्तगुस्तुतिहर्षितः ।
आत्मानमेव तुष्टाव अहं भुवमिति त्रिभिः ॥ ५७ ॥

कीर्तयन्स्वानि कर्माणि यानि स्म कृतवान्पुरा ।
यथाकरोच्च वैदेहं व्यंसं सोमपतिं नृपम् ॥ ५८ ॥

वसिष्ठशापादभवद् वैदेहो नृपतिः पुरा ।
इन्द्रप्रसादादीजे च सत्त्रैः सारस्वतादिभिः ॥ ५९ ॥

प्रभूतां शक्तिमत्तां च शत्रूणामप्यपाक्रियाम् ।
नृषु सर्वेषु चैश्वर्यं प्रभुत्वं भुवनेषु च ।
प्र वो मह इति त्वस्याम् आत्मनो वीर्यमक्षयम् ॥६०॥

वैश्वानरे गृहपतौ यविष्ठेऽग्नौ च पावके ।
वषट्कारेण वृक्णेषु भ्रातृष्वग्नौ सहःसुते ॥ ६१ ॥

अपचक्राम देवेभ्यः सौचीकोऽग्निरिति श्रुतिः ।
स प्रविशदपक्रम्य ऋतूनपो वनस्पतीन् ॥ ६२ ॥

ततोऽसुराः प्रादुरासन् नष्टेऽग्नौ हव्यवाहने ।
तेऽग्निमेवान्ववैक्षन्त देवा हत्वासुरान्युधि ॥ ६३॥

तं तु दूराद्यमश्चैव वरुणश्चान्वपश्यताम् ।
उभावेनं समादाय देवानेवाभिजग्मतुः ॥ ६४ ॥

दृष्ट्वा देवास्त्वेनमूचुर् अग्ने हव्यानि नो वह ।
वरान् गृहाण चास्मत्तश् चित्रभानो भजस्व नः ।
देवयानान् सुगान् पथः कुरुष्व सुमनाः स्वयम् ॥६५॥

प्रत्युवाचाथ तानग्नि् विश्वे देवा यदूच माम् ।
तत्करिष्ये जुषन्तां तु होत्रं पञ्च जना मम ॥ ६६ ॥

शालामुख्यः प्रणीतश्च पुत्रो गृहपतेश्च यः ।
उत्तरो दक्षिणाश्चाग्निर् एते पञ्च जनाः स्मृताः ॥ ६७ ॥

मनुष्याः पितरो देवा गन्धर्वोरगराक्षसाः ।
गन्धर्वाः पितरो देवा असुरा यक्षराक्षसाः ॥ ६८ ॥

यास्कौपमन्यवावेतान् आहतुः पञ्च वै जनान् ।
निषादपञ्चमान् वर्णान् मन्यते शाकटायनः ॥ ६९

ऋत्विजो यजमानं च शाकपूणिस्तु मन्यते ।
होताध्वर्युस्तथोद्गाता ब्रह्मा चेति वदन्ति तान् ॥७०॥

चक्षुः श्रोत्रं मनो वाक् च प्राणश्चेत्यात्मवादिनः ।
गन्धर्वाप्सरसो देवा मनुष्याः पितरस्तथा ॥ ७१॥

सर्पाश्च ब्राह्मणे चैव श्रूयन्ते ह्यैतरेयके ।
ये चान्ये पृथिवीजाता देवाश्चान्येऽथ यज्ञियाः ॥ ७२ ॥

आयुरस्तु च मे दीर्घं हवींषि विविधानि च ।
अरिष्टिः पूर्वजानां च भ्रातृणामध्वरेऽध्वरे ॥ ७३ ॥

प्रयाजाश्चानुयाजाश्च घृतं सोमे च यः पशुः ।
मद्दैवत्यानि वै सन्तु यज्ञो मद्देवतोऽस्तु च ॥ ७४ ॥

बार क्ष दीर्घा आर विविध हत्वया’ प्राह हर्त्रे; तथ’ रे’ ज्येष्ठ भ्राता
तवाग्ने यज्ञ इत्येतत् प्रत्याधि स्विष्टकृच्च सः ।
यस्य त्रीणि सहस्राणि नव त्रीणि शतानि च ॥ ७५ ॥
त्रिंशच्चैव तु देवानां सर्वामेव वरान्ददुः ।
ततोऽग्निः सुमनाः प्रीतो विश्वेदेवैः पुरस्कृतः ॥ ७६ ॥

विधूयाङ्गानि यज्ञेषु चक्रे होत्रमतन्द्रितः ।
भ्रातृभिः सहितः प्रोतो दिव्यात्मा हव्यवाहनः ॥७७॥

तस्यास्थि देवदार्वासीन् मेदो मांसं च गुग्गुलुः ।
सुगन्धितेजनं स्नायु शुक्रं रजतकाञ्चने ॥७८॥

रोमाणि काशाः केशास्तु कृशाः कूर्मा नखानि च ।
अन्त्राणि चैवाप्यवका मज्जा सिकतशर्कराः ॥७९॥

असृक् पित्तं च विविधा धातवो गैरिकादयः ।
एवमग्निश्च देवाश्च सूक्तैर्महदिति त्रिभिः ॥८०॥

समूदिरे परे त्वस्माद् ऐन्द्रे सूक्ते तु तां सु ते ।
विधुं दद्राणमित्यस्यां सूर्याचन्द्रमसौ स्तुतौ ॥८१ ॥

प्राणवच्चात्मवच्चापि स्तुतिरप्यत्र दृश्यते ।
इदं द्वे वैश्वदेवे च द्वितीये मनसस्तृचः ॥ ८२ ॥

प्रथमैन्द्रो द्वितीयाग्नेय्य् अन्त्या तत्सोमदेवता ।
अपि स्तौति पितॄनेतद् आर्त्विजं यत्तदुत्तरम् ॥८३॥

सूक्तमाख्यानसंयुक्तं वक्तुकामस्य मे शृणु ।
संमोहान्नष्टसंज्ञस्य शत्रुणाभिहतस्य तु ॥८४॥

जीवावृत्तिः सुबन्धोर्वा यदि वा मनस स्तवः ।
राजासमातिरैक्ष्वाकू रथप्रोष्ठः पुरोहितान् ॥८५॥

व्युदस्य बन्धुप्रभृतीन् द्वैपदा येऽत्रिमण्डले ।
द्वौ किराताकुली नाम ततो मायाविनौ द्विजौ ॥८६॥

असमातिः पुरोऽधत्त वरिष्ठौ तौ हि मन्यते ।
तौ कपोतौ द्विजौ भूत्वा गत्वा गोपायनानभि ॥८७॥

मायाबलाच्च योगाच्च सुबन्धुमभिपेततुः ।
स दुःखादभिघाताच्च मुमोह च पपात च ॥८८॥

तौ ततोऽस्यासुमालुच्य राजानमभिजग्मतुः ।
ततः सुबन्धौ पतिते गतासौ भ्रातरस्त्रयः ॥ ८९ ॥

जेपुः स्वस्त्ययनं सर्वै मेति गौपायनाः सह ।
मनआवर्तनं तस्य सूक्तं यदिति तेऽभ्ययुः ॥ ९० ॥

जेपुश्च भेषजार्थं यं प्र तारीति परं ततः ।
सूक्तस्याद्यस्तृचस्तत्र निर्ऋतेरपनोदनः ॥ ९१ ॥

त्रयः पादा मो ष्विति तु सौम्या नैर्ऋत उत्तमः ।
ऋक् सौम्या नैर्ऋती चैषा असुनीते स्तुतिः परे ॥९२॥

द्वृचे त्वानुमतं पादम् अन्त्यं यास्कस्तु मन्यते ।

भूर्द्यौः सोमश्च पूषा च खं पथ्या स्वस्तिरेव च ।.।
९३ ॥
सुबन्धोरेव शान्त्यर्थं पुनर्न ऋचि तु स्मृताः ।
तृचः शमिति रोदस्योर् ऐन्द्रोऽर्धर्चः समित्यृचि ॥९४॥

रपसो नाशनार्थं वै तुष्टुवुस्त्यथ रोदसी ।
रप इत्यभिधानं तु गदितं पापकृछ्रयोः ॥ ९५ ॥

ऋग्भिरेति चतसृभिस् तत ऐक्ष्वाकुमस्तुवन् ।
इन्द्र क्षत्रेत्यृचा चास्य स्तुत्वाशंसिषुराशिषः ॥ ९६ ॥

अगस्त्यस्येति माता च तेषां तुष्टाव तं नृपम् ।
स्तुतः स राजा सव्रीळस् तस्थौ गोपायनानभि ॥९७॥

सूक्तेनाप्यस्तुवन्नग्निं द्वैपदेन यथात्रिषु ।
अग्निरप्यत्रब्रवीदेतान् अय्मन्तः परिध्यसुः ॥ ९८ ॥

सुबन्धोरस्य चैक्ष्वाकोर् मया गुप्तो हितर्थिना ।
सुबन्धवे प्रदायासुं जीवेत्युक्त्वा च पावकः ॥ ९९ ॥

स्तुतो गौपायनैः प्रीतो जगाम त्रिदिवं प्रति ।
अयं मातेति हृष्टास्ते सुबन्धोरसुमाह्वयन्॥००॥

न२९ङ्कुकेऽङ्गुनुष्टुष्टम् ॥ १००॥

शरीरमभिनिर्दिश्य सुबन्धोः पतितं भुवि ।
सूक्तशेषं जगुश्चास्य चेतसो धारणाय ते ॥ १०१ ॥

लब्धासुं चायमित्यस्यां पृथक् पाणिभिरस्पृशन् ।
षळिदं वैश्वदेवानि द्वितीयेऽङ्गिरसां स्तुतिः ॥१ ०२॥

जन्म कर्म च सख्यं च इन्द्रेण सह कीर्तयन् ।
स्तौति प्र नूनमित्याद्याः सावर्ण्यस्य मनो स्तुतिः ॥ १०३ ॥

तस्यैव चायुषोऽर्थाय देवान्स्तौत्यभ्ययादृषिः ।
सुत्रामाणं महीमू षु दक्षस्येत्यदिते स्तुतिः ॥ १०४॥

पथ्यास्वस्तेः स्वस्तिरिद्धि स्वस्ति नो मरुतां स्तुतिः ।
मारुतीमृचमन्वाहेत्य् उक्तमाध्वर्यवेषु हि ॥ १०५ ॥

या गौरिति तथैवास्यां स्तूयते मध्यमा तु वाक् ।
मित्राय मैत्रावरुणी भुज्युमंहस आश्विनी ॥ १ ०६ ॥

स्तौत्यपि च मनुं स्वस्ति द्वृचे वाचं च मध्यमाम् ।
अथेमां द्वे बार्हस्पत्ये भद्रा आग्नेयमाप्रियः ॥ १०७ ॥

प्रथमे बार्हस्पत्ये तु अर्धर्चे ब्रह्मणस्पतिः ।
वैश्वदेवेऽपि सूक्तेऽत्र स्तुतोऽर्धर्चे बृहस्पतिः ।
ब्रह्मणस्पतिरित्यस्मिन् लिङ्गवाक्यविकारतः ॥ १०८ ॥

यज्ज्योतिरमृतं ब्रह्म यद्योगात्समुपाश्नुते ।
तज्ज्ञानमभितुष्टाव सूक्तेनाथ बृहस्पतिः ॥ १०९ ॥

जीवनार्थं प्रयोगस्तु मन्त्राणां प्रतिषिध्यते ।
वेदतत्त्वार्थविज्ञानं प्रायेणात्र हि दृश्यते ॥ ११० ॥

आचार्या केचिदित्याहुर् अत्र वाग्विदुषां स्तवः ।
यथाभिर्निन्द्यतेऽत्रर्ग्भिः भूक्तेऽन्याभिरनर्थवित् ॥ १११ ॥

यथैतामन्वविन्दन्त विद्वांसर्षिगतां सतीम् ।
यथा च व्यभजन् यज्ञे तदत्रोक्तं तृतीयया ॥ ११२ ॥

प्रशस्यते दशम्या तु विद्वानुत्तमया त्वृचा ।
यज्ञे महर्त्विजामाह विनियोगं च कर्मणाम् ॥ ११३ ॥

परे तु स्तूयते दक्षो अष्टौ चैवादितेः सुताः ।
धातेन्द्रो वरुणो मित्रो अंशः सूर्योऽर्यमा भगः ॥१ १४॥

ऐन्द्रे जनिष्ठा सूक्ते द्वे प्र स्वित्यत्र परं तु यत् ।
तत्र प्राच्यः प्रतीच्यश्च स्रवन्त्यो दक्षिणाश्च यः ॥१ १५॥

ताः सप्त सप्तकैर्वर्गैः संस्तूयन्ते प्रधानतः ।
ग्राव्णामा वो मारुते द्वे अभ्रप्रुष इति स्मृते ॥१ १ ६॥

अपश्यन्निति चाग्नेये य इमा वैश्वकर्मणे ।
मान्यवे यस्त इत्येते परं यत्तु मम व्रते ॥ ११७ ॥

तदाशीर्वादबहुलं स्तौति विश्वान्दिवौकसः ।
पराकदास आग्नेयं यदुदित्यष्टकं परम् ॥ ११८ ॥

मैत्रावरुण्यृक् तत्रास्ति चतुर्थ्येन्द्राग्न्युपोत्तमा ।
सावित्री चैव सूर्या च सैव पत्नी विवस्वतः ॥१ १९॥

स्तुता वृषाकपायीति उषा इति च योच्यते ।
उषा एषा त्रिधात्मानं विभज्य प्रैति गोपतिम् ॥१२० ॥

उषाः पुरोदयाद् भूत्वा सूर्या मध्यंदिने स्थिते ।
भूत्वा वृषाकपायी च दिनान्तेष्ववगच्छति ॥ १२१॥

सत्यसूर्यर्तसोमानां सौर्याद्यात्र ह्यृगुच्यते ।
पराभिस्तिसृभिस्त्वृग्भिर् उच्यते सोम ओषधिः ॥ १२२॥

विस्पष्टमुत्तरा त्वासाम् ऋक् चन्द्रमसमर्चति ।
सूर्यायै भाववृत्तं तु रैभीत्यष्टाभिरुच्यते ॥ १२३ ॥

यदश्विनौ द्वृच स्तौति सूर्यमेवोत्तरार्चति ।
सप्तदशी वैश्वदेवी सौर्याचान्द्रमसी परा ॥ १२४॥

परस्याः प्रथमौ पादौ सौर्यौ चान्द्रमसौ परौ ।
और्णवाभो द्वृचे त्वस्मिन्न् अश्विनौ मन्यते स्तुतौ ॥१२५॥

सूर्याचन्द्रमसौ तौ हि प्राणापानौ च तौ स्मृतौ ।
अहोरात्रौ च तावेव स्यातां तावेव रोदसी ॥१२६॥

अश्नुवाते हि तौ लोकाञ् ज्योतिषा च रसेन च ।
पृथक्पृथक् च चरतो दक्षिणेनोत्तरेण च ॥१२७॥

सूर्यः सरति भूतेषु सु वीरयति तानि वा ।
सु ईर्यत्वाय यात्येषु सर्वकार्याणि संदधत् ॥१२८॥

चारु द्रमति वा चायंश् चायनीयो द्रमत्युत ।
चमेः पूर्वं समेतानि निर्मिमीतेऽथ चन्द्रमाः ॥ १२९॥

सुकिंशुकमिति त्वस्यां सूर्यामारोहतीं पतिम् ।
स्तौति विश्वावसुं चैव द्वृचे गन्धर्वमुत्तरे ॥१ ३०॥

अनृक्षरा इत्यनया यातौ स्तौतीह दंपती ।
गृहान्प्रपद्यमानां तु पराभिः पञ्चभिर्वधूम् ॥ १३१ ॥

वाससश्च वधूनां च वरदानं प्रचक्षते ।
तत् स्त्रिया विरागस्य विभवे सति वाससः ॥ १३२ ॥

अन्यत्र मैथुनाद्भर्तुर् हरणं प्रतिषिध्यते ।
ये यक्ष्मनाशिनो स्तौति द्वृचे मा परिपन्थिनः ॥ १ ३३॥

तृष्टमेतदिति त्वाह यादृग्वाधूयमर्हति ।
आशास्ते चैव विविधं ज्ञातिभ्यश्चानुशासनम् ॥ १ ३४॥

बद्धा स्त्री भाववृत्तिश्च परवा त्वत्र कथ्यते ।
गृभ्णामि त ऋचा हस्तं गुह्णन्नथ धनाशिषः ॥१ ३५॥

आशास्ते परया तस्याः संयोगार्थास्तथाशिषः ।
पराभिराशीश्चाशास्ते पृथक् ताभ्यां सहैव च ॥ १३६॥

अधोरेति तृचे तस्याः समिहेति द्वयोर्द्वयोः ।
आ नः प्रजापतेर् ऐन्द्री चान्त्या बृहस्पतेः ॥ १३७ ॥

मन्त्रा वैवाहिका ह्येते निगद्यन्ते नृणामपि ।
आर्त्विजा याजमानाश्च यथारूपं विशेषतः ॥ १३८ ॥

प्रत्यृचं प्रतिकीर्त्यन्ते देवताश्चेह यासु याः ।
वदेत्तां देवतां तासु नाराशंसीर्वदेत वा ॥ १३९ ॥

औषसी सर्वथा चैता भाववृतं प्रचक्षते ।
सूर्यया सह सूक्तेऽस्मिन् पादश्चैवात्र लक्ष्यते ॥ १४० ॥

वि हि वार्षाकपं सूक्तम्[१] असौ हि कपिलो वृषा ।
इन्द्रः प्रजापतिश्चैव विश्वस्मादिन्द्र उत्तरः ॥१४१ ॥

रक्षोहणादि चाग्नेयं त्रीन् स्तौत्यग्नीन् परं हविः ।
इमं च मध्यमं चैव असौ वैश्वानरं च यः ॥ १४२ ॥

ऐन्द्रात्पुरुषसक्तं च अन्त्यया पौरुषस्य तु ।
यथैनमभजन्साध्या यज्ञार्थं सोऽर्थ उच्यते ॥ १४३ ॥

आपान्तमन्युरित्यैन्द्र्यां स्तुतः सोमोऽत्र दृश्यते ।
सालोक्यात्साहचर्याद्वा स्तूयते सोम एव वा ॥ १४४॥

निपातभाजं सोमं च अस्यां रथीतरोऽब्रवीत् ।
सेन्द्रेषु हि निपातोऽत्र स्तुतोऽग्निररुणेन सम् ॥ १४५ ॥

यज्ञस्य यो वैश्वदेवे प्रैत इत्युत्तरं तु यत् ।
तत्रावुदस्तु ग्रावाणं मूर्तिमन्तमिवार्चति ॥ १४६ ॥

प्र तद्दुःसीम इत्यृग्भ्यां राज्ञां दानं च शंसति ।
पुरुरवसि राजर्षाव् अप्सरास्तूर्वशो पुरा ।
न्यवसत्संविदं कृत्वा तस्मिन्धर्मं चचार च ॥१४७॥

तथा तस्य च संवासम् असयून् पाकशासनः ।
पैतामहं चानुरागम् इन्द्रवच्चापि तस्य तु ॥ १ ४८॥

स तथोस्तु वियोगार्थं पार्श्वस्थं वज्रमब्रवीत् ।
प्रीतिं भिन्द्धि तयोर्वज्र मम चेदिच्छसि प्रियम् १४९
तथेत्युक्त्वा तयोः प्रीति वज्रोऽभिनत्स्वमायया ।
ततस्तया विहीनस्तु चचारोन्मत्तवन्नृपः ॥ १५० ॥

चरन्सरसि सोऽपश्यद् अभिरूपामिवोर्वशीम् ।
सखीभिरभिरूपाभिः पञ्चभिः पार्श्वतो वृताम् ॥१५१ ॥

तामाह पुनरेहीति दुःखात्सा त्यब्रवीन्नृपम् ।
आप्राप्याहं त्वयाद्येह स्वर्गे प्राप्स्यसि मां पुनः ॥१५२॥

आह्वानं प्रति चाख्यानम् इतरेतरयोरिदम् ।
संवादं मन्यते यास्क इतिहासं तु शौनकः ॥ १५३ ॥

हय इति परमैन्द्रं प्र ते या ओषधास्तवः ।
प्रयोगे भिषजस्त्वेतद् यक्ष्मनाशाय कल्पते ॥ १५४ ॥

आर्ष्टिषेणस्तु देवापिः कौरव्यश्चैव शंतनुः ।
भ्रातरौ कुरुषु त्वेतौ राजपुत्रौ बभूवतुः ॥ १५५ ॥

ज्येष्ठस्तयोस्तु देवापिः कनीयांश्चैव शंतनुः ।
त्वग्दोषी राजपुत्रस्तु ऋष्टिषेणसुतोऽभवत् ॥ १५६॥

राज्येन छन्दयामासुः प्रजाः स्वर्गं गते गुरौ ।
स मुहूर्त्तमिव ध्यात्वा प्रजास्ताः प्रत्यभाषत ॥ १५७॥

इति बृहद्देवतायां सप्तमोऽध्यायः ॥

अध्यायः ८

न राज्यमर्हामि नृपतिर्वोस्तु शन्तनुः।
तथेत्युक्त्वाभ्यसिञ्च्यंस्ताः प्रजा राज्याय शन्तनुः॥१॥

ततोभिषेके कौरव्ये वनं देवापिराविशत्।
न ववर्षाथ पर्जन्यो राज्ये द्वादश वै समाः॥२॥

ततोभ्यगच्छद्देवापिं प्रजाभिः सह शन्तनुः।
प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे॥३॥

शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा।
तमुवाचाथ देवापिः प्रह्वं तु प्राञ्जलिस्थितम्॥४॥

न राज्यमहमर्हामि त्वग्दोषोपतेन्द्रियः।
याजयिष्यामि ते राजन् वृष्तिकामेज्यया स्वयम्॥५॥

ततस्तं तु पुरोधत्त आर्त्विज्याय स शन्तनुः।
स चास्य चक्रे कर्माणि वार्षिकाणि यथाविधि॥६॥

बृहस्पते प्रतीत्यृग्भिर् ईजे चैव बृहस्पतिम् ।
द्वितीययास्य सूक्तस्य बोधिते जातवेदसा ।। ७ ।।

आस्ये ते द्युमतीं वाचं दधामि स्तुहि देवताः ।
ततः सोऽस्मै ददौ प्रीतो वाचं देवीं तथा च सः ।। ८ ।।

ऋग्भिश्चतसृभिर्देवाञ् जगौ वृष्ट्यर्थमेव तु ।
अग्निं च सूक्तशेषेण कमैन्द्रं सूक्तमुत्तरम् ।। ९ ।।

इन्द्र दृह्येति विश्वेषाम् उदित्यृत्विकस्तुतिः परम् ।
शक्तिप्रकाशनेनैषां विनियोगोऽत्र कीर्त्यते ।। १० ।।

प्रेतीतिहाससूक्तं तु मन्यते शाकटायनः ।
यास्को द्रौघणमैन्द्रं वा वैश्वदेवं तु शौनकः ।। ११ ।।

आजावनेन भार्म्यश्व इन्द्रासोमौ तु मुद्गलः ।
अजयद्वृषभं युक्त्वा ऐन्द्रं च द्रुघणं रथे ।। १२ ।।

युध्यन् संख्ये जयं प्रेप्सुरे ऐन्द्रोऽप्रतिरथो जगौ ।
आशुरैन्द्रमप्वा देवो अमीषामित्यृचि स्तुता ।। १३ ।।

चतुर्थी बार्हस्पत्या स्यान् नाकुले च महानिति ।
द्व्रृचस्तु मारुतः प्रेतेत्य् ऐन्द्री वा ब्रह्म यत्परम् ।। १४ ।।

तत्रानिरुक्तसूक्तादाव् ऋगेका सूर्यमर्चति ।
घर्मपराश्चतस्रस्तु सवितारमभीति या ।। १५ ।।

सूक्तशेषस्य षळृचः सूर्यायचन्द्रमसौ सह ।
तुष्टावेन्द्रमसावीति अष्टकोऽस्मात्परेण तु ।। १६ ।।

कौत्सः कदा वसो सूक्तं दुर्मित्रो नाम नामतः ।
सुमित्रश्चैव नाम स्याद् गुणार्थमितरत्पदम् ।। १७ ।।

[१]भूतांशस्तु प्रजाकामः कर्माणि कृतवान्पुरा ।
न हि लेभे प्रजाः काश्चित् कश्यपो मुनिसत्तमः ।। १८।।

उवाच भार्या भूतांशं सुतानिच्छसि यावतः ।
तावतो जनयिष्यामि देवता द्वन्द्वश स्तुहि ।। १९ ।।

तमभ्ययुस्तु सर्वाणि द्वन्द्वानि स्तुतिकाम्यया ।
तान्यवेक्ष्याथ तच्चक्रे नासत्यौ सूक्तभागिनौ ।। २० ।।

तदेतदन्ततो भावाद् आश्विनं सूक्तमुच्यते ।
न ह्यस्मिन्देवतालिङ्गं प्रागन्त्याद्दृश्यते पदात् ।।२१।।

सूक्तेन तु परेणात्र स्वयमाविरभूदिति ।
आत्मानमेव तुष्टाव प्राजापत्याथ दक्षिणा ।। २२ ।।

दातॄनत्र स्तुतानेके दक्षिणानां वदन्ति तु ।
दातृत्वाद्दक्षिणानां च भोजाश्चतसृभि स्तुताः ।। २३ ।।

असुरा पणयो नाम रसापारनिवासिनः ।
गास्तेऽपजहुरिन्द्रस्य न्यगूहंश्च प्रयत्नतः ।। २४ ।।

बृहस्पतिस्तथापश्यद् दृष्ट्वेन्द्राय शशंस च ।
प्राहिणोत्तत्र दूत्येऽथ सरमां पाकशासनः ।। २५ ।।

किमीत्यत्रायुजाभिस्तां पप्रच्छुः पणयोऽसुराः ।
कुतः कस्यासि कल्याणि किंवा कार्यमिहास्ति ते ।।२६।।

अथाब्रवीत्तान्सरमा दूत्यैन्द्री विचराम्यहम् ।
युष्मान्व्रजं चान्विष्यन्ती गाश्चैवेन्द्रस्य पृच्छतः ।। २७ ।।

विदितत्वेन्द्रस्य दूतीं ताम् असुराः पापचेतसः ।
ऊचुर्मा सरमे गास्त्वम् इहास्माकं स्वसा भव ।। २८ ।।

विभजामो गवां भागं माहिता ह ततः पुनः ।
सूक्तस्यास्यान्त्यया चर्चा युग्माभिस्त्वेव सर्वदाः ।।२९।।

साब्रवीन्नाहमिच्छामि स्वसृत्वं वा धनानि वा ।
पिबेयं तु पयस्तासां गवां यास्ता निगूहथ ।। ३० ।।

असुरास्तां तथेत्युक्त्वा तदाजह्रुः पयस्ततः ।
सा स्वभावाच्च लौल्याच्च पीत्वा तत्पय आसुरम् ।।३ १।।

परं संवननं हृद्यं बलपुष्टिकरं ततः ।
शतयोजनविस्ताराम् अतरत्तां रसां पुनः ।। ३२ ।।

यस्याः पारे परे तेषां पुरमासीत्सुदुर्जयम् ।
पप्रच्छेन्द्रश्च सरमां कच्चिद्गा दृष्टवत्यसि।।३३।।

सा नेति प्रत्युवाचेन्द्रं प्रभावादासुरस्य तु ।
तां जघान पदा क्रुद्धः उद्गिरन्ती पयस्ततः ।। ३४ ।।

जगाम सा भयोद्विग्ना पुनरेव पणीन्प्रति ।
पदानुसारिपद्धत्या रथेन हरिवाहनः ।। ३५ ।।

गत्वा जघान च पणीन् गाश्च ताः पुनराहरत् ।
तेऽवदन्वैश्वदेवं तु ब्रह्मजाया जुहूर्जगौ ।। ३६ ।।

जामदग्नं समिद्धोऽद्य आप्रीसूक्तमतः परम् ।
युगपद्वै व्रजन्तं तं वैरूपा ऋषयस्त्रिभिः ।। ३७ ।।

इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति मनीषिणः ।
वैश्वदेवं परं सूक्तं धर्मेत्येकेऽत्र तु स्तुतान् ।। ३८ ।।

देवानिन्द्रं च मन्यन्ते छन्दांस्यग्निं च मध्यमम् ।
आग्नेयं चित्र इत्येतज् जगादर्षिरुपस्तुतः ।। ३९ ।।

पिबेन्द्रं स्तौति नेत्यन्नं राक्षोघ्नाग्नेयमुत्तरम् ।
इतिवै लाबमैन्द्रं तद् आप्त्याः षष्ठ्यां निपातिताः ।।४०।।

प्राजापत्यमथाग्नेयं वैन्यमित्यनुपूर्वशः ।
वरुणेन्द्राग्निसोमानाम् इमं न इति संस्तवः ।। ४१ ।।

चतस्रस्त्वत्र सूक्तादाव् आग्निरात्मस्तवं जगौ ।
स्तुतः सोमस्तु षष्ठ्या च नवम्या च पदैस्त्रिभिः ।।४२।।

वारुण्यस्त्वितरास्तिस्र ऐन्द्रमेवोत्तमं पदम् ।
अहं वाक्सूक्तमर्यम्णो मित्रस्य वरुणस्य च ।। ४३ ।।

न तं रात्र्याः परं सूक्तं वैश्वदेवं ममेति यत् ।
नमस्ते वैद्युतं सूक्तम् आशीर्वाद परं तु यत् ।। ४४ ।।

यां कल्पयन्ति नोऽरयः कृत्यानाशनमात्मनः ।
हिरण्यस्तुतिरायुष्यं नासद्यत्परमेष्ठिनः ।। ४५ ।।

वदन्ति भाववृत्तं तद् यो यज्ञ इति चोत्तरम् ।
अपैन्द्रमत्र त्वाश्विन्यौ चतुर्थी पञ्चमी स्मृते।।४६।।

मैत्रावरुणमीजानं प्रथमायामृचि स्तुताः ।
अर्धर्चे द्यौश्च भूमिश्च अश्विनौ चोत्तरे ततः ।। ४७ ।।

प्रों ष्वैन्द्रे वैश्वदेव्यृक् तु नकिर्देवा मिनीमसि ।
यस्मिन्वृक्ष इति त्वस्मिन् द्युस्थान स्तूयते यमः ।।४८।।

केश्यग्निं कैशिनं सूक्तम् उत देवाः परं तु यत् ।
देवानामत्र चाद्या स्याद् वातदेवस्तृचः परः ।। ४९ ।।

त्रायतां वैश्वदेव्यृक् तु शेषस्त्वब्दैवतः परः ।
स्यादेतद्विश्वभैषज्यं रपसो वा विनाशनम्।।५०।।

भूमिर्लाक्षं परं सूक्तं तवैन्द्रं सूक्तमुत्तरम् ।
सूर्यरश्मिरिति त्वस्मिन् सावित्रः प्रथमस्तृचः ।। ५१ ।।

आत्मा स्तुतः परोक्षस्तु गन्धर्वेणोत्तरे तृचे ।
इन्द्रो वैष निपातेन अथवा सूर्य उच्यते ।। ५२ ।।

सूक्तेऽस्मिन्देवतास्तिस्र एता एव प्रकीर्तिताः ।
आग्नेयं त्वग्ने तवेति वाग्ने अच्छेति यत्परम् ।। ५३ ।।

आग्नेयं वैश्वदेवं च अयमित्यत्र तु द्वृचाः ।
शार्ङ्गाश्चत्वार ऋषयो अग्निमार्चन्पृथक्पृथक् ।। ५४ ।।

आश्विनं त्यं चिदित्येतद् अयमैन्द्रं ततः परम् ।
इमां खनामीति सूक्तम् इन्द्राणी यत्स्वयं जगौ ।।५५।।

तदौपनिषदं षट्कं भाववृत्तं प्रचक्षते ।
उत्तानपर्णां पाठां तु स्तौति सूक्ते महौषधिम् ।। ५६ ।।

पतिसंवननी त्वन्त्यान्याः सपत्न्यपनोदिकाः ।
अरण्यानीत्यरण्यान्या स्तुतिरैन्द्रे श्रदुत्तरे ।। ५७ ।।

सावित्रं सविता यन्त्रैः समिद्धश्चित्समिध्यसे ।
आग्नेयं श्रद्धया श्राद्धं मेधासूक्तमतः परम् ।। ५८ ।।

आग्नेयमा सूरेत्वेतच् छास ऐन्द्रे ततः परे ।
सोम एकेभ्य इत्येतद् भाववृत्तं प्रचक्षते ।। ५९ ।।

यदरायीत्यलक्ष्मीघ्नं तत्र चत्तो इति द्वृचे ।
प्राधान्याद्वा निपाताद्वा स्तूयते ब्रह्मणस्पतिः ।। ६० ।।

इन्द्रश्चैव यदित्यस्यां विश्वे देवाः परीत्यृचि ।
आग्नेयं चाग्निमित्येतद् वैश्वदेवमिमा नु कम् ।। ६१ ।।

इन्द्रः प्राधान्यतस्त्वत्र विश्वैर्देवैः सह स्तुतः ।
आदित्यैश्च मरुद्भिश्च तथारूपं हि दृश्यते ।। ६२ ।।

सूर्यो न इति सौर्यं तु यत्त्वेतदुदसाविति ।
पौलोमी स्वान्गुणांस्तत्र सपत्नीनां च शंसति ।। ६३ ।।

ऐन्द्रं तीव्रस्य मुञ्चामि भैषज्यं यक्ष्मनाशनम् ।
राजयक्ष्महणं सूक्तं प्राजापत्यं तदुच्यते ।। ६४ ।।

ऐन्द्राग्नं मन्यते यास्क एके लिङ्गोक्तदैवतम् ।
राक्षोघ्नाग्नेयमित्युक्तं यत्त्वेतद्ब्रह्मणेति तु ।। ६५ ।।

स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् ।
वैन्यं तु वेनस्तत्पश्यद् अक्षीभ्यां यक्ष्मनाशनम् ।। ६६।।

दुःस्वप्नघ्नमपेहीति निपातीन्द्रोऽग्निरेव च ।
आसीदृषिर्दीर्घतपाः कपोतो नाम नैर्ऋतः ।। ६७ ।।

अकरोत्कपोतस्तस्याष्ट्र्याम् अग्निधाने पदं किल ।
स तमात्महितैर्वाक्यैः कपोतं स्तुतवानृषिः ।। ६८ ।।

देवा इति तु सूक्तेन प्रायश्चित्तार्थमुच्यते ।
ऋषभं मा सपत्नघ्नं येनेदमिति मानसम् ।। ६९ ।।

तुभ्येत्यृषी ददृशतुर् ऐन्द्रं गायिनभार्गवौ ।
वरुणो विधातानुमतिर् धाता सोमो बृहस्पतिः ।।७०।।

षळेता देवतास्तत्र तृतीयायामृचि स्तुताः ।
वातस्येति परेणास्तौद् अनिलः पितरं स्वकम् ।।।।
७१।।
मयोभूरिति यत्सूक्तम् अपश्यच्छबर ऋषिः ।
नानारूपाः पयस्विन्यो गावस्तत्र तु संस्तुताः ।। ७२ ।।

विभ्राट् सौर्यं त्वं त्यमैन्द्रम् आ याहीत्युषस स्तुतिः ।
आ त्वा राज्ञेऽभिषिक्ताय द्वे सूक्ते चानुमन्त्रणे ।।७३।।

प्र व इत्युत्तरं ग्राव्णां ददर्श स्तुतिमार्बुदिः ।
यत्त्वतः परमाग्नेयं तत्रार्भव्यृक् प्र सूनवः ।। ७४ ।।

ऋषिर्जगौ पतंगस्तु पतंगमिति यत्परम् ।
तत्सौर्यमेके मन्यन्ते मायाभेदं तथापरे ।। ७५ ।।

मायाभेदे द्वितीयायां पाक् स्तुतेत्याह शौनकः ।
देवी बिभर्ति मनसा या वाचं विदितां सतीम् ।।७६।।

तयमू षु तार्क्ष्यदैवत्यं सूक्तं स्वस्त्ययनं विदुः ।
उदैन्द्रे वैश्वदेवं तु प्रथश्चेति च यत्परम् ।। ७७ ।।

आत्मप्रभावमाचख्युस् तत्राद्या ऋषयस्त्रयः ।
रथंतरं यथा स्तोत्रं स्तोत्रं चैव यथा बृहत् ।। ७८ ।।

यथा च संभूतो धर्मः सवितुश्चोपलक्ष्यते ।
बृहस्पतिरिति त्वस्मिन् स्तुतः सूक्ते बृहस्पतिः ।।७९।।

आशिषो यजमानस्य केचिदेतां स्तुतिं विदुः ।
प्राजापत्यस्य यत्सूक्तम् अपश्यं त्वा प्रजावतः ।। ८० ।।

प्रत्यृचं देवता स्तौति लिङ्गैरेवात्र लक्षिताः ।
आशिषः पुत्रकामस्य प्रथमा हि वदत्यथ ।। ८१ ।।

द्वितीया पुत्रकामायास् तृतीयात्मस्तवं त्वृषेः ।
यद्विष्णुरिति सूक्तं तु वैश्वदेवं प्रचक्षते ।। ८२ ।।

तस्मिन्स्वदारगर्भार्थम् ऋषिराशास्त आशिषः ।
परं तु नेजमेषेति गर्भार्थं वा तदुच्यते ।।८३।।

अस्यै मे पुत्रकामायै गर्भमा धेहि यः पुमान् ।
आशिषो योगमेतं हि सर्वर्गर्धेन मन्यते ।। ८४ ।।

एकारमनुकम्पार्थे नाम्नि स्मरति माठरः ।
आख्याते भूतकरणं वाष्कला आव्ययोरिति ।। ८५ ।।

माहित्रं यन्महि त्रीणाम् आदित्यानां स्तुतिं विदुः ।
वरुणार्थममित्राणाम् आदित्येष्वितरेषु तु ।। ८६ ।।

एत एव त्रयो देवा स्तुताः स्वल्पेष्वतोऽन्यथा ।
शान्त्यर्थं सूक्तमेतद्धि पावनं चैव वै श्रुतम् ।
यातामपि स्वस्त्ययने दृष्टं तदनुमन्त्रणम् ।। ८७ ।।

उलोऽस्तौत्पितरं वातं वात आग्नेयमुत्तरम् ।
विस्पष्टं जातवेदस्यं प्रेति दाशतयीषु तु ।। ८८ ।।

यत्किञ्चिदन्यत्राग्नेयं जातवेदस्यमुच्यते।
आयं गौरिति यत्सूक्तं सार्पराज्ञा स्वयं जगौ ।। ८९ ।।

तस्मात्सा देवता तत्र सर्यूमेके प्रचक्षते ।
मुद्गलः शाकपूणिश्च आचार्यः शाकटायनः ।। ९० ।।

त्रिस्थानाधिष्ठितां वाचं मन्यन्ते प्रत्यृचं स्तुताम् ।
भाववृत्तं परं सूक्तं ददर्शाथाघमर्षणः ।। ९१ ।।

परं न विद्यते यस्माच् छान्त्यै वा पावनाय वा ।
यथाश्वमेधः ऋतुराट् सर्वरिप्रप्रणोदनः ।। ९२ ।।

तथाघमर्षणं ब्रह्म सर्वरिप्रप्रणोदनम् ।
तदादीनीति यच्चातः संज्ञानं ज्ञानसंस्तवः ।। ९३ ।।

चतुर्थं यत्तु नैर्हस्त्यं तत्सपत्ननिबर्हणम् ।
संसमित्प्राध्वराणां चेत्य् आग्नेय्यावेव ते स्मृते ।।९४।।

उशना वरुणश्चेन्द्रश् चाग्निश्च सविता स्तुताः ।
संज्ञाने प्रथमस्यां तु द्वितीयस्यामथाश्विनौ ।। ९५ ।।

तृतीया चोत्तमे च द्वे आशिषोऽभिवदन्ति ताः ।
इन्द्रः पूषा सपत्नघ्ने द्वितीयस्यामृचि स्तुतौ ।। ९६ ।।

देवानामितराः प्रोक्ता आशीर्वादपराश्च याः ।
संसं संज्ञानमित्येते परं संवननं विदुः ।। ९७ ।।

महानाम्न्य ऋचो गुह्यास् ता एन्द्र्यश्चैव यो वदेत् ।
सहस्रयुगपर्यन्तम् अहर्ब्राह्मं स राध्यते ।। ९८ ।।

तृचाधमं याज्ञिकाः सूक्तमाहुस्
तस्मिन्स्तुतौ दृश्यन्ते याः सूक्तभाजः ।
प्रधानमुक्तं किल देवता याः
सूक्तभाजः सर्वदा शौनकेन ।। ९९ ।।

ऐन्द्रीर्ऋचो महानाम्नीस्तु विद्यात्
तथा हि इष्टं ब्राह्मणे सूक्तशब्दः ।
प्रधानमुक्तं किल देवता याः
सूक्तभाजः सर्वदा शौनकेन ।। ९९ ।।

ऐन्द्रीर्ऋचो महानाम्नीस्तु विद्यात्
तथा हि इष्टं ब्राह्मणे सूक्तशब्दः ।
न दृश्यते सूक्तवादो निवित्सु
यथा प्रैषेष्वाह सूक्ताभिधानम् ।। १०० ।।

सूक्तैकदेशा इति तान्प्रतीयाद्
अन्याश्च कुन्त्याः पदशो विशास्ता ।
यथैतशो देवनीथादिसंज्ञा
कुन्तापे तत्सर्वमेकं हि सूक्तम् ।। १०१ ।।

पुरीषपदमासां तु प्रथमं स्यात्प्रजापतेः ।
आग्नेयमैन्द्रं वैष्णवं पौष्णं चैव तु पञ्चमम् ।। १०२ ।।

अग्नेः प्रयाजानुयाजाः प्रैषा ये च हवींषि च ।
यद्दैवतं हविस्तु स्यात् प्रैषास्तद्दैवताश्च ते ।। १०३ ।।

निविदां निगदानां च स्वैः स्वर्लिङ्गैश्च देवताः ।
निगदेन निगद्यन्ते याश्च कल्पानुगा ऋचः ।। १०४ ।।

अग्नेरेव तु गायत्र्य उष्णिहः सवितुः स्मृताः ।
अनुष्टुभस्तु सोमस्य बृहत्यस्तु बृहस्पतेः ।। १०५ ।।

पंक्त्यस्त्रिष्टुभश्चैव विद्यादैन्द्र्यश्च सर्वशः ।
विश्वेषां चैव देवानां जगत्यो यास्तु काश्चन । । १०६ ।।

विराजश्चैव मित्रस्य स्वराजो वरुणस्य च ।
इन्द्रस्य निचृतः प्रोक्ता वायोश्च भुरिजः स्मृतः ।। १ ०७।।

विषये यस्य वा स्यातां स्यातां वा वायुदेवते ।
यास्त्वतिछन्दसः काश्चित्ताः प्रजापतिदेवताः ।। १ ०८।।

विच्छन्दसस्तु वायव्या मन्त्राः पादैश्च ये मिताः ।
पौरुष्यो द्विपदाः सर्वा ब्राह्म्य एकपदाः स्मृताः ।।१ ०९।।

समस्ता ऋच आग्नेय्यो वायव्यानि यजूंषि च ।
सौर्याणि चैव सामानि सर्वाणि ब्राह्मणानि च ।। ११ ०।।

वैश्वदेवो वषट्कारो हिंकारो ये यजामहे ।
रूपं वज्रस्य वाक्पूर्वं स्वाहाकारोऽग्निदेवता ।। १११ ।।

देवानां च पितॄणां च नमस्कारः स्वधैव च ।
क्रुष्टो मूर्धानि विज्ञेयस् तालव्यः प्रथमः स्वरः ।। ११ २।।

द्वितीयस्तु भ्रुवोर्मध्ये तृतीयः कर्णसंश्रितः ।
चतुर्थो नासिकाग्रे स्याद् औरसो मन्द्र उच्यते ।
मन्द्रकर्षणसंयुक्तम् अतिस्वारं प्रशंसति ।। ११३ ।।

वदन्ति देवताः क्रुष्टं मनुष्याः प्रथमं स्वरम् ।
द्वितीयं पशवः सर्वे गन्धर्वाप्सरसः स्वरम् ।। ११४ ।।

अण्डजाः पक्षिणः सर्पाश् चतुर्थमुपभुञ्जते ।
मन्द्रं पिशाचा रक्षांसि असुराश्चोपभुञ्जते ।। ११५ ।।

अतिस्वारस्तु सर्वस्य जङ्गमस्थावरस्य च ।
वैश्वदेवः स्वरः क्रुष्टो नित्यं यो मूर्ध्नि तिष्ठति ।।१ १ ६।।

तालव्यः प्रथमः साम्नां स्वर आदित्यदैवतः ।
स्वरो द्वितीयः साध्यानां भ्रुवोर्देशं समाश्रितः ।। १ १७।।

आश्विनस्तु तृतीयोऽत्र स्वरः कर्णौ समाश्रितः ।
चतुर्थस्त्वत्र वायव्यो नासिक्यः स्वर उच्यते ।। १ १८।।

पञ्चमस्तु स्वरः प्रोक्तश् चाक्षुषः सूर्यदैवतः ।
यस्तु सामस्वरः षष्ठः स सौम्यो मन्द्र उच्यते ।। १ १९।।

विकर्षेण तु मन्द्रस्य युक्तोऽतिस्वार्य उच्यते ।
स मैत्रावरुणा ज्ञेयो मन्द्रस्थानसमाहितः ।। १२० ।।

सामस्वराणां सप्तानाम् एतो देवा इहोदिताः ।
त्रयाणामितरेषां तु लोकाधिपतयस्त्रयः ।।१२१ ।।

वाग्देवत्योऽथवाग्नेयः थस्तावश्चैव सामसु ।
उद्गीथोपद्रवावैन्द्रौ स्यातां वा वायुदेवतौ ।। १२२ ।।

सौर्यः स्यात्प्रतिहारोऽत्र निधनं वैश्वदेवतम् ।
हिङ्कारप्रणवाभ्यां तु पुरस्तादेव कीर्तनात् ।। १२३ ।।

इति व्यस्तसमस्तानां मन्त्राणामिह दैवतम् ।
देवताविदवेक्षेत प्रयोगे सर्वकर्मणाम् ।।१२४।।

सप्तर्षयो वसवश्चापि देवा अथर्वाणो भृगवः सोमसूर्याः ।
पथ्या स्वस्ती रोदसी चोक्तमन्त्रे कूहूर्गुङ्गूरदितिर्धेनुदघ्न्या ।।

असुनीतिरिळा चाप्त्या विधातानुमतिर्ह या ।
आङ्गिरोभिः सहैताः स्युर् उक्तमन्त्राश्च देवताः ।।१२६।।

वैश्वानरो हि सुपर्णो विवस्वान्
प्रजापतिर्द्यौः सुधन्वा नगोह्यः ।
अपांनपादर्यमा वातजूतिर्
इळस्पतिश्चापि रथस्पतिश्च ।। १२७ ।।

ऋभवः पर्जन्यः पर्वता ग्नाश्च
दक्षो भगो देवपत्नीर्दिशश्च ।
आदित्या रुद्राः पितरोऽथ
साध्या निपातिनो वैश्वदेवेषु सर्वे ।। १२८।।

अनुक्रान्ता देवताः सूक्तभाजो
हविर्भाजश्चोभयथा निपातैः ।
अप्येवं स्यादुभयथान्यथा वा
न प्रत्यक्षमनृषेरस्ति मन्त्रम् ।। १२९ ।।

योगेन दाक्ष्येण दमेन बुद्ध्या
बाहुश्रुत्येन तपसा नियोगैः ।
उपास्यास्ताः कृत्स्नशो देवता या
ऋचो ह यो वेद स वेद देवान् ।
यजूंषि यो वेद स वेद यज्ञान्
सामानि यो वेद स वेद तत्त्वम् ।। १३ ०।।

मन्त्राणां देवताविद्यः प्रयुङ्क्ते कर्म कर्हिचित् ।
जुषन्ते देवतास्तस्य हविर्नादेवताविदः ।। १३१ ।।

अविज्ञानप्रदिष्टं हि हविर्नेहेत दैवतम् ।
तस्मान्मनसि संन्यस्य देवतां जुहुयाद्धविः ।। १३२ ।।

स्वाध्यायमपि योऽधीते मन्त्रदैवतविच्छुचिः ।
स सत्त्रसदिव स्वर्गे सत्त्रशद्भिरपीड्यते ।। १३३ ।।

नियमोऽयं जपे होमे ऋषिश्छन्दोऽथ दैवतम् ।
अन्यथा चेत्प्रयुञ्जानस् तत्फलाच्चात्र हीयते ।। १३४ ।।

ऋषिछन्दोदैवतादि ज्ञानं यज्ञादिषु श्रुतम् ।
तदाश्रित्य प्राणदृष्टिर् विषितात्रेति गम्यताम् ।। १ ३५।।

अविदित्वा ऋषिं छन्दो दैवतं योगमेव च ।
योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ।। १३६ ।।

अर्थेप्सवः खल्वृषयश् छन्दोभिर्देवताः पुरा ।
अभ्यधावन्निति छन्दो मध्ये त्वाहुर्महर्षयः ।। १३७ ।।

ऋषिं तु प्रथमं ब्रूयाद् छन्दस्तु तदनन्तरम् ।
देवतामथ मन्त्राणां कर्मस्वेवमिति श्रुतिः ।। १३८ ।।

आधारं व्याप्यनाधारं विविच्यात्मानमात्मनि ।
ईक्षमाणो शुभौ संधिम् ऋचोदैवतवित्पठेत् ।। १३९ ।।

स ब्रह्यामृतमत्यन्तं योनिं सद्सतोध्रुवम् ।
महच्चाणु च विश्वेशं विशति ज्योतिरुत्तमम् ।। १४०।।

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.