ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 61–70

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 61–70

पृष्ठ 61

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 61 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सायणाचार्यकृतभाष्यभूमिका

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥१ ॥

यस्य निःश्वसितं' वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥२ ॥

यत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपतिः ।

आदिशन्माधवाचार्य वेदार्थस्य प्रकाशने ॥३ ॥

ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् ।|| || कृपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यतः ४ ननु कोऽयं वेदो नाम? के वा तस्य विषयप्रयोजनसम्बन्धाधिकारिणः? कथं वा तस्य प्रामाण्यम्? न खल्वेतस्मिन् सर्वस्मिन्नसति वेदो व्याख्यानयोग्यो भवति । अत्रो-च्यते— इष्टप्राप्त्यनिष्टपरिहारलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः । अलौकिकपदेन प्रत्यक्षानुमाने व्यावत्त्र्त्येते । अनुभूयमानस्य स्रक्चन्दनवनितादेरिष्टप्राप्तिहेतुत्वम्, औषधा- देरनिष्टपरिहारहेतुत्वं च प्रत्यक्षतः सिद्धम्, स्वेनानुभविष्यमाणस्य पुरुषान्तरगतस्य च तथात्वमनुमानगम्यम् । एवं तर्हि भाविजन्मगतमप्यनुमानगम्यमिति चेत्, न; तद्विशेष-स्यानवगमात् । न खलु ज्योतिष्टोमादिरिष्टप्राप्तिहेतुः, कलञ्जभक्षणवर्जनादिरनिष्टपरिहार-हेतुरित्यमुमर्थं वेदव्यतिरेकेणानुमानसहस्रेणापि तार्किकशिरोमणिरप्यवगन्तुं शक्नोति, तस्माद् अलौकिकोपायबोधको वेद इति लक्षणस्य नातिव्याप्तिः । अत एवोक्तम्— ‘ प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते । एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥' इति । स एवोपायो वेदस्य विषयः । तद्बोध एव प्रयोजनम् । तद्बोधार्थी चाधिकारी । तेन सहोपकार्योपकारकभावः सम्बन्धः । ( १ ) 'निश्वसिता, निश्वासितम्' इति वा पाठौ । ( २ ) 'आदिशत्सायणाचार्यो' इति वा पाठः । ( ३ ) ‘ कृपालुः सायणाचार्यो' – इति मुद्रितेषु ऐतरेयारण्यक- तैत्तिरीयारण्यक-सामवेदीय- छन्द-आरण्यक- भाष्येषु ताण्ड्याद्यष्टब्राह्मणभाष्येषु च पाठः । ( ४ ) 'तद्विशेषस्यानभिगमात्' इति वा पाठः ।

पृष्ठ 62

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 62 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५६ ऐतरेयब्राह्मणम् सायणाचार्यकृता नन्वेवं सति स्त्रीशूद्रसहिताः सर्वेऽपि वेदाधिकारिणः स्यु? इष्टं मे स्यादनिष्टं मा भूदित्याशिषः सार्वजनीनत्वात् । मैवम् । स्त्रीशूद्रयोः सत्यप्युपायबोधार्थित्वे हेत्वन्तरेण वेदाधिकारस्य प्रतिबद्धत्वात्; उपनीतस्यैवाध्ययनाधिकारं ब्रुवच्छास्त्रमनुपनीतयोः स्त्री- शूद्रयोर्वेदाध्ययनमनिष्टप्राप्तिहेतुरिति बोधयति । कथं तर्हि तयोस्तदुपायावगमः? पुराणा- दिभिरिति ब्रूमः । अत एवोक्तम्—– ' स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । इति भारतमाख्यानं मुनिना कृपया कृतम् ॥ '' इति । तस्मादुपनीतैरेव त्रैवर्णिकैर्वेदस्य सम्बन्धः । तत्प्रामाण्यं तु बोधकत्वात् स्वत एव सिद्धम् । पौरुषेयवाक्यं तु बोधकमपि सद्भ्रान्तिमूलत्वसम्भावनया तत्परिहाराय अन्य- प्रमाणमपेक्ष्यैव प्रमाणम् । न तु वेदः मूलप्रमाणमपेक्षते; तस्य नित्यत्वेन कर्तृदोषशङ्काया अनुदयात् । एतदेव जैमिनिना सूत्रितम्---' तत्प्रमाणं बादरायणस्यानपेक्षत्वात्’- इति ॥ ननु वेदोऽपि कालिदासादिवाक्यवत् पौरुषेय एव ब्रह्मकार्यत्वश्रवणात्— .ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद् यजुः तस्मादजायत ॥ इति श्रुतेः । अत एव भगवान् बादरायणः ' शास्त्रयोनित्वात् ' इति सूत्रेण ब्रह्मणो वेदकारणत्वम- ( १ ) भाग ० पु ० १.४.२५ ( २ ) मी ० सू० १.१.५ । ‘ औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेक- श्चार्थेऽनुपलब्धे, तत्प्रमाणं बादरायणस्यानपेक्षत्वात्' इति सम्पूर्णं सूत्रम् । तत्रेदमित्थं व्याख्यातं शबरस्वामिना स्वभाष्ये – 'औत्पत्तिक इति नित्यं ब्रूमः । उत्पत्तिर्हि भाव उच्च्यते लक्षणया । 'अवियुक्तः शब्दार्थयोर्भावः सम्बन्धो, नोत्पन्नयोः पश्चात् सम्बन्ध: । औत्पत्तिकः शब्दस्यार्थेन सम्बन्धः, तस्य अग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तं प्रत्यक्षादिभिरनवगतस्य । कथम्? उपदेशो हि भवति । उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् । व्यतिरेकश्च ज्ञानस्य । न हि तदुत्पन्नं ज्ञानं न विपर्येति, न तच्छक्यते वक्तुम्, नैतदेवमिति । यथा भवति— यथा विज्ञायते, न तथा भवति— यथैतन्न विज्ञायते, तथैतदिति । अन्यदस्य हृदये अन्यद् वाचि स्यात् । एवं वदतो विरुद्धमिदं गम्यते अस्ति नास्ति वेति, तस्मात् प्रमाणम् अनपेक्षत्वात् । न ह्येवं सति प्रत्ययान्तरमपेक्षितव्यं पुरुषान्तरं वाऽपि । अयं प्रत्ययो ह्यसौ । बादरायणग्रहणं बादरायणस्येदं मतं कीर्त्यते, बादरायणं पूजयितुम् । नात्मीयं मतं पर्युदासितम्' । ( ३ ) ऋ० १०.९०.९ । ( ४ ) ब्र ० सू० १.१.३ | तदिदमेवं व्याख्यातवन्तः श्रीशङ्करभगवत्पादाः – महत ॠग्वेदादेः शास्त्रस्यानेकविद्यास्थानोपबृंहितस्य प्रदीपवत् सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः

पृष्ठ 63

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 63 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: भाष्यभूमिका सायणाचार्यकृतभाष्योपेतम् ५७ वोचत् । मैवम्, श्रुतिस्मृतिभ्यां नित्यत्वावगमात् । · ‘ वाचा विरूप नित्यया’ ' इति श्रुतेः । ‘ अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा' इति स्मृतेश्च । बादरायणोऽपि वेदताधिकरणे सूत्रयामास- ' अत एव च नित्यत्वम्' इति । तर्हि परस्परविरोध इति चेत्, न नित्यत्वस्य व्यावहारिकत्वात् । सृष्टेरूर्ध्वं संहारात् पूर्वं व्यवहारकालः । तस्मिन्नुत्पत्तिविनाशादर्शनात् । कालाकाशदयो यथा नित्या एवं वेदोऽपि व्यवहारकाले कालिदासादिवाक्यवत् पुरुषविरचितत्वाभावान्नित्यः । आदिसृष्टौ तु काला- काशादिवदेव ब्रह्मणः सकाशाद् वेदोत्पत्तिराम्नायते । अतो विषयभेदान्न परस्परविरोधः । ब्रह्मणो निर्दोषत्वेन वेदस्य कर्तृदोषाभावात् स्वतस्सिद्धं प्रामाण्यं तदवस्थम् । तस्माल्लक्षण- प्रमाणसद्भावाद् । विषयप्रयोजनसम्बन्धाधिकारिसत्त्वात् । प्रामाण्यस्य सुस्थित्वाच्च वेदो व्याख्यातव्य एव । ननु वेदार्थावबोधे विध्यभावाद् बोधसाधनं व्याख्यानं व्यर्थमिति चेत्; न, अध्ययन-विधेबधपर्यवसायित्वात् ।५ एतच्च भट्टगुरुमतानुसारिभिर्बहुधा प्रपञ्चितम् । आम्ना- यते च- • कारणं ब्रह्म । न हीदृशस्य शास्त्रस्यग्वेंदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । ( १ ) ऋ० ८.७५.६ । तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ॥ ‘ हे विरूप = नानारूपैतन्नामक महर्षे त्वम्; तस्मै = प्रसिद्धाय; अभिद्यवे = अभिगततृप्तये वृष्णे = वर्षकायाग्नये नित्यया = उत्पत्तिरहितया, वाचा = मन्त्ररूपया, सुष्टुतिं नून- मिदानीं चोदस्व | स्तुहीत्येवमृषिः स्वात्मानं ब्रवीति यजमानो वा होतारं विरूपम्'– इति तत्रत्यं सायणभाष्यम् । ( २ ) महाभा ० १२.२३२.२४ । 'आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तय:' -इति चैतच्छ्लोकस्यापरार्धः ‘ब्रह्मसूत्रस्य शाङ्करभाष्ये दृश्यते न तु महाभारते । ( ३ ) ब्र ० सू० १.३.२ ९ । अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दे नित्य- त्वमपि प्रत्येतव्यमिति तत्रत्यं शाङ्करभाष्यम् । ( ४ ) ननु कोऽयं वेदः.....इत्यारभ्य व्याख्यातव्य एवेत्यन्तो ग्रन्थः तै ० सं० सायणभाष्य- भूमिकायामिपि दृश्यते । ( ५ ) अध्ययनविधिश्चैषः- 'यस्तित्याज सखिविदं न तस्य वाच्यपि भागोऽस्ति । यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥ इति । (ऋ० सं ० १०.७१.६ ) ' अग्निं वै जातं' ' सुकृतस्य पन्थामिति' तस्मात् 'स्वाध्यायोऽध्येतव्य' इति च (तै० आ० २.१५ )।

पृष्ठ 64

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 64 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ सायणाचार्यकृता ५८: ऐतरेयब्राह्मणम्( i ) ' ' ' यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥'

( ii ) 'स्थाणुरयं भारहारः किलाभूत् अधीत्य वेद न विजानाति योऽर्थम् ।

योऽर्थज्ञ. इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥

( iii ) ' ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' इति । एवं तर्हि ज्ञानस्य पृथग्.विधानादध्ययनं पाठमात्रमिति चेत्, अस्तु नाम, वर्णय- न्त्येवमेव शाङ्करदर्शनानुसारिणः । क्रतुविधिव्यतिरेकेणानुष्ठानान्यथानुपपत्त्या वेदार्थज्ञानस्य प्रापितत्वान्नैतद् विधेय- मिति चेत्, तर्हि द्विविधबलाद् 'वेदनमात्रेण स्वतन्त्रं किञ्चिदपूर्वमस्तु । श्रूयते ह्यनुष्ठान- ज्ञानयोः स्वतन्त्रं पृथक् फलम्- ‘ सर्वं पाप्मानं तरति, तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेद " । इति । अल्पप्रयाससाध्येन वेदनेन तत्सिद्धौ बह्वायाससांध्यमनुष्ठानं व्यर्थं स्यादिति चेत्, न; तरणीयाया ब्रह्महत्याया मानसिक- कायिकत्वविभेदेन तारतम्योपपत्तेः । मनसा सङ्कल्पिता, वाचाऽभ्यनुज्ञाता परहस्तेन कारिता स्वयं कृता, पुनः पुनः कृता चेत्येवं तार- तम्येनावस्थिता ब्रह्महत्याऽनेकविधा । अतस्तरणमप्यनेकविधम्, यथा स्वर्गों बहुविध- स्तद्वत् । ‘ अग्निहोत्रं जुहुयात् स्वर्गकामः ' ‘ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ', 'ज्योति- ष्टोमेन स्वर्गकामो यजेत’ “, इत्यादावुच्चावचकर्मणामेकविधफलासम्भवात् स्वर्गो बहुधोऽ- भ्युपगन्तव्यः । तथा ब्रह्महत्यादिपापनिवृत्तेरपि बहुविधत्वात् वेदनेनापि काचिंत् ब्रह्महत्या विवर्तत इति योग्यतानुसारेण कल्पताम् । किञ्च तत्तद्विधिसमीपे ' य एवं वेद' – इति वचनानि वेदनफल ब्रुवते । तान्यर्थवाद रूपाणीति चेत्, अस्तु नाम । सहामह एवैत- मपराधं तेषां वचनानां विधेयार्थप्रशंसापरत्वात् । तर्हि ' यत्परः शब्दः स शब्दार्थः ', इति न्यायेन स्वार्थे प्रामाण्यं नास्तीति चेत्, न । महातात्पर्यस्य विधेयविषयत्वेऽप्यवान्तरता- त्पर्यस्य स्वार्थविषयतानिवारणात् । ' ग्रावाणः प्लवन्ते ' इत्यर्थवादस्यापि स्वार्थे प्रामाण्यं प्रसज्येतेति चेत्, न प्रमाणान्तरबाधित्वात् । ‘द्विः संवत्सरस्य सस्यं पच्यते " इत्याद्यर्थ- वादस्य तु बाधाभावेऽप्यनुवादत्वान्न स्वार्थे प्रामाण्यम् । वेदनफलवचनानि' तु नानुवाद- ( १ ) मुद्रितसंहिताभाष्यभूमिकायां निरुक्ते च ( १.६.१ ) ' यद्गृहीत' एष एव पाठः । पातञ्जलमहाभाष्यस्य पश्पशाह्निकेतु ' यदधीत' इति । ( २ ) निरु ० १.६ । ' वचनद्वयं शाखान्तरगतम्' इति ऋ ० सं०. सा० भा० भूमिकायाम् । ( ३ ) पा० महा० पस्पशाह्निके चोद्धृतमिदं वचनम् । ( ):.. ( ) ४ तै ० सं ० ५ ३.१२.३ । ५ द्र० तै० ब्रा० २.१ । ( ६ ) ' वेदनादेव फलम्' इति वा पाठ: । (७ ) तै ० सं ० ५.१.७.३

पृष्ठ 65

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 65 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]!: भाष्यभूमिका सायणाचार्यकृतभाष्योपेतम् ५ ९ कानि नापि बाध्यानि । तस्मादर्थवादत्वेऽप्यस्तेषां स्वार्थे प्रामाण्यम् । अन्यथा मन्त्रार्थ- वादादिभ्यो वेदादीनां विग्रहादिमत्त्वं न सिध्येत् । अत एवोक्तम्— विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति ।. किं बहुना । विद्यत एवावश्यं वेदनमात्रादपूर्वम् । अतो. वेदनाय वेदो व्याख्यायते । तस्य च वेदस्य भागद्वयं कल्पसूत्रकारैरुदाहृतम्– ' मन्त्रब्राह्मणयोर्वेदनामधेयम्'' इति । तत्र मन्त्र विषया विचारा: संहिताव्याख्याने द्रष्टव्याः, ब्राह्मणलक्षणं तु द्वितीया- ध्यायस्य प्रथमपादे विचारितम्—

‘ नाऽस्त्येतद्द्ब्राह्मंणेत्यत्र लक्षणं विद्यतेऽथवा ।

नांऽस्तीयन्तो वेदभाग इति क्लृप्तेरभावतः ॥

मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः । अन्यद् ब्राह्मणमित्येतद् भवेद् ब्राह्मणलक्षणम् ॥ * इति । चातुर्मास्येष्विदमाम्नायते— ' एतद् ब्राह्मणान्येव पञ्च हवींषि" - इति । तत्र ब्राह्मणस्य लक्षणं नास्ति, कुतः? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च वाच्य- लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वादिति चेत्, न; भागद्वयानङ्गीकारेण मन्त्र- व्यतिरिक्तो भागो ब्राह्मणमिति लक्षणस्य निर्दोषत्वात् । ननु ब्रह्मयज्ञप्रकरणे मन्त्रब्राह्मणव्यतिरिक्ता इतिहासादयो भागा आम्नायन्ते, –‘ यद् ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाथा नाराशंसीः । इति? मैवम् विप्रपरिव्राज-कन्यायेन ब्राह्मणाद्यवान्तरभेदानामेवेतिहासादीनां पृथगभिधानात् । ‘ देवापुराः संयता आसन्’७ इत्यादय इतिहासाः । ‘इदं वा अग्ने नैव किञ्चनासीन्न द्यौरासीत्' इत्यादिकं जगतः प्रागनवस्थानमुपक्रम्य सर्गप्रतिपादकं वाक्यजातं पुराणम् । कल्पस्तु आरुणकेतुकचयन-प्रकरणे समाम्नायते -- 'इति मन्त्राः कल्पोऽत ऊर्ध्वं यदि बलिं हरेत्” इति । अग्नि-चयने — ‘ यमगाथाभिः परिगायति' १० इति विहिता मन्त्रविशेषा गाथाः । मनुष्यवृत्तान्त-प्रतिपादिका ऋचो नाराशंस्यः । ११ तस्मात् मन्त्रब्राह्मणव्यतिरिक्तवेदभागाभावान्मन्त्रव्यति-( १ ) मीमांसार्थसंग्रहे चोद्धृतमिदं वचनं व्याख्यातं च सोदाहरणम् ।( ) ( ) २ आप० प ० परि० सू० ३४ ३ मन्त्रविचाराः इति वा पाठः ।( ४ ) जै० न्या० वि ० २.१.८.२४, २५ ( ५ ) तै ० ब्रा० १.६.४.३; ७.१.१ ।( ) ( ) ( ) ६ तै ० आ ० २.९ ७ तै० सं ० १.५.१.१ ८ तै० सं० २.२.९.१( ) ( ) ९ तै ० आ ० १.२६.१ १० तै० सं० ५.१.८.२ ( ११ ) ऐ० आ ० २.९.२ भाष्ये तूदाहृतम्-'होता यक्षन्नराशंसम् (वा० सं० २१.३ १ ) इति ।

पृष्ठ 66

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 66 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [६० ऐतरेयब्राह्मणम् सायणाचार्यकृता रिक्तं ब्राह्मणमित्येतल्लक्षणं सुस्थितम् ॥ तस्य लक्षणस्य ‘ अग्निर्वै देवानामवम: ' इत्यादिग्रन्थे विद्यमानत्वाद् इदं ब्राह्मणम् । सच्चेश्वरानुग्रहाद् इतरायाः पुत्रेण लब्धत्वाद् ऐतरेयमित्युच्यते । महर्षीणां तत्तद्वेदभाग-लाभः स्मर्यते, -— युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥ - इति । प्रकृतस्य तु ब्राह्मणस्य ऐतरेयकत्वे सम्प्रदायविद एतामाख्यायिकामाचक्षते— ' कस्य चित् खलु महर्षेर्बह्वयः पत्नयो विद्यन्ते स्म । तासां मध्ये कस्याश्चिदितरेति नामधेयम् । तस्या इतरायाः पुत्रो महिदासाख्यः कुमारः । एतच्चारण्यकाण्डे समाम्नायते—'एतद्ध स्म वै तद्विद्वान् महिदास ऐतरेयः ३- इति तदीयस्य तु पितुर्भार्यान्तरपुत्रेष्वेव स्नेहातिशयः; न तु महिदासे । ततः कस्याञ्चिद् यज्ञसभायां स महिदासमवज्ञाय यान् पुत्रान् स्वोत्सङ्गे स्थापयामास । तदानीं खिन्नवदनं महिदासमवगत्येतराख्या तन्माता स्वकीयकुलदेवतां भूमिमनुसस्मार । सा च भूमिर्देवता दिव्यमूर्तिधरा सती यज्ञसभायां समागत्य महिदासाय दिव्यं सिंहासनं दत्त्वा तत्रैनमुपवेश्य सर्वेष्वपि कुमारेषु पाण्डित्याधिक्यमवगमयैतद्ब्राह्मण- प्रतिभासनरूपं वरं ददौ । तदनुग्रहात् तस्य महिदासस्य मनसा 'अग्निर्वै देवानामवमः’४ इत्यादिकं ‘स्तृणुते ’“ — इत्यन्तं चत्वारिंशदध्यायोपेतं ब्राह्मणं प्रादुरभूत् । तत ऊर्ध्वम्— ‘ अथ महाव्रतम्’६ इत्यादिकम्—' आचार्याः " इत्यन्तमारण्यकव्रतरूपं च ब्राह्मणमाविर- भूत् —इति । तस्यैतरेयस्य प्रादुर्भूते चत्वारिंशदध्यायोपेते ब्राह्मणे चतु: संस्थो ‘ ज्योतिष्टोमः प्रथमं विधीयते । यावत् । ततो गवामयनम्" तत आदित्यानामयनम् ११ ततोऽङ्गिरसामयनम् ।१२ ( ) ( ) १ ऐ०ब्रा० १.१.१ २ महाभा० १२.२१०.१ ९ ( ) ( ) ( ) ३ ऐ ० आ ० २.१.८.२ ४ ऐ ०ब्रा० १.१.१ ५ ऐ०ब्रा० ८.५.५ ( ६ ) ऐ ०आ ० १.१.१.१. (७ ) ऐ० आ ० ३.२.६.९ ( ८ ) अहो चित्रमेतत्? महानाम्न्याख्यमन्त्रात्मकस्य चतुर्थारण्यकस्यात्रैतरेयत्वेन कथं न ग्रहणं कृतमिति? तद्भाष्यशेषे तूक्तमिदम्- तदिदं नवसंख्यानामृचां पुरीषपदानाञ्च प्रतिपादकं ग्रन्थजातं यद्यपि कर्मकाण्डे पठितुं युक्तं तथाप्यरण्ये एवाध्येतव्यमित्यभि- प्रेत्य चतुर्थारण्यकत्वेनात्र पठितम् -इति ( ऐ ०आ ० ४.१.१ ) । ( ९ ) ऐ०ब्रा० १.१७ ख० ५ यावत् । तत्रापि प्रथमाध्याये दीक्षणीयेष्टिः, द्वितीये प्रायणी- येष्टि: उदयनेष्टिश्च, तृतीये आदिथ्येष्ट्यादयः, चतुर्थेऽभिष्टवादयः, पञ्चमे सोमक्रयाद्या ( १० ) ऐइत्येवमुत्तरत्र० ब्रा०-१७.६बोध्यम्; । ( ११ ) ऐ ०ब्रा०- १८.३-८ ( १२ ) ऐ०ब्रा०- १८.३-८ । गवामयनमादित्यानामयनमङ्गिरसामयनं चैते संवत्सरसत्रविशेषाः ।

पृष्ठ 67

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 67 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: भाष्यभूमिका सायणाचार्यकृतभाष्योपेतम् ६१ ततो द्वादशाहः' ततोऽन्यत्सर्वम् । प्रासङ्गिकमिति द्रष्टव्यम् । गोष्टोमायुष्टोमादिषु सोम- यागेषु ज्योतिष्टोमस्य' प्राथमम्यमुक्तम् —'एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्ठोम: ' - इति श्रुतेः ।५ तस्य ज्योतिष्टोमस्य सप्तसंस्थोपेतस्य' अग्निष्टोमः, उक्थ्यः, षोडशी, अति- रात्रश्चेत्येताश्चतस्रः संस्थाः अत्रानुक्रमेण वक्ष्यन्ते । तस्मिन्नापि चतुष्टये अग्निष्टोमः प्रकृति,´ कृत्स्नस्यानुष्ठेयस्य तस्मिन्नग्निष्टोमे प्रत्यक्षश्रुत्यैवोपदिष्टत्वात् । 'प्रकर्षेण क्रियते साकल्येनानुष्ठेयमुपदिश्यते यस्यां सा प्रकृति: '-इति हि तच्छब्दव्युत्पत्तिः । उक्थ्यादयस्तु विकृतयः; विशेषस्यैव तत्र प्रत्यक्षोपदेशेन सम्पादितत्वात् । अवशिष्टं तु सर्वमनुष्ठेयं ‘ प्रकृतिवद् विकृतिः कर्त्तव्या'-– इति न्यायेनैव सम्पाद्यते । अत एवोपजीव्यत्वादग्निष्टोम एवादौ वक्तव्यः ॥ ( १ ) ऐ ०ब्रा ० अ० १ ९ -२४ । ( २ ) ऐ०ब्रा० अ० २५-४० । अग्निहोत्रादिकम्, पश्वङ्गविभागादिकम्, राजयज्ञे स्तोत्रशास्त्रयोर्वि- शेषादिकञ्चेति यावत् । ( ३ ) " अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुयंस्तस्मात् ज्योतिः - स्तोमं सन्तं ज्योतिष्टोमित्या- चक्षते" -इति ऐ ० ब्रा ० ३.४.५ । ज्योतिष्टोमशब्देन सोमयागोऽभिधीयते । ( ४ ) ज्योतिष्टोमं प्रथममुपयन्त्यस्मिन्नेव तेन लोके प्रतितिष्ठन्ति गोष्टोमं द्वितीयमुपयन्त्यन्तरिक्ष एव तेन प्रतिष्ठिन्त्यायुष्टोमं तृतीयमुपयन्त्यमुष्मिन्नेव तेन लोके प्रतितिष्ठन्ति” – इति तै ० सं ० ७.४.११.१ । ज्योतिष्टोमपद्धतिस्तु का० श्रौ ० सू० ७.११ अध्यायेषु द्रष्टव्या । ( ५ ) एष वाव प्रथमो यज्ञानां य एतेनानिष्ट्वाथान्येन यजेत गर्त्तपत्यमेव तज्जीयते वा प्र वा मीयते ' इति ता० ब्रा ० १६.१ । 'एष प्रथमः सोमः । षडुत्तरे' - इति का० श्रौ० सू० १०.९.२५.२७ ( ६ ) अग्निष्टामोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजयेयोऽतिरात्रोऽप्तोर्याम इति संस्थाः’—इति आश्व ० श्रौ० ६.११.१ । सर्वे सोमयागाः संस्थया सप्तविधा एवेत्यर्थः ' —इति च तत्र तट्टीकोपसंहारः । तदेवं सोमसम्पाद्य एक एव ज्योतिष्टोमः अग्निष्टोमाद्याख्यः सप्तविधः । तद्यथा - अग्निष्टोमसाम्ना यज्ञायज्ञीयाख्येन यज्ञसमाप्तिर्यत्र सोऽयमग्निष्टोमः; तत्रैवा- ग्निष्टोमे राजन्यस्य षोडशिनं गृह्णीयादिति आग्निमारुतादूर्ध्वं षोडशिग्रहस्य स्तुतशस्त्रे यदा भवतस्तदा सोऽत्यग्निष्टोम इत्युच्यते । एवमुक्थ्यादयश्च । ( ७ ) तत्राग्निष्टोमः प्रथमाध्यायादि पञ्चदशाध्यायीयचतुर्थखण्डान्तं यावदुक्तः, पञ्चदशा- ध्यायीयान्तखण्डयोरुक्थ्यः, षोडशाध्यायीयादिचतुः खण्डेषु षोडशी, ततः पञ्चमषष्ठ- खण्डयोः सप्तदशाध्यायीयाद्यखण्डपञ्चके चातिरात्र इति विवेक: । 'एतद्वा अग्निष्ठोमं प्रथममुपयन्त्यथोक्थ्यमथ षोडशिनमथातिरात्रमनुपूर्वम्' – इति तै ० सं० ७.४.१०.१ । ( ८ ) "अग्निष्टोम एकाहानां प्रकृतिः " - इति च आप ० य ० परि० सू० १४१ । ( ९ ) न प्रकृतावूहो विद्यते । विकृतौ यथार्थमूहः " - इति आप०य ० परि० सू० १३३, १३४ । अति देशोहबाधाभ्युच्चयरूपः प्रकृतिविकृतिविचारस्तु जैमिनिदर्शने सप्तमाष्ट- मनवमदशमाध्यायेषु विशेषतः कृतो द्रष्टव्यः ।

पृष्ठ 68

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 68 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[सायणाचार्यकृता " ६२ः ऐतरेयब्राह्मणम् ' ' यद्यपि तस्याग्निष्टोमस्य प्रक्रमेऽवश्यमृत्विग्वरणं वक्तव्यम्; ' सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीत, - इत्यापस्तम्बेनाभिधानात् तथापि ऋग्वेदस्य होतृवक्तव्य- प्रतिपादकत्वात् । ऋत्विग्वरणस्यं तृ हौत्रत्वाभावात् तदुपेक्ष्येहेष्टिरादौ विधीयते । ऋग्वेदस्य हौत्रत्वं समाख्याबलात् तृतीयाध्यायस्य तृतीयपादे विचारितम्—

‘ वेदत्रयोक्तधर्माणामृत्विग्भिः सङ्गतस्त्रिभिः ।

अनियत्या नियत्या वाऽनियतिर्वाऽनिरूपणात् ॥

हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः ।

निर्बाधं चान्यक्तच्च तेनात्र विनियोजकम् ॥४

याज्यापुरोनुवाक्यादयो धर्मा ऋग्वेदे प्रोक्ताः, दोहननिर्वापादयो यजुर्वेदे, आज्य- स्तोत्रपृष्ठस्तोत्रादयः सामवेदे, तत्रस्यैवैते धर्मा इति नियामकस्य दुर्निरूपत्वाद् येन केना- प्यृत्विजा यः कोऽपि धर्म इच्छया सङ्गच्छत इति चेत्, मैवम्; हौत्रमाध्वर्यवमौद्गात्रमिति समाख्यानेन नियतिर्बोध्यते; न च समाख्यानस्य बाधकं किञ्चित् पश्यामः । तस्मादबोध- कत्वबाधितत्वयोरप्रामाण्यकारणयोरभावाच्छ्रुतिलिङ्गादिपञ्चकवत् प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते । नन्विष्टेरप्यध्यर्युकर्तृकत्वाद्यजुवेंदे कर्तव्यता; न त्वत्रेति चेत्, सत्यम् । तथापीष्टि- गतयोर्याज्यानुवाक्ययोर्हीत्रत्वेनात्र वक्तव्यत्वादिष्टेरनुक्तौ याज्यानुवाक्ये कुत्रत्ये इति विशेष- सम्बन्धस्य ज्ञातुमशक्यत्वात् तदवबोधाय प्रथममिष्टिर्विधातव्या ॥ ॥ इति सायणाचार्यभाष्यभूमिका ॥ ( १ ) आप० श्रौ ० १०.१.१ ( २ ) तथाहि— “ ऋग्वेदेनैव हौत्रमकुर्वत यजुर्वेदेनध्वर्यवं सामवेदेनोद्गीथम् ” - इति शत० ब्रा० ११.५.८.४ । “तदादुर्महावदा३: यदृचैव हौत्रं क्रियते यजुषाध्वर्यवं साम्नोद्- गीथं व्यारब्धा त्रयी विद्या भवति । अथ केन ब्रह्मत्वं क्रियत इति? त्रय्या विद्ययेति •ब्रूयात्" - इति चेहोपरिष्टात् ५.५.८ । एवमापस्तम्बोऽप्याह- "ऋग्वेदेन होता करोति, सामवेदेनोद्गता, यजुर्वेदेनाध्वर्युः, सर्वैर्ब्रह्मा, वचनाद् विप्रतिषेधाद् वान्यः कुर्यात्” – इति आव्य ० परि० सू० १ ९-२३ ( ३ ) अष्टिः = दीक्षणीयेष्टिः । दीक्षणीयार्थस्त्वग्रे ( ऐ०ब्रा० १.४.४ ) द्रष्टव्य: । ( ४ ) जै ० न्या ० वि ० ३.३.६.१३ । ( ५ ) तथा च जैमिनिदर्शनसूत्रम्— “ श्रुति- लिङ्ग- वाक्य- प्रकरण-स्थान-रामाख्यानां समवाये- पारदौर्बल्यमर्थविप्रकर्षात्” –इति ३.३.१४ ।

पृष्ठ 69

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 69 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ऋग्वेदीयम् ऐतरेयब्राह्मणम् ( पूर्वार्द्धम्)

पृष्ठ 70

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 70 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

POTADE गण