ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 71–80

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 71–80

पृष्ठ 71

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 71 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

॥ ॐ ब्रह्मपुरुषाय नमः ॥ ऐतरेयब्राह्मणम् ( पूर्वार्द्धम् ) ( श्रीमत्सायणाचार्यप्रणीतभाष्यसमलङ्कृतम् ' शशिप्रभा' नामहिन्दीव्याख्योपेतञ्च ) अथ प्रथमपञ्चिकायाम् प्रथमोऽध्यायः अथ प्रथमः खण्डः ( सोमयाग निरूपण ) ( तत्रादौ अग्निविष्णुदेवतयोः प्रशंसनम् ) सायणभाष्यम्— अतस्तामिष्टिं विधातुं तद्देवतारूपमग्निं विष्णुं चाऽऽदौ प्रशंसति— ॐ अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः ॥ १ ॥

हिन्दी — देवानाम् देवताओं में अग्निः वै अवमः अग्नि ही प्रथम (स्थानीय) और विष्णुः परमः विष्णु अन्तिम (स्थानीय है ) । तदन्तरेण उन ( अग्नि और विष्णु) के मध्य 'में अन्याः सर्वाः देवताः अन्य ( इन्द्र, वरुण, वायु, • आदित्य इत्यादि) सभी देवताओं का स्थान है । सा० भा० -योऽयमग्निरस्ति, सोऽयं देवतामध्ये अवमः प्रथमो द्रष्टव्यः । यस्तु 'विष्णुः ' सोऽयं ' परमः ' उत्तमः । वैशब्द उक्तार्थे मन्त्रप्रसिद्धिद्योतनार्थ: । ' अग्निर्मुखं प्रथमो देवतानां सङ्गतानामुत्तमो विष्णुरासीत्' इति हि मन्त्र आम्नायते । ' यद्वा वैशब्द उपपत्ति- प्रसिद्ध्यर्थः । उपपत्तिश्चैवं योजनीया । यद्यपि देवशब्दः साधारणत्वात् सर्वदेवतावाची तथाऽप्यत्र प्रकरणबलादग्निष्टोमाङ्गेषु शस्त्रेषु प्रतीयमानाः प्रधानदेवता विवक्ष्यन्ते । शस्त्राणि च द्वादश । तेष्वाज्यशस्त्रं प्रथमम्, तस्मिंश्च ' भूरग्निज्योंतिः ' इत्यंग्निराम्नात: ।३ ( १ ) इयमेवर्क् आग्नावैष्णवस्य हविषो याज्या इति वक्ष्यति ( १.४.८ ) । ( २ ) तत्र आज्यशस्त्रं १०.५ - ९; प्रउगशस्त्रं ११.१-४; मरुत्वतीयं शस्त्रं १२.४-१०; निष्केवल्यं शस्त्रं १२.११ - १३; आग्निमारुतं शस्त्रं १३.९ -१४ । ( ३ ) 'आग्नेयं होताज्यं शंसति' - इत्यादि १०.५.४-१७ । ऐ.ब्रा.पू-१

पृष्ठ 72

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 72 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ १० ऐतरेयब्राह्मणम् १.१ प्रथमपञ्चिकायां आग्निमारुतं शस्त्रमन्तिमम्, तस्मिन् 'विष्णोर्नुकम्' इति विष्णुराम्नातः । एवमग्निष्टोम- संस्थायां शास्त्रपाठापेक्षमग्नेः प्राथम्यं विष्णोरुत्तमत्वं च । यद्वा, सर्वासु संस्थासूक्तन्याये- नाग्नेः प्राथम्यं विष्णोरुत्तमत्वम्, अन्तिमसंस्थायामाप्तोर्यामाख्यायां त्रयस्त्रिंशत् स्तोत्र- शस्त्रोपेतायामन्तिमं स्तोत्रं शस्त्रं च वैष्णवमिति तदपेक्षया द्रष्टव्यम् । यद्वा, प्रथमायां दीक्षणीयेष्टावग्निरिज्यते । अन्तिमायामुदवसानीयेष्टौ वैष्णवी पूर्णाहुतिर्वाजसनेयिभि- राम्नाता । सर्वथाऽपि स्तोतव्यान् यष्टव्यांश्च देवानपेक्ष्याग्नेः प्राथम्यं विष्णोरुत्तमत्वं च युक्तम् । तदन्तरेण तयोः प्रथमोत्तमयोरग्नाविष्ण्वोर्मध्ये तत्तच्छस्त्रप्रतिपाद्याः ' अन्याः ’ इन्द्रवाय्वादयः ‘सर्वाः’ प्रधानदेवताः वर्तन्ते । तस्मात् सर्वदेवतानामुभयतो रक्षकवदव- स्थितावग्नाविष्णू प्रशस्तावित्यर्थः ॥ सौमिकेषु यष्टव्यासु स्तोतव्यासु च सर्वासु देवतास्वग्नाविष्णू प्रशस्य तद्देवता- कामिष्टं विधत्ते— ( दीक्षणीयेष्टिविधानम् ) आग्नावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपा- लम् ॥२ ॥

हिन्दी - दीक्षणीयम् दीक्षणीय इष्टि में अग्नावैष्णवम् ( उस ) अग्नि और विष्णु ( देवता) से सम्बन्धित एकादशकपालम् ग्यारह कपालों ( पुरोडाश पकाने के लिए मिट्टी के बने तवा- विशेष ) वाले पुरोडाशम् पुरोडाश ( पीसे आटे को गूथकर पकायी गयी हविर्द्रव्य-विशेष = लिट्टी ) को निर्वपन्ति निर्वाप ( समर्पित ) करते हैं ॥ सा ० भा ० — अग्निश्च विष्णुश्चाग्नाविष्णू तावुभौ परस्परव्यासक्तौ यस्य पुरोडाश- स्यैका देवता सोऽयमाग्नावैष्णवः । यथोक्त देवतां प्रति हविष्ट्वेन प्रदेयद्रव्यरूपः पक्वः पिष्टपिण्डः पुरोडाश इत्युच्यते । डकारस्यात्र ळकारः, एतच्छाखाध्ययनसम्प्रदायेन प्रापितः । * शकटावस्थापितव्रीहिसङ्घान्निष्कृष्य मुष्टिचतुष्टयपरिमितानां व्रीहीणां शूर्पे ( १ ) 'विष्णोर्मुकं वीर्याणि प्रवोचम् (ऋ० १०.१५४.१ ) इति वैष्णवीं शंसति' इति १३.१४.४ । ‘ आग्निमारुते शस्त्रे वैश्वानरीयेण सूक्तेन प्रतिपद्यते' - इति नि० ७.६.४ । ( २ ) 'सास्य देवता' – इति पा० सू० ४.२.२४ । ( ३ ) पुरोडाशपाकादिप्रकारस्तु आपस्तम्बीयश्रौतसूत्रे ( १.२२-२५ ) आद्यप्रश्नीयसप्तमाष्टम- पटलयोः कात्यायनीयश्रौतसूत्रे २.४.५ च द्रष्टव्यः । “अतुङ्गमनूपाकृतिं कर्मस्येव प्रतिकृतिमश्वसफमात्रं करोति, यावन्तं वा मन्यते ” (आप ० श्रौ० १.२५.४-५ ) इति सूत्राभ्यां पुरोडाशस्वरूपं चाधिगम्यम् । 'पुरोडाशमेव कूर्म भूत्वा सर्पन्तम्' – इति च शत ० ब्रा० १.६.२.३ । तैत्तिरीयब्राह्मणीये पौरोडाशिके काण्डे ( ३.२.४-८ ) च । ( ४ ) तथाहि— “ द्वयोश्चास्य स्वरयोर्मध्यमेत्य सम्पद्यते स डकारो ळकारः ” — इति ऋक्- प्राति० १.५२ ।

पृष्ठ 73

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 73 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ११ प्रक्षेपो निर्वापः । तत्पूर्वको यागोऽत्र निर्वापेणोपलक्ष्यते । आग्नावैष्णवं पुरोडाशमिति सामानाधिकरण्येनावगतस्य द्रव्यदेवतासम्बन्धस्य याग़मन्तरेणानुपपन्नत्वात् । सति तु यागे

सम्बन्ध उपपद्यते ।

" उद्दिश्य देवतां द्रव्यत्यागो यागोऽभिधीयते ” ॥

इति यागलक्षणस्य पूर्वाचार्यैरुक्तत्वात् । निर्वपन्तीत्ययं शब्दो न वर्तमानार्थः । किन्तु विध्यर्थः । स च लकारो लिङर्थो लेडिंति' इति सूत्रेण विध्यर्थो द्रष्टव्यः । एवं च सति. शाखान्तरेण संवादो भवति । तथा चं तैत्तिरीया विस्पष्टं विधिमामनन्ति - 'आग्ना- वैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः २ इति । तत्रैकप्रयोगापेक्षमेकवचनम् । अत्र तु बहुप्रयोगगतं सत्रगतं वा यजमानबहुत्वमपेक्ष्य निर्वपन्तीति बहुवचनम् । यद्वा, छन्दसो वचनव्यत्ययः । सोमयागे प्रवृत्तस्य यजमानस्य संस्कारो दीक्षणम्, तस्य च संस्कारस्य हेतुः कर्मविशेषो दीक्षणीयाशब्दवाच्यः । तस्य च कर्मविशेषस्य वाचकेन शब्देन तत्कर्मसाधनमुपलक्ष्यते । ततो दीक्षणीयाख्यकर्मसाधनं पुरोडाशमिति सामानाधिकरण्य-4 मुपपन्नम् । एकादशसु संस्कृतः पुरोडाश एकादशकपालः ।* तेषु हि पुरोडाशः श्रप्यते अत्र प्रथमोत्तमयोरग्नाविष्ण्वोः पुरोडाशदेवतात्वे फलितं दर्शयति— ( अग्नाविष्णवोर्मध्येऽन्येभ्यो देवेभ्यो निर्वापः ) सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्ति ॥ ३ ॥

हिन्दी— एनम् अनन्तरायम् इन दोनों ( देवताओं) के मध्य में सर्वाभ्यः तद्देवताभ्यः उन (इन्द्रादि ) सभी देवताओं के लिए निर्वपन्ति निर्वाप करते हैं (जिससे कोई देवता छूटने न पावे ) । 'सा ० भा०- ' तत्' तेनाऽऽग्नावैष्णवत्वेन तयोरग्नाविष्ण्वोर्मध्यवर्तिनीनां सौमि- कीनां सर्वासां देवतानामुपलक्षितत्वाद् ' अनन्तरायं ' निरवशेषं काचिदपि देवताऽ- ( १ ) पा० सू० ३.४.७ ( २ ) तै० सं ० ५.५.१.४ ( ३ ) ' व्यत्ययो बहुलम्' - इति पा ० सू० ३.१.५८ । ( ४ ) ' संस्कृतं भक्ष्याः ' - इति पा० सू० ४.२.१६ ( ५ ) एकादश कपालस्थापनप्रकारस्त्वेवम्- पूर्वं मध्यममुपदधाति, ततः पुरस्तात् तृतीयम्, मध्यमाद् दक्षिणं चतुर्थम्, पूर्वमेकस्य कपालस्यान्तरालं परिशिष्य पञ्चमम्, चतुर्थ- ·· पञ्चमयोरन्तराले षष्ठम्, चतुर्थस्य पश्चात् सप्तमम्, तस्य पश्चादष्टमम् सर्वेभ्य उत्तरतो नवमदशमैकादशानि प्राक्संस्थानि । किञ्च पुरोडाशस्य कूर्माकारोक्त्या वृत्ताकारत्व- प्रसिद्धेः यावत्कपालं प्रथनविधेश्च तदर्थकपालचितेरपि अर्थाद् वृत्ताकारत्वम् । कपालानि तु घर्षणाद्युपायेन तथा करणीयानि यथा च कपालचितिक्षेत्रं वृत्तं सम्पूर्येत ।

पृष्ठ 74

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 74 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ १२ ऐतरेयब्राह्मणम् १.१ प्रथमपञ्चिकायां विशिष्टा यथा न भवति तथैनं पुरोडाशं यजमानाः निर्वपन्त्येव । अनेन निर्वापेण सर्वा देवतास्तृप्यन्तीत्यर्थः । यथा वैयाकरणाः प्रत्याहारेष्वाद्यन्तयोर्वर्णयोर्ग्रहणेन मध्यपातिनां सर्वेषां वर्णानां ग्रहणमिच्छन्ति । न्यायस्तदीय एवं व्यवह्रियते — ' तन्मध्यव्यपतितस्तग्रहणेन गृह्यते इति । यथा वा लोके भुञ्जानानामेकपङ्गावुपविष्टानामाद्यन्तयोर्ब्राह्मणयोः परि- तोषेण मध्यवर्तिनः सर्वे परितुष्टा इति निश्चितम्, तथेदं द्रष्टव्यम् ॥ नन्वग्नाविष्ण्वोरेव निर्वापे सम्बन्धः श्रूयते, न तु मध्यवर्तिदेवतानाम्, तत्कथं तासां तृप्तिरित्याशङ्क्य तत्सिद्ध्यर्थं तयोरेव सर्वदेवतान्तर्भावं दर्शयति— ( अग्नाविष्ण्योः सर्वदेवतान्तर्भावप्रदर्शनम् ) अग्निर्वै सर्वा देवता विष्णुः सर्वा देवताः ॥४ ॥

हिन्दी–( अग्नि और विष्णु की प्रशंसा कर रहे हैं — ) अग्निः वै सर्वाः देवताः अग्नि ही सभी देवता हैं और विष्णुः वै सर्वाः देवताः विष्णु ही सम्पूर्ण देवता हैं ॥ सा० भा ० - अग्नेः सर्वदेवतारूपत्वे श्रुत्यन्तरप्रसिद्धिद्योतनार्थो वैशब्दः । तथा च तैत्तिरीयाः पौरोडाशिके काण्डे संमानन्ति- "ते देवा अग्नौ तनूः सन्यदधत तस्मादाहुः ‘ अग्निः सर्वा देवताः ’ इति " "। सौमिकेऽपि काण्डे श्रूयते - ' देवासुराः संयत्ता आसन् ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुः 'अग्निः सर्वा देवता:' इति " -इति । विष्ट व्याप्तावित्यस्माद्धातोरुत्पन्नो विष्णुशब्दः । व्याप्तिश्च सर्वजगदुपादानकारणत्वेन सर्वा- त्मकत्वादुपपद्यते । अत एव स्मरन्ति—' भूतानि विष्णुर्भुवनानि विष्णुः ' इति ॥ . ( १ ) तथा चैतत् पाणिनीयं सूत्रम्– “ आदिरन्त्येन सहेता" इति पा० सू० १.१.७० । ( २ ) ‘ येन विधिस्तदन्तस्य' इति पाणिनीयसूत्रस्य ( १.१.७२ ) पतञ्चलिकृते महाभाष्ये पठितैषा परिभाषा, परिभाषेन्दुशेखरे च व्याख्याता ( ८ ९ ) । ( ३ ) संहितायाः प्रथमकाण्डीयः प्रथमप्रपाठकः समग्र एवेष्टिकाण्ड उच्यते, तत्रैवान्त्यांशः पौरोडाशिक इत्यपि । ब्राह्मणस्य तृतीयकाण्डीयो द्वितीयप्रपाठकश्च तस्यैव शेषः । (४ ) तै०ब्रा० ३.२.८.१० ( ५ ) संहितायाः प्रथमकाण्डीयं द्वितीयादि प्रपाठकत्रयं सौमिकं काण्डम् । षष्ठकाण्डं च तद्- ब्राह्मणम् । तत्राप्यवान्तरकाण्डानि नव । तदुक्तमनुक्रमण्याम्— “अध्वरप्रभृति त्रीणि- तद्विधिर्वाजपेयकौ । सर्वाः शुक्रियकाण्डे च नवेन्दोरिति धारणा” – इति । तथा च अध्वरकाण्डम्, ग्रहकाण्डम्, दक्षिणाकाण्डम्, तत्त्रयविधिकाण्डम्, वाजपेयमन्त्रकाण्डम्, वाजपेयविधिकाण्डम्, सवकाण्डम्, शुक्रियमन्त्रकाण्डम्, शुक्रियविधिकाण्डम् चेति नव- काण्डात्मकं सौमिकं काण्डम् । ( ६ ) तै० सं० ६.२.२ (७ ) निघ० ३.१७.१२; ४.२.३८ । निरु ० ५.२.३; १२.२.७-८

पृष्ठ 75

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 75 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् १३ सर्वदेवतात्मकत्वेनाग्नाविष्णू प्रशस्य प्रकारान्तरेण पुनः प्रशंसति— ( अग्नाविष्णुपुरोडाशयोः यज्ञस्याद्यन्तत्वम् ) एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च तद्यदाग्ना- वैष्णवं पुरोळाशं निर्वपन्त्यत एव तद्देवानृध्नुवन्ति ॥५ ॥

हिन्दी — ( प्रकारान्तर से अग्नि और विष्णु की प्रशंसा कर रहे हैं— ) यद् अग्निः च विष्णुः च जो अग्नि और विष्णु हैं एते वै ये ही यज्ञस्य अन्त्ये तनुवौ (इस सोम सम्बन्धी ) याग के (प्रारम्भ और) अन्त वाले दोनों किनारे ( अर्थात् आदि और अन्त में विद्यमान रहने वाले ) हैं । तद् यत् तो जो अग्नावैष्णवं पुरोडाशं निर्वपन्ति अग्नि और विष्णु से सम्बन्धित पुरोडाश का निर्वाप करते हैं, अत एव इसलिए तद्देवान् उन देवताओं को ऋध्नुवन्ति दोनों– -ओर से पकड़ कर ( यजमान ) रोके रहता है ॥, ' ' ' ' सा० भा० अग्निश्च विष्णुश्चेत्यनयोर्देवतयोर्यच्छरीरद्वयमस्ति एते उभौ तन्वौ यज्ञस्यान्त्ये सोमयागस्याऽऽदावन्ते च वर्तमाने । आद्या चान्त्या चेतिं विवक्षायामेकशेषे- णान्त्ये इति भवति । यथा माता च पिता चेत्यत्र पितरावित्येकशेषः, तद्वत् । आद्यन्त-वर्तित्वं चाग्निर्वै देवानामवम' इत्यत्रैवोपपाद्वितम् । तत्तथा सत्याद्यन्तवर्तित्वे सति ता- दृशदेवताकं ‘ पुरोडाशं निर्वपन्तीति यदस्ति तत्तेन यथोक्तंनिर्वापेणान्ततो यागस्याऽऽदावन्ते च देवान् सर्वानृध्नुवन्त्येव परिचरन्त्येव । तमेतं सार्थवादं दीक्षणीयेष्टिविधिं तैत्तिरीयाः अपि विस्पष्टमामनन्ति— 'आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणोऽग्निः सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चाऽऽरभतेऽग्निरवमो देवानां विष्णुः परमो यदाग्नां- वैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्य यजमानोऽवरुन्धे ' इति ॥२. इदानीं यथोक्तविधौ ब्रह्मवादिचोद्यमुद्भावयति— ( तयोमध्ये पुरोडाशविभक्तिनिर्देशनम् ) तदाहुर्यदेकादशकपालः पुरोळाशो द्वावग्नाविष्णू कैनयो- स्तन क्लृप्तिः, का विभक्तिरिति ॥ ६ ॥

हिन्दी – (उपर्युक्त कपालों की संख्या विषय में ब्रह्मवादियों के प्रश्न को दिखला रहे हैं— ) तदाहुः उस (उपर्युक्त) विषय में कुछ ब्रह्मवादी कहते हैं — यद् एकादश-कपालः पुरोडाशः जो ग्यारह कपालों वाला पुरोडाश होता है, द्वौ अग्नाविष्णू ( उसके ) अग्नि और विष्णु दो ही देवता हैं । अनयोः इन दोनों ( देवताओं) में ( बाँटने का) का क्लृप्तिः क्रम क्या है और का विभक्तिः (दोनों का) विभाजन किस प्रकार (होना चाहिए)? ( तात्पर्य यह है कि ग्यारह कपालों वाले पुरोडाश को दो देवताओं में किस प्रकार ( ), ( ) १ द्र० १.१.१ २ तै ० सं ० ५.५.१.४

पृष्ठ 76

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 76 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ १४ ऐतरेयब्राह्मणम् १.१ प्रथमपञ्चिकायां बाँटा जाय और किस क्रम से बाँटा जाय? ) । सा० भा०--‘तत्' तत्र कपालसंख्यायां ब्रह्मवादिन आहुश्चोदयन्ति । एकादशसु कपालेषु संस्कृतः पुरोडाश एकमेव द्रव्यम्, तस्य भोक्तारौ ' द्वौ' देवौ । अनयोर्द्वयोः सम- प्रधानत्वेन विषमांशस्यायुक्तत्वात् 'तत्र' द्रव्ये का क्लृप्तिर्विभागकल्पना निमित्तं किं स्यात्? ‘का विभक्तिः ' निमित्तविशेषाभावे नैमित्तिको विभागविशेषः कथं घटेत? ' इति' शब्दश्चोद्यसमाप्त्यर्थः ॥ ब्रह्मवादिष्वेव मध्ये अभिज्ञानां चोद्यपरिहारमुद्भावयति. अष्टाकपाल आग्नेयः, अष्टाक्षरा वै गायत्री, गायत्रमग्ने- श्छन्दः, त्रिकपालो वैष्णवः, त्रिदं विष्णुर्व्यक्रमत, सैन- योस्तत्र क्लृप्तिः सा विभक्तिः ॥७॥

हिन्दी— ( ब्रह्मवादियों के प्रश्न का समाधान दिखला रहे हैं— ) अष्टाकपालः आग्नेयः अग्नि' ( देवता) से सम्बन्धित आठ कपाल वाला (पुरोडाश होता है ) क्योंकि अष्टाक्षरा वै गायत्री गायत्री (छन्द) आठ अक्षरों वाली होती है और गायत्रमग्नेः छन्दः गायत्री अग्नि ( देवता) का छन्द होता है । त्रिकपालः वैष्णवः विष्णु ( देवता) से सम्बन्धित तीन कपाल वाला ( पुरोडाश होता है ) क्योंकि विष्णुः विष्णु ने इदम् इस ( सृष्टि ) को त्रिः व्यक्रमत तीन ( पदों में ) व्यक्रमित किया (नांपा) था । तत्र इस विषय में एनयो: इन ( अग्नि और विष्णु ) में ( पुरोडाश के विभाजन का) सा क्लृप्तिः वहीं क्रम है और "सां विभक्तिः वहीं विभाजन है । सा० भा ० -– अष्टसु कपालेषु संस्कृतः पुरोडाशभागोऽग्नेः सम्बन्धी । स च सम्ब- न्धश्छन्दोद्वारा द्रष्टव्यः । गायत्र्याख्यं छन्दोऽग्नेः सम्बन्धि, तयोरग्निगायत्र्योः प्रजापति- मुखजन्यत्वसाम्यात् । एतच्च मुखजन्यत्वं तैत्तिरीयाः सप्तमकाण्डे पठन्ति- 'प्रजापतिर- कामयत प्रजायेयेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवताऽन्वसृज्येत गायत्रीछन्द: ’१ इति । तस्याश्च गायत्र्याः पादाक्षरेष्वष्टत्वं संख्या दृश्यते । सोऽयं यथोक्तपुरोडाशभाग- स्याग्नेश्च सम्बन्धः । त्रिषु कपालेषु संस्कृतः पुरोडाशभागो विष्णोः सम्बन्धी ।' हि' यस्मात् कारणाद् विष्णुरिदं सर्वं जगत्त्रिर्व्यक्रमत त्रिरावृत्तेन स्वकीयपादविक्षेपेण व्याप्तवान् । तथा च मन्त्र, आम्नायते— ' इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्' इति 'त्रीणि पदा वि चक्रमे • विष्णुर्गोपा अदाभ्यः ' इति च । 'सा' यथोक्ताऽष्टत्वसंख्या त्रित्वसंख्या चैनयोर्देवयोस्तत्र पुरोडाशे क्लृप्तिर्विभागकल्पनाहेतुः । तदनुसारेण विभक्तिस्तादृशो विभागोऽवगन्तव्यः ॥ ( ) ( ) १ तै ० सं० ७.१.१.४ २ ऋ ० १.२२.१७ ( ३ ) ऋ ० १.२२.१८ ।

पृष्ठ 77

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 77 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

• ]: प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् १५ इत्थं सार्थवादेन विधिवाक्येन दीक्षणीयेष्टिं विधाय तस्यामेवेष्टौ प्रतिष्ठाकामस्य पुरोडाशमपोद्य द्रव्यान्तरं विधत्ते— ( पुरोडाशमपोद्य द्रव्यान्तरविधानम्) घृते चरुं निर्वपेत योऽप्रतिष्ठितो मन्येत ॥८ ॥

हिन्दी— ( प्रतिष्ठा की कामना वाले को घृतयुक्त चरु देने का विधान कर रहे हैं— ) यः अप्रतिष्ठितः मन्येत तो अपने को अप्रतिष्ठित ( पुत्रादिरूप प्रजा और गवादिरूप पशु से रहित) समझे वह घृते चरुं निर्वपेत घृत से चरु ( अर्थात् घृतयुक्त चरु ) का निर्वाप करे ॥ सा० भा० – पुत्रादिप्रजया गवादिपशुभिश्च रहितत्वमप्रतिष्ठितत्वं तादृशोऽहमिति मन्यमानो यजमानः प्रतिष्ठार्थं घृतेन तण्डुलैश्चरुं निष्पादयेत् ॥ अप्रतिष्ठितत्वस्याऽऽत्यन्तिकदोषत्वं दर्शयति--- अस्यां वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति ॥९ ॥

हिन्दी - यः न प्रतितिष्ठति जो प्रतिष्ठित (प्रजा और पश्वादि से सम्पन्न ) नहीं होता, सः अस्यां वाव न प्रतितिष्ठति वह उस (पृथिवी ) पर समादरित नहीं होता है ॥ सा० भा ० – ' यो' यजमानः प्रजापशुरूपया प्रतिष्ठया वर्जितः ' सोऽस्यां वाव’ कृत्स्नायामप्येतस्यां भूमौ ‘ न प्रतितिष्ठति' श्लाघ्यो न भवति । तस्मादप्रतिष्ठा परिहर्त- व्येत्यर्थः ॥ घृतचरुणा तत्परिहारं दर्शयति--. ( घृतचरुणाप्रतिष्ठितदोषपरिहारः ) तद्यद्घृतं तत्स्त्रियै पयः, ये तण्डुलास्ते पुंसस्तन्मिथुनं मिथुने- नैवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै ॥ १० ॥

हिन्दी -( घृत में पके हुए चरु का परिहार दिखला रहे हैं — ) ( घृत में पके हुए चरु में ) तद् यद् घृतम् जो यह घृत है तत् स्त्रियै पयः वह स्त्री का रक्त ( रज) है और ये तण्डुलाः जो चावल है ते पुंसः वे पुरुष (के वीर्य) हैं । तद् मिथुनः इस प्रकार वे (घृत • और चावल मिलकर ) मिथुन हो जाते हैं । मिथुनेन एव इस मिथुन के द्वारा ही एनम् इस • ( यजमान) को प्रजया पशुभिः प्रजा और पशुओं से प्रजनयति प्रतिष्ठा के योग्य करता है, अत: प्रजात्यै प्रतिष्ठारूप प्रजनन के लिए (यह घृत में पका हुआ चरु होता है ) ॥ सा ० भा ० — तत्तत्र घृतपक्वे चरौ यद्घृतमस्ति तत्स्त्रियै ' पयः स्त्रियाः शोणितम् । - ( १ ) 'षष्ठ्यर्थे चतुर्थीति वाच्यम्' इति पा ० सू० २.३.६२ वा० १ ।

पृष्ठ 78

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 78 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ १६ ऐतरेयब्राह्मणम् १.१ प्रथमपञ्चिकायां द्रवत्वसाम्येन पयः शब्दः शोणितमुपलक्षयति । विलीनस्य घृतस्येषद्रक्तत्वसाम्येन योषि- द्वीर्यत्वमुपचर्यते । चरौ ये तण्डुलाः सन्ति ते पुंसो रेत इति शेषः । श्वेतत्वं त्वत्र साम्यम् । तघृततण्डुलोभयात्मकं चरुद्रव्यं मिथुनसदृशं तत्तस्मात् कारणान्मिथुनरूपेणैव चरुद्रव्ये- णैवेनं यजमानं पुत्रादिप्रजया गवादिपशुभिश्च प्रजनयति प्रवर्धयति । तस्मादिदं चरुद्रव्यं प्रजात्यै प्रजननाय प्रतिष्ठारूपाय सम्पद्यत इत्यर्थः । चरोः प्रतिष्ठाहेतुत्ववेदनं प्रशंसति- ( प्रतिष्ठाहेतुत्ववेदनप्रशंसनम्) प्रजायते प्रजया पशुभिर्य एवं वेद ॥ ११ ॥

'हिन्दी–(घृत में पके हुए चरु की प्रतिष्ठा-हेतुता के ज्ञान की प्रशंसा कर रहे हैं— ) यः एवं वेद जो इस प्रकार ( घृत में पके हुए चरु की प्रतिष्ठा -हेतुता को ) जानता है, वह प्रजया पशुभिः प्रजा और पशुओं से प्रजायते (प्रतिष्ठा रूप) प्रजनन को प्राप्त करता है । सा० भा० – तावेतौ पुरोडाशचरुपक्षावापस्तम्बेन दर्शितौ— ‘ दीक्षणीयायास्तन्त्रं प्रक्रमयति | आग्नावैष्णवमेकादशकपालं निर्वपत्याग्नावैष्णवं वा घृते चरुम्, पुरोडाशो ब्रह्मवर्चसकामस्य, घृते चरुः प्रजाकामस्य पशुकामस्य वाऽऽदित्यं घृते चरुं द्वितीयं प्रजा- कामस्य पशुकामस्यैके समामनन्ति ' ' इति ॥ उक्तया दीक्षणीयेष्टेः कालं विधत्ते— ( दीक्षणीयेष्टिकालविधानम्) आरब्धयज्ञो वा एष आरब्धदेवतो यो दर्शपूर्णमासाभ्यां यजत आमावास्येन वा हविषेष्ट्वा पौर्णमासेन वा तस्मिन्नेव हविषि तस्मिन् बर्हिषि दीक्षेतैषा एका दीक्षा ॥ १२ ॥

हिन्दी— ( दीक्षणीयेष्टि के काल का विधान कर रहे हैं - ) यः दर्शपूर्णमासाभ्यां यजते जो दर्श और पूर्णमास से यजन करता है, एष आरब्ध यज्ञः वै आरब्यदेवतः यह यज्ञ का आरम्भ करने वाला और देवताओं (की पूजा ) का आरम्भ करने वाला होता है । अमावास्येन पौर्णमासेन वा हविषा अमावास्या और पूर्णमास की हविष् से इष्ट्वा यजन करके तस्मिन् एव हविषि उसी हविष् के अनुष्ठित हो जाने पर तस्मिन्नेव बर्हिषि उसी कुश पर एषा दीक्षेत यह दीक्षणीयेष्टि करनी चाहिए । एका दीक्षा यह एक दीक्षा (इष्टि ) है ॥ ( १ ) आप० श्रौ० - १०.४.२.३

पृष्ठ 79

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 79 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:: प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् १७ सा ० भा ० – यः पुमान् दर्शपूर्णमासाभ्यां यजते तेन सर्वोऽपि यज्ञः प्रारब्धः सर्वस्य तदपेक्षितत्वात् । सोमयागस्य दर्शपूर्णमासविकृतित्वाभावेऽप्यङ्गादीनां दीक्षणीयाप्रायणीया- दीनामिष्टीनां तद्विकृतित्वादस्ति तदपेक्षा 1। अग्निहोत्रस्य तदङ्गानां च तन्निरपेक्षत्वेऽप्या- हवनीयाद्यग्निसापेक्षत्वादग्नीनां च पवमानेष्टिसाध्यत्वादिष्टीनां दर्शपूर्णमासविकृतित्वा- दस्ति परम्पराया तदपेक्षाऽतस्तदनुष्ठानेन सर्वस्यापि यज्ञस्य प्रारम्भः सिद्ध्यति । यद्यपि यज्ञारम्भेणैव तदीयदेवतानां पूजयितुमारम्भः सिद्ध एव तथाऽपि प्राधान्यख्यापनार्थमा- रब्धदेवत इति पुनर्देवताभिधानम् । यस्माद्दर्शपूर्णमासयाजिना सर्वोऽपि यज्ञ आरब्धप्रायोऽत एव देवतानां पूजाऽप्यारब्धप्राया तस्मादारब्धस्य सोमयागस्यानुष्ठेयत्वाद्दर्शपूर्णमासानुष्ठा- नादूर्ध्वं दीक्षेत दीक्षणीयेष्टिं कुर्यात् । अमावास्याकाले कर्तव्यं हविरामावास्यं तद्वत् पौर्ण- मासं च 1 ह॒विः शब्दोऽत्र यज्ञमुपलक्षयति । वाशब्दौ समुच्चयार्थी । अमावास्यादिसम्बन्धिना पौर्णमासीसम्बन्धिना च यज्ञेनेष्ट्वा दीक्षेत । उक्तार्थ एव तस्मिन्नित्यादिना प्रपञ्चयते । हविः- शब्दवद् बर्हिःशब्दोऽपि यज्ञोपलक्षकः । तस्मिन्नामावास्याख्ये हविषि यज्ञे तस्मिन् पौर्ण- मासाख्ये हविषि यज्ञे तस्मिन् पौर्णमासाख्ये बर्हिषि यज्ञेऽनुष्ठिते सति पश्चादेव दीक्षेत । तदाह आश्वलायनः-1-'दर्शपूर्णमासाभ्यामिष्ट्वेष्टिपशुचातुर्मास्यैरथ सोमेन' इति । यजे- तेति शेषः । इष्टिराग्रयणेष्टिः । पशुर्निरूढपशुबन्धः । आपस्तम्बोऽप्याह- ' अथ दर्शपूर्ण- मासावारभते । ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजते " इति । एतच्छब्दादुत्तर उकारोऽपिशब्दपर्यायः । एषाऽप्येका दीक्षा । एवमुक्ते सत्यन्याऽपि काचिद्दीक्षाऽस्तीति सूचितं भवति । अत एवाऽऽश्वलायन इष्टिपूर्वत्वं सोमपूर्वत्वं चेत्युभौ पक्षावुदाजहार - 'ऊर्ध्वं दर्शपूर्णमासाभ्यां यथोपपत्त्येके प्रागपि सोमेनैके ' इति । उपपत्तिर्द्रव्यादिसम्पत्तिस्तामनति- क्रम्येति यथोपपत्तिः । दर्शपूर्णमासाभ्यामूर्ध्वं द्रव्यादिसम्पत्तौ सत्यां सोमेन यजेतेति केषां-चिन्मतं ताभ्यां प्रागपि सम्पत्तौ सोमपानमित्यपरेषां मतम् । तैत्तिरीयाश्चेष्टिपूर्वत्वमभिप्रेत्य वसन्तादिकालविशेषेष्वाधानमाम्नाय पुनः सोमपूर्वत्वमभिप्रेत्य कालनियममन्तरेणाऽऽधान- मामनन्ति—‘अथो खलु यदैवैनं यज्ञ उपनमेत् । अथाऽऽदधीत सैवास्यर्धिः " इति । आप- ( १ ) ‘ सन्धिवेलाघृतुनक्षत्रेभ्योऽण्' इति पा० सू० ४.३.१६ । ( २ ) आश्व ० श्री० ४.१.१। ( ३ ) ' आग्रयणमैन्द्राग्नमग्रपाकस्य व्रीहीणां यवानां च' का० श्रौ ० ४.६ । ' आग्रयणं व्रीहि- श्यामाकयवानाम्' आश्व० श्रौ० २.२.९ । “ या आहिताग्निराग्रयणेनानिष्ट्वा नवान्नं प्राश्नीयात् तस्य का प्रायश्चितिः ” ऐ०ब्रा० ७.९ १ । 'आग्रयणेष्ट्या यजते' – इति च शत०ब्रा० २.४.३.१। ( ४ ) का ० श्रौ० षष्ठाध्यायो द्रष्टव्यः । तै० ब्रा० २.२.२.३; ३.६.३ । ( ५ ) आप ० श्रौ० ५.२३.२ । कात्यायनोऽप्याह– दशंपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेतेति श्रुतेः- इति ७.१.१ । ( ६ ) आश्व० श्री० ४.१.२ । ( ७) तै० ब्रा० १.१.२ ८ ।

पृष्ठ 80

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 80 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ १८ ऐतरेयब्राह्मणम् १.१ प्रथमपञ्चिकायां स्तम्बोऽपीदमेव सोमाधानमभिप्रेत्य वसन्तादिकालविशेषप्रतीक्षां वारयति- ' नर्तन् सूर्क्षेन

नक्षत्रम्' ' इति । तस्मात् पक्षद्वयम् ॥

चोदकप्राप्तां पञ्चदशसंख्याम्' अपवदितुं संख्यान्तरं विधत्ते— ( सप्तदशसामिधेनीविधानम्) सप्तदश सामिधेनीरनुब्नुयात् ॥ १३ ॥.

हिन्दी- सप्तदश सामिधेनी: अनुब्रूयात् (उस होता को) सत्रह सामिधेनियों का अनुवाचन करना चाहिए । विमर्श- सामिधेनी संज्ञक ऋचाएँ इस प्रकार हैं- ' प्र वो वाजा' (ऋ ० ३.२७.१ ), ' अग्न आ याहि' (ऋ ० ६.१६.१० ), 'तं त्वा' (ऋ० ६.१६.११ ), 'सनः पृथु' (ऋ ० ६.१६.१२ ), ' ईळेन्यो' (ऋ ० ३.२७.१३ ), ' वृषा अग्नि: ' (ऋ ० ३.२७.१४ ), ' वृषणं त्वा (ऋ ० ३.२७.१५ ), ' अग्नि दूतम्' (ऋ ० १.१२.१ ), ' समिध्यमानो' (ऋ० ३.२७. ४ ), ' समिद्धो ' (ऋ ० ५.२८.५ ), ' आ जुहोता' (ऋ० ५.२८.६ ) -ये ग्यारह सामधेनी ऋचाएँ हैं । इनमें प्रथम ‘ प्र वो वाजा' और ' आ जुहोता' का तीन - तीन बार पाठ करने से इनकी संख्या पन्द्रह हो जाती है । इनके मध्य से ' पृथुपाजा' (ऋ ० ३.२७.५ ) और ' तं स ' बाधो ० ' (ऋ ० ३.२७.६ )- इन दो धाय्या का पाठ होता है । धाय्या ऋचाओं के साथ पन्द्रह सामिधेनी का पाठ करने पर उनकी संख्या सत्रह हो जाती है । सा० भा०- ‘प्र वो अभिद्यत इत्याद्या एकादशसंख्याका* ऋचो वह्निसमिन्धन- हेतुत्वात् सामिधेन्य इत्युच्यन्ते। ' तासु 'त्रिः प्रथमामन्वाहं त्रिरुत्तमाम्' इति वचनात्ताः पञ्चदश सम्पद्यन्ते । ' प्रकृतावेध विहितासु पञ्चदशस्वृक्षु चोदकप्राप्तासु ये समिध्यमानसमिद्धवत्यौ द्वे (१ ) आप० श्रौ ० ५.३.२१ । “ अथ नक्षत्राणि; कृत्तिकासु ब्राह्मण आदघीत वसन्तो ब्राह्मणस्य सोमेन यक्ष्यमाणे नर्तुं सूर्क्षेन्न नक्षत्रम्" इति तत्र पाठः । न सूर्क्षेत् = नाद्रियेत- इति तट्टीका रौद्रदत्ती । ' सोमेन यक्ष्यमाणो नर्तुं पृच्छेन्न नक्षत्रम् - इति आश्व० श्रौ ० २.१.१५ । ( २ ) तथाहि प्रकृती ‘पञ्चदश सामिधेनीरन्वाह' – इति तै ० सं ० २.५.८.२ ।. ( ३ ) ऋ० ३.२७.१ । ( ४ ) यद्यपि मूले द्वादशपठितास्तवाप्यन्तयोः पुरुषभेदेन विकल्पितत्वाद् एकादशैव । ( ५ ) पा० सू० ४.३.१२० वा० १०। ' सामिधेनीभिहता तस्मात् सामिधेन्यो नाम' – इति शत० ब्रा ० १.३.५.१ । तासामुत्पत्तिस्त्वेमाम्नायते - " ऋषेॠषेर्वा एता निर्मिता यत्सामिधेन्य: ” – इति तै ० सं ० २.५.७.५ । भिन्नेभ्यः ऋषिभ्यः प्रवर्तितास्ताः सामि- धेन्यः' इति च तत्र भाष्ये सायणः । ( ६ ) तै० सं ० २.५.७.१ ।