ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 1–10
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 1–10
पृष्ठ 1
पाठ पढ़ें पाठ छिपाएँ
II 2
पृष्ठ 2
पाठ पढ़ें पाठ छिपाएँ
इस पृष्ठ पर कोई पाठ नहीं मिला — ऊपर मूल चित्र देखें।
पृष्ठ 3
पाठ पढ़ें पाठ छिपाएँ
33-3-17 चरैवेति
पृष्ठ 4
पाठ पढ़ें पाठ छिपाएँ
इस पृष्ठ पर कोई पाठ नहीं मिला — ऊपर मूल चित्र देखें।
पृष्ठ 5
पाठ पढ़ें पाठ छिपाएँ
11 eft: 11 विद्याभवन प्राच्यविद्या ग्रन्थमाला २७ ९ * ऋग्वेदीयम् ऐतरेयब्राह्मणम् ( उत्तरार्द्धम् ) सायणभाष्योपेतम् सविमर्श ' शशिप्रभा ' नामहिन्दीव्याख्ययाविभूषितम् व्याख्याकारः डॉ ० दानपति तिवारी संस्कृतविभागः साकेत पी. जी. कालेज, अयोध्या, फैजाबाद सम्पादकः डॉ ० जमुनापाठकः सेवानिवृत्तः, संस्कृतविभागतः काशीहिन्दूविश्वविद्यालयः, वाराणसी प्रकाशक: चौखम्बा विद्याभवन चौक, वाराणसी - २२१००१
पृष्ठ 6
पाठ पढ़ें पाठ छिपाएँ
© इस प्रकाशन के किसी भी अंश का किसी भी रूप में पुनर्मुद्रण या किसी भी विधि ( जैसे- इलेक्ट्रानिक, यांत्रिक, फोटो प्रतिलिपि, रिकॉर्डिंग या अन्य कोई विधि ) से प्रयोग या किसी ऐसे यन्त्र में भण्डारण जिससे इसे पुनः प्राप्त किया जा सकता हो, प्रकाशक की पूर्वलिखित अनुमति के बिना नहीं किया जा सकता । ऋग्वेदीयम् ऐतरेयब्राह्मणम् ( उत्तरार्द्धम् ) प्रकाशक चौखम्बा विद्याभवन ( भारतीय संस्कृति एवं साहित्य के प्रकाशक तथा वितरक ) चौक ( बैंक ऑफ बड़ौदा भवन के पीछे ), वाराणसी - २२१००१ दूरभाष: ०५४२-२४२०४०४ ई - मेल: cvbhawan@yahoo.co.in © सर्वाधिकार प्रकाशकाधीन संस्करण २०१६ ई ० मूल्य: I 3000.00 ( १-२ भाग ) सजिल्द अन्य प्राप्तिस्थान: चौखम्बा इण्डोवेस्टर्न पब्लिशर्स के. ३७/११७, गोपालमन्दिर लेन, वाराणसी - २२१००१ दूरभाष - ०५४२-२३३३४३१ वेबसाइट: www.indowesternpublishers.com चौखम्बा पब्लिशिंग हाउस ४६ ९ ७ / २, भू - तल ( ग्राउण्ड फ्लोर ), गली नं. २१ - ए. ए. अंसारी रोड दरियागंज, नई दिल्ली- ११०००२ दूरभाष: ०११-२३२८६५३७ + चौखम्बा संस्कृत प्रतिष्ठान ३८ यू. ए. बंगलो रोड, जवाहर नगर, दिल्ली- ११०००७ दूरभाष - ०११-२३८५६३९ १ चौखम्बा सुरभारती प्रकाशन के. ३७/११७, गोपालमन्दिर लेन, वाराणसी - २२१००१ दूरभाष - ०५४२-२३३५२६३
पृष्ठ 7
पाठ पढ़ें पाठ छिपाएँ
॥ ॐ तत्सद्ब्रह्मणे नमः ॥ ऐतरेयब्राह्मणम् ( उत्तरार्द्धम् ) ( श्रीमत्सायणाचार्यप्रणीतभाष्यसमलङ्कृतम् ' शशिप्रभा ' नामक-हिन्दीव्याख्याविभूषितञ्च ) अथ पञ्चमपञ्चिकायां प्रथमोऽध्यायः [ अथैकविंशोऽध्यायः ] अथ प्रथमः खण्डः सायणभाष्यम् –
भिन्नान्याहुर्देवतास्तोमसामच्छन्दांस्यह्नस्तस्य तस्यापि षण्णाम् ।
विद्वद्वाक्यादुत्तरं स्यात् समानं स्वान् स्वाँल्लोकान्त्रिकोणेष्वहःसु ॥१ ॥
सिद्धानि शस्त्राणि षडेव हौत्राण्याज्येन सूक्तं प्रउगे. तृचाश्च ।
मरुतीये प्रतिपत्तृचौ च धाय्याः प्रगाथाश्च तथैव सूक्तम् ॥२ ॥
निष्केवल्ये स्तोत्रियः पृष्ठयोनियनिस्थाने स्व - स्व - सामप्रगाथः । तार्क्ष्यात् सूक्तात् पूर्वमन्ये तु नित्ये स्वात् स्वात् सूक्ताज्जातवेदस्यमन्यत् । छन्दोगानां वैश्वदेवात् पुरस्तादायाहीमावृभुसूक्तानि चैव ॥३ ॥
राथन्तरमयुग्मं स्याद् बृहत्सामेतरद्भवेत् ।
वैरूपादि द्वितीयं स्यात् तृतीयादिष्वनुक्रमात् ॥४ ॥
अथेन्द्रपूर्वो निहवः प्रगाथो धाय्याश्च तार्क्ष्यं च समानमह्नाम् ।
स्वात् स्वात् तथा जातवेदस्यमग्र्यं छन्दोम आद्यस्त्रयहस्तृतीयः ॥५ ॥
अथ द्वादशाहान्तर्गतस्य नवरात्रस्य तृतीयमहर्निरूपयति— ( सोमयागः क्रमागतः ) ( पृष्ठ्यषडहः क्रमागतः ) ( तत्र द्वादशाहान्तर्गतस्य नवरात्रस्य तृतीयमहर्निरूपणम् ) विश्वे वै देवा देवतास्तृतीयमहर्वहन्ति, सप्तदशस्तोमो वैरूपं साम जगती छन्दः ॥ १ ॥.
हिन्दी – ( द्वादशाह के अन्तर्गत नवरात्र के ) तृतीयमहः तृतीय दिन को विश्वे देवाः ऐ.ब्रा.उ.- १
पृष्ठ 8
पाठ पढ़ें पाठ छिपाएँ
८६६: ऐतरेयब्राह्मणम् [ २१.१ पञ्चमपञ्चिकायां देवताः वै विश्वे देवा देवता ही वहन्ति निर्वहन करते हैं ( अर्थात् तृतीय दिन के निर्वाहक देवता विश्वदेवा हैं ) । सप्तदशः स्तोमः सप्तदश नामक स्तोम है, वैरूपं साम वैरूप नामक साम है, जगती छन्दः जगती नामक छन्द है । सा ० भा ० —– देवतासु मध्ये विश्वे देवाः, स्तोमानां मध्ये सप्तदशः, साम्नां वैरूपम्, छन्दसां मध्ये जगती, तान्येतानि तृतीयस्याह्नो निर्वाहकाणि । यद्यपि पृष्ठ्ये षडहे प्रथमतृतीयपञ्चमान्यहानि राथन्तराणि, द्वितीयचतुर्थषष्ठान्यहानि बार्हतानि; तथाऽपि रथन्तर-बृहत्सामसम्बन्धः साधारणो वैरूपादिसामसम्बन्धो विशेषस्तृतीयेऽहनि; सत्यपि हि रथन्तर-पृष्ठे वैरूपं साम द्वितीयत्वेन प्रयुज्यते । अतो वैरूपस्यैतस्मिन्नहन्यसाधारणत्वान्निर्वाहकत्व-. मुच्यते ॥ यथादेवतमनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद ॥ २ ॥
हिन्दी — यः एवम् जो इस प्रकार यथादेवतम् इस देवता को, यथास्तोमं इस स्तोम को, यथासाम इस साम को, यथाछन्दसम् इस छन्द को ( तृतीय दिन के निर्वाहक के रूप में ) वेद जानता है, वह ( इन देवता इत्यादि का अनतिक्रमण करके ) राध्नोति समृद्ध होता है ॥ सा ० भा ० – उक्तदेवतादीनां वेदितैतान्यनतिक्रम्य तत्प्रसादेन समृद्धो भवति ॥ एतस्याह्नः सम्बन्धिषु पूर्ववल्लिङ्गानि निरूपयति— ( १ ) ' ननु न केवलं वैरूपमेव साम तृतीयमहर्वहति । गायत्रादीन्यपि च वहन्त्येव । सत्यम्, असाधारणेन हि पृष्ठसाधनत्वेन व्यपदेशो भवति । साधारणानि च गायत्रादीनि तृतीय-स्यान्यस्य च । किञ्च विरोधिव्यावर्तकतया विशेषणं भवति । एकार्थतया हि विरोधो भवति । स्तुत्यन्तरसाधनत्वाच्च गायत्रादीनामविरोधो वैरूपेण । अतो युक्तं वैरूपं साम. तृतीयमहर्वहतीति । ननु पृष्ठस्तुत्यन्वयेनापि विरोधो न घटते, अस्याह्नो राथन्तरत्वात् । वक्ष्यति हि — ' राथन्तरं ह्येतदहरायतनेन ' इति । न केवलं ब्राह्मणवाद एव । आह च ‘ तृतीयादिषु पृष्ठ्यस्यान्वहं द्वितीयानि वैरूपवैराजशाक्वररैवतानि ' इति ( आ ० श्रौ ० सू ० ७.५.४ ) । एतदुक्तं भवति - अयुग्मेष्वहस्सु ं रथन्तरं पृष्ठं भवति, युग्मेषु बृहत् । तृतीयादिष्वहस्सु वैरूपादीनि द्वितीयानि समुच्चयेरन् इति । तस्माद् वैरूपं वा साम वहेद्, राथन्तरं वाहः स्यादिति । अत्रोच्यते - पृष्ठ्यः षडह बृहद्रथन्तरसाम इति वचनात् षण्णामह्नां साधारणे बृहद्रथन्तरे । वैरूपादीनि तु तृतीयादिषु प्रातिस्विकानि । अतो वैरूपादीनां वहनं युक्तम् । यद्वा, पृष्ठ्यः षडहो बृहद्रथन्तरसामेति वचनाद् वैरूपादीनां योनिशंसनमात्रमेव स्यात् । आह च ‘ अक्रियायां योनिं शंसेत् ' इति । एवं च सति राथन्तरं ह्येतदहरिति, तत्र निर्देश उपपन्नो भवति । वैरूपादिवहनं च योनिद्वारेणेति युक्तम् । एवमन्यत्रापि द्रष्टव्यानि'-इति गोविन्दस्वामी ।
पृष्ठ 9
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८६७ ( एतस्याह्नः मन्त्रेषु लिङ्गानां निरूपणम् ) यद्वै समानोदर्कं तत्तृतीयस्याह्नो रूपं, यदश्ववद्यदन्तवद् यत् पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद् यत् पर्यस्तवद्यत् त्रिविद्यदन्तरूपं, यदुत्तमे पदे देवता निरुच्यते, यदसौ लोकोऽभ्युदितो यद्वैरूपं यज्जागतं यत्कृतमेतानि वै तृतीयस्याह्नो रूपाणि ॥ ३ ॥
हिन्दी - ( इस दिन प्रयुक्त होने वाले मन्त्रों के चिह्न को दिखला रहे हैं — ) यद्वै समानोदर्कम् जो ( मन्त्र ) समान अन्त वाला ( अर्थात् जिस मन्त्र भाग की समाप्ति समान रूप से हुई है ), तत्तृतीयस्याह्नः रूपम् वह तृतीय दिन का निरूपण करने वाला ( = सूचक ) है, यद् अश्ववद् अन्तवत् जो ( मन्त्र ) अश्व शब्द से और अन्त शब्द से युक्त हो, यत् पुनरावृत्तम् जो पुनरावृत्ति वाला ( पठित का ही पुनः पाठ ) है, यत् पुनः निनृतम् जिसमें अक्षर स्वरविशेषों के कारण बार - बार आवृत्ति हो, यद् रतवत् जो धात्वर्थमात्र को कहने वाला हो, यत् पर्यस्तवत् जो पर्यास शब्द से युक्त हो, यत् त्रिविद् यद् अन्तरूपम् जो त्रिशब्द और अन्त शब्द से युक्त हो, यद् उत्तमे पदे देवता निरुच्यते जिसके अन्तिम पाद में देवता का अभिधान हुआ हो, यद् असौ लोको अभ्युदितः जहाँ उस ( स्वर्ग ) लोक का कथन हुआ हो, यद् वैरूपम् जो ( मन्त्र ) वैरूप नामक साम और यद् जागतम् जो जगती छन्द से सम्बन्धित हो, यत्कृतम् जिसमें कृ धातु का भूतकालिक प्रयोग हो, एतानि ये सभी मन्त्र तृतीयस्य अह्नः रूपम् तृतीय दिन के स्वरूप वाले ( = सूचक ) हैं ॥ सा ० भा ० — उदर्कः = समाप्ति: ', समान उदर्कः तुल्या समाप्तिर्यस्य मन्त्रभागस्य तत् ‘ समानोदर्कम् ’ । तादृशं यदेवास्ति, तत्तृतीयस्याह्नो ' रूपं ' निरूपकम्, लिङ्गमित्यर्थः । अश्वशब्दोपेतम् ‘ अश्ववत् ’ । अन्तशब्दोपेतम् ' अन्तवत् ' । पठितस्यैव पुनः पाठः ' पुनरावृत्तम् । पुनरपि नितरां ‘ नृत्तं ’ नर्तनं ‘ पुनर्निनृत्तम् ' । स्वरविशेषेणाक्षराणां पुनः पुनरावर्तनेंन वा नर्तन-सादृश्यम् । पुनरावृत्तं पठितस्यैव पादस्याऽऽवृत्तिः । अत्र तु स्वराक्षरमात्रस्येति विशेषः । ‘ रतवत् ' इति धात्वर्थमात्रमत्र विवक्ष्यते । ' पर्यस्तवत् ' इति पर्यासशब्दवत् । ' त्रिवत् ' इति त्रिशब्दोपेतम् । ‘ अन्तरूपम् ' इति अन्तशब्दोपेतम्; पूर्वमुक्तस्यैवायमनुवादः । अथवा, पुन-र्वचनं प्राधान्यप्रतिपादनार्थं तदीयार्थपरिग्रहार्थं वा । उत्तमे पादे देवताया अभिधानं, स्वर्ग-लोकस्य कथनं, वैरूपसामसम्बन्धित्वं, जगतीछन्दः सम्बन्धित्वं, भूतार्थप्रत्ययोपेतः ( १ ) ( i ) ' उदकोंऽन्तः ' - इति गोविन्दस्वामी । ( ii ) तुल्यो भाग उदर्कः स्याद् वस्त्रोदर्कादि वै यथा । अभ्यासनं समानत्वं यत्र तद्योग्यमत्र वै ॥ - इति षड्गुरुशिष्यः । ( iii ) किन्तु अयमर्थः कोशेषु न दृश्यते ।
पृष्ठ 10
पाठ पढ़ें पाठ छिपाएँ
८६८: ऐतरेयब्राह्मणम् करोतिधातुर्धातुमात्रं वा, एतानि सर्वाणि तृतीयस्याह्नो रूपाणि ' इदानीमाज्यशस्त्रं विधत्ते-( तृतीयाह्नः आज्यशस्त्रनिरूपणम् ) युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिवेति आज्यं भवति ॥ ४ ॥
हिन्दी— ( तृतीय दिन के आज्यशस्त्र को कह रहे हैं - ) ' [ २१.१ पञ्चमपञ्चिकायां ॥ तृतीयस्याह्न युवा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव ' से प्रारम्भ होने वाला सूक्त तृतीयस्याह्नः आज्यं भवति तृतीय दिन का आज्यशस्त्र होता है ॥ तदेतच्छस्त्रं प्रशंसितुमाख्यायिकामाह— ( आज्यशस्त्रप्रशंसनायाख्यायिका ) . देवा वै तृतीयेनाह्ना स्वर्गं लोकमायंस्तानसुरा रक्षांस्यन्ववारयन्त, ते विरूपा भवत, विरूपा भवतेति भवन्त आयंस्ते यद् विरूपा भवत विरूपा भवतेति भवन्त आयंस्तद् वैरूपं सामाभवत्, तद् वैरूपस्य वैरूपत्वम् ॥५ ॥
हिन्दी - ( इस आज्यशस्त्र की प्रशंसा के लिए आख्यायिका को कह रहे हैं— ) देवाः वै देवगण तृतीयेन अह्ना तृतीय दिन के अनुष्ठान के द्वारा स्वर्गं लोकम् आयन् स्वर्ग • लोक को प्राप्त किये । असुराः रक्षांसि असुरों और राक्षसों ने तान् अन्ववारयन्त उनका अनुगमन करके उनको ( स्वर्गलोक में प्रवेश करने से रोका । ते
( १ ) अश्वान्तशब्दवद् यच्च पुनरावृत्तमेव यत् ।
वर्णवृत्तियुतं यच्च निवृत्तं पुनरेव यत् ॥१ ॥
पदावृत्त्या तु सहितं वर्णावृत्तियुतं तु वा ।
पादैकदेशविक्षेपो निवृत्तोक्तेर्हि कारणम् ॥२ ॥
रमिधातुयुतं यच्च परिपूर्वोऽस्यतिः स्थितः यच्च त्रिशब्दवद् वत्वं छन्दसीरो मतोस्त्रिय (? ) अन्तरूपं समाप्त्यर्थवाचि यच्च पदं भवेत् । यद् यत्र वा पदे पादे तूत्तमे देवतोच्यते यद् यत्र वा द्युलोकोऽसावुदितो हि समीरितः यच्च वैरूपसम्बन्धि यज्जगत्या समन्वितम् यत् कृतं भूतकालोक्तप्रत्ययान्वितधातुमत् एतानि च तृतीयस्य योग्यान्यह्नोऽवधार्यताम् ( २ ) ऋ ० ८.७५ ॥ ॥३ ॥
॥४ ॥
।
॥५ ॥
। ॥६ ॥ - इति
उन देवताओं ने विरूपा षड्गुरुशिष्यः ।