ऐतरेय ब्राह्मण उत्तरार्द्ध — पृष्ठ 11–20
ऐतरेय ब्राह्मण उत्तरार्द्ध · पृष्ठ 11–20
पृष्ठ 11
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८६ ९ भवत कुरूप हो जाओ ' विरूपाः भवतः ' इति कुरूप हो जाओ ऐसा कहकर भवन्तः आयन् अपने स्वरूप में आविर्भूत होकर ( स्वर्ग लोग को ) गये । ते यत् उन देवतागण जो ‘ विरूपा भवत विरूपा भवत ' कुरूप हो जाओ, कुरूप हो जाओ इति भवन्त आयन् इस प्रकार ( राक्षसों को शाप देखर ) अपने स्वरूप में आविर्भूत हुए तद् वैरूपं साम अभवत् वह वैरूप नामक साम हो गया । तद् वैरूपस्य वैरूपत्वम् वही वैरूप नामक साम का वैरूप नाम वाला होना है ॥ सा ० भा ० — यदा देवाः तृतीयमहरनुष्ठाय तेन स्वर्गं लोकं गताः, तदानीमसुरा रक्षांसि च ‘ तान् ’ देवान् ' अनु ' गम्य स्वर्गप्रवेशो यथा न भवति तथा ' अवारयन्त ' निवारितवन्तः । ततः ‘ ते ’ देवास्तानसुरान् प्रति ' विरूपा: ' विरुद्धरूपोपेता ' भवतेति शपित्वा ‘ भवन्तः ’ स्वेन रूपेणैवाऽऽविर्भवन्तः ' आयन् ' स्वर्गं प्रत्यागच्छन् । विरूपा भवतेति वीप्सा सर्वदेवोक्तिद्योतनार्था, असुरशापेऽत्यन्तमादरार्था वा । ' ते ' देवा: यस्मात्कारणादसुरान् प्रति विरूपत्वशाप दत्तवन्तः, तस्मादसुराणां ' तद् ' विरुद्धं रूपं वैरूपाख्यं सामाभवत्— विरूपोक्तिसम्बन्धादेव तस्य वैरूपं नाम संपन्नम् ॥ उक्तार्थवेदनं प्रशंसति— विरूपः पाप्मना भूत्वा पाप्मानमप हते य एवं वेद ॥ ६ ॥
हिन्दी - यः एवं वेद जो इस प्रकार ( वैरूप साम के नाम को ) जानता है, वह यदि पाप्मना किसी पाप से विरूपः भूत्वा विरूप होकर ( रहता है तो ) वह इस ज्ञान के कारण पाप्मानम् ( कुरूप होने के ) पाप को अपहृते विनष्ट कर देता है ( वैरूप नामक साम के नाम की निष्पत्ति को जानने वाले के कुरूप होने का पाप विनष्ट हो जाता है ) ॥ सा ० भा ० — वेदिता पूर्वं केनचित्पाप्मना विरुद्धरूपयुक्तो भूत्वाऽपि पश्चाद् वेदन-सामर्थ्यात् तं पाप्मानम् ‘ अप हते ' विनाशयति ॥ प्रासङ्गिकं वैरूपशब्दनिर्वचनं कृत्वा प्रकृतमेवोपाख्यानशेषमाह— ( उपाख्यानशेषकथनद्वारा अश्वशब्दनिर्वचनम् ) तान् ह स्मान्वेवाऽऽगच्छन्ति, समेव सृज्यन्ते, तानश्वा भूत्वा पद्भिर-पाध्नत, यदश्वा भूत्वा पद्धिरपाघ्नत, तदश्वानामश्वत्वम् ॥७ ॥
हिन्दी – ( वे कुरूप हुए असुर और राक्षस ) तान् ह उन्हीं देवताओं के अन्वागच्छन्ति एव पीछे - पीछे आते ही हैं स सृज्यन्ते एव ( और देवताओं से दूर न रहकर उनसे ) मिल जाते हैं । अश्वाः भूत्वा ( तब उन देवताओं ने अश्व होकर उनको ) पद्भिः ( अपने पिछले ) पैरों से अपाघ्नत मारा । तद् अश्वानाम् अश्वत्वम् इससे ( पिछले पैरों से मारने के कारण ) ( १ ) ‘ विरूपा नानारूपा अशोभनरूपा भवत इत्येव भवन्तो वदन्त आयन् ' - इति गोविन्दस्वामी ।
पृष्ठ 12
पाठ पढ़ें पाठ छिपाएँ
८७०: ऐतरेयंब्राह्मणम् [ २१.१ पञ्चमपञ्चिकायां अश्वों को अश्व कहा जाता है ॥ सा ० भा ० — देवशापात् कुरूपत्वं प्राप्ता असुराः पुनरपि ‘ तान् देवान् ‘ अनु ’ पश्चाद् आगच्छन्त्येव ' न तु परित्यजन्ति । आगत्य च देवैः ' संसृज्यन्त एव ', न तु दूरे तिष्ठन्ति । तदानीं देवाः सर्वेऽप्यश्वरूपधारिणो भूत्वा पृष्ठत आगतान् असुरान् ' पद्भिरपाघ्नत ' स्वकीयपादताडनैर्हतवन्तः । यस्मादेवमश्वा ' भूत्वा पद्भिर्हतवन्तः, तस्माल्लोकेऽपि पादताडनकुशलानां चतुष्पदानामश्वनाम संपन्नम् ॥ उक्तार्थवेदनं प्रशंसति-अश्नुते यद्यत्कामयते य एवं वेद ॥८ ॥
हिन्दी — यः एवं वेद जो इस प्रकार ( अश्व के नामकरण को जानता है ) वह यद् यत्कामयते जो - जो कामना करता है, उसे अश्नुते प्राप्त करता है । देवैरश्ववेषकृतं व्यापारमिदानीन्तनेष्वश्वेषु दर्शयति— तस्मादश्वः पशूनां जविष्ठस्तस्माद्वश्व प्रत्यङ्पदा हिनस्ति ॥ ९ ॥
हिन्दी — तस्मात् इसी ( देवताओं द्वारा अश्वरूप धारण करके पैरों से असुरों और राक्षसों को वेग से कुचल देने के ) कारण अश्वः अश्व पशूनां जविष्ठः पशुओं में अत्यन्त वेगवान् होता है और इसीलिए अश्वः अश्व प्रत्यङ्पदा हिनस्ति लोगों को पिछले पैरों से मारता है ॥ सा ० भा ० — यस्मादश्वरूपैः देवैर्वेगेन गमनं पद्भिस्ताडनं चाचरितम्, तस्माल्लोकेऽपि ‘ पशूनां ' मध्येऽश्वोऽत्यन्त वेगवान् । ' तस्मादु ' तस्मादेव कारणाल्लौकिकोऽश्वः ' प्रत्यङ् ’ पृष्ठतः पादेन पुरुषं ‘ हिनस्ति ' ताडयति ॥ उक्तार्थवेदनं प्रशंसति— अप पाप्मानं हते य एवं वेद ॥ १० ॥
हिन्दी- - यः एवं वेद जो इस प्रकार ( अश्व के वेंगवान् होने और पिछले पैर से मारने के कारण को ) जानता है, वह पाप्मानम् अपहते पाप को विनष्ट करता है ॥ युवा हीति सूक्तं प्रशस्याऽऽज्यविधिं निगमयति— ( १ ) ' एव = पुन:, ह = द्रुतम्,... अनुद्रुत्य च संसृज्यन्ते; कर्तरि लङ् कर्मणि लट्, समसृजन्’– इति षड्गुरुशिष्यः । ( २ ) ' अश्वा समर्था युधीति तदादि प्रथितं ह्यभूत् । - इति षड्गुरुशिष्यः । ( ३ ) ‘ यस्मादेवं तस्मादश्वशब्दनिर्वचनम् । अपाघ्नतेत्यस्माद् ' अश्व ' इति विप्रतिषिध्यति । तत्कथम्? ' अश्वः ' कस्मात् अश्नुतेऽध्वानं महाशनो भवतीति यास्कस्मरणात् । सत्यम्, यदि वयं हेन्तरश्वत्व ब्रूमः, कुतस्तर्हि अश्नुतेरेवाश्वं भवति । - इति गोविन्दस्वामी ।
पृष्ठ 13
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८७१ ( आज्यविधिनिगमनम् ) तस्मादेतदश्ववदाज्यं भवति तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥ ११ ॥
हिन्दी - तस्मात् इस ( अश्व की महिमा ) के कारण तृतीये अहनि तृतीय दिन का आज्यम् ( ' युक्ष्वा हि ' से प्रारम्भ होने वाला ) आज्य ( शस्त्र ) अश्ववद् भवति अश्व ( के समान शब्द ) से युक्त होता है । ( अश्व शब्द से युक्त यह सूक्त ) तृतीयस्य अह्नःरूपम् तृतीय दिन का रूपक है । सा ० भा ० – यस्मादश्वस्य ईदृशो महिमा, तस्मात् ' अश्ववत् ' अश्वशब्दोपेतं ' युक्ष्वा हि ' इति सूक्तं ' तृतीयेऽहन्याज्यशस्त्रं भवति । यदश्ववदिति पूर्वलक्षणस्योक्तत्वात् इदमश्व-शब्दोपेतं सूक्तं तृतीयस्याह्नो रूपकम् ॥ अथ प्रउगशस्त्रं विधत्ते-( तृतीयस्याह्नः प्रउगशस्त्रविधानम् ) वायवा याहि वीतये, वायो याहि शिवा दिव, इन्द्रश्च वायवेषां सुताना, मा मित्रे वरुणे वय, मश्विनावेह गच्छत, मा याह्यद्रिभिः सुतं, सजूर्विश्वेभिर्देवेभि, रुत नः प्रिया प्रियास्वित्यौष्णिहं प्रउगं समा-नोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥ १२ ॥
हिन्दी – ( अब तृतीय दिन के प्रउगशस्त्र का विधान कर रहे हैं - ) ' वायवा याहि वीतये ' यह एक ऋचा, ' वायो याहि शिवा दिवः ' से प्रारम्भ दो ऋचाएँ ( इस प्रकार तीन ऋचाएँ ), ‘ इन्द्रश्च वायवेषां सुतानाम् ' ये दो ऋचाएँ ( तृच बनाने के लिए इनमें से एक का दो बार पाठ ), ‘ आ मित्रे वरुणे वयम् ' यह तृच, ' अश्विना वेव गच्छतम् ' से प्रारम्भ होने वाला तृच, ‘ आयाह्यद्रिभिः सुतम् ' से प्रारम्भ तृच, ' सजूर्विश्वेभिर्देवेभि: ' से प्रारम्भं तृच और ‘ उत नः प्रिया प्रियासु ' से प्रारम्भ तृच, ( इस प्रकार से सात तृच ) औष्णिहम् उष्णिक् छन्द वाले प्रउगम् प्रउग ( शस्त्र ) होते हैं । तृतीयेऽहनि तृतीय दिन में प्रयुक्त समानोदर्कम् समान समाप्ति वाले ( = समान अन्तिम पाद वाले तृच ) हैं । तृतीयस्य अह्नः रूपम् अतः ये तृतीय दिन के रूप ( चिह्न ) वाले हैं । सा ० भा०- -'वायवा याहि वीतये इत्येका । ' वायो याहि शिवा दिवः'३ इत्यादिके द्वे ऋचौ * मिलित्वा सोऽयमेकस्तृचः; ' इन्द्रश्च वायवेषां सुतानाम् ' इत्यादिके द्वे ऋचौ, तृचत्वसंपादनाय तयोरन्यतरा द्विरावर्तनीया, ' आ मित्रे वरुणे वयम् " इत्यादिस्तृचः ' अश्विना-( १ ) १. ऋ ० ८.७५ । ( २ ) ऋ ० ५.५.१.५ । ( ३ ) ऋ ० ८.२६.२३, २४ । ( ४ ) ऋ ० ५.५ \ १.६, ७ । ( ५ ) ऋ ० ५.७२.१-३ ।
पृष्ठ 14
पाठ पढ़ें पाठ छिपाएँ
८७२: ऐतरेयब्राह्मणम् [ २१.१ पञ्चमपञ्चिकायां वेह गच्छतम् ' इत्यादिकस्तृचः, ' आ याह्यद्रिभिः सुतम् ' ' इत्यादिकस्तृचः ' सजूर्विश्वे-भिर्देवेभिः’३ इत्यादिकस्तृचः, ' उत नः प्रिया प्रियासु " इत्यादिकस्तृचः, त एते सप्त तृचाः उष्णिक्छन्दस्काः । तत्सर्वमौष्णिहं प्रउगशस्त्रं कुर्यात् । तत्र समानोदर्कत्वं तृतीयस्याह्नो लिङ्गम् । ‘ आ मित्रे वरुण ’ इति सूक्ते तिसृष्वप्यृक्षु ' नि बर्हिषि ' इत्यादिकोऽन्तिमः पाद एक एव । ‘ अश्विनावेहेति ’ सूक्तेऽपि ' हंसाविव ' इत्यादिकोऽन्तिमः पाद एक एव । ' आ याहीति ' सूक्तेऽपि ' वृषन्निन्द्रे'त्यन्तिमः पाद एक एव । ' सजूर्विश्वेभिरिति तृचेऽपि ' आ याह्यग्न '
इत्यन्तिमः पाद एक एव । एवं कतिपयेषु समानोदर्कत्वं लिङ्गम् ' ॥
अथ मरुत्वतीयशस्त्रस्य तृचद्वयं विधत्ते— ( तृतीयस्याह्नः मरुत्वतीयशस्त्रविधानम् ) तं तमिद्राधसे महे, त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपद-नुचरौ, निनृत्तवत् त्रिवत् तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥ १३ ॥
हिन्दी - ( अब मरुत्वतीय शस्त्र के दो तृचों को बतला रहे हैं - ) ' तं तमिद्राधसे महे ' से प्रारम्भ होने वाला तॄंच और ' त्रय इन्द्रस्य सोमा ' से प्रारम्भ होने वाला तृच मरुत्वतीयस्य मरुत्वतीय ( शस्त्र ) का प्रतिपदनुचरौ ( क्रमश:) प्रतिपद् और अनुचर है । निनृतवत् निनृतयुक्त ( अर्थात् तं तं इस दो बार पंठित पद के नृतगत ताल के अनुरूप होने से और ' कृष्टीनां नृतु ' में नृत्य वाचक नृतु शब्द के होने से तथा त्रिवत् त्रि ( शब्द ) से युक्त होने से तृतीयेऽहनि तृतीय दिन में प्रयुक्त होता है । यह तृतीयस्य अह्नः रूपम् तृतीय दिन का रूप ( निरूपक ) है ॥ सा ० भा ० — - ' तं तम् ' इत्यादिकस्तृचो मरुत्वतीयशस्त्रस्य प्रतिपत् । तस्योपक्रमे ' तं तम्'- इति द्विरावृत्तः शब्दो नृत्तगततालानुकरणसदृशः, अन्ते च ' कृष्टीनां नृतुः ' इति नर्तनवाची शब्दः श्रूयते; तदिदं निनृत्तवल्लिङ्गम् । ' त्रय इन्द्रस्य ' - इत्ययमनुचरस्तृचः ° । तस्याऽऽदौ त्रिशब्दश्रवणात् इदं त्रिविल्लिङ्गम् ॥ अथ प्रगाथद्वयं विधत्ते-( प्रगाथद्वयविधानम् ) इन्द्र नेदीय एदिहीत्यच्युतः प्रगाथः; प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मण-स्पत्यो, निनृत्तवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥१४ ॥
( १ ) ऋ ० ५.७५.७ - ९ । ( २ ) ऋ ० ५.४०.१-३ । ( ३ ) ऋ ० ५.५१.८-१० ( ४ ) ऋ ० ६.६१.१०-१२ । ( ५ ) ‘ वायवा याहि ’ - इत्यस्यामृचि, इन्द्रश्चेति द्वृचोश्चान्तिमं वाक्यम् ' अभि प्रयः ' इति समानम्; उत नः प्रियेति तृचे तु समानोदर्कत्वं वचनादेव । ( ६ ) ऋ ० ९.२२.६-८ । ( ७ ) ऋ ० ८.२.७ - ९ ।
पृष्ठ 15
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८७३ हिन्दी - ( अब दो प्रगाथों का विधान कर रहे हैं — ) ' इन्द्र नेदीय एदिहि ' इति अच्युतः प्रगाथः यह ( पूर्ववर्ती दिनों में विहित होने के करण ) अच्युत प्रगाथ है ( इसमें तृच सम्पादन के लिए चतुर्थ और षष्ठ पाद की आवृत्ति होती है ) । ' प्र नूनं ब्रह्मणस्पतिः ’ . इति ब्राह्मणस्पत्यः ये दो ऋचाएँ ब्रह्मणस्पति देवता सम्बन्धी प्रगाथ हैं ( इसमें तृच सम्पादन के लिए चतुर्थ और षष्ठ पाद की आवृत्ति होती है ) । निनृतवान् निनृत से युक्त ( स्वर विशेष से अक्षरों की आवृत्ति होने के कारण नृत्य के सदृश ) तृतीयेऽहनि तृतीय ' दिन प्रयुक्त होता है । यह तृतीयस्य अह्नः रूपम् तृतीय दिन का निरूपक है । सा ० भा ० — ‘ इन्द्रं नेदीयः ' इति प्रगाथस्य ' पूर्वयोरप्यह्नोर्विहितत्वाद् अच्युतत्वम् । अथ प्रग्रथनेन तृचत्वं संपादयितुं चतुर्थः पादः षष्ठः पादश्च त्रिस्त्रिरभ्यस्यते । तस्य नृत्तसमानत्वाद् अयं प्रगाथो निनृत्तलिङ्गवान् । एवं ब्राह्मणस्पत्यप्रगाथेऽपि द्रष्टव्यम् । यद्वा, यस्मिन् ' इन्द्रा वरुणो मित्रो अर्यमा ’ - इत्योकारस्य त्रिरभ्यासो नृत्तसमानः ॥ अन्यास्तिस्र ऋचो विधत्ते-अग्निर्नेता, त्वं सोम क्रतुभिः, पिन्वन्त्यप इति धाय्या अच्युताः ॥ १५ ॥
हिन्दी - ( अन्य तीन ऋचाओं का विधान कर रहे हैं - ) ' अग्निर्नेता ', ' त्वं सोम क्रतुभिः ', ' पिन्वन्त्यपः ' - ये ऋचाएँ अच्युतः ( द्वितीय दिन में विहित होने के कारण ) अच्युत ( = पूर्व में विहित ) हैं, जो धाय्या धाय्या हैं ॥ सा ० भा०— यद्यप्यच्युतत्वं द्वितीयस्याह्नो लिङ्गं, तथाऽप्यत्र वाचनिकः प्रयोगो द्रष्टव्यः ॥ अथान्यं प्रगाथं विधत्ते-( अन्यप्रगाथविधानम् ) ' नकिः सुदासो रथं पर्यास न रीरमदिति'३ मरुत्वतीयः प्रगाथः, पर्यस्तवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥ १६ ॥
हिन्दीं — ‘ नकिः सुदासो रथं पर्यास रीरमद्'- ये दो ऋचाएँ मरुत्वतीयः प्रगाथः ( तृतीयपाद में मरुत् शब्द होने से ) मरुत्वतीय प्रगाथ है । पर्यस्तवान् ' पर्यस्त ' शब्द से युक्त ( = यह प्रगाथ ) तृतीयेऽहनि तृतीय दिन प्रयुक्त होता है । यह तृतीयस्य अह्नः रूपम् तृतीय दिन का उपलक्षक है ॥ सा ० भा ० — अस्मिन् प्रगाथे ' यस्य मरुतः ' इति तृतीयपादे श्रवणाद् अयं मरुत्व-तीयः । अत्र ' पर्यास ' इति श्रुतत्वाद् अयं पर्यस्तलिङ्गवान् ॥ सूक्तान्तरं विधत्ते— ( १ ) ऋ ० ८.२३.५,६ । ( २ ) ऋ ० १.४०.५,६ । ( ३ ) ऋ ० ७.३२.१०,११ ।
पृष्ठ 16
पाठ पढ़ें पाठ छिपाएँ
८७४: ऐतरेयब्राह्मणम् [ २१.१ पञ्चमपञ्चिकायां ( सूक्तान्तरविधानम् ) ' त्र्यर्यमा मनुषो देवतातेति ' सूक्तं त्रिवत् तृतीयेऽहनि तृतीय-स्याह्नो रूपम् ॥१७ ॥
हिन्दी – ( अन्य सूक्त को कह रहे हैं — ) ' त्र्यर्यमा मनुषो देवता ' इति सूक्तम् यह सूक्त त्रिवत् त्रि ( शब्द ) से युक्त है जो तृतीयेऽहनि तृतीय दिन ( प्रयुक्त होता है ) । तृतीयस्य
अह्नः रूपम् तृतीय दिन का रूप है ।
सा ० भा ० — आदौ त्रिशब्दस्य श्रुतत्वात् त्रिवल्लिङ्गयुक्तमिदं सूक्तम् ' ॥
अथ निष्केवल्यशस्त्रे स्तोत्रियानुरूपौ प्रगाथौ - विधत्ते— ( निष्केवल्यशस्त्रे स्तोत्रियानुरूपौ प्रगाथौ ) यदद्याव इन्द्र ते शतं, यदिन्द्र यावतस्त्वमिति वैरूपं पृष्ठं भवति राथन्तरेऽहनि तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥१८ ॥
हिन्दी— ( अब निष्केवल्यशस्त्र में स्तोत्रिय के अनुरूप दो प्रगाथों का विधान कर रहे हैं— ) ' यद्याव इन्द्र ते शतं ' से ( प्रारम्भ दो स्तोत्रिय प्रगाथ हैं तथा ) ' यदिन्द्र यावतस्त्वम् ’ ( से प्रारम्भ दो प्रगाथ अनुरूप हैं ) । रथन्तरेऽहनि तृतीयेऽहनि रथन्तर ( नामक साम ) से सम्बन्धित तृतीय दिन ये दोनों वैरूपम् वैरूप ( नामक साम ) और पृष्ठम् पृष्ठ ( नामक
स्तोत्र ) भवति होते हैं । इसलिए ये तृतीयस्य अह्नः रूपम् तृतीय दिन के रूप हैं ॥
सा ० भा ० — वैरूपसाम्ना निष्पाद्यं तृतीयेऽहनि पृष्ठस्तोत्रम्; तस्य च साम्न आधार-भूतो ' यद्द्यावः ' इति प्रगाथः स्तोत्रियः, ' यदिन्द्र ' - इति प्रगाथोऽनुरूपः । तदुभयं रथन्तरसाम-सम्बन्धिनि तृतीयेऽहनि युक्तम् । प्रथमतृतीयपञ्चमान्यहानि राथन्तराणि; रथन्तरसाम्ना पृष्ठ-स्तोत्रस्य गातव्यत्वात् । वैरूपसाम्नाऽप्यत्र पृष्ठस्तोत्रं गातव्यम् । वैरूपशाक्वरयोः रथन्तरपुत्र-त्वेन तदीयेऽहनि युक्तवात् । तस्मात् तृतीयेऽहनि एतत्प्रगाथद्वयं शंसनीयम् । वैरूपसामसम्बन्धस्य तृतीयदिवसलिङ्गस्य विद्यमानत्वात् ॥ ' ऋगन्तरं विधत्ते— ( अन्यविधानम् ) ' यद्वावानेति ' ' धाय्याऽच्युता ॥ १ ९ ॥ हिन्दी— ( अन्य ऋचा को कह रहे हैं - ) ' यद्वावान् ' इति अच्युता यह अच्युत ( पूर्व दिन में प्रयुक्त होने वाली ) धाय्या धाय्या है । ( १ ) १. ऋ ० ५.२ ९.१,२ । ( २ ) ऋ ० ८.७०.५,६ । ( ३ ) ऋ ० ७.३२.१८,१ ९ । ( ४ ) ऋ ० १०.७४.६ ।
पृष्ठ 17
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः प्रथमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८७५ सा ० भा ० – सर्वेष्वहः स्वच्युतत्त्वं सर्वस्याप्यह्नो लिङ्गं भवतीति तृतीयेऽहन्यपि तद्युक्तम् ॥ अपरं प्रगाथद्वयं विधत्ते-( प्रगाथान्तरद्वयविधानम् ) ' अभि त्वा शूर नोनुमः ' इति रथन्तरस्य योनिमनु निवर्तयतिः, राथन्तरं ह्येतदहरायतनेन ॥ २० ॥
हिन्दी - ( अन्य दो प्रगाथों को कह रहे हैं - ) ' अभि त्वा शूरः इति इससे ( प्रारम्भ होने वाली ऋचा ) रथन्तरस्य योनिम् रथन्तर ( नामक साम ) की योनि है जिसको अनु निवर्तयति ( पूर्वोक्त धाय्या के ) बाद शंसन करता है । एतद् अहः हि दिन आयतनेन स्थान के द्वारा राथन्तरम् रथन्तर से सम्बन्धित है सा ० भा ० - ' अभि त्वा शूर ' - इत्येषा रथन्तरसाम्नो योनिः, ‘ अनु ' पश्चाद् ‘ निवर्तयति ' शंसेदित्यर्थः । एतच्च तृतीयमहः ' आयतनेन ' अयुग्मानामह्नां रथन्तरसम्बन्धित्वात् ॥ अथान्यं प्रगाथं विधत्ते-( अन्यप्रगाथविधानम् ) क्योंकि यह ( तृतीय ) ॥ तां पूर्वोक्ताया धाय्या स्थानेन ' राथन्तरम् ’ ' इन्द्र त्रिधातु शरणमिति ' सामप्रगाथस्त्रिवांस्तृतीयेऽहनि तृतीय-स्याह्नो रूपम् ॥ २१ ॥
हिन्दी - ' इन्द्र त्रिधातु शरणम् ' इति ये दो ऋचाएँ त्रिवान् त्रि ( शब्द ) से युक्त तृतीयेऽहनि तृतीय दिन में प्रयुक्त सामप्रगाथः ( ' वैरूप ' नामक ) साम से सम्बन्धित प्रगाथ हैं । वह तृतीयस्य अह्नः रूपम् तृतीय दिन का रूप है ॥ सा ० भा ० — अत्रत्यस्य वैरूपसाम्नः सम्बन्धी ' इन्द्र त्रिधातु'- इति प्रगाथ: ' । स च
त्रिशब्दयुक्तत्वात् त्रिवान् । अतो लिङ्गसद्भावात् तृतीयेऽहनि योग्य: ॥
सूक्तान्तरं विधत्ते ( सूक्तान्तरविधानम् ) ' त्यमू षु वाजिनं देवजूतमिति ' ' तार्क्ष्योऽच्युतः ॥ २२ ॥
हिन्दी – ( अन्य सूक्त का विधान कर रहे हैं — ) ' त्नू षु वाजिनं देवजूतम् ' से प्रारम्भ होने वाला तार्क्ष्यः तार्क्ष्य देवता से सम्बन्धित ( सूक्त ) अच्युत ( पहले विहित होने के कारण ) अच्युत है ॥ ( १ ) ऋ ० ७.२३.२२ । ( २ ) ऋ ० ६.४६.९, १० । ( ३ ) ऋ ० १०.१७८ । 1
पृष्ठ 18
पाठ पढ़ें पाठ छिपाएँ
८७६: ऐतरेयब्राह्मणम् [ २१.२ पञ्चमपञ्चिकायां सा ० भा०- ० – तार्क्ष्यनाम्नः सूक्तविशेषस्याच्युतत्वं सर्वदिनसम्बन्धि लिङ्गम् ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये पञ्चमपञ्चिकायां प्रथमाध्याये ( एकविंशाध्याये ) प्रथमः खण्डः ॥१ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के इक्कीसवें अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा ० — अथ निबिद्धानीयं सूक्तं विधत्ते— ( निविद्धानीयसूक्तविधानम् ) ' यो जात एव प्रथमो मनस्वानिति ' सूक्तं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥ १ ॥
हिन्दी— ( अब निविद्धानीय सूक्त को कह रहे हैं - ) ' यो जात एव प्रथमो मनस्वान् ’ इति सूक्तम् इससे प्रारम्भ होने वाला सूक्त तृतीयेऽहनि तृतीय दिन में प्रयुक्त समानोदर्कम् समान अन्त वाला है जो तृतीयस्य अह्नः रूपम् तृतीय दिन का रूप है ॥ सा ० भा ० – अस्मिन् सूक्ते ' नृम्णस्य मह्ना स जनास इन्द्रः ' इत्यन्तिमः पादः सर्वास्वृक्षु ' समानः, तस्मात् इदं सूक्तं समानोदर्कलिङ्गोपेतम् ॥ एतत्सूक्तं प्रशंसति— तदु सजनीयमेतद्वा इन्द्रस्येन्द्रियं यत्सजनीयमेतस्मिन् वै शस्यमान इन्द्रमिन्द्रियमाविशति ॥ २ ॥
हिन्दी – ( ' यो जात एव ' सूक्त की प्रशंसा कर रहे हैं - ) तदु वह ( सूक्त ) सजनीयम् ( चतुर्थ पाद में ) स जनास ( शब्द ) से युक्त है । यत् सजनीयम् जो यह ' स जन ' शब्द से युक्त है एतद् वा इन्द्रस्य इन्द्रियम् यह ( सूक्त ) इन्द्र की इन्द्रिय ( शक्ति ) है । एतस्मिन् वै क्योंकि इस ( इन्द्र ) के प्रति शस्यमानः शंसन करता हुआ इन्द्रम् इन्द्र को इन्द्रियम् ( नेत्रादि ) इन्द्रिय ( की पटुता ) में आविशति प्रवेश कराता है । सा ० भा ० — ' तदु ' तच्च सूक्तं ' सजनीय ' सजनशब्दोपेतं ' स जनास इन्द्रः ' इति श्रुतत्वात् । बहुजनयुक्तत्वमेवैकमुत्कर्षकारणम् । किञ्च, यत् ' सजनीय ' सूक्तमस्ति, एतदेवेन्द्रस्येन्द्रियमुच्यते । कथं तत्? उच्यते - पुरा कदाचिद् एतस्मिन्नेव सूक्ते शस्यमाने ( १ ) ऋ ० २.१२.१-१५
पृष्ठ 19
पाठ पढ़ें पाठ छिपाएँ
प्रथमोऽध्यायः द्वितीयः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: ८७७ सति ‘ इन्द्रियं ’ चक्षुरादिपाटवम् ' इन्द्रं ' देवमाविशति । तस्माद् इन्द्रियप्रवेशे हेतुत्वाद् इदं प्रशस्तम् ॥ शाखन्तराध्येतृप्रसिद्ध्या प्रशंसति— तद्धाप्याहुश्छन्दोगास्तृतीयेऽहनि बहवृचा इन्द्रस्येन्द्रियं शंसन्तीति ॥ ३ ॥
हिन्दी — छन्दोगाः सामवेद का गान करने वाले तद् ह उस ( स जन शब्द से युक्त सूक्त ) के विषय में आहुः ( परस्पर ) कहते हैं - तृतीयेऽहनि तृतीय दिन बह्वृचाः ऋग्वेद का शंसन करने वाले ( होता ) इन्द्रस्य इन्द्र से सम्बन्धित इन्द्रियम् इन्द्रिय ( रूप वाले ' स जन ' शब्द से युक्त सूक्त ) को शंसन्ति शंसन ( पाठ ) करते हैं ॥ सा ० भा ० – ‘ तद्ध ' तस्मिन्नेव सजनीयसूक्ते ' छन्दोगा: ' छन्दांसि गायन्तीति साम-वेदिनः; परस्परमेवमाहुः – पृष्ठ्यस्य षडहस्य तृतीयेऽहनि ' बह्वृचा: ' ऋग्वेदाध्यायिनो होतारः इन्द्रस्य सम्बन्धीन्द्रियरूपं सजनीयसूक्तं शंसन्तीति । अतोऽस्य सूक्तस्येन्द्रियप्रदत्वप्रसिद्धि-महती ॥ ऋषिसम्बन्धमुपजीव्य प्रशंसति— तदु गार्त्समदमेतेन वै गृत्समद इन्द्रस्य प्रियं धामोपागच्छत् स परं लोकमजयत् ॥ ४ ॥
हिन्दी - तदु यह ( सूक्त ) गार्त्समदम् गृत्समद ( ऋषि ) द्वारा दृष्ट है । एतेन वै इस ( सूक्त ) के द्वारा ही गृत्समदः गृत्समद ( ऋषि ) इन्द्रस्य प्रियं धाम ( इन्द्र को प्रसन्न करके ) इन्द्र के प्रिय निवास - स्थान को उपागच्छत् प्राप्त किये और सः उस ( गृत्समद ऋषि ने परमं लोकम् ( उस इन्द्र द्वारा अनुग्रह प्राप्त करके ) परम लोक को अजयत् जीत लिया । सा ० भा ० — गृत्समदो नाम कथिदृषि:, तेन दृष्टत्वाद् इदं सूक्तं ‘ गार्त्समदम् ’ । कथमिति? तदुच्यते — ‘ एतेनैव ' सजनीयसूक्तेन गृत्समदाख्यो महर्षिः इन्द्रं तोषयित्वा, तस्येन्द्रस्य प्रियं स्थानं प्राप्य, ततः स तेनेन्द्रेणानुगृहीत उत्तमं लोकं जितवान् ॥ वेदनं प्रशंसति— उपेन्द्रस्य प्रियं धाम गच्छति, जयति परमं लोकं य एवं वेद ॥ ५ ॥
हिन्दी – ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह उपेन्द्रस्य प्रियं धाम उपेन्द्र के परम धाम को उपागच्छत् जाता है और परमं लोकं जयति परम लोक को जीतता है । सा ० भा ० - वैश्वदेवस्य शस्त्रे तृचद्वयं विधत्ते— तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ, राथन्तरेऽहनि तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥६ ॥
::
पृष्ठ 20
पाठ पढ़ें पाठ छिपाएँ
८७८: ऐतरेयब्राह्मणम् [ २१.२ पञ्चमपञ्चिकायां हिन्दी— ( वैश्वदेवशस्त्र में दो तृचों का विधान कर रहे हैं — ) ' तत्सवितुर्वृणीमहे ' और ‘ अद्या नो देव सवितः ’ ( = ये दोनों तृच ) वैश्वदेवस्य वैश्वदेव ( शस्त्र ) के प्रतिपदनुचरौ क्रमशः प्रतिपत् और अनुचर है, जो रथन्तरेऽहनि तृतीयेऽहनि रथन्तर से सम्बन्धित तृतीय दिन में ( प्रयुक्त ) होते हैं । यह तृतीयस्य अह्नः रूपम् यह तृतीय दिन का रूप है ॥ सा ० भा०- - ' तत्सवितुः ' - इति तृच: ' प्रतिपत्, स च रथन्तरसामसम्बन्धी । ‘ अद्या
नो देव सवितः ’ ± इत्यनुचरः । तदेतद् उभयं रथन्तरसम्बन्धिन्यस्मिन् योग्यम् ॥
सवितृदेवताकं सूक्तान्तरं दर्शयति— ( सूक्तान्तरविधानम् ) तद्देवस्य सवितुर्वार्यं महदिति सावित्रम् ॥७ ॥
हिन्दी — ( सविता देव से सम्बन्धित अन्य सूक्त को कह रहे हैं — ) ' तद्देवस्य सवितुर्वार्यं महत् ' ( से प्रारम्भ होने वाला सूक्त ) सावित्रम् सविता ( देव ) से सम्बन्धित है ॥ सा ० भा ० — ‘ तत् ’ एतत् ‘ सावित्रं ' सवितृदेवताकम् । तत्र हि सवितुर्देवस्य सम्बन्धि ‘ वार्यं ’ वरणीयं ‘ महत् ’ अधिकं तेज इत्ययमर्थः श्रूयते । अतः सवितृसम्बन्धश्रवणात् सावित्रम् । पूर्वत्र तृचे रथन्तरसम्बन्धरूपं लिङ्गमुक्तम्, अत्र तु लिङ्गान्तरं दर्शयति-' अन्तो वै महदन्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपम् ॥८ ॥
हिन्दी — अन्तो वै महत् ( इस मन्त्र ' तद्दिवस्य सवितुर्वार्यं ' में तृतीय दिन का सूचक ' अन्त ' शब्द प्रयुक्त नहीं है तथापि ) महत् ही अन्त है । अन्तं तृतीयम् अह्नः तृतीय दिन ( प्रथम त्र्यहः का ) अन्त है; इसलिए तृतीयेऽहनि तृतीय दिन ( इसका प्रयोग होता है ) जो तृतीयस्य अह्नः रूपम् तृतीय दिन का रूप है । सा ० भा To ०. – अत्र प्रथमपादे महच्छब्दोऽस्ति; महच्च वस्तु काम्यमानानां वस्तूनामन्तो भवति, न खलु महतोऽप्यधिकं केनचित् क्वचित् किचिदधिकं काम्यते; तादृशस्याभावात् । तस्मान्महद्वस्त्वेवान्तो भवति । इदं च तृतीयमहः प्रथमस्य त्र्यहस्यान्तः । अतः ‘ अन्तः ’ अन्तत्वसाम्यात् तृतीयेऽहनि ' तद्देवस्य ' इत्यादिकं योग्यम् । यद्यप्यन्तशब्दोऽत्र नास्ति, तथाऽप्युक्तरीत्याऽन्तशब्दार्थस्य सद्भावाद् अन्तवल्लिङ्गमस्ति । तृचान्तरं विधत्ते— ( तृचान्तरं विधानम् ) ' घृतेन द्यावापृथिवी अभीवृते ' ३ इति द्यावापृथिवीयं घृतश्रिया घृत-( १ ) ऋ ० ५.८२.१-३ । ( २ ) ऋ ० ५.८२.४-६ ( ३ ) ऋ ० ६.७० ।