छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 1–10

छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 1–10

पृष्ठ 1

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 1 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

श्रीमत्पिङ्गलाचार्यविरचितं छन्दः शास्त्रम् श्रीमद्भगृहलायुधप्रणीत ' मृतसञ्जीविन्याख्य ' वृत्तिसमेतम् - भाषाभाष्यसमेतश्च भाष्यकारः सम्पादकश्च आचार्यचित्तनारायणपाठकः CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 2

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 2 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 3

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 3 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

CSPP Chanda - Shastram by Chitnarayan Pathare Rs. 300 / --0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 4

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 4 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 5

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 5 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

11: eft: 11 विद्याभवन प्राच्यविद्या ग्रन्थमाला २६८ श्रीमत्पिङ्गलाचार्यविरचितं छन्दःशास्त्रम् श्रीमद्भगृहलायुधप्रणीत मृतसञ्जीविन्याख्य ' वृत्तिसमेतम् - भाषाभाष्यसमेतञ्च भाष्यकार: सम्पादकश्च आचार्यचित्तनारायणपाठकः प्रकाशक: चौखम्बा विद्याभवन चौक, वाराणसी -२२१००१ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 6

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 6 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

छन्दः शास्त्रम् प्रकाशक: चौखम्बा विद्याभवन ( भारतीय संस्कृति एवं साहित्य के प्रकाशक तथा वितरक ) चौक ( बैंक ऑफ बड़ौदा भवन के पीछे ) पो. बा. नं. १०६ ९, वाराणसी - २२१००१ दूरभाष: ०५४२-२४२०४०४ 19:50 ई - मेल: cvbhawan@yahoo.co.in © सर्वाधिकार प्रकाशकाधीन संस्करण: 2015 मूल्य: I ३००,०० अन्य प्राप्तिस्थान: चौखम्बा पब्लिशिंग हाउस ४६ ९ ७ / २, भू - तल ( ग्राउण्ड फ्लोर ) गली नं. २१ - ए. ए. अंसारी रोड दरियागंज, नई दिल्ली- ११०००२ दूरभाष: ०११-२३२८६५३७ I चौखम्बा संस्कृत प्रतिष्ठान ३८ यू. ए. बंगलो रोड, जवाहर नगर पो. बा. नं. २११३, दिल्ली- ११०००७ दूरभाष - ०११-२३८५६३९ १ + चौखम्बा सुरभारती प्रकाशन के. ३७/११७, गोपालमन्दिर लेन पो ० बा ० नं ० ११२ ९, वाराणसी - २२१००१ दूरभाष - ०५४२-२३३५२६३ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 7

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 7 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ४ तत्र छन्दः समीक्षास्थश्छन्दस्तत्त्ववादः-अथ किमिदं छन्द? इति पृच्छामः । “ ननु च भोः! यदि कश्चिद्ब्रूयात् — कः खलु ब्राह्मण? इति, सोऽयं त्रिविधः पर्यनु-योगो भवति – लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षश्च । तदतस्त्रिविधः समाधिर्भवति-असौ देवदत्तो ब्राह्मण इति लक्ष्यापेक्षः, कश्यपाङ्गिरोभृग्वत्रिवसिष्ठविश्वामित्रागस्त्याख्याः सप्तैव ब्राह्मणजातयो भवन्ति इति लक्षण्यापेक्ष: -एवमेवेदं

' विद्या योनिः कर्म चेति त्रयं ब्राह्मण्यलक्षणम् ।

सेवा संग्रहवृद्धिश्च कालयापश्च पातनम् ॥

जीवितं यस्य धर्मार्थं धर्मो रत्यर्थमेव च ।

अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥

कर्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् ।

स्वधर्मनिरतः शुद्धस्तस्माद्ब्राह्मण उच्यते ॥

जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च ।

एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यते ॥

धृतिः क्षमा दयास्तेयं शौचमिन्द्रियनिग्रहः । विद्या चैव तपः सत्यं नवकं ब्रह्मलक्षणम् ॥ ' यददः पर्यनुयुज्यते किमिदं छन्द? इति; सोऽयं भवति — लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षश्च I । तदतस्त्रिविधः इति लक्षणापेक्षश्च । त्रिविधः पर्यनुयोगो समाधिर्भवति— ' अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ ' ( ऋ. १ अ.१ अ.१ व. ) इतीदं छन्द इति लक्ष्यापेक्षः, गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुब्जगत्या-ख्याः सप्तैव छन्दोजातयो भवन्तीति लक्षण्यापेक्षः, ' यदक्षरपरिमाणं तच्छन्दः ' ' मात्राक्षर-संख्यानियता वाक् छन्द ' इति लक्षणापेक्षश्च । तदित्थं सिद्धं प्रतिवचनमितीदं छन्द इति चेत्; न सिद्धम् । कुत एतत्? । यदक्षरपरिमाणं तच्छन्द इति हि लक्षणमुच्यते, तत्तावदपर्याप्तं भवति । पृथिवी गायत्री, अन्तरिक्षं त्रेष्टुपम्, द्यौर्जागती । अग्निर्गायत्रः, इन्द्रस्त्रैष्टुभः, विश्वेदेवा जागताः । तेजो वै ब्रह्मवर्चसं गायत्रम्, ओजो वा इन्द्रियं वीर्थं त्रिष्टुप्, पशवो जागताः । ब्रह्मगायत्रम्, क्षत्रं त्रैष्टुभम् विड् जागतम् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 8

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 8 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४ छन्दः शास्त्रम् ब्राह्मणो गायत्रः, क्षत्रियस्त्रैष्टुभः, वैश्यो जागतः । चतुर्विंशत्यक्षरा वाग्गायत्री, चतुश्च-त्वारिंशदक्षरा वाक् त्रैष्टुभी, अष्टचत्वारिंशदक्षरा वाग् जागती, इत्येवमनेकधा लक्षण्याः श्रूयन्ते । ताश्च सर्वा एवैता गायत्र्यस्त्रिष्टुभो जगत्यश्च लक्षणमर्हन्ति । तत्र यदुच्यते— ' अक्षरपरिमाणं छन्द इति '; वाचिकेष्वेवैतदवकाशं लभते, नान्यत्रेत्यनैकान्तिकं भवति । न चानैकान्तिके लक्षणशब्दः प्रवर्तते । तस्मादलक्षणमेतत् । स्यादेव तु तेषु तेषु सर्वेष्वनु-गतः कश्चन विलक्षणो धर्मो यदनुरोधेन छन्दः शब्दः प्रवर्तते । तमेतं धर्मं पृच्छाम: -किमिदं छन्द इति ॥ अथ लक्षण्योपपरीक्षा यान्येतानि गायत्र्यादीन्यभिधानानि श्रूयन्ते; किमेते यदृच्छाशब्दाः, उत रूढाः, योगरूढाः, यौगिकरूढाः, यौगिका वा? | अथवा क्वचिन्मुख्याः, अपरत्र भक्त्या प्रयु-ज्यन्ते?। तत्र तावत्— ‘ गायतो मुखादुदपतत् ' इति गायत्र्याः, ' गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टोभति ' इत्यनुष्टुभश्च निर्वचनश्रवणात्, ' गायन्तं त्रायते यस्माद्गायत्री-त्युच्यते बुधैः । ' इत्यादिस्मरणाच्चावयवार्थस्फोटाच्च नैते यदृच्छाशब्दा इति शक्यं ` वक्तुम् । नाप्येते रूढा भवितुं युज्यन्ते । “ तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्षरतराणि, अथ कस्मादेतां बृहतीत्याचक्षत इति । एतया हि देवा इमांल्लोकानानुवत । ते वै दशभिरे-वाक्षरैरिमं लोकमानुवत, दशभिरन्तरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्त्रो दिशः, द्वाभ्या-मेवास्मिन् लोके प्रत्यतिष्ठन्, तस्मादेनां बृहतीत्याचक्षते ॥ ” ( ऐ.ब्रा. ) इत्येवमादिभिः श्रुतिभिरेषामवयवार्थसापेक्षत्वावगमात् । न चाप्येते योगरूढा भवन्ति । " सप्तधा वै वा-गवदत् ” । ‘ अ॒क्षरे॑ण॒ मिमते स॒प्तवार्णीः ' इत्येवमादिश्रुतिसिद्धेषु वाग्विग्छित्तिविशेषेष्वेव तु भवानिदानीं गायत्र्यादीन् शब्दानाचष्टे । तत्र नैतेषु गायत्र्यादीनामवयवार्थसमन्वयः स्वारस्येन शक्यते कर्तुम् । शुद्धं यौगिकत्वमप्यत एव प्रत्याख्यातं भवति । द्रव्य-शब्दत्वगुणशब्दत्वक्रियाशब्दत्वानामन्यतमस्याप्यत्र दुःस्थत्वात् । तत्तर्हि स्यादेवम् — न केवलं वाग्विशेषा एवैतेषां गायत्र्यादिशब्दानां विषया भवन्तीति, किं तर्हि - सन्त्येव केचिदन्येऽपि साध्यदेवादयो द्रविणादयो वा वेदप्रसिद्धा गायत्र्यादिशब्दप्रतिपाद्याः, अथ वाग्विशेषाश्च । तेषु क्वचिदिमे यौगिकाः, अपरत्र रूढाः स्युः । अथवा क्वचिन्मुख्या अपरत्र भक्ताः स्युः । तत्र न ज्ञायते कुत्र कीदृशा? इति । किञ्च भूयसा श्रूयते गायत्र्या-दीनामाच्छादकत्वाच्छन्दस्त्वमस्तीति । तत्र न ज्ञायते कथमेषां वाग्विशेषाणां साध्यदेवानां द्रविणानामन्येषां वा किमाच्छादकत्वमस्तीति । आच्छादकत्वमेवैतच्छन्दःशब्दस्य प्रवृत्ति-निमित्तमुत गायत्र्यादिशब्दसम्बन्धमात्रमथवान्यदेव किञ्चित्?। तस्मादुत्तिष्ठते जिज्ञासा— किमिदं छन्द? इति ॥ अथाप्येतदन्यथान्यथा बहुधा श्रूयते वेदे । तथाहि-CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 9

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 9 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ( १ ) " एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ । त एते सप्तभि: सप्तभिश्छन्दोभिरागच्छन्ति ॥ ” इति । तदेतन ज्ञायते - कथं ते सप्तभिश्छन्दोभिरागच्छन्ति, कानि वा तत्र छन्दांसि? । ( २ ) “ छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन् । गायत्री, त्रिष्टुभश्च जगत्यै चायतनमभ्यध्यायत् । त्रिष्टुब्, गायत्र्यै च जगत्यै च । जगती, गायत्र्यै च त्रिष्टुभश्च । ततो वा एतं प्रजापतिर्व्यूढच्छन्दसं द्वादशाहमपश्यत्, तमाहरत्, तेनायजत । तेन स सर्वान् कामान् छन्दांस्यगमयत् । ” इति श्रूयते । तत्र न ज्ञायते - कथं द्वादशाहेन छन्दसामन्योन्यायतनसंसिद्धिः । कानि वा तत्र छन्दांसि? ॥ ( ३ ) “ अहर्वै देवा अश्रयन्त रात्रीमसुराः ते समावद्वीर्या एवासन् । न व्यावर्तन्त । सोऽब्रवीदिन्द्रः – कश्चाहं चेमानितोऽसुरान् रात्रीमन्ववेष्याव इति । स देवेषु न प्रत्यविन्दत् । तं वै छन्दांस्येवान्ववायन्, तस्मादिन्द्रश्चैव छन्दांसि च रात्रीं वहन्ति ॥ ' इति श्रूयते । तत्र न ज्ञायते — कथमेतानि छन्दांसि तमिन्द्रमन्ववायन्, कानि वा तत्र छन्दांसि? ॥ ( ४ ) “ देवा वा असुरैर्युद्धमुपप्रायन् विजयाय । तानग्निर्नान्वकामयतैतुम् । तं देवा अब्रुवन्— अपि त्वमेहि, अस्माकं वै त्वमेकोऽसीति । स त्रिश्रेणिर्भूत्वा त्र्यनीकोऽसुरान् युद्धमुपप्रायद् विजयाय । त्रिश्रेणिरिति - छन्दांस्येव श्रेणीरकुरुत । त्र्यनीक इति—

सवनान्येवानीकानि । तानसंभाव्यं पराभावयत् " ॥ इति श्रूयते ।

तत्र न ज्ञायते — कथं छन्दांसि श्रेणयोऽभूवन् कानि वा तत्र छन्दांसि? ॥

( ५ ) सर्वाणि छन्दांस्येतशप्रलाप इत्याम्नायते । एतशो ह्ययं सूर्याश्वः संज्ञायते । ' उदु॒ त्यद्द॑श॒तं वपु॑र्दे॒व ऐति प्रतिह्वरे । यदी॑मा॒शुर्वर्हति दे॒व त॑शो विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥ ' ( ऋ ० ५.५.१० )

इत्येवमादिमन्त्रव्याख्याने तथैव प्रतिपत्तेः ।

तथा च न ज्ञायते - कथमेषां छन्दसामैतशप्रलापत्वम्, कानि वा तत्र छन्दांसि? ॥

अलं निदर्शनया । एवमादयो हि भूयांसश्छन्दसामुच्चावचवादाः श्रूयन्ते । तत्र न ज्ञायते - कथं कथमेते वादा उपपद्यन्ते कानि वा तत्र छन्दांसि? । किमेकमेवैतेषां छन्दसां छन्दस्त्वमुत भिद्यते प्रत्यर्थमिति पृच्छामः - किमिदं छन्द? इति ॥ अथ यदप्युक्तं लक्ष्यापेक्षं प्रतिवचनं, तदपि नैवावकल्पते । ' अग्निमी॑ळे पु॒रोहि॑तम् ' इत्यत्र हि किं नाम छन्दो विवक्षितं भवताम्? । किं तावदयं सम्पूर्णो मन्त्रश्छन्दः स्यात्? । नेत्याह । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 10

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 10 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६ छन्दः शास्त्रम् ' ऋचां दशसहस्राणि ऋचां पञ्चशतानि च । ऋचामशीतिः पादश्च पारणं संप्रकीर्तितम् ॥ ' ( च. व्यू. १ ) इत्येवं हि दाशतये मन्त्राः संख्यायते, छन्दांसि पुनः सप्तैवेति विषयभेदो विज्ञायते ॥ किं तर्हि यत्तावत्पदानि तच्छन्दः? । नेत्याह-' शाकल्यदृष्टे पदलक्षमेकं सार्धं च वेदे त्रिसहस्रयुक्तम् । शतानि चाष्टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि ॥ ' ( च. व्यू. १ ) इत्येवं पदसंख्यानं स्मर्यते, छन्दांसि पुनः सप्तैवेति विषयभेदो विज्ञायते । अथ किमेतान्यक्षराण्येव छन्दः? । नेत्याह-चत्वारि वाव शतसहस्राणि द्वात्रिंशच्चाक्षरसहस्राणि ' इत्येवमक्षरसंख्यानं स्मर्यते । तस्मान्न तावदक्षराणि छन्दः स्यात् । अथ किं यदत्रैते वर्णाः श्रूयन्ते तच्छन्दः? । नेत्याह - वर्णा हि ते भवन्ति । व्यभिचरन्ति च ते ते वर्णाः, अथाप्यनुवर्तते छन्दस्त्वमतो नैते वर्णाश्छन्दः स्यात् । किं यदयं वर्णक्रमस्तच्छन्दः? । नेत्याह — क्रमो हि नाम पौर्वापर्यम् । न चानन्तर्भाव्यवर्णरूपं पौर्वापर्यं शक्यतेऽध्यवसातुम् । तथा च वर्णव्यभिचारे क्रमातिचारः प्राप्नोति, अथाप्यनुवर्तते छन्दस्त्वमतो नैष वर्णक्रमश्छन्दः स्यात् ॥ अथ यदयं गुरुलघुक्रमस्तच्छन्दः? । नेत्याह - यत्रापि नैवं गुरुलघुक्रमस्तत्रापीष्यते छन्दो-व्यवहारः । स न स्यात् अथोच्येत । नोच्यते त्विदमित्थं गुरुलघुक्रमश्छन्द इति ॥ किं तर्हि यथाकथञ्चित्क्रियमाणो गुरुलघुक्रमश्छन्दः स्यात्? । नैतदेवमपि शक्यं वक्तुम् । गद्य-पद्यविवेक स्तत्तर्हि व्याहन्येत । यथाकथञ्चित्क्रमस्य छन्दस्त्वेऽभ्युपगम्यमाने तदवच्छेदक-भेदासम्भवात् सप्त छन्दांसीति व्यवहारोपि न प्राप्नोति । तस्मान्नैषोपि गुरुलघुक्रमश्छन्दः स्यात् ॥ अथ यदत्रत्यमक्षरपरिमाणं तच्छन्द इति चेन्नैतदपि शक्यं विज्ञातुम्, यत्रापि नैतदक्षरपरिमाणं तत्रापीष्यते छन्दोव्यवहारः । स न स्यात् ॥ अथ यथाकथञ्चिदक्षर-परिमाणं छन्द इति चेन्नैतदप्यस्ति । क्रमवादेन प्रत्युक्तत्वात् ॥ अथ किमनेन मन्त्रेण यत्प्रतिपाद्यते, सा विद्या छन्द:? । नेत्याह - विद्या हि नाम सा अर्थविषयिणी स्यात्, शब्दविषयं तु छन्दः प्रतिपद्यते — इति विषयभेदो भवति । ननु च भोः? न मन्त्रबोध्योऽर्थं एव विद्या स्यात्, किं तर्हि मन्त्रस्यापीष्यते विद्याशब्देन व्यपदेशः । तथा च मन्त्रत्रैविध्याद् ऋग्यजुःसामानीति त्रैविद्यमुपदिश्यते । गद्यपद्यगानानि चैतानि ऋग्यजुः सामानि न छन्दसोऽतिरिच्यन्ते । पद्यादित्रैविध्येन छन्दस्त्रैविध्यस्य साम्प्रदायिकैरभ्युपेत्वात् ॥ सत्य-मेतत् । यदि हि नाम पद्यमृक्, गद्यं यजुः, गेयं साम – इत्येवाभिप्रेतं भवताम्; सत्तर्हि नून-मेषां भेदाभेदप्रयोजकधर्मानप्युदाहरिष्यति - भवान् किंनिबन्धनोऽयं भेदः? पद्यमितरा-भ्यामतिरिच्यते. गद्यमितराभ्यामिति । अथ कस्मात् पुनः पद्यमपि छन्दो गद्यं च गेयं चेति? । तदर्थमिदं पृच्छाम: - किमिदं छन्द? इति । ( इति छन्दस्तत्त्ववादे प्रश्नग्रन्थः । ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA