छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 11–20

छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 11–20

पृष्ठ 11

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 11 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ७ अत्रोच्यते- प्राणमात्रा छन्दः । सर्वं चेदं स्थावरजङ्गमं सप्राणमेवेह जीवति । प्राण-धारणं हि जीवनम् । अतः प्राणापगमे निर्जीवं विनश्यति सर्वम् । स च प्राणः सर्वत्र व्यक्तिभेदभिन्नया कयाचिन्नियतयैव मात्रयावस्थाय स्वप्रणीतं स्वायत्तं शरीरमधितिष्ठतीति प्रतिपद्यते । तत्र वाचिकप्राणः स्वर इत्युच्यते । तन्मात्रा वाचिकच्छन्दः । एवं भौतिक-प्राणो वैश्वानरः, तन्मात्रा च भौतिकच्छन्द इत्यनुसंधेयम् । मात्रा च पुनरवच्छेदः । यद्यपि च नियतासु वाक्षु प्रयुञ्जते छन्दः शब्दम्; अथापि नैतावता वागेव छन्दः शब्दवाच्येति भ्रमितव्यम् । नीलश्वेतादिशब्दानां गुणवाचकतया जातिशब्दत्वेऽपि गुणिपरत्वेनोपचाराद गुणशब्दत्ववदस्य छन्दः शब्दस्यापि गुणशब्दत्वव्यवहारोपपत्तेः । तस्मादवच्छेदश्छन्द इत्येव सिद्धान्तः । स च मानेन वा प्रतिष्ठया वा तुलितकेन वा क्रियमाणो वस्तुस्वरूप-मर्यादाबन्धः । ननु – ' स च्छन्दोभिश्छन्नस्तस्माच्छदांसीत्याचक्षते । ' ' ते छन्दोभिरात्मा-नमाच्छादयन्, यदेभिराच्छादयन्, तच्छन्दसां छन्दस्त्वम् । ' ते छन्दोभिरात्मानं छादयित्वोपा-यन्, तच्छन्दसां छन्दस्त्वम् । ' ' छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः । ' ‘ गायत्रेण छन्दसा त्वा छादयामि ' इत्याद्यसकृन्निर्वचनश्रवणादाच्छादकस्य छन्दस्त्वं लभ्यते, नत्ववच्छेदस्य । आच्छादकानामवच्छेदकत्वसंभवेऽपि अवच्छेदकानामाच्छादकत्वासंभ-वात् । अत एव तु लोकेऽपि मानस स्तुलितकस्य वा छादकत्वाप्रसिद्धिः – इति चेन्न:, अप्रसिद्धेरप्रसिद्धेः । तथा हि - केयमप्रसिद्धि:? । लौकिकानामप्रतिपत्तिर्वा, स्वरूपतोऽ-सत्त्वं वा? । नाद्यः, न हि लौकिकानामप्रतिपत्त्या प्रमाणसिद्धोऽर्थः शक्यमनभ्युपगन्तुम्; प्रतिपत्तिमात्रेण वा प्रमाणान्तरैरसिद्धः शक्यं स्वीकर्तुम् । व्यवहारसिद्धिप्रवणा हि लौकिका न वस्तुसत्त्वमपेक्षन्ते । ‘ शब्दज्ञानानुपाती वस्तुशून्यो विकल्प ' इति पातञ्जलोक्तरीत्या विकल्पवृत्त्या व्यवहरतामसत्यप्यर्थे प्रतिपत्तिदर्शनात् । अत एवारूपत्वे प्रमाणतः सिद्धेऽपि हास्यशृङ्गारकीर्त्यादीनां शुक्लत्वं, प्रेमानुरागवीरादीनां रक्तत्वम्, क्रोधापकीर्त्यादीनां कृष्ण-त्वमनृतं व्यवहारतः प्रतिपद्यन्ते न तु सन्तमर्थम् ॥

( १ ) अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्य॑ रोहयो दि॒वि । दध॒ज्ज्योति॒र्जने॑भ्यः ॥१ ॥

( ऋ. ८ अ. ८ अ. १४ व. )

( २ ) प्र॒जाह॑ति॒त्रो अ॒त्याय॑मीयु॒न्य॑ न्या अ॒र्कम॒भितो॑ विविभ्रे ।

बृहद्ध तस्थौ भुवनेष्व॒न्तः पव॑मानो हुरित॒ आ वि॑वेश ॥

( ऋ. ६ अ. ७ अ. ८ व. )

( ३ ) इ॒दं श्रेष्ठ॒ ज्योति॑षा॒ ज्योति॑रुत्त॒मं वि॑श्वजिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।

वि॒श्व॒भ्राड् भ्रजो महि॒सूर्यो॑ दृश उ॒रु प॑प्रये॒ सह॒ ओजो॒ अच्यु॑तम् ॥

( ऋ. ८ अ. ८ अ. २८ व. ) ( ४ ) ' एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA •

पृष्ठ 12

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 12 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ छन्दः शास्त्रम् स एष जातः स जनिष्यमाणः प्रत्यञ्जनास्तिष्ठति सर्वतोमुखः || ' ( यजु. ३२ अ. ३ क. ४ मं. )

( ५ ) एक एवाग्निर्बहुधा समि॑द्ध एकः सूर्यो विश्व॒मनु॒ प्रभू॑तः ।

एक॒वोषाः सर्व॑मि॒दं विभा॒त्येकं॒ वा इ॒दं विव॑भूव॒ सर्व॑म् ॥

( ऋ. ६ अ. ४ अ. २ ९ व. ) ( ६ ) ' सोमः पूषा च चेततुर्विश्वासां सक्षितीनाम् । देवत्रा रथ्योर्हिता ॥ ' ( सा. २ प्र. २ अ. ६ द. ) ( ७ ) ' अहं परस्तादहमवस्ताद् यदन्तरिक्षं तदु मे पिताभूत् । अहं सूर्यमुभयतो ददर्श अहं देवानां परमं गुहा यत् ॥ ' इत्येवमादिभिर्वेदप्रमाणैः सिद्धेऽपि सूर्यस्य स्थिरत्वे, पृथिव्याश्चलत्वे वैपरीत्वेनानूतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥ “ स एष वा न कदाचनास्तमेति, नोदेत्ति । तं यदस्तमेतीति मन्यन्ते, अह्न एव तदन्तमित्वा अथात्मानं विपर्यस्यते । रात्रीमेवावैस्तात् कुरुते, अहः परस्तात् ॥ अथ यदेनं. प्रातरुदेतीति मन्यन्ते — रात्रेरेव तदन्तमित्वा अथात्मानं विपर्यस्यते; अहरेवावस्तात् कुरुते, रात्रीं परस्तात् । स वा एष न कदाचन निम्लोचति ॥ " इत्येवमैतरेयादिश्रुत्या स्पष्टमेवाहो-. रात्रयोः पृथिवीगतिनिमित्तकत्वे सिद्धेऽप्यनृतं सूर्यगतिनिमित्तकत्वं सूर्यास्तमनम् । न व्यव-हारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥ एवं घटशब्दप्रयोजकाक़ाराकारितान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्यैकत्वात्तदभिन्नतयै-वैकत्वेन प्रतिपन्नस्य मृत्तिकाणुविलक्षणसंनिवेशात्मकघटरूपावच्छिन्नचैतन्यस्य घटत्वतया तदवच्छेदेन घटशब्दसंकेतसिध्या तत्तद्व्यवहारोपपत्तौ सिद्धायामपि समवायेनावयवेषूत्पन्नोऽ-वयवातिरिक्तोऽपूर्वः कश्चिदवयवी घटशब्दवाच्य इत्येवमनृतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥ किं बहुना? लोके हि सर्वत्रैवार्थे प्रतिपत्तिस्त्रिविधा दृष्टा - पारमार्थिकी, व्यावहारिकी, प्रातिभासिकी चेति । पारमार्थिकी, आर्थिकी, वास्तविकीत्यनर्थान्तरम् । व्यावहारिकी, औपयौगिकी, औपचारिकीत्यनर्थान्तरम् । प्रातिभासिकी, आध्यासिकी, वैकल्पिकीत्यनर्था-न्तरम् । ' यथा काचे स्फटिकबुद्धिराध्यासिकी, काचे काचबुद्धिरौपयौगिकी, काचे मृद्बुद्धिः रार्थिकी । एवं पृथिव्यपेक्षया सूर्यस्य कूटस्थता वास्तविकी पृथिवीं परितः सूर्यस्य वार्षिकगतिः पूर्वाभिमुखीना औपचारिकी, पृथिवीं परितः सूर्यस्य दैनंदिनगतिः पश्चिमाभि-मुखीना प्रातिभासिकी — इत्येवं सर्वत्र त्रैविध्यं द्रष्टव्यम् । तत्र प्रातिभासिक्या मिथ्यात्वमेव, वास्तविक्याः सत्यत्वमेव, व्यावहारिक्याः सत्यासत्यत्वम् । अन्यथा सतोऽपि व्यवहार-सिद्ध्यनुरोधेनान्यथा प्रकल्पितरूपस्य लोके उपयोगदर्शनात् ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 13

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 13 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ९ एतदभिप्रायेणैव ' नानृतं वदेत् ' इति प्रतिज्ञाय - " अथो खल्वाहुः - कोऽर्हति मनुष्यः सर्वं सत्यं वदितुम् । सत्यसंहिता वै देवाः, अनृतसंहिता मनुष्याः । " इत्यैतरेयके, ' द्वयं वा इदं न तृतीयमस्ति सत्यं चैवानृतं च । सत्यं देवाः, अनृतं मनुष्याः । ' इति शतपथश्रुतौ च व्यवहारसापेक्षत्वेऽनृतनिष्ठत्वान्मनुष्यत्वम्, वस्तुसद्रूपसापेक्षत्वे तु सत्यनिष्ठत्वाद्देवत्वमुपदिष्टं महर्षिभिः । अत एव च - ' शतं वर्षाणि जीव्यासमित्याह । तदेवन्नाद्रियेत । अपि हि भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति ॥ ' इति शतपथश्रुतौ स्पष्टमेव लौकिकप्रतिपत्ति-मूलकव्यवहारस्यानादरणीयत्वमुपदिश्यते । तस्मान्त्रैतादृशलौकिकप्रतिपत्त्यभावमनुरुध्य कश्चि-दर्थः प्रमाणसिद्धः शक्यते प्रत्याख्यातुमिति दिक् । अथ न स्वरूपतोऽसत्त्वमप्रसिद्धिः । छादकत्वस्यैव छन्दः पदशक्यतावच्छेदकतया तत्र तदसत्त्वानवक्लृप्तेः । न च स्यादेवमाच्छादकत्वं यदि तावच्छन्दस्त्वं मानादीनां प्रमाणसिद्धं स्यादिति वाच्यम्; ' मा च्छन्दः प्रमा च्छन्दः प्रतिमा च्छन्दः ' इति श्रुत्या छन्दस्त्वस्य तेषु वचनत: सिद्धेः । संख्यादिपरिच्छेदे माशब्दस्य, तत्तदर्थायतनभूतायामा-शयपदवाच्यायां वस्तुप्रतिष्ठायां प्रमाशब्दस्य, तुलितके च प्रतिमाशब्दस्य व्याख्यास्यमान-त्वात् । नन्वेवं तर्हि तदुभयवचनप्रामाण्यान्मानत्वं प्रतिष्ठात्वं तुलितकत्वमथाच्छादकत्वं चैतानि शक्यतावच्छेदकानि स्युः! न त्वेतावतापि मानाद्यवच्छेदानामाच्छादकत्वं सिद्ध्य-तीति चेत् ——न, ‘ यदेभिराच्छादयन् तच्छन्दसां छन्दस्त्वम् ' इत्येवमादीनां छादकत्वस्यैव छन्दः पदप्रवृत्तिनिमित्तत्त्वमभ्युपगन्त्रीणां श्रुतीनां छन्दः पदाभिधेयेषु तेष्ववच्छेदेष्वा-च्छादकत्वस्यास्तित्वबोधने एव तात्पर्यावसायात् । तत्तर्हि कीदृगाच्छादकत्वमवच्छेदानामिष्ट-मिति चेत्, –नेतरदितराच्छादकधर्मादिति गृहाण । ननु च भो: - येनैव सता तद्वस्तुस्वरूपं न प्रतिपद्यते, तिरोहितं भवति, तस्मिन्नन्तर्धानप्रधाने संवरणे आच्छादनशब्दो दृष्टः । ‘ घटाच्छादितः प्रदीपः, वस्त्राच्छादितं द्रव्यम्, रजसाच्छादिते भानौ, ' स्तनयुगपरिणाहाच्छादिना वल्कलेन'-' न हया न रथो वीर! न यन्ता मम दारुकः । अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥ ' ( म.भा ० वन. २०।२४ ) इत्यादिषु दीपादीनां घटादिद्रव्यैस्तिरोधानेनाप्रतिपत्तिदर्शनात् । प्रकृते पुनर्नैतदेवं दृश्यते । न चावच्छेदेन सता तदवच्छिन्नं किंचिदन्तर्धत्ते, तस्मादनाच्छादका अवच्छेदाः प्रतिपद्यन्ते— इति चेत्सत्यम् । उच्यते — न केवलमन्तर्धानमेवाच्छादनशब्दस्य विषयः, किं तर्हि बहवो विषयास्तच्छब्दस्योपलभ्यन्ते । तथा हि- ' अन्नाच्छादनभागयम् ', ' आच्छाद्य चार्हयित्वा च श्रुतशीलवते स्वय ' मित्यादिषूपसंव्यानम् १, ' आभूषाणाच्छादिताङ्गी ' ' छदयति सुरलोकं यो गुणैर्यं च युद्धे सुरयुवतिविमुक्ताश्छादयन्ति स्रजश्च । ' इत्यादिषु पर्याधानम् २,. ‘ चन्दनच्छन्नगात्रः ’, ‘ तैलाच्छन्नं कलेवरम् ', ' घृताच्छन्नं व्यञ्जनम् ' इत्यादिषु चर्चितकत् ३, ‘ मेघच्छन्नेऽह्नि दुर्दिनम् ’, ‘ कण्टकच्छन्नमार्गेषु ' इत्यादिष्ववरोध: ४, ' ईशावास्यमिदं सर्वम् ', CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 14

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 14 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० छन्दःशास्त्रम् ' आच्छाद्यते त्वद्यशसा समस्तम् ' इत्यादिषु व्याप्तिः ५, ' छादयन्नाननं वेगैरर्दयन्नंङ्गभञ्जनैः । निरुच्यते छर्दिरिति दोषो वक्रं प्रधावित: ' । ( सुश्रुतः ) इत्येवमादिषु दूषितकरणम् ६, ' निचितं तु हंसपक्षैः कृकवाकुमयूरसारसानां च । दौकूलेन नवेन तु समन्ततश्छादितं शुक्लम् ॥ दण्डार्धविस्तृतं तत्समावृतं रत्नभूषितमुदग्रम् ॥ नृपतेस्तदातपत्रं कल्याणकरं विजयदं च ॥ अन्येषामुष्णघ्नं प्रसादपट्टेर्विभूषितशिरस्कम् । व्यालम्बिरत्नमालं छत्रं कार्यं च मायूरम् ' || ( बृहत्संहिता । ) इत्येवमादिषु स्वरूपकरणम् ७, ' अग्निमन्तश्छादयसि ' ( अथ. ९ ।३।१४ ), ‘ अन्नं छादयेदाज्येन ' ( कात्यायनश्रौतसूत्रम् ४।६।५ ) इत्येवमादिषूर्जनम् ८, ‘ छन्ने स्थाने समासीनः ’ इत्यादिषु विविक्तम् ९, ' गर्गश्च गोकुले तत्र वसुदेवप्रणोदितः । प्रच्छन्न एव गोपानां संस्कारानकरोत्तयोः ॥ ' ( विष्णुपु. ५. अं. ६ अ. ) इत्यदावज्ञानत्वम् १०, ‘ गायत्रेण छन्दसा त्वा छादयामि, त्रैष्टुभेन छन्दसा त्वा छादयामि, छायन्वि ह वा एनं छन्दांसि पापात्कर्मणः इत्यादिषु गोपनं च ११, इत्येवमनेके विषयाश्छादनस्य भवन्ति । न चैतेषु छाद्यस्यान्तर्धानमेव दृष्टमथाप्यनुवर्तते स आच्छादनशब्दः । तदित्थं सिद्धेऽनैकार्थ्ये यदिदं गोपनापरपर्यायमाच्छादनं रक्षाभिप्रायं तदिहावच्छेदकानुगतं द्रष्टव्यम् ॥ अवच्छेदावच्छिन्नस्य स्वरूपतोऽप्रच्यवनेन सुगुप्तत्वात् ॥ अथान्यः प्रत्यवतिष्ठते — नेदमनैकार्थ्यं युक्तम्; प्रकरणोपलभ्यार्थे शक्तिस्वीका-रानावश्यकत्वात् । वस्तुतस्तु अपवारणे छादयतिः प्रतिपन्नः । तच्च द्विविधम् — एकदिग्वर्तित्वे आवरणमथानेकदिग्वर्तित्वे संवरणं च । इदं च संवरणं वस्तुतः स्वरूपाननुगतमपि द्वेधा — पृथग्दृष्टमपृथग्दृष्टं च । तथा हि - मेघच्छत्रभित्त्यादीनामावरकत्वेनोपसंवीतघटादीनां बहिरवस्थानां दिग्देशकालसंख्यापरिमाणादीनां व्याप्यवर्तिनां च संवरकत्वेन प्रतिपत्तिः । अनेकदिग्वर्तिनोऽप्येकदिग्वर्तित्वाव्यतिरेकात् संवरणेऽप्यावरणशब्दो लब्धावसरः इत्यन्यदे-तत् । उभयोरेवानयोर्द्दष्टिसम्बन्धप्रतिबन्धकत्वमेवाच्छादनशब्दप्रवृत्तिनिमित्तम् । प्रतिबन्धकता-वच्छेदकं च दृग्दृश्यान्तरालवर्तित्वं व्यवधानापरपर्यायम् । मेघच्छन्नेऽह्रीत्यत्राहः शब्दस्याहः प्रवर्तकसूर्यपरतया सूर्यांऽशुपरतया वा विवक्षणात्तददर्शनं मेघावरणप्रयोज्यं द्रष्टव्यम् । ईशावास्यमित्यत्र तु नायमाच्छादनकर्मा वसिधातुः, किं तु निवासार्थः, ' तत्सृष्ट्वा तदेवानुप्राविशत् ’ ‘ नेन्द्रा॑दु॒ते प॑वते॒ धाम॒ किंच॒न ' इत्यादिश्रुत्यन्तरैकवाक्यतया सर्वत्रैवास्य विद्यमानत्वे तत्तात्पर्यात् । अथवा — अस्त्वेवाच्छादनार्थः । तात्त्विकदृष्टेर्महर्षेर्यत्र यत्रैव दृष्टिः प्रवर्तते, तत्र तत्रैव परमेश्वरादन्यन्न दृश्यते - इत्येकस्य तस्य द्वैतदृष्ट्यपवारकत्वेन विवक्षणादाच्छादकत्वोपपत्तेः । एतेन ' आच्छाद्यते त्वद्यशसा समस्तम् ' इत्यादयो व्याख्याताः । ‘ गूढालंकारवाक्येऽर्थः प्रच्छन्नः ’ इत्यादावप्यनुभवात्मकदृष्ट्यपवारणादेवार्थस्य तत्त्वमुपपद्यते— इति विवेक्तव्यम् । तथा च छन्नाच्छादितादीनां प्रतिबद्धदर्शनार्थकत्वादवच्छेदावच्छिन्नानां चानवरुद्धदर्शनत्वेनाभिप्रेतत्वान्नावच्छेदानाच्छादकत्वम्, अनाच्छादकत्वाच्च नावच्छेदश्छन्द इति चेत्; अत्रोच्यते — नैकान्ततस्तावद् दृगवरोधकस्यैवाच्छादकत्वं वक्तुं शक्यम्, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 15

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 15 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका ११ स्थितवतां पुंसां छन्ने स्थाने तिष्ठाम इति प्रतिपत्तिदर्शनात् । ' न च वर्षातपात् कृच्छ्रं छत्राच्छादितवर्ष्मण: ', इत्यादौ च सर्वात्मना दृश्यमानस्यापि पुंसश्छत्रछन्नत्वोपचारात् । एवं दृष्टिप्रतिबन्धनैरपेक्ष्येऽपि केवलं वर्षातपावश्यायाद्यवरोधकानां गृहच्छदीनां चन्द्रातपादीनां वाच्छादकत्वमुपचर्यते । अत एव च ' काचेनाच्छादिते दीपे न लब्धावसरोऽनिलः ' इत्येवमादयो व्यवहारा अपि सिद्धार्थाः । तस्मादितरसंबन्धापवारकत्वमेवाच्छादकत्वमिति निष्कर्षः । विशेषधर्मावच्छिन्ने शक्तिमभ्युपगम्य विशेषान्तरे लाक्षाणिकत्वस्वीकारापेक्षया सामान्यधर्मावच्छिन्ने शक्तिस्वीकारस्य न्याय्यत्वात् । इतरत्वं च कचिद् दृष्टेः, क्वचित्तु नाष्ट्राख्यानां प्रतिविघातकानामर्थानाम् । तत्र दृष्टिसम्बन्धापवारणे छन्नस्य गुप्तत्वमप्रकाशात्मकं गूढत्वापरर्यायम् । दोषसम्बन्धापवारणे तु तस्य गुप्तत्वं नाष्ट्रागृहीतत्वात्मकं रक्षितत्वापरपर्यायमिति तात्पर्यभेदोऽध्यवसीयते । तथा चावच्छेदानामप्यवच्छिन्नस्वरूपानु-गतयावदवयवप्रच्यावकदोषसम्बन्धापवारकतया सिद्धमेव स्वरूपच्छादकत्वं छन्दः शब्दप्रवृत्तौ निमित्तं द्रष्टव्यम् । दृश्यते हि केनचिदवच्छेदेनावच्छिन्ने ऋगादौ वाग्विशेषे ब्राह्मणादावर्थविशेषे वा तत्स्वरूपोपघातकविरुद्धावच्छेदसम्बन्धापरवारणात्मकगुप्तिसाधनतया तदवच्छेदे छन्दोव्यपदेशः । इदं तु बोध्यम् - आच्छादकत्वाविशेषेऽप्येकदिग्वर्तिन्यावरणे छन्दः शब्दो नोपचर्यते । संवरण एव छन्दतेः प्रतिपन्नत्वात् । तत्राप्यपृथग्दृष्टे व्याप्यवर्तिन्येवायं छन्दतिः प्रायेण विषयं लभते । तथा च " वासुदेव! सर्वच्छन्दक! हरिहय! हरिमेधः! महायज्ञ! ' इति महाभारतप्रयोगो भवति । छन्दयति संवृणोति रक्षति स रक्षक इत्यर्थात् । तदित्थमैकार्थ्येऽपि सिद्धमवच्छेदानामाच्छादकत्वाच्छन्दस्त्वमित्यलम् ॥ अथ के तेऽवच्छेदा इति विचार्यते । गुणसमवायो हि वस्तुशब्देनाख्यायते । गुणो धर्मो भाव इत्यनर्थान्तराणि । तेषां समवायश्चैकात्म्येनावस्थानम् । लोकव्यवहारे च समवायस्य प्राधान्यात्तदनुरोधेन तदन्तः प्रविष्टानामर्थानां गुणत्वम् । समवाये चैते ध्रियन्ते तैर्वा समवायो ध्रियत इत्येषां धर्मत्वम् । तैरेव सद्भिस्तद्वस्तु तदितरवस्तुवैलक्षण्येन भवतीत्येषां भावत्वम् । सर्वेषां वस्तुधर्माणां समवायेन सत्ताग्रहणं सत्तैव वा भावः । तात्स्थ्यात्तदनतिरेकाच्चासौ समवायोऽपि भावशब्देन सत्त्वशब्देन चोपचर्यते— इत्यन्यदेतत् । एते वस्तुधर्माः पञ्चधा व्यवच्छिद्य गृह्यन्ते - आश्रयभावाः, प्रयोजकभावाः, स्थायिभावाः, व्यञ्जकभावाः, संचारिभावाश्चेति । तत्रान्नसंमिते वस्तुन्यग्नेः, अप्संमिते वस्तुनि सोमस्य, वायुसंमिते वस्तु - नीन्द्रस्य, तेजः संमिते वस्तुन्यादित्यस्यालम्बनत्वात्तस्य तस्य तत्र तत्राश्रयभावत्वम् । “ अग्निरस्मि जन्मना जातवेदा धृतं मे चक्षुरमृतं म आसन् । ” ( ऋ ० ३. अ. ३ अ. २७ व ) इति मन्त्रवर्णकमनुरुध्यतां तु सर्वत्रैवाग्नेरेवाश्रयभावत्वमिति मतमेतत् । अथ-“ सवित्रा प्रसवित्रा, सरस्वत्या वाचा, त्वष्ट्रा रूपैः, पूष्णा पशुभि, रिन्द्रेणास्ये, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 16

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 16 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२ छन्दः शास्त्रम् बृहस्पतिना ब्रह्मणा, वरुणेनौजसा, ऽग्निना तेजसा, सोमेन राज्ञा, विष्णुना दशम्या, देवतया प्रसूतः प्रसर्पामि ॥ ” ( वाजसनेयि. अ. ३. १० य. ३० ) । इत्येवमादिमन्त्रबोधितानां शरीरगतभिन्नभिन्नकर्माधिकारविनियुक्तानां तेषां तेषां देवानां प्रयोजकभावत्वम् । प्रयोजकत्वं च-“ सोमो राजा वरुणो देवा धर्मसुवश्च ये । ते ते वाचं सुवन्ताम् । ते ते प्राणं सुवन्ताम् । ते ते चक्षुः सुवन्ताम् । ते ते श्रोत्रं सुवन्ताम् । " इत्यादिमन्त्रैरुपलक्षणविधया तत्तद्धर्मविशेषान् प्रत्येवानुसंधेयम् । अत एव -“ सोमस्य त्वा द्युम्नेनाभिषिञ्चामि, अग्नेस्तेजसा, सूर्यस्य वर्चसा इन्द्रस्येन्द्रियेण, मित्रावरुणयोर्वीर्येण, मरुतामोजसा । ” इति ( तै.सं. ) एवमादिमन्त्रैः सोमाद्यधिदैवतानामध्यात्मं द्युम्नादिधर्मरूपेण परिणतावस्थत्वमेव तत्तद्धर्मप्रयोजकत्वं बोध्यते । एत एव च देवप्रयुक्ता धर्मास्तदात्मनः स्वभाव इत्युच्यते

तस्य दैविध्यमाहोज्ज्वलदत्तः-' बहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्तितः ।

निसर्गश्च स्वभावश्च इत्येष भवति द्विधा ॥ १ ॥

निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु स्वतः सिद्धः स्वरूपो भाव उच्यते || २ || ' एतत्संस्कारात्मकनिसर्गसिद्ध्यर्थमेवाध्ययनतपश्चर्यायोगाभ्यासादिकर्माण्युपयुज्यन्त इत्यप्यवधेयम् ॥ उपादानद्रव्याणि स्थायिभावाः । एवमेते त्रयो भावा उक्ताः, ते च प्राणि-नामात्मभूता इष्यन्ते । तत्रापि आश्रयभावो जीवात्मा, प्रयोजकभावोऽन्तरात्मा, स्थायि-भावो भूतात्मा । यस्य सत्तया यस्य सत्ता स तस्यात्मा । स च प्रत्यर्थं त्रेधेति तत्र तत्रोपेक्ष्यम् । अथ येऽनात्मभूता अप्यपृथक्भूता विशेषतो व्यभिचारिणोऽपि सामान्यतो नित्यानुगता बाह्यार्थास्ते व्यञ्जकभावा दिग्देशकालसंवित्संख्यापरिमाणसाधर्म्याणि । एत एव व्यञ्जकभावा इहावच्छेदकशब्देनेष्यन्ते । एतैरवच्छिन्नमेव किंचिद्वस्तु व्यज्यते । तत्र परिमाणं नामावयवसंनिवेशानुरोधेन जायमानमणुत्वमहत्वह्रस्वत्वदीर्घत्वादिरूपम् । साधर्म्य तु समानद्रव्यगुणकर्मकत्वम् । नैतान्यनपेक्ष्य वस्तु किंचिदपि स्वरूपं धत्त इत्यवच्छेदकानामेषां तद्वस्तुस्वरूपस्थितिनियामकप्राणमात्रारूपाणां तद्वस्तुच्छन्दस्त्वमिष्यते । अथान्ये व्यभिचारिण: सर्वे धर्माः संचारिभावाः । ' यथा आर्द्रत्वोष्णत्ववेशभूषादयः सांयौगिकार्थाः । एतेऽप्यनात्मभूता एव । तेषां सत्त्वास॒त्त्वयो॒स्तद्वस्तुस्वरूपस्य तटस्थत्वात् । तदित्थं प्रत्यर्थं धर्माणां पञ्च CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 17

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 17 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका १३ प्रकरणानि । तत्र चतुर्थप्रकरणपदार्था अवच्छेदा इति संसिद्धम् ॥ तत्र तावद्दिग्देशकालसंवित्संख्याप्राधान्येन गृहीतास्तेऽवच्छेदा इतरे गुणा वा तद्वस्तुनो व्यक्तिः । एतेषां भेदकानां भेदादेव पृथगात्मत्वोपचारात् । अथ परिमाणप्राधान्येन गृहीतास्ते तद्वस्तुन आकृतिः । एभिरेव भेदकैर्गृहीतैरस्तीदमिदमिति बुद्धौ तदा करणात् । एवं साधर्म्यप्राधान्येन ग्रहणे ते तद्वस्तुनो जाति: । इतरकालिकेतरघटाकाराकारितान्त: करवृत्त्या प्रत्युत्पन्नेतद्धटाकाराकारितान्त: करणवृत्तेः सामान्येनोदयात्तत्प्रयोजकस्य तद्वस्तुगत-साधर्म्यापलक्षितपरिमाणादेश्चैकत्वाभिमानात् । तत्र साधर्म्यं समानप्रसवप्रकारनिबन्धन-मेवेह विवक्षितमित्यतस्तत्र जातिशब्दो रूढः । अत एव मृद्गवके गोसाजात्यनिरासः । जातिरखण्डोपाधिरिति तु केषांचिदपदार्थकल्पनामात्रम् । एतासां व्यक्त्याकृतिजातीनां सम-वायस्तु पदार्थः । यत्तु “ धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निः श्रेयसम् । ” इत्यौलूक्यसूत्रप्रामाण्याद्रव्यादीनां षण्णां पदार्थत्वमीक्षमाणा नव्यनैयायिका गुणादावाकृत्याद्यसमन्वयाद् व्यक्त्याकृतिजातिसमवायस्य ...पदार्थत्वे विप्रतिपद्यन्ते तदेतत्सूत्रार्थानभिज्ञानात् । द्रव्यगुणकर्मणां सत्तावतामेव सामान्यवि-शेषाभ्यां ये समवायास्तेषामेव पदार्थतायास्तेन सूत्रेण विवक्षणात् तदविरोधात् । दृश्यते ह्येतस्मिन्नेवार्थे तदुत्तरयावद्ग्रन्थस्वारस्यम् । अत एव नहि षट् पदार्थाः सन्तीति शास्त्रार्थः । किंतु द्रव्ये गुणकर्माणि द्रव्यगुणकर्माणि वैकत्र समवयन्ति तस्य सत्तासत्त्वभावादिपदप्रतीत-स्यार्थस्य पदार्थत्वं द्रष्टव्यम् । स खलु भावो यद्यप्येक एव, तथापि कर्मगुणादीनां सामान्यविशेषाभ्यां तारतम्यात् तदुपलक्षिताः समवाया भिद्यन्ते । तस्माद्बहवः पदार्था घटपटादयः सिद्धाः | अस्ति हि घटो वा पटो वान्यो वा द्रव्यगुणकर्मणामेव स स समवायः । तथापि केचिद्गुणा जात्याकृतिरूपाः समाना भवन्ति केचित्पुनर्व्यक्तिधर्मा विशि-ष्यन्ते । अत एवैकजातीया अपि ते तेऽर्थाः परस्परं भिद्यन्ते । तस्माद्द्रव्यगुणकर्मणां समवाय एव प्रकारान्तरविवक्षायां व्यक्त्याकृतिजातीनां समवाय आख्यायते । अत एव ‘ “ जात्याकृतिव्यक्तयः पदार्थः " - इत्युत्तरेणौलूक्यसूत्रेणैकवाक्यता संपद्यते । समवायस्तु भिन्नानामैकात्म्येनावस्थानमित्युक्तम् । तन्निरूपितैव च पदे शक्तिरभ्युपेयते - इत्यतस्तत्र पदार्थशब्दः । पदनिष्ठशक्तिनिरूपकत्वस्यैव पदार्थत्वेन विवक्षितत्वात् । अथवोप-याच्यमानत्वादर्थः । प्रयोजनम् । यमुद्दिश्य यत्प्रवर्तते स तस्यार्थः । तथा च यदर्थं पदप्रयोगः स पदार्थः । व्यक्त्याकृतिजातिसमवायं प्रत्याययितुं हि पदप्रयोग इति स पदार्थ: । तासां च व्यक्त्याकृतिजातीनामुद्देशलक्षणपरीक्षाभिः स्वरूपं निरूपयितुं प्रवर्तन्ते पारमर्षसूत्राणि— ‘ व्यक्त्याकृतिजातयस्तु पदार्थः । व्यक्तिर्गुणविशेषाश्रयो मूर्तिः । आकृतिर्जातिलिङ्गा-ख्या । समानप्रसवात्मिका जातिः । शब्दसमूहत्यागपरिग्रहसंख्यावृद्धयुपचयवर्णसमासानु-बन्धानां व्यक्तावुपचाराद्व्यक्तिः । आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः । व्यक्त्या-कृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जाति: । ' इति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 18

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 18 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४ छन्दः शास्त्रम् तदित्यं व्यक्त्याकृतिजात्याश्रये पदार्थे बहूनां धर्माणां सद्भावेऽपि यं कंचिदेकमेवार्थमुपादाय तत्सम्बन्धानुबन्धेन गुणिनमर्थं ग्राहयितुं पदानि संकेत्यन्ते । यथा - ' मदीयः श्वेतः कृष्णकर्णो महारवस्तुरगः सुलक्षणः । ' इत्यत्र मत्सम्बन्धं श्वेतरूपं कृष्णकर्णत्वं शब्दमहत्त्वं त्वरागतिं शुभलक्षणसम्बन्धं च विप्रकीर्ण तं तमर्थ निमित्तीकृत्य प्रवृत्तानां तेषां तेषां शब्दानामा-काङ्क्षावशात् सामानाधिकरण्यं भासते । एवमेकमेवार्थमुपादाय प्रवृत्तयोरपि छन्दश्छा-दकशब्दयोराकाङ्क्षाविशेषात् स्वरूपसंरक्षकत्वस्य स्वरूपतिरोभावकत्वस्य चान्यत्रान्यत्र विषयीकरणात् वैयधिकरण्यं भासते । तदेवमुच्चावचा पदार्थमर्यादा भवतीत्यप्यनुसंधेयम् ॥ तत्रैव व्यक्तिभावप्रधानं दिग्देशकालसंवित्संख्यारूपमवच्छेदं परिच्छेदसीमा-मर्यादाभिविधिनियतिनीतिरीतिव्यवस्थामिति मानापरपर्यायं माशब्देन, आकृतिभावप्रधान-मणुत्वमहत्त्वह्रस्वत्वदीर्घत्वनियामकसंनिवेशरूपमवच्छेदं प्रतिष्ठायतनाशय परिमाण-प्रमाणापरपर्यायं प्रमाणाभिधायिना प्रमाशब्देन, जातिभावप्रधानं च समानद्रव्यगुणकर्मरूपम-वच्छेदं साधर्म्यसामान्यसादृश्यसारूप्यतुलितकप्रतिमितिप्रतिमानापरपर्यायं प्रतिमानाभिधा-यिना प्रतिमाशब्देनोल्लिख्य छन्दस्त्वं विधीयते । मा च्छन्दः प्रमा च्छन्दः, प्रतिमा च्छन्द इति ।

दृश्यते च-अस्तभ्राद् द्यामृषभो अन्तरिक्षममिमीत वारेमाणं पृथिव्याः ।

आसीदद् विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि ॥१ ॥

गायत्रेण प्रतिमिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।

वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२ ॥

( ऋ. २ अ. ३ अ. १८ व. ) इत्यादिषु दैशिकसांख्यानिकमर्थादाभिप्रायकत्वं माशब्दस्य, ' यस्य भूमिः प्रमा अन्तरिक्षमुतोदरम् । दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ ' ( अथर्वमं ० ) इत्यादिषु प्रतिष्ठाभिप्रायकत्वं प्रमाशब्दस्य– ' संवत्सरप्रतिमा वै द्वादश रात्रयः || ' ( ब्राह्मणम् ) ‘ द्वादश वै रात्रयः संवत्सरस्य प्रतिमा ॥ ' ( ब्राह्मणम् ) इत्यादिषु तुलितकाभिप्रायकत्वं प्रतिमाशब्दस्य । तथा च मा- प्रमा- प्रतिमा-शब्दैरुल्लिखितस्य त्रिविधस्याप्यवच्छेदस्य वस्तुस्वरूपसंवरकत्वेनाभिप्रेतस्य छन्दस्त्वं वचनतः सिद्धं भवति । ननु प्रमाप्रतिमयोरपि छन्दस्त्वेऽभ्युपगम्यमाने— कासीत् प्रमा प्रतिमा किं निदानमाज्यं किमासीत् परिधिः क आसीत् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 19

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 19 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भूमिका १५ छन्दः किमासीत् प्रउगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥ ( ऋ. ८ अ. ७ अ. १८ व. ) इति मन्त्रे प्रमाप्रतिमयोश्छन्दः पार्थक्येनोपादानं विरुध्यत इति चेत्तन्न ।

" तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।

छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥

आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे ।

इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥

इत्येवमादिषु विशेषोपादाने सामान्यशब्दस्य विशेषेतरपरत्ववदिहापि छन्दः शब्दस्य मानावच्छेदतात्पर्यकत्वेन चारितार्थ्यात् । वस्तुतस्तु न सातत्वेन प्रतिष्ठानत्वे कतकत्वेन वा छन्दस्त्वमिष्यते अपि तु स्वरूपसंवरकत्वेनेति पदार्थतावच्छेदकभेदादपौनरुक्त्यम् ॥ ननु मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः, ' इयं वै मा, अन्तरिक्षं प्रमा, असौ प्रतिमा, इमानेव लोकानुपधत्ते ' इत्यग्निचितिमन्त्रश्रवणाल्लोकत्रयाभिप्रायतया परिभाषि-तैर्माप्रमाप्रतिमाशब्दैर्मानाद्यवच्छेदग्रहणमयुक्तमिति चेन्न । चैत्रमैत्रौ नृपतेर्हस्तावितिवत्तेषां गौणशब्दत्वात् । अन्यथा — ‘ अथ जुहूम्, अथोपभृतम्, अथ ध्रुवाम् । असौ वै जुहूः, अन्तरिक्षमपभृत्, पृथिवी ध्रुवा । इमे वै लोकाः स्रुचः । वृष्टिः संमार्जनानि । वृष्टिर्वा इमाँल्लोकाननुपूर्वं कल्पयति । ते ततः क्लृप्ताः समेधन्ते । ' ( तै.ब्रा. इत्यादिभिरुपचारविशेषैः स्रुगादयोऽपि स्वार्थादपभ्रश्येरन् ॥ एवम्-मा छन्दः, तत्पृथिवी, अग्निर्देवता ॥ १ ॥

प्रमा छन्दः, तदन्तरिक्षम्, वातो देवता ॥ २ ॥

प्रतिमा छन्दः, तद् द्यौः, सूर्यो देवता ॥ ३ ॥

अस्त्रीवि छन्दः, तद्दिशः, सोमो देवता ॥ ४ ॥

विराट् छन्दः, तद्वाक्, वरुणो देवता ॥ ५ ॥

गायत्री छन्दः, तदजा, बृहस्पतिर्देवता ॥ ६ ॥

त्रिष्टुप् छन्दः, तद्धिरण्यम्, इन्द्रो देवता ॥ ७ ॥

जगती छन्दः, तद्गौः, प्रजापतिर्देवता ॥ ८ ॥

अनुष्टुप् छन्दः, तद्वायुः, मित्रो देवता ॥ ९ ॥

उष्णिहा छन्दः, तच्चक्षुः, पूषा देवता ॥१० ॥

पङ्क्तिछन्दः, तत्कृषिः, पर्जन्यो देवता ॥११ ॥

बृहती छन्दः, तदश्वः, परमेष्ठी देवता ॥ १२ ॥

३. ३ प्र. १ अ. ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पृष्ठ 20

छन्दश्शास्त्र पिङ्गल ऋषिकृत, पृष्ठ 20 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६ छन्दः शास्त्रम् इत्यापस्तम्बश्रौत ( १६।२८।१ ) सूत्रोक्ते प्रकरणविशेषे माप्रमादिवद् विराड्गायत्र्यादीनामपि वागजाद्यभिप्रायतया प्रयोगात् समानन्यायात् प्रकृतार्थपरत्वं व्याहन्येत । अत एव -“ सावित्रैरभ्रिमादत्ते प्रसूत्यै । चतुर्भिरादत्ते, चत्वारि वै छन्दांसि, छन्दोभिरेवादत्ते । अथो ब्रह्म वै छन्दांसि । ब्रह्मणैवादत्ते । इयं वै गायत्री । अन्तरिक्षं त्रिष्टुप् द्यौर्जगती, दिशोऽनुष्टुप् । सवितृप्रसूतो वा एतदेभ्यो लोकेभ्यश्छन्दोभिर्दिग्भ्यश्चाग्नि संभरति ॥ इत्य-ग्निचितिप्रकरणा? इत्युक्तवा--" अथो देवच्छन्दसानि वा एतानि, देवच्छन्दसान्येवोपधत्ते । द्वादश द्वादशाभित उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती, बृहती खलु वै छन्दसां स्वाराज्यमानशे । ” इत्यादिना लोकानां देवच्छन्दस्त्वं बृहतीच्छन्दस्त्वं चोपपादितम् । षट्त्रिंशद-क्षरावच्छिन्नत्वस्यैव बृहतीपदार्थत्वाद् वाग्बृहतीवदेषां लोकानामपि तत्तदग्नीन्द्रादिदेवावच्छे-दकानां तल्लक्षणलक्षितत्वेन तथा तथा व्यवहर्तुं सुशकत्वात् । तथा चेत्थं लोकानां प्रतिपन्ने छन्दस्त्वे छन्दोऽनुगतशब्दास्तत्रोपचर्यन्ते । तत्राप्यनुप्रजननसम्बन्धात्, प्रक्रमसामा-न्याद्, अर्थयोगाच्च लोकत्रयेऽवच्छेदत्रयशब्दसम्बन्धः । तथा हि-‘ “ प्रजापतिरकामयत — प्रजायेयेति । स एतं दशहोतारमपश्यत् । तेन दशधात्मानं विधाय दशहोत्रातप्यत । तस्य चित्तिः स्रुगासीत्, चित्तमाज्यम् । तस्यैतावत्येव वागासीत् । एतावान् यज्ञक्रतुः । स चतुर्होतारमसृजत । सोऽनन्दत् - असृक्षि वा इममिति । तस्य सोमो हविरासीत् । स चतुर्होत्रातप्यत । सोऽताम्यत् । स भूरिति व्याहरत् । स भूमिमसृजत— अग्निहोत्रं दर्शपूर्णमासौ यजूंषि ॥१ ॥

स द्वितीयमतप्यत । सोऽताम्यत् । स भुवरिति व्याहरत् । सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि । ( २ ) स तृतीयमतप्यत । सोऽताम्यत् । स सुवरिति व्याहरत् । स दिवमसृजत । अग्निष्टोममुक्थमतिरात्रमृचः । ( ३ ) एता वै व्याहृतय इमे लोकाः । इमान् खलु वै लोकाननु प्रजाः पशवश्छन्दांसि प्राजायन्त । इति तैत्तिरीयारण्यकश्रवणात् प्रथमे तपसि भूलोकमनु छन्दसः प्रथमस्य मानात्मनः, द्वितीये तपसि भुवर्लोकमनु छन्दसो द्वितीयस्य प्रमाणात्मनः, तृतीये तपसि स्वर्लोकमनु छन्दसस्तृतीयस्य प्रतिमानात्मनः प्रतिपत्तिरित्यनुप्रजननसंबन्धः । अतश्च यथा लोकेष्वयं प्रथमोऽन्तरिक्षं मध्यमोऽसावुत्तमस्तथावच्छेदेषु मानं प्रथमः, प्रमाणं मध्यमः, प्रतिमानमुत्तमः, इति प्रक्रमसामान्यम् । अथ दिग्देशकालसंख्यावच्छेदानां पृथिव्यायत्ततया प्रथमोपस्थिततया च. तत्र माशब्दे प्रवृत्ते- ' अयं वै लोको रथन्तरमसौ लोको बृहत् । अस्य वै लोकस्यासौ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA