छन्दश्शास्त्र पिङ्गल ऋषिकृत — पृष्ठ 11–20
छन्दश्शास्त्र पिङ्गल ऋषिकृत · पृष्ठ 11–20
पृष्ठ 11
पाठ पढ़ें पाठ छिपाएँ
भूमिका ७ अत्रोच्यते- प्राणमात्रा छन्दः । सर्वं चेदं स्थावरजङ्गमं सप्राणमेवेह जीवति । प्राण-धारणं हि जीवनम् । अतः प्राणापगमे निर्जीवं विनश्यति सर्वम् । स च प्राणः सर्वत्र व्यक्तिभेदभिन्नया कयाचिन्नियतयैव मात्रयावस्थाय स्वप्रणीतं स्वायत्तं शरीरमधितिष्ठतीति प्रतिपद्यते । तत्र वाचिकप्राणः स्वर इत्युच्यते । तन्मात्रा वाचिकच्छन्दः । एवं भौतिक-प्राणो वैश्वानरः, तन्मात्रा च भौतिकच्छन्द इत्यनुसंधेयम् । मात्रा च पुनरवच्छेदः । यद्यपि च नियतासु वाक्षु प्रयुञ्जते छन्दः शब्दम्; अथापि नैतावता वागेव छन्दः शब्दवाच्येति भ्रमितव्यम् । नीलश्वेतादिशब्दानां गुणवाचकतया जातिशब्दत्वेऽपि गुणिपरत्वेनोपचाराद गुणशब्दत्ववदस्य छन्दः शब्दस्यापि गुणशब्दत्वव्यवहारोपपत्तेः । तस्मादवच्छेदश्छन्द इत्येव सिद्धान्तः । स च मानेन वा प्रतिष्ठया वा तुलितकेन वा क्रियमाणो वस्तुस्वरूप-मर्यादाबन्धः । ननु – ' स च्छन्दोभिश्छन्नस्तस्माच्छदांसीत्याचक्षते । ' ' ते छन्दोभिरात्मा-नमाच्छादयन्, यदेभिराच्छादयन्, तच्छन्दसां छन्दस्त्वम् । ' ते छन्दोभिरात्मानं छादयित्वोपा-यन्, तच्छन्दसां छन्दस्त्वम् । ' ' छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः । ' ‘ गायत्रेण छन्दसा त्वा छादयामि ' इत्याद्यसकृन्निर्वचनश्रवणादाच्छादकस्य छन्दस्त्वं लभ्यते, नत्ववच्छेदस्य । आच्छादकानामवच्छेदकत्वसंभवेऽपि अवच्छेदकानामाच्छादकत्वासंभ-वात् । अत एव तु लोकेऽपि मानस स्तुलितकस्य वा छादकत्वाप्रसिद्धिः – इति चेन्न:, अप्रसिद्धेरप्रसिद्धेः । तथा हि - केयमप्रसिद्धि:? । लौकिकानामप्रतिपत्तिर्वा, स्वरूपतोऽ-सत्त्वं वा? । नाद्यः, न हि लौकिकानामप्रतिपत्त्या प्रमाणसिद्धोऽर्थः शक्यमनभ्युपगन्तुम्; प्रतिपत्तिमात्रेण वा प्रमाणान्तरैरसिद्धः शक्यं स्वीकर्तुम् । व्यवहारसिद्धिप्रवणा हि लौकिका न वस्तुसत्त्वमपेक्षन्ते । ‘ शब्दज्ञानानुपाती वस्तुशून्यो विकल्प ' इति पातञ्जलोक्तरीत्या विकल्पवृत्त्या व्यवहरतामसत्यप्यर्थे प्रतिपत्तिदर्शनात् । अत एवारूपत्वे प्रमाणतः सिद्धेऽपि हास्यशृङ्गारकीर्त्यादीनां शुक्लत्वं, प्रेमानुरागवीरादीनां रक्तत्वम्, क्रोधापकीर्त्यादीनां कृष्ण-त्वमनृतं व्यवहारतः प्रतिपद्यन्ते न तु सन्तमर्थम् ॥
( १ ) अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्य॑ रोहयो दि॒वि । दध॒ज्ज्योति॒र्जने॑भ्यः ॥१ ॥
( ऋ. ८ अ. ८ अ. १४ व. )
( २ ) प्र॒जाह॑ति॒त्रो अ॒त्याय॑मीयु॒न्य॑ न्या अ॒र्कम॒भितो॑ विविभ्रे ।
बृहद्ध तस्थौ भुवनेष्व॒न्तः पव॑मानो हुरित॒ आ वि॑वेश ॥
( ऋ. ६ अ. ७ अ. ८ व. )
( ३ ) इ॒दं श्रेष्ठ॒ ज्योति॑षा॒ ज्योति॑रुत्त॒मं वि॑श्वजिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
वि॒श्व॒भ्राड् भ्रजो महि॒सूर्यो॑ दृश उ॒रु प॑प्रये॒ सह॒ ओजो॒ अच्यु॑तम् ॥
( ऋ. ८ अ. ८ अ. २८ व. ) ( ४ ) ' एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA •
पृष्ठ 12
पाठ पढ़ें पाठ छिपाएँ
८ छन्दः शास्त्रम् स एष जातः स जनिष्यमाणः प्रत्यञ्जनास्तिष्ठति सर्वतोमुखः || ' ( यजु. ३२ अ. ३ क. ४ मं. )
( ५ ) एक एवाग्निर्बहुधा समि॑द्ध एकः सूर्यो विश्व॒मनु॒ प्रभू॑तः ।
एक॒वोषाः सर्व॑मि॒दं विभा॒त्येकं॒ वा इ॒दं विव॑भूव॒ सर्व॑म् ॥
( ऋ. ६ अ. ४ अ. २ ९ व. ) ( ६ ) ' सोमः पूषा च चेततुर्विश्वासां सक्षितीनाम् । देवत्रा रथ्योर्हिता ॥ ' ( सा. २ प्र. २ अ. ६ द. ) ( ७ ) ' अहं परस्तादहमवस्ताद् यदन्तरिक्षं तदु मे पिताभूत् । अहं सूर्यमुभयतो ददर्श अहं देवानां परमं गुहा यत् ॥ ' इत्येवमादिभिर्वेदप्रमाणैः सिद्धेऽपि सूर्यस्य स्थिरत्वे, पृथिव्याश्चलत्वे वैपरीत्वेनानूतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥ “ स एष वा न कदाचनास्तमेति, नोदेत्ति । तं यदस्तमेतीति मन्यन्ते, अह्न एव तदन्तमित्वा अथात्मानं विपर्यस्यते । रात्रीमेवावैस्तात् कुरुते, अहः परस्तात् ॥ अथ यदेनं. प्रातरुदेतीति मन्यन्ते — रात्रेरेव तदन्तमित्वा अथात्मानं विपर्यस्यते; अहरेवावस्तात् कुरुते, रात्रीं परस्तात् । स वा एष न कदाचन निम्लोचति ॥ " इत्येवमैतरेयादिश्रुत्या स्पष्टमेवाहो-. रात्रयोः पृथिवीगतिनिमित्तकत्वे सिद्धेऽप्यनृतं सूर्यगतिनिमित्तकत्वं सूर्यास्तमनम् । न व्यव-हारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥ एवं घटशब्दप्रयोजकाक़ाराकारितान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्यैकत्वात्तदभिन्नतयै-वैकत्वेन प्रतिपन्नस्य मृत्तिकाणुविलक्षणसंनिवेशात्मकघटरूपावच्छिन्नचैतन्यस्य घटत्वतया तदवच्छेदेन घटशब्दसंकेतसिध्या तत्तद्व्यवहारोपपत्तौ सिद्धायामपि समवायेनावयवेषूत्पन्नोऽ-वयवातिरिक्तोऽपूर्वः कश्चिदवयवी घटशब्दवाच्य इत्येवमनृतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥ किं बहुना? लोके हि सर्वत्रैवार्थे प्रतिपत्तिस्त्रिविधा दृष्टा - पारमार्थिकी, व्यावहारिकी, प्रातिभासिकी चेति । पारमार्थिकी, आर्थिकी, वास्तविकीत्यनर्थान्तरम् । व्यावहारिकी, औपयौगिकी, औपचारिकीत्यनर्थान्तरम् । प्रातिभासिकी, आध्यासिकी, वैकल्पिकीत्यनर्था-न्तरम् । ' यथा काचे स्फटिकबुद्धिराध्यासिकी, काचे काचबुद्धिरौपयौगिकी, काचे मृद्बुद्धिः रार्थिकी । एवं पृथिव्यपेक्षया सूर्यस्य कूटस्थता वास्तविकी पृथिवीं परितः सूर्यस्य वार्षिकगतिः पूर्वाभिमुखीना औपचारिकी, पृथिवीं परितः सूर्यस्य दैनंदिनगतिः पश्चिमाभि-मुखीना प्रातिभासिकी — इत्येवं सर्वत्र त्रैविध्यं द्रष्टव्यम् । तत्र प्रातिभासिक्या मिथ्यात्वमेव, वास्तविक्याः सत्यत्वमेव, व्यावहारिक्याः सत्यासत्यत्वम् । अन्यथा सतोऽपि व्यवहार-सिद्ध्यनुरोधेनान्यथा प्रकल्पितरूपस्य लोके उपयोगदर्शनात् ॥ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 13
पाठ पढ़ें पाठ छिपाएँ
भूमिका ९ एतदभिप्रायेणैव ' नानृतं वदेत् ' इति प्रतिज्ञाय - " अथो खल्वाहुः - कोऽर्हति मनुष्यः सर्वं सत्यं वदितुम् । सत्यसंहिता वै देवाः, अनृतसंहिता मनुष्याः । " इत्यैतरेयके, ' द्वयं वा इदं न तृतीयमस्ति सत्यं चैवानृतं च । सत्यं देवाः, अनृतं मनुष्याः । ' इति शतपथश्रुतौ च व्यवहारसापेक्षत्वेऽनृतनिष्ठत्वान्मनुष्यत्वम्, वस्तुसद्रूपसापेक्षत्वे तु सत्यनिष्ठत्वाद्देवत्वमुपदिष्टं महर्षिभिः । अत एव च - ' शतं वर्षाणि जीव्यासमित्याह । तदेवन्नाद्रियेत । अपि हि भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति ॥ ' इति शतपथश्रुतौ स्पष्टमेव लौकिकप्रतिपत्ति-मूलकव्यवहारस्यानादरणीयत्वमुपदिश्यते । तस्मान्त्रैतादृशलौकिकप्रतिपत्त्यभावमनुरुध्य कश्चि-दर्थः प्रमाणसिद्धः शक्यते प्रत्याख्यातुमिति दिक् । अथ न स्वरूपतोऽसत्त्वमप्रसिद्धिः । छादकत्वस्यैव छन्दः पदशक्यतावच्छेदकतया तत्र तदसत्त्वानवक्लृप्तेः । न च स्यादेवमाच्छादकत्वं यदि तावच्छन्दस्त्वं मानादीनां प्रमाणसिद्धं स्यादिति वाच्यम्; ' मा च्छन्दः प्रमा च्छन्दः प्रतिमा च्छन्दः ' इति श्रुत्या छन्दस्त्वस्य तेषु वचनत: सिद्धेः । संख्यादिपरिच्छेदे माशब्दस्य, तत्तदर्थायतनभूतायामा-शयपदवाच्यायां वस्तुप्रतिष्ठायां प्रमाशब्दस्य, तुलितके च प्रतिमाशब्दस्य व्याख्यास्यमान-त्वात् । नन्वेवं तर्हि तदुभयवचनप्रामाण्यान्मानत्वं प्रतिष्ठात्वं तुलितकत्वमथाच्छादकत्वं चैतानि शक्यतावच्छेदकानि स्युः! न त्वेतावतापि मानाद्यवच्छेदानामाच्छादकत्वं सिद्ध्य-तीति चेत् ——न, ‘ यदेभिराच्छादयन् तच्छन्दसां छन्दस्त्वम् ' इत्येवमादीनां छादकत्वस्यैव छन्दः पदप्रवृत्तिनिमित्तत्त्वमभ्युपगन्त्रीणां श्रुतीनां छन्दः पदाभिधेयेषु तेष्ववच्छेदेष्वा-च्छादकत्वस्यास्तित्वबोधने एव तात्पर्यावसायात् । तत्तर्हि कीदृगाच्छादकत्वमवच्छेदानामिष्ट-मिति चेत्, –नेतरदितराच्छादकधर्मादिति गृहाण । ननु च भो: - येनैव सता तद्वस्तुस्वरूपं न प्रतिपद्यते, तिरोहितं भवति, तस्मिन्नन्तर्धानप्रधाने संवरणे आच्छादनशब्दो दृष्टः । ‘ घटाच्छादितः प्रदीपः, वस्त्राच्छादितं द्रव्यम्, रजसाच्छादिते भानौ, ' स्तनयुगपरिणाहाच्छादिना वल्कलेन'-' न हया न रथो वीर! न यन्ता मम दारुकः । अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥ ' ( म.भा ० वन. २०।२४ ) इत्यादिषु दीपादीनां घटादिद्रव्यैस्तिरोधानेनाप्रतिपत्तिदर्शनात् । प्रकृते पुनर्नैतदेवं दृश्यते । न चावच्छेदेन सता तदवच्छिन्नं किंचिदन्तर्धत्ते, तस्मादनाच्छादका अवच्छेदाः प्रतिपद्यन्ते— इति चेत्सत्यम् । उच्यते — न केवलमन्तर्धानमेवाच्छादनशब्दस्य विषयः, किं तर्हि बहवो विषयास्तच्छब्दस्योपलभ्यन्ते । तथा हि- ' अन्नाच्छादनभागयम् ', ' आच्छाद्य चार्हयित्वा च श्रुतशीलवते स्वय ' मित्यादिषूपसंव्यानम् १, ' आभूषाणाच्छादिताङ्गी ' ' छदयति सुरलोकं यो गुणैर्यं च युद्धे सुरयुवतिविमुक्ताश्छादयन्ति स्रजश्च । ' इत्यादिषु पर्याधानम् २,. ‘ चन्दनच्छन्नगात्रः ’, ‘ तैलाच्छन्नं कलेवरम् ', ' घृताच्छन्नं व्यञ्जनम् ' इत्यादिषु चर्चितकत् ३, ‘ मेघच्छन्नेऽह्नि दुर्दिनम् ’, ‘ कण्टकच्छन्नमार्गेषु ' इत्यादिष्ववरोध: ४, ' ईशावास्यमिदं सर्वम् ', CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 14
पाठ पढ़ें पाठ छिपाएँ
१० छन्दःशास्त्रम् ' आच्छाद्यते त्वद्यशसा समस्तम् ' इत्यादिषु व्याप्तिः ५, ' छादयन्नाननं वेगैरर्दयन्नंङ्गभञ्जनैः । निरुच्यते छर्दिरिति दोषो वक्रं प्रधावित: ' । ( सुश्रुतः ) इत्येवमादिषु दूषितकरणम् ६, ' निचितं तु हंसपक्षैः कृकवाकुमयूरसारसानां च । दौकूलेन नवेन तु समन्ततश्छादितं शुक्लम् ॥ दण्डार्धविस्तृतं तत्समावृतं रत्नभूषितमुदग्रम् ॥ नृपतेस्तदातपत्रं कल्याणकरं विजयदं च ॥ अन्येषामुष्णघ्नं प्रसादपट्टेर्विभूषितशिरस्कम् । व्यालम्बिरत्नमालं छत्रं कार्यं च मायूरम् ' || ( बृहत्संहिता । ) इत्येवमादिषु स्वरूपकरणम् ७, ' अग्निमन्तश्छादयसि ' ( अथ. ९ ।३।१४ ), ‘ अन्नं छादयेदाज्येन ' ( कात्यायनश्रौतसूत्रम् ४।६।५ ) इत्येवमादिषूर्जनम् ८, ‘ छन्ने स्थाने समासीनः ’ इत्यादिषु विविक्तम् ९, ' गर्गश्च गोकुले तत्र वसुदेवप्रणोदितः । प्रच्छन्न एव गोपानां संस्कारानकरोत्तयोः ॥ ' ( विष्णुपु. ५. अं. ६ अ. ) इत्यदावज्ञानत्वम् १०, ‘ गायत्रेण छन्दसा त्वा छादयामि, त्रैष्टुभेन छन्दसा त्वा छादयामि, छायन्वि ह वा एनं छन्दांसि पापात्कर्मणः इत्यादिषु गोपनं च ११, इत्येवमनेके विषयाश्छादनस्य भवन्ति । न चैतेषु छाद्यस्यान्तर्धानमेव दृष्टमथाप्यनुवर्तते स आच्छादनशब्दः । तदित्थं सिद्धेऽनैकार्थ्ये यदिदं गोपनापरपर्यायमाच्छादनं रक्षाभिप्रायं तदिहावच्छेदकानुगतं द्रष्टव्यम् ॥ अवच्छेदावच्छिन्नस्य स्वरूपतोऽप्रच्यवनेन सुगुप्तत्वात् ॥ अथान्यः प्रत्यवतिष्ठते — नेदमनैकार्थ्यं युक्तम्; प्रकरणोपलभ्यार्थे शक्तिस्वीका-रानावश्यकत्वात् । वस्तुतस्तु अपवारणे छादयतिः प्रतिपन्नः । तच्च द्विविधम् — एकदिग्वर्तित्वे आवरणमथानेकदिग्वर्तित्वे संवरणं च । इदं च संवरणं वस्तुतः स्वरूपाननुगतमपि द्वेधा — पृथग्दृष्टमपृथग्दृष्टं च । तथा हि - मेघच्छत्रभित्त्यादीनामावरकत्वेनोपसंवीतघटादीनां बहिरवस्थानां दिग्देशकालसंख्यापरिमाणादीनां व्याप्यवर्तिनां च संवरकत्वेन प्रतिपत्तिः । अनेकदिग्वर्तिनोऽप्येकदिग्वर्तित्वाव्यतिरेकात् संवरणेऽप्यावरणशब्दो लब्धावसरः इत्यन्यदे-तत् । उभयोरेवानयोर्द्दष्टिसम्बन्धप्रतिबन्धकत्वमेवाच्छादनशब्दप्रवृत्तिनिमित्तम् । प्रतिबन्धकता-वच्छेदकं च दृग्दृश्यान्तरालवर्तित्वं व्यवधानापरपर्यायम् । मेघच्छन्नेऽह्रीत्यत्राहः शब्दस्याहः प्रवर्तकसूर्यपरतया सूर्यांऽशुपरतया वा विवक्षणात्तददर्शनं मेघावरणप्रयोज्यं द्रष्टव्यम् । ईशावास्यमित्यत्र तु नायमाच्छादनकर्मा वसिधातुः, किं तु निवासार्थः, ' तत्सृष्ट्वा तदेवानुप्राविशत् ’ ‘ नेन्द्रा॑दु॒ते प॑वते॒ धाम॒ किंच॒न ' इत्यादिश्रुत्यन्तरैकवाक्यतया सर्वत्रैवास्य विद्यमानत्वे तत्तात्पर्यात् । अथवा — अस्त्वेवाच्छादनार्थः । तात्त्विकदृष्टेर्महर्षेर्यत्र यत्रैव दृष्टिः प्रवर्तते, तत्र तत्रैव परमेश्वरादन्यन्न दृश्यते - इत्येकस्य तस्य द्वैतदृष्ट्यपवारकत्वेन विवक्षणादाच्छादकत्वोपपत्तेः । एतेन ' आच्छाद्यते त्वद्यशसा समस्तम् ' इत्यादयो व्याख्याताः । ‘ गूढालंकारवाक्येऽर्थः प्रच्छन्नः ’ इत्यादावप्यनुभवात्मकदृष्ट्यपवारणादेवार्थस्य तत्त्वमुपपद्यते— इति विवेक्तव्यम् । तथा च छन्नाच्छादितादीनां प्रतिबद्धदर्शनार्थकत्वादवच्छेदावच्छिन्नानां चानवरुद्धदर्शनत्वेनाभिप्रेतत्वान्नावच्छेदानाच्छादकत्वम्, अनाच्छादकत्वाच्च नावच्छेदश्छन्द इति चेत्; अत्रोच्यते — नैकान्ततस्तावद् दृगवरोधकस्यैवाच्छादकत्वं वक्तुं शक्यम्, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 15
पाठ पढ़ें पाठ छिपाएँ
भूमिका ११ स्थितवतां पुंसां छन्ने स्थाने तिष्ठाम इति प्रतिपत्तिदर्शनात् । ' न च वर्षातपात् कृच्छ्रं छत्राच्छादितवर्ष्मण: ', इत्यादौ च सर्वात्मना दृश्यमानस्यापि पुंसश्छत्रछन्नत्वोपचारात् । एवं दृष्टिप्रतिबन्धनैरपेक्ष्येऽपि केवलं वर्षातपावश्यायाद्यवरोधकानां गृहच्छदीनां चन्द्रातपादीनां वाच्छादकत्वमुपचर्यते । अत एव च ' काचेनाच्छादिते दीपे न लब्धावसरोऽनिलः ' इत्येवमादयो व्यवहारा अपि सिद्धार्थाः । तस्मादितरसंबन्धापवारकत्वमेवाच्छादकत्वमिति निष्कर्षः । विशेषधर्मावच्छिन्ने शक्तिमभ्युपगम्य विशेषान्तरे लाक्षाणिकत्वस्वीकारापेक्षया सामान्यधर्मावच्छिन्ने शक्तिस्वीकारस्य न्याय्यत्वात् । इतरत्वं च कचिद् दृष्टेः, क्वचित्तु नाष्ट्राख्यानां प्रतिविघातकानामर्थानाम् । तत्र दृष्टिसम्बन्धापवारणे छन्नस्य गुप्तत्वमप्रकाशात्मकं गूढत्वापरर्यायम् । दोषसम्बन्धापवारणे तु तस्य गुप्तत्वं नाष्ट्रागृहीतत्वात्मकं रक्षितत्वापरपर्यायमिति तात्पर्यभेदोऽध्यवसीयते । तथा चावच्छेदानामप्यवच्छिन्नस्वरूपानु-गतयावदवयवप्रच्यावकदोषसम्बन्धापवारकतया सिद्धमेव स्वरूपच्छादकत्वं छन्दः शब्दप्रवृत्तौ निमित्तं द्रष्टव्यम् । दृश्यते हि केनचिदवच्छेदेनावच्छिन्ने ऋगादौ वाग्विशेषे ब्राह्मणादावर्थविशेषे वा तत्स्वरूपोपघातकविरुद्धावच्छेदसम्बन्धापरवारणात्मकगुप्तिसाधनतया तदवच्छेदे छन्दोव्यपदेशः । इदं तु बोध्यम् - आच्छादकत्वाविशेषेऽप्येकदिग्वर्तिन्यावरणे छन्दः शब्दो नोपचर्यते । संवरण एव छन्दतेः प्रतिपन्नत्वात् । तत्राप्यपृथग्दृष्टे व्याप्यवर्तिन्येवायं छन्दतिः प्रायेण विषयं लभते । तथा च " वासुदेव! सर्वच्छन्दक! हरिहय! हरिमेधः! महायज्ञ! ' इति महाभारतप्रयोगो भवति । छन्दयति संवृणोति रक्षति स रक्षक इत्यर्थात् । तदित्थमैकार्थ्येऽपि सिद्धमवच्छेदानामाच्छादकत्वाच्छन्दस्त्वमित्यलम् ॥ अथ के तेऽवच्छेदा इति विचार्यते । गुणसमवायो हि वस्तुशब्देनाख्यायते । गुणो धर्मो भाव इत्यनर्थान्तराणि । तेषां समवायश्चैकात्म्येनावस्थानम् । लोकव्यवहारे च समवायस्य प्राधान्यात्तदनुरोधेन तदन्तः प्रविष्टानामर्थानां गुणत्वम् । समवाये चैते ध्रियन्ते तैर्वा समवायो ध्रियत इत्येषां धर्मत्वम् । तैरेव सद्भिस्तद्वस्तु तदितरवस्तुवैलक्षण्येन भवतीत्येषां भावत्वम् । सर्वेषां वस्तुधर्माणां समवायेन सत्ताग्रहणं सत्तैव वा भावः । तात्स्थ्यात्तदनतिरेकाच्चासौ समवायोऽपि भावशब्देन सत्त्वशब्देन चोपचर्यते— इत्यन्यदेतत् । एते वस्तुधर्माः पञ्चधा व्यवच्छिद्य गृह्यन्ते - आश्रयभावाः, प्रयोजकभावाः, स्थायिभावाः, व्यञ्जकभावाः, संचारिभावाश्चेति । तत्रान्नसंमिते वस्तुन्यग्नेः, अप्संमिते वस्तुनि सोमस्य, वायुसंमिते वस्तु - नीन्द्रस्य, तेजः संमिते वस्तुन्यादित्यस्यालम्बनत्वात्तस्य तस्य तत्र तत्राश्रयभावत्वम् । “ अग्निरस्मि जन्मना जातवेदा धृतं मे चक्षुरमृतं म आसन् । ” ( ऋ ० ३. अ. ३ अ. २७ व ) इति मन्त्रवर्णकमनुरुध्यतां तु सर्वत्रैवाग्नेरेवाश्रयभावत्वमिति मतमेतत् । अथ-“ सवित्रा प्रसवित्रा, सरस्वत्या वाचा, त्वष्ट्रा रूपैः, पूष्णा पशुभि, रिन्द्रेणास्ये, CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 16
पाठ पढ़ें पाठ छिपाएँ
१२ छन्दः शास्त्रम् बृहस्पतिना ब्रह्मणा, वरुणेनौजसा, ऽग्निना तेजसा, सोमेन राज्ञा, विष्णुना दशम्या, देवतया प्रसूतः प्रसर्पामि ॥ ” ( वाजसनेयि. अ. ३. १० य. ३० ) । इत्येवमादिमन्त्रबोधितानां शरीरगतभिन्नभिन्नकर्माधिकारविनियुक्तानां तेषां तेषां देवानां प्रयोजकभावत्वम् । प्रयोजकत्वं च-“ सोमो राजा वरुणो देवा धर्मसुवश्च ये । ते ते वाचं सुवन्ताम् । ते ते प्राणं सुवन्ताम् । ते ते चक्षुः सुवन्ताम् । ते ते श्रोत्रं सुवन्ताम् । " इत्यादिमन्त्रैरुपलक्षणविधया तत्तद्धर्मविशेषान् प्रत्येवानुसंधेयम् । अत एव -“ सोमस्य त्वा द्युम्नेनाभिषिञ्चामि, अग्नेस्तेजसा, सूर्यस्य वर्चसा इन्द्रस्येन्द्रियेण, मित्रावरुणयोर्वीर्येण, मरुतामोजसा । ” इति ( तै.सं. ) एवमादिमन्त्रैः सोमाद्यधिदैवतानामध्यात्मं द्युम्नादिधर्मरूपेण परिणतावस्थत्वमेव तत्तद्धर्मप्रयोजकत्वं बोध्यते । एत एव च देवप्रयुक्ता धर्मास्तदात्मनः स्वभाव इत्युच्यते
तस्य दैविध्यमाहोज्ज्वलदत्तः-' बहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्तितः ।
निसर्गश्च स्वभावश्च इत्येष भवति द्विधा ॥ १ ॥
निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु स्वतः सिद्धः स्वरूपो भाव उच्यते || २ || ' एतत्संस्कारात्मकनिसर्गसिद्ध्यर्थमेवाध्ययनतपश्चर्यायोगाभ्यासादिकर्माण्युपयुज्यन्त इत्यप्यवधेयम् ॥ उपादानद्रव्याणि स्थायिभावाः । एवमेते त्रयो भावा उक्ताः, ते च प्राणि-नामात्मभूता इष्यन्ते । तत्रापि आश्रयभावो जीवात्मा, प्रयोजकभावोऽन्तरात्मा, स्थायि-भावो भूतात्मा । यस्य सत्तया यस्य सत्ता स तस्यात्मा । स च प्रत्यर्थं त्रेधेति तत्र तत्रोपेक्ष्यम् । अथ येऽनात्मभूता अप्यपृथक्भूता विशेषतो व्यभिचारिणोऽपि सामान्यतो नित्यानुगता बाह्यार्थास्ते व्यञ्जकभावा दिग्देशकालसंवित्संख्यापरिमाणसाधर्म्याणि । एत एव व्यञ्जकभावा इहावच्छेदकशब्देनेष्यन्ते । एतैरवच्छिन्नमेव किंचिद्वस्तु व्यज्यते । तत्र परिमाणं नामावयवसंनिवेशानुरोधेन जायमानमणुत्वमहत्वह्रस्वत्वदीर्घत्वादिरूपम् । साधर्म्य तु समानद्रव्यगुणकर्मकत्वम् । नैतान्यनपेक्ष्य वस्तु किंचिदपि स्वरूपं धत्त इत्यवच्छेदकानामेषां तद्वस्तुस्वरूपस्थितिनियामकप्राणमात्रारूपाणां तद्वस्तुच्छन्दस्त्वमिष्यते । अथान्ये व्यभिचारिण: सर्वे धर्माः संचारिभावाः । ' यथा आर्द्रत्वोष्णत्ववेशभूषादयः सांयौगिकार्थाः । एतेऽप्यनात्मभूता एव । तेषां सत्त्वास॒त्त्वयो॒स्तद्वस्तुस्वरूपस्य तटस्थत्वात् । तदित्थं प्रत्यर्थं धर्माणां पञ्च CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 17
पाठ पढ़ें पाठ छिपाएँ
भूमिका १३ प्रकरणानि । तत्र चतुर्थप्रकरणपदार्था अवच्छेदा इति संसिद्धम् ॥ तत्र तावद्दिग्देशकालसंवित्संख्याप्राधान्येन गृहीतास्तेऽवच्छेदा इतरे गुणा वा तद्वस्तुनो व्यक्तिः । एतेषां भेदकानां भेदादेव पृथगात्मत्वोपचारात् । अथ परिमाणप्राधान्येन गृहीतास्ते तद्वस्तुन आकृतिः । एभिरेव भेदकैर्गृहीतैरस्तीदमिदमिति बुद्धौ तदा करणात् । एवं साधर्म्यप्राधान्येन ग्रहणे ते तद्वस्तुनो जाति: । इतरकालिकेतरघटाकाराकारितान्त: करवृत्त्या प्रत्युत्पन्नेतद्धटाकाराकारितान्त: करणवृत्तेः सामान्येनोदयात्तत्प्रयोजकस्य तद्वस्तुगत-साधर्म्यापलक्षितपरिमाणादेश्चैकत्वाभिमानात् । तत्र साधर्म्यं समानप्रसवप्रकारनिबन्धन-मेवेह विवक्षितमित्यतस्तत्र जातिशब्दो रूढः । अत एव मृद्गवके गोसाजात्यनिरासः । जातिरखण्डोपाधिरिति तु केषांचिदपदार्थकल्पनामात्रम् । एतासां व्यक्त्याकृतिजातीनां सम-वायस्तु पदार्थः । यत्तु “ धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निः श्रेयसम् । ” इत्यौलूक्यसूत्रप्रामाण्याद्रव्यादीनां षण्णां पदार्थत्वमीक्षमाणा नव्यनैयायिका गुणादावाकृत्याद्यसमन्वयाद् व्यक्त्याकृतिजातिसमवायस्य ...पदार्थत्वे विप्रतिपद्यन्ते तदेतत्सूत्रार्थानभिज्ञानात् । द्रव्यगुणकर्मणां सत्तावतामेव सामान्यवि-शेषाभ्यां ये समवायास्तेषामेव पदार्थतायास्तेन सूत्रेण विवक्षणात् तदविरोधात् । दृश्यते ह्येतस्मिन्नेवार्थे तदुत्तरयावद्ग्रन्थस्वारस्यम् । अत एव नहि षट् पदार्थाः सन्तीति शास्त्रार्थः । किंतु द्रव्ये गुणकर्माणि द्रव्यगुणकर्माणि वैकत्र समवयन्ति तस्य सत्तासत्त्वभावादिपदप्रतीत-स्यार्थस्य पदार्थत्वं द्रष्टव्यम् । स खलु भावो यद्यप्येक एव, तथापि कर्मगुणादीनां सामान्यविशेषाभ्यां तारतम्यात् तदुपलक्षिताः समवाया भिद्यन्ते । तस्माद्बहवः पदार्था घटपटादयः सिद्धाः | अस्ति हि घटो वा पटो वान्यो वा द्रव्यगुणकर्मणामेव स स समवायः । तथापि केचिद्गुणा जात्याकृतिरूपाः समाना भवन्ति केचित्पुनर्व्यक्तिधर्मा विशि-ष्यन्ते । अत एवैकजातीया अपि ते तेऽर्थाः परस्परं भिद्यन्ते । तस्माद्द्रव्यगुणकर्मणां समवाय एव प्रकारान्तरविवक्षायां व्यक्त्याकृतिजातीनां समवाय आख्यायते । अत एव ‘ “ जात्याकृतिव्यक्तयः पदार्थः " - इत्युत्तरेणौलूक्यसूत्रेणैकवाक्यता संपद्यते । समवायस्तु भिन्नानामैकात्म्येनावस्थानमित्युक्तम् । तन्निरूपितैव च पदे शक्तिरभ्युपेयते - इत्यतस्तत्र पदार्थशब्दः । पदनिष्ठशक्तिनिरूपकत्वस्यैव पदार्थत्वेन विवक्षितत्वात् । अथवोप-याच्यमानत्वादर्थः । प्रयोजनम् । यमुद्दिश्य यत्प्रवर्तते स तस्यार्थः । तथा च यदर्थं पदप्रयोगः स पदार्थः । व्यक्त्याकृतिजातिसमवायं प्रत्याययितुं हि पदप्रयोग इति स पदार्थ: । तासां च व्यक्त्याकृतिजातीनामुद्देशलक्षणपरीक्षाभिः स्वरूपं निरूपयितुं प्रवर्तन्ते पारमर्षसूत्राणि— ‘ व्यक्त्याकृतिजातयस्तु पदार्थः । व्यक्तिर्गुणविशेषाश्रयो मूर्तिः । आकृतिर्जातिलिङ्गा-ख्या । समानप्रसवात्मिका जातिः । शब्दसमूहत्यागपरिग्रहसंख्यावृद्धयुपचयवर्णसमासानु-बन्धानां व्यक्तावुपचाराद्व्यक्तिः । आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः । व्यक्त्या-कृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जाति: । ' इति । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 18
पाठ पढ़ें पाठ छिपाएँ
१४ छन्दः शास्त्रम् तदित्यं व्यक्त्याकृतिजात्याश्रये पदार्थे बहूनां धर्माणां सद्भावेऽपि यं कंचिदेकमेवार्थमुपादाय तत्सम्बन्धानुबन्धेन गुणिनमर्थं ग्राहयितुं पदानि संकेत्यन्ते । यथा - ' मदीयः श्वेतः कृष्णकर्णो महारवस्तुरगः सुलक्षणः । ' इत्यत्र मत्सम्बन्धं श्वेतरूपं कृष्णकर्णत्वं शब्दमहत्त्वं त्वरागतिं शुभलक्षणसम्बन्धं च विप्रकीर्ण तं तमर्थ निमित्तीकृत्य प्रवृत्तानां तेषां तेषां शब्दानामा-काङ्क्षावशात् सामानाधिकरण्यं भासते । एवमेकमेवार्थमुपादाय प्रवृत्तयोरपि छन्दश्छा-दकशब्दयोराकाङ्क्षाविशेषात् स्वरूपसंरक्षकत्वस्य स्वरूपतिरोभावकत्वस्य चान्यत्रान्यत्र विषयीकरणात् वैयधिकरण्यं भासते । तदेवमुच्चावचा पदार्थमर्यादा भवतीत्यप्यनुसंधेयम् ॥ तत्रैव व्यक्तिभावप्रधानं दिग्देशकालसंवित्संख्यारूपमवच्छेदं परिच्छेदसीमा-मर्यादाभिविधिनियतिनीतिरीतिव्यवस्थामिति मानापरपर्यायं माशब्देन, आकृतिभावप्रधान-मणुत्वमहत्त्वह्रस्वत्वदीर्घत्वनियामकसंनिवेशरूपमवच्छेदं प्रतिष्ठायतनाशय परिमाण-प्रमाणापरपर्यायं प्रमाणाभिधायिना प्रमाशब्देन, जातिभावप्रधानं च समानद्रव्यगुणकर्मरूपम-वच्छेदं साधर्म्यसामान्यसादृश्यसारूप्यतुलितकप्रतिमितिप्रतिमानापरपर्यायं प्रतिमानाभिधा-यिना प्रतिमाशब्देनोल्लिख्य छन्दस्त्वं विधीयते । मा च्छन्दः प्रमा च्छन्दः, प्रतिमा च्छन्द इति ।
दृश्यते च-अस्तभ्राद् द्यामृषभो अन्तरिक्षममिमीत वारेमाणं पृथिव्याः ।
आसीदद् विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि ॥१ ॥
गायत्रेण प्रतिमिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२ ॥
( ऋ. २ अ. ३ अ. १८ व. ) इत्यादिषु दैशिकसांख्यानिकमर्थादाभिप्रायकत्वं माशब्दस्य, ' यस्य भूमिः प्रमा अन्तरिक्षमुतोदरम् । दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ ' ( अथर्वमं ० ) इत्यादिषु प्रतिष्ठाभिप्रायकत्वं प्रमाशब्दस्य– ' संवत्सरप्रतिमा वै द्वादश रात्रयः || ' ( ब्राह्मणम् ) ‘ द्वादश वै रात्रयः संवत्सरस्य प्रतिमा ॥ ' ( ब्राह्मणम् ) इत्यादिषु तुलितकाभिप्रायकत्वं प्रतिमाशब्दस्य । तथा च मा- प्रमा- प्रतिमा-शब्दैरुल्लिखितस्य त्रिविधस्याप्यवच्छेदस्य वस्तुस्वरूपसंवरकत्वेनाभिप्रेतस्य छन्दस्त्वं वचनतः सिद्धं भवति । ननु प्रमाप्रतिमयोरपि छन्दस्त्वेऽभ्युपगम्यमाने— कासीत् प्रमा प्रतिमा किं निदानमाज्यं किमासीत् परिधिः क आसीत् । CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 19
पाठ पढ़ें पाठ छिपाएँ
भूमिका १५ छन्दः किमासीत् प्रउगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥ ( ऋ. ८ अ. ७ अ. १८ व. ) इति मन्त्रे प्रमाप्रतिमयोश्छन्दः पार्थक्येनोपादानं विरुध्यत इति चेत्तन्न ।
" तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे ।
इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥
इत्येवमादिषु विशेषोपादाने सामान्यशब्दस्य विशेषेतरपरत्ववदिहापि छन्दः शब्दस्य मानावच्छेदतात्पर्यकत्वेन चारितार्थ्यात् । वस्तुतस्तु न सातत्वेन प्रतिष्ठानत्वे कतकत्वेन वा छन्दस्त्वमिष्यते अपि तु स्वरूपसंवरकत्वेनेति पदार्थतावच्छेदकभेदादपौनरुक्त्यम् ॥ ननु मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः, ' इयं वै मा, अन्तरिक्षं प्रमा, असौ प्रतिमा, इमानेव लोकानुपधत्ते ' इत्यग्निचितिमन्त्रश्रवणाल्लोकत्रयाभिप्रायतया परिभाषि-तैर्माप्रमाप्रतिमाशब्दैर्मानाद्यवच्छेदग्रहणमयुक्तमिति चेन्न । चैत्रमैत्रौ नृपतेर्हस्तावितिवत्तेषां गौणशब्दत्वात् । अन्यथा — ‘ अथ जुहूम्, अथोपभृतम्, अथ ध्रुवाम् । असौ वै जुहूः, अन्तरिक्षमपभृत्, पृथिवी ध्रुवा । इमे वै लोकाः स्रुचः । वृष्टिः संमार्जनानि । वृष्टिर्वा इमाँल्लोकाननुपूर्वं कल्पयति । ते ततः क्लृप्ताः समेधन्ते । ' ( तै.ब्रा. इत्यादिभिरुपचारविशेषैः स्रुगादयोऽपि स्वार्थादपभ्रश्येरन् ॥ एवम्-मा छन्दः, तत्पृथिवी, अग्निर्देवता ॥ १ ॥
प्रमा छन्दः, तदन्तरिक्षम्, वातो देवता ॥ २ ॥
प्रतिमा छन्दः, तद् द्यौः, सूर्यो देवता ॥ ३ ॥
अस्त्रीवि छन्दः, तद्दिशः, सोमो देवता ॥ ४ ॥
विराट् छन्दः, तद्वाक्, वरुणो देवता ॥ ५ ॥
गायत्री छन्दः, तदजा, बृहस्पतिर्देवता ॥ ६ ॥
त्रिष्टुप् छन्दः, तद्धिरण्यम्, इन्द्रो देवता ॥ ७ ॥
जगती छन्दः, तद्गौः, प्रजापतिर्देवता ॥ ८ ॥
अनुष्टुप् छन्दः, तद्वायुः, मित्रो देवता ॥ ९ ॥
उष्णिहा छन्दः, तच्चक्षुः, पूषा देवता ॥१० ॥
पङ्क्तिछन्दः, तत्कृषिः, पर्जन्यो देवता ॥११ ॥
बृहती छन्दः, तदश्वः, परमेष्ठी देवता ॥ १२ ॥
३. ३ प्र. १ अ. ) CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 20
पाठ पढ़ें पाठ छिपाएँ
१६ छन्दः शास्त्रम् इत्यापस्तम्बश्रौत ( १६।२८।१ ) सूत्रोक्ते प्रकरणविशेषे माप्रमादिवद् विराड्गायत्र्यादीनामपि वागजाद्यभिप्रायतया प्रयोगात् समानन्यायात् प्रकृतार्थपरत्वं व्याहन्येत । अत एव -“ सावित्रैरभ्रिमादत्ते प्रसूत्यै । चतुर्भिरादत्ते, चत्वारि वै छन्दांसि, छन्दोभिरेवादत्ते । अथो ब्रह्म वै छन्दांसि । ब्रह्मणैवादत्ते । इयं वै गायत्री । अन्तरिक्षं त्रिष्टुप् द्यौर्जगती, दिशोऽनुष्टुप् । सवितृप्रसूतो वा एतदेभ्यो लोकेभ्यश्छन्दोभिर्दिग्भ्यश्चाग्नि संभरति ॥ इत्य-ग्निचितिप्रकरणा? इत्युक्तवा--" अथो देवच्छन्दसानि वा एतानि, देवच्छन्दसान्येवोपधत्ते । द्वादश द्वादशाभित उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती, बृहती खलु वै छन्दसां स्वाराज्यमानशे । ” इत्यादिना लोकानां देवच्छन्दस्त्वं बृहतीच्छन्दस्त्वं चोपपादितम् । षट्त्रिंशद-क्षरावच्छिन्नत्वस्यैव बृहतीपदार्थत्वाद् वाग्बृहतीवदेषां लोकानामपि तत्तदग्नीन्द्रादिदेवावच्छे-दकानां तल्लक्षणलक्षितत्वेन तथा तथा व्यवहर्तुं सुशकत्वात् । तथा चेत्थं लोकानां प्रतिपन्ने छन्दस्त्वे छन्दोऽनुगतशब्दास्तत्रोपचर्यन्ते । तत्राप्यनुप्रजननसम्बन्धात्, प्रक्रमसामा-न्याद्, अर्थयोगाच्च लोकत्रयेऽवच्छेदत्रयशब्दसम्बन्धः । तथा हि-‘ “ प्रजापतिरकामयत — प्रजायेयेति । स एतं दशहोतारमपश्यत् । तेन दशधात्मानं विधाय दशहोत्रातप्यत । तस्य चित्तिः स्रुगासीत्, चित्तमाज्यम् । तस्यैतावत्येव वागासीत् । एतावान् यज्ञक्रतुः । स चतुर्होतारमसृजत । सोऽनन्दत् - असृक्षि वा इममिति । तस्य सोमो हविरासीत् । स चतुर्होत्रातप्यत । सोऽताम्यत् । स भूरिति व्याहरत् । स भूमिमसृजत— अग्निहोत्रं दर्शपूर्णमासौ यजूंषि ॥१ ॥
स द्वितीयमतप्यत । सोऽताम्यत् । स भुवरिति व्याहरत् । सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि । ( २ ) स तृतीयमतप्यत । सोऽताम्यत् । स सुवरिति व्याहरत् । स दिवमसृजत । अग्निष्टोममुक्थमतिरात्रमृचः । ( ३ ) एता वै व्याहृतय इमे लोकाः । इमान् खलु वै लोकाननु प्रजाः पशवश्छन्दांसि प्राजायन्त । इति तैत्तिरीयारण्यकश्रवणात् प्रथमे तपसि भूलोकमनु छन्दसः प्रथमस्य मानात्मनः, द्वितीये तपसि भुवर्लोकमनु छन्दसो द्वितीयस्य प्रमाणात्मनः, तृतीये तपसि स्वर्लोकमनु छन्दसस्तृतीयस्य प्रतिमानात्मनः प्रतिपत्तिरित्यनुप्रजननसंबन्धः । अतश्च यथा लोकेष्वयं प्रथमोऽन्तरिक्षं मध्यमोऽसावुत्तमस्तथावच्छेदेषु मानं प्रथमः, प्रमाणं मध्यमः, प्रतिमानमुत्तमः, इति प्रक्रमसामान्यम् । अथ दिग्देशकालसंख्यावच्छेदानां पृथिव्यायत्ततया प्रथमोपस्थिततया च. तत्र माशब्दे प्रवृत्ते- ' अयं वै लोको रथन्तरमसौ लोको बृहत् । अस्य वै लोकस्यासौ CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA