देवासुराख्याति — पृष्ठ 101–110
देवासुर ख्याति · पृष्ठ 101–110
पृष्ठ 101
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः [ ६१ द्यते तदिदं कर्म्मणः सिद्धमपि द्वितीयजन्मना सिद्धमिष्यते । यथा ह्ययं ब्राह्मणबालकः प्रथमजन्मना लोके संपद्यते तथैवायमनेन द्वितीयजन्मना वेदे संपाद्यते । तदुक्त वसिष्ठस्मृतौ " मातुरम-ऽधिजनन द्वितीय मौञ्जिबन्धने । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते । वेदप्रदानात् पितेत्याचार्य्यमाचक्षते " इति । तथा च द्विजातेरस्येदं सांस्कारिकं ब्राह्मण्यं जन्मनासिद्धमेव स्यात् कर्म्मणा सिद्ध ं वेत्युभयथा शक्यते वक्तुम् । तदिदं संस्कारसिद्धं द्वितीयं मध्यमं ब्रह्मण्यं द्रष्टव्यम् ॥ २ ॥
अथ जातस्य नाशोऽपि संभवतीति नियमात् संस्कारोत्पन्नस्य ब्राह्मण्यस्य तदुचितकर्मानाचरणैः पतनीयकर्माचरणैश्च कालेऽति-पातः संभाव्यते । " अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसज्ज ' श्चेन्द्रियार्थेषु नरः पतनमृच्छति " इति मनुस्मरणात् । तेनैतत्संस्कृतधर्मसंरक्षणार्थं तद्व्रतरूपकर्माचरणं यावज्जीवन कर्तव्य-तयोपदिश्यते । तेन जगद्धर्माणां प्रतिक्षणविनश्यत्स्वाभाष्यादनुक्षणं विनाशेऽप्युत्तरोत्तरविहितकर्मोत्पन्न ब्राह्मण्येन तत्पूर रंगादविनश्य-द्रूपमिवैतद्ब्राह्मण्य नित्यमवतिष्ठते । यथाहि - सूर्ये । कर्षणादन-वरतक्षीयमाणरसानामपि वृक्षपत्राणां मूलसचनेन रसोपलम्भाद-शोषणं पूर्णरसार्द्रत्वं हरितपर्णत्वं च दृश्यते तद्वदिदं द्रष्टव्यम् । एतच्चोत्तमं ब्राह्मण्यं तृतीयं स्यात् । तदित्थं त्रिविधं ब्राह्मण्यं पृथगिव सिद्धम् । तदुक्तमभियुक्तैः - " त्रीणि यस्यावदातानि विद्या योनिश्च कर्म्म च । स ब्राह्मण इति ज्ञेयत्रयं ब्राह्मण्यलक्षणम् " इतिः ।
पृष्ठ 102
पाठ पढ़ें पाठ छिपाएँ
६२ ] * देवासुरख्यातिः पतञ्जलिस्तु व्याकरणभाग्यकारस्तदागमवचनमित्यमुदाहरति । त्रीणि यस्यावदातानि योनिविद्या च कर्म च । एतच्छिवे विजानीहि ब्राह्मणाग्र्यस्य लक्षणम् । इति । अत्र विद्यापदं वेदव्रतसंस्कारोप-लक्षणम् । कर्म्मतु यावज्जीवन कर्तव्यतया विहिता व्रतादेशाः । एतद-भिप्रायेणैत्र गौतमादिभिर्धर्मसूत्रकारैरपि द्विजातिलक्षणं सूत्रयद्भिः पृथगिवैतत् त्रितय निर्दिश्यते- ' प्रसूतिरक्षणम संकरो धर्मः । चत्वारिंशता संस्कारैः संस्कृतः । त्रिषु कर्मस्वभिरतः । षट्सु वा स.मयाचारिकेष्वभिर्विनीतः " इति । ( गौ: स्मृ ० ८ ० ) अत्र प्रसूतिरक्षणेन योनिवाह्मण्यं संस्कारैस्तु संस्कारब्राह्मण्य, त्रिपु पस्थिति च कर्मब्राह्मयं निर्दिषु भवति । संस्कारादयश्च तत्रैव परिगणिता द्रष्टव्याः । तथा च यत्रेदं त्रितयं भवति स एव स्यादिह मुख्यो ब्राह्मणः । संपतनीयकर्म्मकरणाद् ब्राह्मणोचितकर्मानाचर--णाच्चोत्तमब्राह्मएापेतो हीयते । स ब्राह्मणोऽपि नामपूजामर्हति । पूर्णबलानुदयात् । अथ संस्काराभावात्तु, मध्यमब्राह्मण्यापेतः सोऽति-हीयते । स व्रात्यो व्रतादेशानर्हः शूद्रवत् कामचारकामवादक।म भक्षः स्याद् - उन्मर्थ्यादत्वात् । स न ब्राह्मणकर्तव्यं कर्म कुर्य्यात् । कृतेऽपि कर्मणि तत्कर्मणो यातयामतया तत्फलानुदयात् । अथ यस्य मातापितरौ ब्राह्मणजातीयौ न भवेतां स न ब्राह्मणोचित-संस्कारादेशमर्हति । कृतेऽपि संस्कारे ब्राह्मण्यानुदयात् | अक्षेत्रे बीजवपनवत् । क्षेगं हि प्रथमं जातित्राह्मण्यम् । विद्याब्राह्मण्यो -त्पादनाय योनित्वात् । अर्थ संस्कार ब्राह्मण्यं मूलम् । कम-
पृष्ठ 103
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः * ब्राह्मण्योत्पादनाय बीजरूपत्वात् । [ ६३ अथैतस्मिंस्तदुत्तमं कर्म-ब्राह्मण्य तूलं भवति । ब्राह्मणस्वरूपसंपादने पर्याप्तकारित्वात् । महात्म्यात्मकर्मप्रभावाच्च कचिद्वाह्मणस्यापि विद्या -तपोभ्यां ब्राह्मण्यमुत्पाद्यते इत्यन्यदेतत् । एतेन क्षत्रियादीनां धर्म्मा व्याख्याताः । तत्र ब्राह्मण्यं ब्रह्म-वर्चसं विज्ञानसम्पत्त्युपादानं शिरोभागस्थः शक्तिविशेषः । क्षत्रियत्वं खोजोवीर्यमुत्साहसम्पत्त्युपादान वृक्षोभागस्थ: शक्तिविशेषः । वैश्यत्वं च पशुधनान्नादिरूपं भोग्यसम्पत्त्युपादानमुदर भागस्थः शक्ति-विशेषः । अथ शूद्रत्वं त्रयाणामेषां परिचरणं तेनैव पादवद्रुप कारकः स्यात् । तद्यथा चतुः भैरेभिः शिरोवक्षोमध्यपादभागेरूर्ध्वा-धरसस्यैरेकं शरीरं सङ्गठितं भवति । सर्वैश्च पृथक स्वधम्मंप्रयो-गिभिः सम्मिलितैः शरीरविभागेरेक एवात्मा भूतात्माऽनुगृहीतः कृतकृत्यो भवति । एवमेव विज्ञानप्रधानैर्बीर्यप्रधानैरन्न प्रधानैः परिचर्य्याप्रधानैश्च मनुष्य विभागैरुचावचसंस्थैरेकः समाजः संग-ठितो भवति । सर्वश्च तैः स्वस्वधम्मंत्रणैः सम्मिलितकारिभिरेक एवात्मा विश्वात्माऽनुगृहीतः कृतकृत्यो भवति । मस्तिष्क हृदय नाभीनामेकस्यापि समुच्छेदे दौर्बल्ये वा यथाय भूतात्मा विद्यते एवमेव यस्मिन्मान त्रसमाजे चातुर्वएर्यस्यैकोऽपि भागो वच्छिद्यते दुर्बलीभवति स समाजो नतरां लोकेऽवतिष्ठते । अचिरेणैव स समाजो ध्रुवं विनश्यतीति सार्वत्रिक पारम्परिकः प्रकृतिनियमो यत्र तत्र देशेषु प्रतिलोक समाजं सर्वत्रावलोक्यते । अथ यथा शरी
पृष्ठ 104
पाठ पढ़ें पाठ छिपाएँ
६४ ] * देवासुरख्यातिः रस्यैते चत्वारो विभागाः स्वस्वधम्मैर्विज्ञानादिभिः प्रकृत्यैव सम्पन्ना अपि नित्यस्वाध्याय - व्यायामादिभिः संस्कारविशेषैर्वलिष्ठतमाः सम्पाद्यन्ते तथैते समाजस्यापि चत्वारो विभागाः स्वस्वधम्-जन्मनैव सम्पन्ना अपि व्रतबन्धादिसंस्कारविशेषैः पुनः कर्म्मभिः सम्पन्नतमा बलिष्ठतमाः क्रियन्ते । अथ हस्तकर्माणि पादेन, पाद कर्माणि वा हस्तेनेत्येवं कचित्कर्म्म सांकर्ये सम्भवत्यपि मस्तिष्कहृदयनाभीनां धर्म्मा यथा नान्योन्यविपर्यासेन गृह्यन्ते व्यवस्थया तु ते तत्तद्भागनियताः प्रकृत्या भाव्यन्ते एवमेव प्रकृति. साधर्म्येण प्रवर्तमानैः सामाजिकैरपि ते चातुर्वर्ण्यधर्म्मा व्यवस्थयैव तत्तत्कुल नियताः कार्य्या न तु सांकर्येण नेयाः । तदित्थमेतावन्त-मेवार्थत्रातं सर्वमिङ्गितेन प्रतिपादयितुमिवैष भगवान् वेदपुरुषः साधर्म्येण चातुर्वर्ण्यसृष्टिमञ्जसा प्रत्युपदिशति - " ब्राह्मणांऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शुद्रो
अजायतेति ” ॥ अत्रास्येति पदेन भूतात्माऽभिप्रेयते विश्वात्मा च ।
साम्येनोभयत्र चातुर्वर्ण्यस्य निरूपणीयत्वादिति सुभृशमवमृश्यम् ॥
पुरायुगे तदासीत् - क्षत्रियाः शूद्राश्च केचित्कचिद् ब्राह्मण प्रभू-वन्निति । नेदानीं तत्तथा नेयम् । इदानीन्तनेषु प्राचामिव विद्या-तपः सामर्थ्यातिरेकस्यादृष्टप्रायत्वादिति दिकू । अत्राहुः - पशुपक्षादिवद् गवाश्वादिवच्चैषां ब्राह्मणक्षत्रिया-दीनां भेदव्यवहारार्थे जातिशब्दोपचारो दृश्यते, जातिशब्दप्रयोगः स्थाने निविशते न वेति पर्यालोच्यम् । अत्रोच्यते । जातिशब्द-
पृष्ठ 105
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः [ ६५ प्रयोगे तावद्बहुधा विप्रतिपत्तिवादिनो दृश्यन्ते । आकृतिरेव जाति-रिति हि तावद् भगवानुपवर्षो व्याडि: पतञ्जलिर्मीमांसकाचाभिप्र यन्ति । श्राकृतिः सामान्यं व्यक्तिविशेषः । नं सामान्यविशेषाभ्याम-न्यस्तृतीयो भावः । तत्र सामान्ये जातिशब्द इत्याकृतिर्जातिः न्यात् । " जातिर्जातं तु सामान्यं व्यक्तिस्तु पृथगात्मता " इत्यभियुक्तोक्तेः । तथा च ब्राह्मणक्षत्रियादीनामविशेषेण मनुष्यतया ब्राह्मणक्षत्रियादि. व्यवहारप्रयोजका कृतिभेदाभावाज्जातिशब्द व्यवहारो नवकल्प इत्येकः पक्षः ॥ १ ॥ परेत्याहु: - नाकृतिर्जातिः । श्राकृतिभेदेऽपि
शुकविशेषाणामेकजातीयत्वप्रतिपत्तेः । आकृतिस्तावदवयवसन्नि-वेशः: स गुणः स्यात् । गुणादतिरिच्यते तु सामान्यम् । सामान्ये तु भावे जातिशब्दमीक्षामहे । तस्मादाकृतिग्रह्णा जातिरित्या तिष्ठामहे । आकृत्या योऽर्थो गृह्यते तत्रायं जातिशब्दः प्रयुज्यते । स चार्थोऽ-खण्डोपाधिविशेष इति नत्र्यनैयायिकाः आहुः । तन्मते ब्राह्मण. क्षत्रियादयो जातिविशेोषाः स्युः । अखण्डोपाधिरूपाया जातेस्तत्रापि बाधकाभावेनोपपत्तेः । इति द्वितीयः पक्षः ॥ २ ॥ न्यायाचार्यस्तु
भगवान् परमर्षिगतमः - " व्यक्तयाकृतिजातयः पदार्थः " इत्या-चक्षाणो व्यक्त्याकृतिभ्यामतिरेकेण जातिमभिप्रैति । तासां च .... आकृतिर्जातिलिङ्गाख्या । पृथगलक्षणान्याह समान-प्रसवात्मिका जातिरिति समानप्रसवाभावादेव च मृद्गवकं न जाति-रिह..... इत्थं चैतज्जातिशब्दोपचारस्य प्रसवमूलकख्याने जननं जातिरिति व्युत्पत्तिरपि सामञ्जस्येनोपपद्यते । तथा चैतन्मते ब्राह्मणक्षत्रियादीनां प्रसवसामान्यात्मनुष्यरूपैकजातीयतया भिन्न-
पृष्ठ 106
पाठ पढ़ें पाठ छिपाएँ
६६ ] * देवासुरख्यातिः जातीयत्वं नोपपद्यते तस्माद् ब्राह्मणक्षत्रियादयो जातिविशेषा न स्युरिति तृतीयः पक्षः ॥ ३ ॥
अथ शाब्दिकैश्चतुष्टयी जातिशब्दप्रवृत्तिरिष्यते - तदुक्तम्— “ आकृतिप्रहृणा जादिर्गागं च चरणानि च । असर्वलिङ्गा जातिस्तु सकृदाख्यातिनिर्महा " । इति ।. अनुगतसंस्थानव्यङग्यतया तदं मनुष्यः पशुः पक्षी गौरश्व इत्यादयस्तावदाकृतिज्ञातयः स्युरित्येको जातिविभागः ॥ १ ॥ सृग्वङ्गिरोऽत्रयः पुलस्त्य पुलहक्रतवो वशिष्ठा-गस्त्यौ दक्षनारदौ मरीचिकौशिकावित्यादयो गोत्रजातयः स्युः ।
यथा वा पश्वादिजातीनां गवाश्वादयोऽवान्तरजातयो भवन्ति एव-मिहापि शौनकजामदग्न्यमार्कण्डेयादयो भृगुजातौ गौतमभरद्वाज-वामदेवाथर्व घोगाथादयोऽरोजातौ कश्यपशाण्डिल्यायो मरीचिजातौ चावान्तरजातयः स्युः । अत एवेतिहासप्रकरणे तत्र तत्र भूयसा कालान्तरेणापि समानशब्द । महर्षयः आख्यायन्ते गवाश्वा-दिवच्चैषां शब्दसाम्येऽपि व्यक्तयो भिन्न स्तेषु द्रष्टव्याः । अन्यो हि वशिष्ठो नहुषस्य गुरुरासीद् अन्यस्तु रघोः समयेऽन्यश्च रामभद्रस्य । एवमन्योऽन्यो वृहस्पतिरन्यस्यान्यस्य देवेन्द्रस्य काले मन्त्रिपदेऽभि -विक्क सोदिति बोध्यम् । स एप द्वितीयो जातिविभागः ॥ २ ॥
अथ चरणानि वेदशाखा: स्युः वेदशाख्याध्ययनत्रतचर्य्या वा तदेकैकशास्त्राध्येतारश्च सर्वेऽप्येकजातीया इष्यन्ते । ये क्रेपि बहु-शाखाध्यायिनः स्युस्ते बद्द्द्वृचा उच्यन्ते । एवं कठञ्चरका वाजस-नेयास्त्तरीया इत्यादयश्चरणजातयः स्युरिति तृतीयो जातिविभाग |
पृष्ठ 107
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः ऋ [ ६७ ॥ ३ ॥ अथैकस्या येता यद्धर्मकथनात् तद्वंशधरव्यक्तिमात्रेषु
तद्धर्म्मप्रतिपत्तिः स्यात् सा तद्धम्मनिबन्धना जातिरिष्यते । यथा ब्राह्मणः क्षत्रियों वैश्यो वृषल इत्यादयों धर्म्मजातयः स्युरिति चतुर्थी जातिविभागः ॥ ४ ॥ सर्वेऽप्येते जातिशब्दा अविशेषेण शाब्दि-कानि जातिकार्याणि लभन्ते यथा ब्राह्मणी वृषलीति स्त्रीप्रत्ययः ।
ब्राह्मणा: क्षत्रियां इति जात्याख्यायामेकस्मिन् बहुवचनम् । अत एवं च ब्राह्मो जाताविति सूत्रयन् भगवान् पाणिनिर्व्यतिरेकमुखेन ब्राह्मणो जातिरित्याह् तस्माच्चतस्रोजातयः स्युः । इत्थं चैतज्ज्ञात्युपचारे प्रवृत्तिनिमित्तानां चातुर्विध्यादाकृतिनिबन्धनजातिव्यवहारवद्धर्मा-दिनिबन्धनजातिव्यवहारस्याप्यनिवार्यतया ब्राहाय्यक्षत्रियादि-स्वध्ययं जातिशब्देनं व्यवहार: स्थाने प्राप्त एवेति सन्तोष्टव्यम् । इदं तु बोध्यम् । प्राकृतिगोत्र चरण दस्या धर्मजातेः वर्ण. शब्देनापि व्यपदेशाः पृथगिष्यन्ते इति । गायत्रो वा ब्राह्मणस्त्रै. भो राजन्यी जागतो वैश्य इति श्रुतेर्गाह्मणादीनां वर्णच्छन्दो-निबन्धनैर्धर्मविशेषैव्र्यवस्थापितत्वात् वशब्देनाभिनेतु युक्त-त्वात् । तस्माच्चतुर्वण्र्यं चतस्रो जातयः इस्युक्त भवतीति भाग्यम् । यत्तु न यात् — त्राह्मणादीनां जातित्वे समानप्रसवात्मिका जातिरिति पारमर्ष जातिलणमव्याप्त भवति तत्रेदं प्रतिवक्तव्यम् । द्विविधो हि द्विजातीनां प्रसव इष्यते - लोके प्रसवो वेदें प्रसव-श्चेति । तत्र योऽयं वेदे प्रसवस्तत्सामान्यादियं जातिव्यवस्था भिद्यते इति । तथाहि-- गायत्र्या ब्राह्मणः निरवर्तयत्, त्रिष्टुभा
पृष्ठ 108
पाठ पढ़ें पाठ छिपाएँ
६८ ] * देवासुरख्यातिः राजन्यं, जगत्या वैश्यं न केचिच्छन्दसा वा शूद्रमित्येवं विभिन्नैरेव धर्म्म प्रकारे रमीषां चतुर्णामयं वेदप्रसवो व्यवतिष्ठते । श्रयज्ञियः शूद्रो, यज्ञियास्तु ब्राह्मण - क्षत्रिय - वैश्यास्ते गायत्र्यादिच्छन्दोलक्षणलक्षिताभिः पृथग्रूपाभिर्यज्ञभक्तिभि॑िरासज्ज्यन्ते । वर्णगोत्रप्रवराः, वेदशिखा-सूत्राणि - इति षडेता यज्ञभक्तयः । तत्र ब्राह्मणानामष्टाक्षराऽमि-देवताका गायत्री वर्णच्छन्दः । गायत्र्या चाग्नेयैः प्राणैरयमासज्यते । अष्टाभिर्वसुभिरेवायमग्निदेवता प्रक्रमते । तदाग्नेयप्राणासक्तःयर्थमेव चायम मे वर्षे वेदशिखा सूत्रधारणेन याज्ञिकव्रतबन्धेऽगृह्यते । तेनैषां ब्राह्मणानां येऽतिष्ठावानो भवन्ति ते ब्रह्मवर्चस्विनो भवन्ति । नौ हि वर्चस्तेजः । एवं क्षत्रियाणामेकादशाक्षरेन्द्र देवताका त्रिष्टुब् वर्णच्छन्दः । त्रिष्टुमा चेन्द्रियैः प्राणैरयम | सज्ज्यते । एकादश-भिरयं रुद्रैरिन्द्रो देवता प्रक्रमते । तदिन्द्रियप्रारणासक्तपर्थमेवायमे-कादशे वर्षे बेदशिखासूत्रधारणेन व्रतीक्रियते । तेनैषां क्षत्रियाणां येऽतिष्ठावानो भवन्ति स ओजस्विनो भवन्ति । इन्द्रे हि तदोज -स्तेजः । एव वैश्यानां द्वादशाक्षरादित्यदेवताका जगती वर्णच्छन्दः । जगत्या च वैश्वदेव्यैः प्राणैरयमासज्यते । द्वादशभिरादित्यैरयमा-दित्यो वैश्वदेव्यो देवता प्रक्रमते । तद्वैश्वदेव्यप्रारणा सतयर्थमयं द्वादशे वर्षे बेदशिखास बैष तीक्रियते । तेनैषां: वैश्यानां येऽतिष्ठा-वानो भवन्ति ते भ्राजस्विनो भवन्ति । सूर्ये हि तद्भाजस्तेजः । सर्वे ह वै देवा श्रप्र े : संदृशा श्रासुः सर्वे पुण्याः । तेषां त्रयोऽतिष्ठा-वानोऽभवन् – अग्निरिन्द्रः सूर्यः इत्यति प्राह्यमश्रुतौ व्याख्यातम् ( शतप ० का ० ४ श्र ० ५ ४ ) । वेदास्तत्र गायत्री त्रिष्टुब्जगतिं-
पृष्ठ 109
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः * [ ६६__ छन्दस्का अमीन्द्रादित्यदेवताका वैज्ञानिका यज्ञमन्त्राः स्युः । तैश्चेषां यज्ञा लक्ष्यन्ते । यज्ञैश्चामीषां मानुषात्मनां सतामन्य श्वान्यश्च दैव आत्मा पारत्रिकः सम्पाद्यते । तदुक्त ं द्वियजुरिष्टको पधानती – “ यजमानो वै द्वियजुः । देवो वा अस्य स श्रात्मा मानुषोऽयम् । तद्यत्स हिरण्मयो भवति अमृत वा अस्य तद्रूपं देव. रूपम् | अमृतं हिरण्यम् । श्रथ यदियं मृदः कृता भवति मानुषं ह्य-स्येदं रूपम् इति । स योऽयमेषामन्यश्चान्यश्चात्म / ग्नेयादिलक्षण उत्पा-द्यते तदेतस्य द्वितीय जन्म एतन्न्वेव मातुश्चाधि पितुश्वा जायते 1 अथ यं यज्ञे उपनमति स यद्यजते तद् द्वितीयं जायते " इति शतपथ-श्रुतेः ( कां. ११. २ ) त्रयाणां विभिन्न प्रकृतिका विभिन्नास्त आत्मा-नो गांयत्रादिवर्णच्छन्दस्कतया त्रयो वरर्णा उभ्यन्ते । श्राग्नेयवर्णा ब्राह्मणाः । ऐन्द्रवर्णाः क्षत्रियाः । वैश्वदेव्यवर्णा वैश्या इति । अथ शिखाः शाखा इत्येकोऽर्थः । अग्नेः शिखा इव चैता बेदस्य शास्त्रा: स्युः । अनन्ताश्च विज्ञानशाखाः स्युः । तत्र न सर्वास्वेकः शक्नोति धारयितुमतः पृथक्शाखिनः क्रियन्ते । शाखाभेदाच्चैषामा जीवन • कर्तव्यानि कर्म्मसूत्राणि भिद्यन्ते । विभिन्नप्राणानाममीषां विभिन्नै-रेव प्रकारैः कर्मसु विवियोक्तव्यत्वात् । तान्येव कल्पसूत्राणि भौत्र-स्मार्तसाम याचारिकभेदात् त्रिधा विभक्कानि भाध्यन्ते । यतश्चायमेतेषु वेदशाखसूत्रेषु भिन्न रूपेण व्रती ते वत्तोऽन्यैर्भेदप्रतिपत्यर्थमस्य शरीरे व्रतलत्तणानि सके विवान्सि रूपेण प्रकल्प्योपधार्य्यन्ते । तत्र कुशमुष्टिर्वेदः । पृथवीशयत्वावग्भिः कुशः । शेषे बनेषु मातृषु सं त्वा मर्तास इन्धते इति वेदमन्त्रात् । दर्भश्वायमग्निमयस्तस्मात्कुश 1
पृष्ठ 110
पाठ पढ़ें पाठ छिपाएँ
ॐ ] * देवासुरख्यातिः उच्यते । यथेन्द्रेण वीर्य तथाग्निना विज्ञानं शरीरे प्रबुद्धय भति शारीरं काग्निनाशे मृतस्य । चेतनत्वोपपत्तेः । विज्ञानं च वेद: । तस्मात् कुशेन वेद: संकेत्यते हिरण्येन च ज्योतिर्वै हिरण्यमिति चयन-श्रुतेः । तस्मादशून्यं तु करं कुर्य्याद्धिरण्यरजतैः कुशैरित्याहुः । शाखा च शिखया संकेत्यते । यज्ञसूत्रं तूपवीतसूत्रेण । तस्मात् -" कुशमुष्टिं करे कृत्वा यज्ञकर्माणि कारयेत् । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् " इत्याहुः । याज्ञिकस्यात्मनो लक्षणान्येतानि 1 । स याज्ञिकरूपं कृत्वा यज्ञकर्म कुर्य्यादिति मर्यादादेशः । अथ गोत्राणि प्रवराचर्षयो भवन्ति ऋपयः प्रारणा इत्येकोऽर्थः । प्रारणा वा ऋषयः इति श्रुतेः । अर्चिषि भृगुः संबभूव श्रङ्गारेण्वङ्गिराः सं-बभूवेत्यादिभिः श्रुतिभिरि में भृग्वङ्गिरोऽव्यादयः प्राणविशेषा अभिधर्माः । आग्नेयश्च ब्राह्मणः । तस्मादयं ब्राह्मण एव गोत्रैः प्रय ': रैश्च विशिष्यते न क्षत्रियों वैश्यो वा । यत्र त्वेषां गोत्राणि प्रवरा वापेक्ष्यन्ते तत्र पुरोहितगोत्रैरेव तत्तत्कम्र्माणि साध्यन्ते तस्मादौपः चारिकोऽयमेतेषां क्षत्रियवैश्यानां गोत्रप्रवरव्यवहारः । गोत्रप्रवर-व्यवहारबन्धनशैथिल्यादेव च दृश्यन्ते क्षत्रियवैश्यानां पुराणानां यादवादीनां ' चन्द्रवंश्यानां सूर्यवंश्यानां च राज्ञां समाने गोत्रे समाने च प्रवरे प्रवर्तमाना भूर्यासो विवाहादयः सुप्रचरिता व्यव हारा इति नाविदितमेतिहासिकानाम् । तत्राणीयानपि तेषां दोषी नास्ति । पौरोहितगो प्रवरैर्गोत्रप्रवरव्यवहारसत्वेऽपि मौलिक-तत्वे तेषामैन्द्रवैश्वदेव्यात्मनां गोत्राद्यभावात् तन्निबन्धनदोषा. प्रसक्तरिति भाव्यम् । इत्थं च भूयानस्ति विभिन्नदेवताभिरुत्पा.