देवासुराख्याति — पृष्ठ 111–120
देवासुर ख्याति · पृष्ठ 111–120
पृष्ठ 111
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः [ ७१ दिविभिन्न देवतात्मनामेषां - ब्राह्मण क्षत्रिय वैश्यानां द्वितीयस्मिन् प्रसवे प्रसवनिबन्धनो भेदः तस्माद्भिद्यन्ते समानप्रसवात्मिका एता ब्राह्मणक्षत्रियादयो जातय इति नास्ति पारमर्पकृतस्य जाति-लक्षणस्य तेष्वव्याप्तिरिति दि! सैषा चातुर्वएर्यव्यवस्था द्वेधा: व्यतिव्यस्ता.. व्यभिचरिता सम्भवति — देवप्राबल्याच संस्कार दोषाच्चेति । दृश्यन्ते हि लोके कचिदकृतप्रयन्ना अकृतसंस्काराः केचिच्छूद्राः अपि बुद्धयाः सम्पन्न-तमा मेधाविनो मनीषिणः प्रतिभाशालिन: ऊहापोहकुशला महा-विद्वांसो ब्राह्मणवत्सुदूरदर्शिनो व्यवस्थापकाः सभ्याः । -ष्प्रथ त्व कृतप्रयत्नाः कृतसंस्कारा श्रपिः केचिद् ब्राह्मणो- बुद्धप्रा हो मत मा. दुर्मे-' धसो वालिशा अस्फुरत्प्रज्ञा मन्देहा महामूर्खाः खीशूद्रवत प्रत्युत्पन्न-मतयः संकीर्ण कर्म्मारणोऽसभ्याः । किन्तु नैतावता व्यामोह नैषा सार्व-जजीना चातुर्वएर्यव्यवस्था दुर्गतिं नेया । काचित्कयोस्तयोर्वैकारिक-तया तावता नियतव्यवस्थाया अनपास्यत्वात् । तथा हि.. लोके तावदिमे जीवाः स्वभावत एव पोडशप्रकृतिकाः प्रथक प्रथगुत्पद्यन्ते-१ - ब्राह्म:, २ - आर्ष:, ३ - ऐन्द्र:, ४ - वारुण:,: ५ - याम्यः, ६ - सौम्यः ७- गान्धर्वः, १ - श्रसुरः, २ - राक्षसः, ३- पैशाच,: ४- सर्पः, ५ - प्रेतः, ६- शकुनिः, १- पशु:, २ - मत्स्यः, ३ - वनस्पतिः इति भेदात् । तदुक्त चरक शारीरकस्य चतुर्थाध्याये - " शरीरमपि समनु विधीयते सत्यं च शरीरम् " । तस्मात्कतिचिच्च सत्वभेदाननूकसादृश्याभि-निर्देशेन निदर्शनार्थमनुव्याख्यास्यामः । त्रिविधं खलु - सत्यं - शुद्धं
पृष्ठ 112
पाठ पढ़ें पाठ छिपाएँ
७२ ] * देवासुरख्यातिः * राजसं तामसमिति । तत्र शुद्धमदोषमाख्यातं कल्याणांशत्वात् । जसं सदोषमाख्यातं रोषांशत्वात् । तामसमपि सदोषमाख्यात— नोहांशत्वात् । शुद्धस्य सत्वस्य सप्तविधो ब्रह्मर्षि शक्र वरुण यम-कुवेर - गन्धर्व - सत्वानुकारेण । राजसस्य षड्विधो दैत्य- राक्षस-पिशाच. सर्प प्रेत. शकुनिसत्वानुकारेण । तामसस्य त्रिविधः पशु-मत्स्य - वनस्पतिसत्यानुकारेण । तद्यथा - शुचिं सत्याभिसंधं जितात्मानं सविभागिनं ज्ञानविज्ञानवचनप्रतिवचनशक्ति सम्पन्न स्मृतिमन्तं कामक्रोधलोभमानमोहेर्ष्याहर्षोपेतं समं सर्वभूतेषु ब्राह्म ं विद्यात् ॥ ५ ॥ इज्याध्ययनत्रत होमब्रह्मचर्यमतिथिव्रतमुप-शान्तमदमानरागद्वेषमोह लोभरोषं प्रतिभावचनविज्ञानोप
धारणशक्तिसम्पन्नमार्षं विद्यात् ॥ २ ॥ ऐश्वर्यवन्तमादेयवाक्यं
यज्यानं शूरमोजस्विनं तेजसोपेतमक्लिष्टकम्मांणं दीर्घदर्शिनं धर्मार्थकामाभिरतमैन्द्रं विद्यात् || ३ || लेखास्थवृत्तं प्राप्तकारिण-मसंहार्य्यमुत्थानवन्तं स्मृतिमन्तमैश्वर्य्यालम्बिनं व्यपगत रागद्वेष. मोहं याम्यं विद्यात् || ४ || शूरं धीरं शुचिमशुचिद्वेषिणं यज्वानमम्भो-विहाररतिमक्लिष्टकर्माणं स्थानकोपप्रसादं वारुणं विद्यात् ॥ ५ ॥
स्थानमानोपभोगं परिवार सम्पन्न सुखविहारं धर्मार्थकामनित्यं शुचिं व्यक्तकोपप्रसादं कौवेरं विद्यात् ॥ ६ ॥ प्रियनृत्यगीतवादिनो-ल्लापकं श्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनं-क्सन स्त्री विहारकाम नित्यमनसूयकं गान्धर्व विद्यात् ॥७ ॥ इत्येवं
शुद्धस्य सत्वस्य सप्तविधं भेदांशं विद्यात् कल्याणांशत्वात् । तत्सं-योगात्त ब्राह्ममत्यन्तशुद्धं व्यवस्येत् । शूरं चण्डम सय कमैश्वर्यवन्त-
पृष्ठ 113
पाठ पढ़ें पाठ छिपाएँ
* देवापुरख्यातिः [ ७३ मौदरिक रौद्रमननुक्रोशकमात्मपूजकमासुरं विद्यात् ॥ ८ ॥ अम-पिंणमनुबन्धकोपच्छिद्रप्रहारिणं क्रूर महारातिमात्ररुचिमामिष-4
प्रियतमं स्वप्नायास बहुलमीषु राक्षसं विद्यात् ॥ ६ ॥ महालस
स्त्रैणं स्त्रीरहस्काममशुचिं शुचिद्वेषिणं भी भीषयितारं विकृति-विहार हारशीलं पेशाचं विद्यात् ॥ १० ॥ क्रुद्धं शूरमक्र ुद्वभीरु *
तीक्ष्णमायासबहुल मन्त्र सुगोचर माहारविहारपरं सा विद्यात् ॥ ११ ॥ आहारकाममतिदुःखशीला चारोप चारमसूयकमसंवि-भागिनम तिलोलुपकर्मशील प्रैतं विद्यात् ॥ १२ ॥ श्रनुषक्तः काम-मजसमाहारविहार पर मनवस्थितममर्षिणम समयं शाकुनं विद्यात्
॥ १३ ॥ इत्येव खलु राजसस्य सत्यंस्य षड्विधं भेदांशं विद्याद्
शेषांशत्यात् । निराकरिष्णुमधर्म्मवेशम जुगुप्सितारमा हारविहार-मैथुनपरं स्वमशील पाशवं विद्यात् ॥ १४ ॥ भीरुमबुधमाहारलुब्ध-मनवस्थितमनुपतकामक्रोधं सरणशील तोयकामं मात्स्यं विद्यात्
॥ १५ ॥ अलसं केवलमभिनिविष्टमाहारे सर्वबुद्धङ्गहीनं वानस्पत्यं
विद्यात् ॥ १६ ॥ इत्येयं खलु तामसस्य सत्वस्य त्रिविधं भेदांशं
विद्यान्मोहांशत्वात् तेषां प्रयाणामपि सत्यानामेकैकस्य भेदाप्रम परिसंख्येय तरतमयोगी छरीरयोनिर्विशेषेभ्यश्चान्योन्यानुविधान-त्वाच इति । श्रश्राह्मादयः सोमा वैवप्रतिका F देव्या प्रकृत्या सम्पन्नतमा ' जगद्धिताय स्वहिताय च समर्थन्ते । इतरे तु निकृष्टा श्रासुरप्रकृतिका श्रासुर्थ्यानम्पदाऽभिसम्पन्नतमाः स्वहितायैव स्युः ।
पृष्ठ 114
पाठ पढ़ें पाठ छिपाएँ
५४ ] * देवासुरख्यातिः * स्वहितायापि वा न स्युर्न वा जगद्धिताय स्युः । कफवातपित्तव्या. मिश्रप्रकृतिवैचित्र्यवचैषां वाह्मणादिप्राणिनां 1 प्राणविशेषस्य विशेषसम्बन्धमहिम्ना क्वचिदेकस्य वकाशो भवतीति जगद्रचना-स्वभावसिद्धं वैचित्र्यमुपपद्यते । श्रतएव शूद्रेष्वपि क्वचिदस्त्ये-- वाकस्माद्दैत्र्याः सम्पदों बिकाशः । तथा ब्राह्मणेष्वपि सम्भवत्येव क्वचिन्निकृष्ट प्राणसबन्धादकस्मादासुरसम्पद्विकाशः । तदिद-माकस्मिकं चतुर्वर्ण्यं स्वतः सिद्धमुत्पत्तिशिष्ट न संस्कारप्रयत्नम-पेक्षते । नापीदमकृत्रिमं चातुर्वस्य कृत्रिमायां समाजव्यवस्थाया. मुपनीयते । कर्मयोग्यत्वेऽपि तदादरे समाजबन्धनशैथिल्यापत्तेः । समाजबन्धने च भूयांसि श्रेयांसि पश्यन्ति । तस्मात्तद्रक्षानुरोधे-नेदमकृत्रिमं क्वचिदाकस्मिकं चातुर्वर्ण्यधर्मदर्शनं सामाजिक-रुपेक्ष्यते । संस्कारद्वारा तु सा प्रकृतिगतिः स्वानुकूला क्रियते । यथाहि ब्राह्मणादयस्त्रैवर्णिकाः शुद्धसत्वप्रकृतिकाः सन्तो दैवप्रकृ-तिकाः स्युरित्येतदर्थमेतेभ्यो दैवतब्रतबन्धसंस्कारा आदिश्यन्ते । तत्रापि ब्राह्मणो यथा ब्राह्मः स्यात् तया प्रयत्यते । संस्कारमाहात्म्या-ह्यवश्यं प्रकृतिविषर्थ्यासः शक्यते कृत मानवप्रकृतेः परिवर्तन-शीलत्वात् । किन्तु संस्कारविषो अङ्गादोभत् क्वचित्कृतप्रयत्नाः कृतसंस्कारा अपि सम्भवन्ति विफलप्रयत्ना इत्यन्यदेतत् । दृश्यते हि लोके धनसुखभोगादिलाभार्थं महता समारम्भेण कृतप्रयत्ना-मामपि मूसा प्रभादोवांद बलवदेव दोषाच प्रयत्नषं फल्यमिति area शुभकर्मणे प्रयत्नसमारम्भो बुद्धिमद्भिः प्रत्याख्यायते एव-मिहापि संस्कारकतॄणां प्रज्ञादोषाद्बलवद्देवदोषाच्च सम्भवति क्यचि-
पृष्ठ 115
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः [ ७५ त्प्रयत्नं वैफल्यमिति नैतावता सा समाजहितकारिणी चातुर्वण्य-संस्कारव्यवस्था प्रत्याख्यातु ं युज्यते इति ध्येयम् । वैज्ञानिकी हीयं चातुर्य पर्यव्यवस्था । बहुविस्सृतं चेदं यज्ञविज्ञानशास्त्रत्रं न संक्षेपेण शक्यं सर्वमञ्जसा निरूपयितुम् । देवासुराणामितिहासप्रदर्शनार्थं चेदानीं वयमत्र प्रवृत्ताः स्मो न विज्ञानप्रदर्शनार्थम् । तस्म । दमुष्मिन्नितिहास प्रकरणे देवानां ब्राह्मणा-दीनां वा चारित्र्यविषयसंशुद्ध्यर्थं यावदपेक्ष्यतो वक्तु ं तावदेवः कथंचिदिह संक्षेपेण प्रदर्शितम् । बहु चात्रा वक्तव्यमवशिष्यते तदेतः श्चातुर्वर्ण्यस्य सर्वं वैज्ञानिक रहस्यमधिजिगां सुभिर्ब्राह्मविज्ञानं · नाम: शास्त्रं पृथगेवालोच्यमित्युपरम्यते प्रासङ्गिकादस्माद्विषयात् । तदित्थमेषा विज्ञानमहिम्ना दृष्टस्य नित्यस्यैव चातुर्वण्र्यः धर्म्मस्य वंशपरम्परा सम्बन्धनियमेन क्रियमारणा कृत्रिमा संस्कार-धर्म्मव्यवस्था समाजहितार्थं तृतीयस्मिन् युगे प्रवृत्ताऽऽसीत् । भूयांसि च लोकहितानि परिपश्यन्तो दीर्घदर्शिनस्तदानीमस्मिन् सुपरिष्कृते संस्कृतसमाजे न चिरेण सम्प्रविष्टा बभूवुः । तदित्थमुक्ता समाजपरिक्लृप्तिः । समाजहितार्थं चैषां सामाजिकानां सभ्यानां कृत्रिमव्यवस्थाया संस्कारधर्म्मा नियमवद्धोऽक्रियत । सुपरिष्कृते च तत्र संस्कृतसमाजे भूयांसि लोकहितानि परिपश्यन्तो दीर्घदर्शिनस्त • दानीं तत्र न चिरेण प्रविष्टा बभूवुः । किन्तु कतिपये साधारणबुद्धयः स्वाचारविहारेषुः स्वातन्त्र्य * भङ्गमनिच्छन्तः समाजबन्धने तस्मिन्नप्रतिष्ठा बभूवुः । ते प्राग्वदेव
पृष्ठ 116
पाठ पढ़ें पाठ छिपाएँ
७३ ] देवासुरख्यातिः यथेच्छाचारविच.राः ' पशुवदारण्या असभ्याः पृथगेवातिष्ठ॑न् । तदित्थ मानवजातेस्तदानीं दलद्वयं विभक्तमभूत् । सभ्याः समाज-बद्धा नियमपरतन्त्रा एको विभागः । तेषां सभ्यानां सामाजिकानां प्रामनगरादिनिवासिनां मणिजसंज्ञया प्रसिद्धिरभूत् । अथ । सभ्या यथाजाताः स्त्रतन्त्रवृत्तयो द्वितीयो विभागः । तेषामसभ्य नाम-रयगिरिद्रोणी कान्तारादिप्रान्तवासिनां वर्वरसंज्ञया प्रसिद्धि-रासीत् । मणिजा वर्वराश्चेत्युभये परस्परविद्वेषिणस्तदानीम-भवन् । तत्र मणिजानामेवैते चत्वारोऽवान्तरविभागा श्रासन् । साध्या महाराजिका आभास्वरास्तुषिताश्चेति । प्राधान्येनैते सर्वेऽपि मणिजा: शास्त्रवृत्तयः क्षत्रिया एवासन् । अतएव तत्र क्षत्रिया: केचिद्वाजानस्तस्मिन्नादित्रेतायुगे मणिजसंज्ञया प्रसिद्धा बभूवुरिति वराहवचनादवगम्यते – “ आदित्रेतासु राजानो मणिजा ये प्रकी-तिताः ” इति । एवं मणिजानां राज्ञामुपदेष्टारो विद्याव्यसनिनः साध्या विद्वांसः सुप्रतिष्ठिताः समाजप्रधाना लोकसमादृताञ्चासन् । त एते साध्या नाम देवा आदित्रेतायुगे त्रेधा रमन्ते – स्तोम भागा, मनु-जातीया, मनुष्याश्चेति । नाके नाम्नि स्वर्गप्रदेशे वसन्तो ये सर्वतः पूर्वं यज्ञवेदानू हित्वा यज्ञविद्यां प्रवर्तयामासुः ते स्तोमभागा इत्या-ख्यायन्तेस्म । द्विविधा हि सा यज्ञर्विद्या भवति नियतिसिद्धा विधेया चेति । य इमे सूर्यचन्द्रपृथ्वीमनुष्य शरीर । दयो दृश्यन्ते सर्वेप्येते प्रकृत्या सिद्धा एकैकयज्ञाः स्वतः प्रवर्तन्ते । यथा चैते
पृष्ठ 117
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः [ do यज्ञास्तद्रुपपादितं शतपथादिब्राह्मरणश्रुतिषु ब्र॑ह्मविज्ञाने च सर्वेषामेषा-मनन्तानां यच्चानामुत्पादकः कश्चिदेको नित्य निरतिशयो महायज्ञ भष-र्त्तते स मुख्यो यज्ञपुरुषः परमेश्वरो नाम । न तम विक्रामति कञ्चिदन्यो यज्ञः । सर्वे चान्ये यज्ञास्तमेवानुगच्छन्ति । तेषामेव च वैज्ञानिकानां यज्ञानां प्रकारं दृष्ट्वा तदनुसारेणैवान्ये मनुष्यसाध्याः कृतिमा यज्ञाः अनहोत्र दर्शपूर्ण मास चातुर्मास्यज्योतिष्टोमादयो ' ' विधीयन्ते ते विधेयाः । यज्ञविधानेन च सर्वे कामा यथेच्छं साध्यन्ते । तदित्यमि मे साध्या चपौरुषेयं यज्ञविज्ञानमूहित्वा तदनुसारेण यज्ञविधानं कुर्वन्ति कृत्रिमेण च तेन तेन यत्रेन: प्रकृत्यासिद्धमपौरुष यज्ञपुरुष-मयजन्तेत्यादि त्रेतायुगे धर्माख्यासम् ॥ उत्तरकाले देयुगेऽवग-भोगिनो बसु रुद्रादित्यादयो देवाः अपि साध्येभ्यो लब्धयज्ञषिद्या-स्तथैव यज्ञमकुर्वलिखि मन्त्रादद्वयभ्यते । प्रयोक्तः तृतीये देवास्ये युगेऽर्वाच्चिनैर्देवैर्भगवता मारायणेन देवेन वा हर्षिणां दीर्घ-तमसाच ' आने लगता धर्माणि प्रथमच्यासम् । ते ह नाकं महिमानी यत्र पूर्वे समयाः सन्ति देवाः । इति । तदित्यका " दिवेतायुगाख्यस्य द्वितीयबुग-“ स्यायं सत्तिप्ताभासः कथंचिदाख्यातः । अथातः परं तृतीयं देवयुगं व्यख्यास्यामः ॥ इमे हि स्तोमभागाः साध्या नाकसदो नाके नाम स्वर्गलोके निवसन्तस्तचैव प्रतिनियते स्थाने यज्ञं विद्धतिस्म । तेषां सचमेव प्रधानं कर्मासीत् । यज्ञकरणादेव ते वृद्धि लभन्ते रम तथा च
पृष्ठ 118
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः * " देवा वै नाकसदः । श्रजैष सर्वोनिः संस्कृताः । स एषोऽत्र-are: स्वर्गो लोकः । तस्मिन्देवा श्रसीदन् " इति नाकसदिष्टका. श्रनैः । तत्रापि रसोमभागा एव देवाः । अपि च " यज्ञ से देवानामात्मा । यज्ञमेब सवा आत्मानं * कृत्वै तस्मिन्ना के स्वर्गे लोकेऽसीदन " । इत्येषम् ।; एतेनार्दित्रेतायुग्-भाविनां साध्यानां निवासस्थाने नाक एय. पञ्चादेव युणभाविनो देवा अपि प्रतिनियते स्थाने यज्ञभूमिं व्यवस्थापयामासुर्न तु . यथेच्छं यत्र तंत्र यज्ञं कुर्वन्ति स्मेत्यवगम्यते । अत्रैव च नाकप्रदेशे - सर्वतः पूर्वमादित्रेतायुगे विज्ञानप्रादुर्भावो बभूवेति नार्कस्थानीयो नदीविशेषस्य सरस्वतीनाम्ना प्रतिपादितस्य देषै दन्येऽनुतर्कयन्ति । स चायं नाकप्रदेशः परीचयते । तत्र नाक इति न तावत्सर्वेषु-स्वर्ण्यप्रदेशेषु साधारण स्वर्गपर्य्याभिधायी शब्दः किन्तर्द्दि बहु-विस्तृतो स्वर्गमण्डला कांगतो यज्ञकर पकस्थानात्मकः प्रदेशविशेषः प्रतीयते । स कुप्रायं नाको जनपदःपुरात्रीदिति विशिष्य यद्यपि न ज्ञायते केवितमापीराणां निवासस्थानं साइ-पीरिया प्रदेश: माकमातुः । केचिष्णुनग काकपर्वतप्रान्तमार मीनिया प्रदेशं नाकमाहुः । वस्तुतस्तु भारतवर्षीयोज्जयिनी परिलक्षितमध्य-रेखास्पर्शिन्युत्तरप्रदेशे पञ्चचत्वारिंशदक्षांशप्रदेशमनु वालकाशा-भिधानः कश्चन सरोवरोऽद्यापि प्रतिभाति । " तमेव तु परितो दक्षि. नवी भूयसी सन्निषिष्टोऽये नाकप्रदेशस्तदानीमासी दित्यपरेषां प्रतिपत्तिः । स चायं नाक प्रदेशो थालकाशाभिघसरोवरादारभ्य
पृष्ठ 119
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः * दक्षिणतो हैमवतप्रदेशीय पौराणिक सुमेरुप्रदेशस्य बहुविस्तृतः प्रान्तस्योत्तरसंलग्न द्रष्टव्यः । “ वैश्वानरप्रत्नथा नाकमारुह दिवः पृष्ठे " ( १ । ७ । ६ ) इति ताण्ड्य ब्राह्मणे त्रिविष्टप । परपर्यायस्य त्रिदिवस्य पृष्ठतः प्रदेशे पुरातनस्थानतया नाकस्यापरयुगी यै र्दे वैराख्या-नात् । त्रिदिवस्थानाद्धि दक्षिणे भारतवर्ष इतिकृत्वा भारतवर्षीयाणां केषांचिद्देवानां दृष्टौ त्रिदिवोत्तर प्रदेशस्थस्य तस्य नाकस्य पृष्ठत्वे. नाभिधातु योग्यत्वात । तत्र च वालांशनाम्नि सरोवरे सप्त नद्योऽपि यन्ति । १ - लिप्सा, २- बलस्कामं, ३ - अकसू, ४ - सरक्यु, ५- वीयन्, ६ - करताल, ७- कोकसू, इत्येतैर्नामभिश्चैता नद्यः सम्प्रति प्रचलितभाषायां प्रसिध्यन्ति । सत्रैताः सप्त नद्यः स्यन्दन्ते स प्रत्नः सप्तसिन्धुप्रदेशोऽलतीन पर्वतात्पश्चिमोत्तरत इलीनद्याः पूर्वतो लिप्सानद्या: पश्चिमतोपनिविशते । इदानीमयं प्रदेशो रूशनाम्ना प्रसिद्धस्य साम्राज्य स्यान्तर्भुक्तो विद्यते । श्रत एव रूशराष्ट्रिय प्रचलित भाषायामयं प्रदेश: सुमेरू-चांशकशब्दापभ्रं शतया - " सेमिरेचेन्स्क " ( Semirechensk ) इति नाम्ना प्रसिध्यति । तत्स्मारकतयैवायमथर्वमन्त्रो भवति । “ यः सप्तरश्भिर्वृषभस्तुविष्मा नवासृजत सर्तवे सप्त सिन्धून् । यो
सैहिणमस्फुरद्वज्जवाष्टुः द्यामारोहन्तं स जनास इन्द्रः ” ॥१३ ॥ इति ।
अथायं वाजसनेयसंहिता मन्त्रोऽपि तमेव देशं स्मारयती-त्याहुः - ३४।२ ॥
" पञ्च नद्यः सरस्वतीमपि यन्ति सस्स्रोतसः । सरस्वती तुपञ्चधा सोंदेशेऽभवत् सरित् ॥ " इति ।
पृष्ठ 120
पाठ पढ़ें पाठ छिपाएँ
50. ] देवासुरख्यातिः देवयुगादपि पूर्वे युगे साध्यादिभेदभिन्ना मणिजा नाम ते लोकास्तस्मिन्नेव प्रदेशे पुराभूवन् । तत्रैव च सर्वतः पूर्वं विज्ञान-प्रादुर्भावो बभूवेत्येवं पश्यन्ति । मन्यन्त राठी अगगन च अथ गान्धारदेशस्थास्त्रयोऽन्ये सप्तसिन्धुप्रदेशा भवन्ति भूयसा च तेषां वनं वेदसंहितासूपलभ्यते । तस्मादस्यापि मन्त्रस्य तत्पर-त्वमेव स्यादिति सम्भाव्यते । हिमालय पर्वतमालासंलग्नस्योत्तरः प्रान्तविशेषस्य पौराणिकंसुमेरुत्वेनाख्यानात् तस्यैव द्युलोकतया तादृशदिवः पृष्ठवर्तिनो देशस्यैव नाकशब्देनाभिधेयत्वादिति दिक् । तदिदं चादित्रेतायुगं सम्भवतः षभिर्मन्वन्तर कालैः परिच्छिन्न स्यादिति पश्यामः । स्वायंभुवं स्वारोचिषमुत्तमं तामसं रैवतं चा-क्षुषमिति हि पण मनूनामन्तराणि भवन्ति । तु सप्तमे वैवस्वते मन्वन्तरे देवयुगं सन्निविशते वर्तमानयुगं चेति । चाक्षुषे हि मन्वन्तरे भूमध्य समुद्रीयजलसंप्लवनाज्जलप्रलयः श्रूयते । तत्र भूमध्य समुद्रस्य पूर्वदिकूतटासन्नप्रान्ते काफ-नाम्निपर्वते मनुरेबैकः सपरिवारः परिशिशेष । स एषोऽनुमी-यते द्वितीययुगपरिवर्तनकालः । जलप्रलयोत्तरं पुनरस्मादेव मनोरासीन्नवयुगारम्भः । वद्देवयुगं नाम । त्रिंशत्कोट्यः सप्तषष्टि. लक्षाणि विंशतिसहस्राणि च मनुष्ययवर्षाणामेकैकमन्वन्तरकाल-प्रमाणमाचक्षते ( ३०६ २०००० ) । स एव षड्गुणितो भूत्वा एक-मध्जं चतुरशीतिकोट्य स्त्रीणिखक्षणि विंशतिसहस्राणि च सुभ्य्यादिकालादारभ्य चाक्षुषंमन्यन्तरस्यान्तं यावत् सृष्टिकालं प्रमा-