देवासुराख्याति — पृष्ठ 41–50
देवासुर ख्याति · पृष्ठ 41–50
पृष्ठ 41
पाठ पढ़ें पाठ छिपाएँ
देवासुर - ख्यातिः युग - विभाग १ आदि युगम् मानवजातेरितिहासपर्यालोचनायां संभवतः सृष्ट्यादि-कालादारभ्याद्यपर्थ्यन्तविभागपरिक्लृप्तौ चत्वारि युगानि कल्पयितुं शक्यन्ते - आदियुगम्, श्रादित्रेतायुगम् देवयुगम्, वर्तमानयुगं चेति । पश्वादिवत्सर्व चेतनसाधारणविज्ञानसत्त्वेपि सनुष्यमात्र-वृत्त -विशिष्टविज्ञानस्य यावदिह मानवसमाजे विशिष्य प्रादुर्भावो नाभूत् स. विज्ञानविकाशोदय कालभिन्नत्वाद्यविज्ञानकालः कदाचिदासीत् तदादियुगं नाम ॥ १ ॥
2-3 आदिभेती - देव युगे श्रथ भौतिक वैद्या शिल्पविज्ञानम्, प्राणविद्या तु यज्ञविज्ञानम् । यत्रेतयोः शिल्पविज्ञानयज्ञविज्ञानयोः क्रमेण विकाशोदयः समभूत् स विज्ञानप्रादुर्भावकाल एवासीत् श्रदित्रेतायुगं नाम ॥२ ॥ अर्थक-स्मिन्नसुरनामके मानव समाजे शिल्प विज्ञानस्य, देव नाम के त्वपरस्मि-न्मानवसमाजे यज्ञविज्ञानस्य विभागेन परिग्रहणादुभयो विज्ञानयो
मध्यन्दिनवद्भूयसा लोके प्रचारबाहुल्यमजायत से विज्ञानप्रादि-काल एवासी वयुगं नाम ॥ ३ ॥
पृष्ठ 42
पाठ पढ़ें पाठ छिपाएँ
I ] * देवासुरख्यातिः * ४- वर्तमान युगम् अथ यत्र देवासुरसमाजयोः क्रमेण परस्परविद्रोहपरिवृद्ध्या युद्धसंचारादुभयोः समाजयोः परस्परविजयपराजयधाराप्रवृत्तौ परस्परोपमर्दादुभयसमाजध्वंसो जातः, तदुभयसांकर्येण च पञ्चा-देकसमाजो भूत्वा प्रकारान्तरेण पुनरिदं वर्तमानकालिकं समाज-संघटनं प्रववृते । तत्र प्राचीनानि शिल्प विज्ञानानि कानिचिद् विध्वं-सितानि कानिचिदभ्युन्नतिं गतानि कानिचित् परिवर्तितानि, कानि-चिद्वा नूतनान्याविष्कृतानीत्येव शिल्पविज्ञानस्य यथाकथंचित् प्रका-रान्तरेणाभ्युन्नतिसत्वेपि देवयुगीयं यज्ञविज्ञानं सर्वथा विलुप्तप्राय-मेवाभूत् तदिदं यज्ञविज्ञानपतनयुगमेवास्ति वर्तमानयुगं नाम || ४ ||. ', अपि चादित्रेतायुगे देवयुगे च सर्वजनताधर्म शासको ब्रह्मा नाम गुरुरासीत् । यद्यपीदानीमपि चीनदेशे तिब्बतप्रान्ते “ लामा ” – नाम गुरुर्विद्यते । रोमकपत्तने च " पोप " नामको गुरुश्यते, तथापि न पुरायुगीयब्रह्मपदस्ये वै तयोर्गुरुस्थानयोर्ज-नतायां पूर्णः प्रभावोऽधिकारो वा प्रतीयते । १ भारत तु तावदपि तादृशं गुरुस्थानं सर्वजनताधर्मशा सकं नास्ति तस्मात्तद्ब्रह्मपदपतनयुगमेवेदं वर्तमानयुगं नाम ॥ श्रपिच आदित्रेतायुगे पुरात्वे सामाजिकनियमानुरोधाद् विद्यावि-भागाभ्युन्नतिप्रवणाः कतिपये ब्राह्मण विभागा आसन् । ते चाह-रहः प्रकृतिगतान् विशेषान् परिपश्यन्तः प्रतिविषयं कार्यकारणान न्येषण निरीक्षण प्रवणा भूग्नसा प्रयत्नेन परीक्ष्य परीक्ष्य विदितरे-दितव्या. साक्षात्कृतधर्माणो नवां नवां विद्यामुद्भावयन्तिस्म । व
पृष्ठ 43
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः [ ३ ऋषयो नाम । ते हि स्वपरीक्ष्यविषयं विज्ञानेन द्रष्टारो यथार्थमाप्ता इत्यतो द्रष्टार उच्यन्ते आताश्च । यद्यपीदानीं युगेपि केचिदाप्ता द्रष्टारश्च संभवन्ति किन्तु पुरात्वे किञ्चिदासीदर्षियं नाम योगजं विज्ञानबलं तेन तथा प्रत्यक्ष पद प्रत्यक्षेष्वर्थेषु हृदयप्रकाशा मनोयोगा-दुत्पद्यन्ते स्म । तथा चाभियुक्ता आहुः ॥
आविभूतप्रकाशानामनभिप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ १ ॥
अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥२ ॥
2 इति ( वाक्यपदीये हरिः ) ॥ कणाद गौतमादयोप्यार्षेयं विज्ञानं प्रतिजानते । न चेदानों युगे तदार्षेयं विज्ञानमस्ति श्रार्षेयदृष्ट्यत्पा-दकयोगविद्याप्रकरणविशेषस्येदानीं विप्रत्वात् । तस्मात् तदार्षेय-विज्ञानोत्पत्तिपतनयुगमेवेदं वर्तमानयुगं नाम । अपि च पुरा देवयुगे राज्ञामधिपतिः सम्राट् सम्राजामधिपतिः स्वराट्, स्वराजामधि-पतिर्विराडासीत् । इदानीं तु साम्राज्यपर्यन्तमेवैश्वय्यं दृश्यते न स्वाराज्यं वैराज्यं वा । तस्मात् स्वाराज्याद्य ैश्वर्य्यसशापतनयुग मेवास्ति वर्त्तमानयुगं नाम ॥ तदित्थं कल्पसृष्ट्यारम्भकालादार-भ्येदानीं यावदस्य कल्पकालस्य चत्वारो विभागाः सिद्धा भवन्ति ॥ श्रविज्ञानकालो यज्ञविज्ञानप्रादुर्भावकालो यज्ञविज्ञानाभ्युन्नति-कालो यज्ञविज्ञानपतनकालश्चेति ॥ 3
पृष्ठ 44
पाठ पढ़ें पाठ छिपाएँ
* ] * देवासुरख्यातिः युगचष्टयस्य संज्ञान्मान्तरम श्रपि वा ब्रह्मपदानुदयकालो ब्रह्मपदप्रादुर्भावकालो ब्रह्म-प्रभावकालो ब्रह्मपदपतनकालश्चेति । अथवा अनापयकालः ऋष्यभ्युदयकालः, ऋषिप्रौढिकाल, ऋषिपतनकालश्चेति । अथवा धनैश्वर्यकालः, ऐश्वर्योदयकालः, स्वाराज्यकालः स्वाराज्यपतृत-युग कालगणना तत्र मतभेदेन किञ्चिन्न्यूनातिरेकभावितानि पञ्चसहस्राणि वर्षाणामितः पूर्वमतीतानि यचैतन्महाभारत ग्राम युद्ध ः कुरुपाण्ड-वयोरासोत् ॥ तत्पथाजनमेजय कालादारस्यैतस्य वर्तमानयुगस्यार-म्भं मन्यन्ते । ततः पूर्वं त्रिसहस्राणि वः प्रति वा वर्षाणां देवयुक्त प्राकालोऽभ्युपगम्यते । देवयुताचः पूर्व संभवनस्त्रिसहस्राणि वर्षाणामादित्रेतायुगकालः । ततस्तु पूर्वोऽयमादियुग कालः स्यात् संभवतः । केचित्तु जगद्रचना वैचित्र्यात् कालचकूस्वाभाव्याच द्वादशवर्षसहस्रोत्तरं युगपरिवर्तनं भवतीति नियतिमातिष्ठमाना द्वादश द्वादश सहस्राणि वर्षाणामेकैकयुगसत्ताप्रमाणकालं मन्यन्ते । तत्र यद्यप्येतद्य गप्रमाणनिरूपण विशिष्य प्रमाणं नोपलभ्यते, तथापि मानवजातेराचारविचारसम्बन्धेन सामाजिक-व्यवस्थाभेर्ददर्शनांश्रुतुर्धा युगव्यवस्थायां नास्ति विसंवादः । पूर्व-पूर्वीतिहास पर्यालोचनया तथा लाभात् ॥ आदिकाल स्वरूपम् सूरयादौ तावद्वियं- मानवजातिर तान्न सुविधा स्वेच्छाचाराचा पशुववृत्तिमह्या विसावा सम्मक निर्विशेषवेशपरिच्छदा कदाचिवासीदिति सभावयन्ति । प्रवा
पृष्ठ 45
पाठ पढ़ें पाठ छिपाएँ
* देवाख्यातिः * [ ५ ल्वे पूतस्युसेपु लोकानामाचारविचाराः सामाजिक व्यवस्था वा दृश्यते, न तथा सृष्ट्यादिकालेऽपि ते सर्वे तेषामुपपद्यन्ते । यथाहि गृहीतजन्मानो बालका न कस्मिंश्चिद्ध प्रवरण भवन्ति न विज्ञातानुमोदितानि कर्माणि कुर्वन्ति । सर्वजातीनां सर्वधर्माणां सर्वश्रेणिमनुष्याणां बालकाः समानभावेनैवादावु. परते, ते पश्चात् काले काले कमेण मातापित्रादिभिः स्वबेश भूमापरिच्छदानामधर्मेषु नीयमानास्तदनुरक्ताः सन्तो विशिष्यन्ते । एवमेवायं नरसम्राजोऽपि सृष्ट्यादौ बाल्यावस्था नतरां विज्ञाना-तुमोदितकर्मकर्ता सभाव्यते । न तदानीं गृहग्रामनगरादिनिर्मा-मासीत् । पशुववारण्याः सर्वे यत्र तत्र निवसेयुः । न च कृप्यादिकर्मणाऽन्नधनोपार्जनं संभाव्यते । फलाहारा: पला-हारा वा ते कथंचिज्जीवनं पशुवन्निर्वाहयेयुः । न बत्रादिनिम्म णमासीत् । नारामा न कूपं न कुल्या वासन् । न शास्त्रचर्चा-सीत् । न शस्त्रप्रक्रियासीत् । न समाजरक्षायै चातुर्ब्रर्त्स्यव्यवस्था-सीत् । दण्डधरो राजासीत् । षवादशः काल एवेह । दियमं नामोच्यते । एव संभव प्रतिपद्यते न तु स कालो यश्चावद्विज्ञातुं 17 राज्यते । किमभिव्याप्येदमादियुग वि छ । के के चलोका कालेलक मो. तल्लिखित शंभयते । लामायो मापुसका तत्कालस्या योग्यपुरुपैराकानी त्वदित्युपस्यते ।
पृष्ठ 46
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः अथ कालकूमे आदि येता युगव् बुद्धिविकाशात् सभ्यतोदयकृतबुद्धयः केचन सभ्या आवश्यकतानुसारात् स्वजीवननिर्वाहोपयोगिसाधन-सामय्यसम्पत्तौ प्रयतमानाः श्रमेण तपसा च वेदानुहयामासुः । वेदो विज्ञानशास्त्रम् । ततो वैदिकास्ते विज्ञानवशात् कालेन यज्ञविशेषांश्च शिल्पविशेषांचीहित्वा सुखसाधनसामग्र्यं कूमेण जनयामासुः । गृहाणि निर्मितानि । ग्रामनगरादयो निर्मिताः । कृष्यादिव्यापाराः पशुरक्षणं, वस्त्रादिरचना, घटादिपात्रारिण, मार्गसंनिवेशाः, राजसत्ता, दुष्टदण्डव्यवस्था, युद्धपरिचालन-कमः -- इत्येवमादयः कतिपये सामाजिक सुखसाधनोपायधर्मा श्रादित्रेतायुगे कमेणेन्नीयोन्नीय प्रवर्त्तिता अभूवन्नितिं ब्रह्माण्डे सप्रमाध्यायेऽनुषङ्गः पादे सविस्तरं वायुना व्याख्यातम् ॥ चतुर्धा नर समाजः तत्र पुनरेतेषां यज्ञकर्म्मणां शिल्पकर्म्मणां चाभ्युन्नतये शृङ्खलावद्ध प्रवृत्तिसौष्ठवायच ते विज्ञानानुमोदितं समाज-बन्धनं कारयामासुः । पशुववृत्तिभ्य आटविकेभ्यः साधारणम-नुष्येभ्यश्वतॆ सभ्यमनुष्याः पृथग्भूय मणिजा इत्याख्यया प्रसिद्धा बभूवुः । तैश्चायं सर्वोऽपि सभ्यभूतो नरसमाजश्वतुर्धा तावद् व्यभज्यत – [ २ ] साध्याः, महाराजिकाः, श्राभास्वराः तुषिता -: श्चेति । सिद्धा ऋभवश्चेत्यादयस्त्ववान्तरविभागविशेषा श्रासन् । तेषां वैज्ञानिका यज्ञादिवृत्तयः शान्तकर्मकारिणः साध्याः । ते द्वादशधा भिन्ना आसन् ( १ ) ॥ वैकृमिका युद्धादिवृत्तयोऽत्यु-प्रकर्मकारिणो महाराजिकाः । ते च विंशत्यधिकशतद्वयसङ्ख्या -८
पृष्ठ 47
पाठ पढ़ें पाठ छिपाएँ
* देवासुरस्यातिः [ बभूवुः ( २० ) । पंणिका वाणिज्यकृष्यादिवृत्तयो वस्तुप्रापण-कारिण आभास्वराः । ते चतुःषष्टिविधाः ( ६४ ) । एवं कला-कोविदाः शिल्पादिरचनावृत्तयो वस्तुनिर्माणकारिणस्तुषिताः षट्-त्रिंशत् ~ ( ३६ ) तदित्थमवान्तरविभागानुरोधेनैताः सभ्य-जातयः कैश्विदेवं संख्यायन्ते । प्रधानविभागानुरोधेन तु चत्वारोऽप्येते प्रत्येकं द्वादशधा कृत्वा विमज्यन्ते । शाखा प्रशाखा-भेदेनैषां श्रेणिगणनायां संख्याभेदेन विनिर्देशो न विरुध्यत इति बोध्यम् ॥ साध्याः महाराजिकाः .आभास्वराः तुषिताः ... ० १२ २२० ०६४ ०३६ अथ यज्ञशिल्पयोः प्रवृत्तौ कुलकूमागतदीक्षा रीत्या व्यव सायपरंपरायां विज्ञानोन्नतिक्रमसौकर्यं परिपश्यन्तस्ते सर्वा-वैतानि कर्माणि विभज्य विभज्य वंशपरम्परया सहानुबध्य प्रतिनियत कुलधर्मरूपेण नियमितानि कृत्वा चातुर्वण्यं चातुराश्रम्य च तत्र लोकसमाजे प्रवर्तयामासुः । तत्र विज्ञानं दण्डधारणं वाणिज्यं शिल्पं चेति चतुर्धा कर्माणि विभज्य तन्निर्बन्धेन गुण-कर्म्मविभागपुरस्सरं मानवजातौ चातुर्वण्यं तावदनुसृज्य सर्वा-वैतानि कर्माणि वंशपरम्परासंबद्धान्यकियन्त ॥
पृष्ठ 48
पाठ पढ़ें पाठ छिपाएँ
८ % 1 * देवासुरस्यातिः * तथाहि सति सोफी सूयामर्षादिदोषराहित्येन सौष्ठवेनाविरोधेन परस्परेष्य-स्वस्व कर्मस्वनवरसप्रधी पाहत उत्तरोत्तरसमुन्नतिमुखतया कर्मणां संपत्तिहेतथे चैतस्य चातुर्वराय-प्रबन्धस्य प्रधनोपायभूतस्य परिपश्यद्भिस्तैरिदं चातुर्वरार्यव्यवस्थानं राजशासनानुगतमकियत ॥ चातुराश्रीभ्यम् अथ कर्माणि द्विविधानि – ऐहिकान्यामुष्मिकाणि चैति । तत्रैहिक पुत्रसाधनार्थं कर्ममार्गो नियम्यते । तत्र कर्मसिद्ध्यर्थं ज्ञानमपेक्ष्यते । ज्ञानं साधनं कर्म साध्यं भवति । श्रमुष्मिक-सुखसाधनार्थं तु ज्ञानमार्गः । तत्र ज्ञानसिद्ध्यर्थं कर्मापेक्ष्यते । कर्म साघनं ज्ञानं साध्यं भव॑ति ॥ ज्ञानकर्म्माराधनमेव हि परमे-वराराधनं भवति । ज्ञानकर्मणेः परमेश्वररूपत्यात् ॥ तयोश्च भिन्नमार्गयोर्युगपदाराधना संमवादायुषोऽनाद्धेन विभेज्य ग्रामे वने निवसंस्तयोः सेवनं कुर्य्यादित्युपदिश्यते । शतायुर्वै पुरुषों भवतीति कृत्वा जीवनस्य प्रथमार्द्धेन स पश्चाशवर्षाणि यावत् गृहे निक्सन् कर्ममार्गे प्रवर्त्तेत न ज्ञानमार्गे । स एवं प्रवृत्तिकर्मयोगः । तत्र कर्मैव मुख्यं साध्यं, ज्ञानन्तु कर्मजनक तत्साधनतया मेयम् । अत एव तत्रार्द्धेन पंचविंशतिवर्षेः कर्मणां साधक ज्ञानबल सम्पो-द्यम् । तद्ब्रह्मचर्य्यमुच्यते । सदूध्वं तु सम्पादितेन तेन ज्ञानेनो-पपन्नकर्मबलः सन्नैहिक सुखभोगार्थानि कर्माणि कुप्यत् । तद् गार्हस्थ्यमुच्यते ॥ अथनं पचाशतो ब्रजेत । तत्रासी ज्ञानमार्गे प्रवर्तत न कर्ममार्गे । सोऽस्य निर्वातिकर्मयोगः स्यात् ।
पृष्ठ 49
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः क्रु तत्र ज्ञानमेव मुख्य साध्यं, कर्म तु ज्ञानजनकं तत्साधनतया नेयम् अत एव स तत्रार्द्धेन पञ्चविंशतिवर्षैर्ज्ञानसाधक कर्मबल सम्पदि-ये तत्तपय्र्यारूयं बानप्रस्थमुच्यते । तद्र्ध्वं कृतेन तेन कर्मणो-बिलः सन् संन्यस्तै हिककाम्यकम्मो निरस्त सर्ववासनः * स्थितप्रज्ञः स आत्मानं परमां शान्ति नये दिति चतुर्थाश्रम उच्यते । तदित्यं चातुरी श्रम्यमनुसृज्य सर्वाण्येवैतानि कर्माणि जीवनकाल संबद्धानि व्यमन्यन्त Thtra govts जीवनकालविभागेनानेकं विभिन्न-पुरुषस्य कम्मसाधनाये विनियोगश्चातुराश्रम्यम् ॥ क्रमागतवंशपरम्परैया तु बहुभिर्विज्ञानादी कैक कर्मसाधनार्थं विनियोगश्चातुर्वण्र्यम् ॥ इत्येवं बहुदी पदर्शितयाय कर्मबन्धस्तदानीं व्यवस्थितः प्राकल्प्यत । एकन्नियमपरिपालनार्थ च ज्ञानाध्यक्षतया पुनर्ब्रह्मणेषु गुरुः, कर्मायतया! क्षत्रियेषु प्रभुश्चं पृथगिवाधाय्र्यत । तावेतौ लोक यात्रायां समाजशासकी भवतः । गुरु यथोक्त गौतमादिभिर्धर्मसूत्रकारैः "“ द्वौ लोके धृतव्रतौ - राजा ब्राह्मणश्च बहुश्रुतः । तयोश्च तुर्विधस्य t मनुष्य जातस्यन्तिः संज्ञानां चलनपतनसर्वगानामयत ' जीवनम् ॥१ ॥ ॥
तत्रादशोपदेशाभ्यामयं गुरुर्निग्रहानुग्रहाभ्यां चार्य प्रभुः सर्वानिर्वतान् स्वस्वधर्मे संस्थापयन्ती तत्तद्धर्मसंरक्षणं कुरुतः ।
पृष्ठ 50
पाठ पढ़ें पाठ छिपाएँ
१० 1 * देवासुरख्यातिः तयोश्च कम्र्मानुरोधेन तावद् – उपाध्यायः, ऋत्विक्, पुरोहितः, आचार्यश्चेति गुरोश्चत्वारो विभागाः । शासक: नं. एवं प्रभोरपि राजा, सम्राट्, स्वराट्, बिराट् चेति चत्वारो -विभागाः । तत्र राजादयश्चत्वारोऽप्येते बलतारतम्येन कनिष्ठश्रेष्ठ-भेद्रात् प्रत्येकं द्विविधा इष्यन्ते । एकदेशाधिपतिभूपालों राजा । स. द्विविधो भोजो, महाभोजश्च । बहूनां राज्ञामधिपतिः सम्राट् । स द्विविधः चकूवर्त्ती, सार्वभौमश्च । बहूनां सम्राज्ामधिपतिः स्वराट् । स द्विविधः इन्द्रो, महेन्द्रश्च । स्वराजोऽत्यधिपतिर्विराट् । स द्विविधो ब्रह्मा, विष्णुश्चेति । न विराजमतिकामति कश्चित् । अवरं हि राज्यं परं साम्राज्यमिति श्रुत्या - ( शत. ५ कां. १ मा. ) लोक सिद्धमेवैषां परावरस्यमनूद्यते । एवं गुरुविभागेऽपि । देव युगम Shre व्याख्यातमादित्रेतायुगम् । देवयुगं व्याख्यायते तत्र मज़ोरस्मारकालक्रमेण पुनर्लोकसमाजे परिक्लृप्ते, विद्यानुरोधेन पुनरेतेषामन्ये विभागा अकल्प्यन्त । तत्र विप्रः ऋषिर्देवो ब्रह्मा घेति चत्वारो ब्राह्मणेषु ॥ राज्यन्य ऋषिर्देव इति त्रयः क्षत्रियेषु ॥ तन्त्राऽप्येषां परावरत्वं श्रूयते -" ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ॥ १५ श्येनो गृधारणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्नू ॥१ ॥ इति "..
( ऋ स ह म ६६. तू. ) अनया दैवोदा सिप्रतर्द्दनोक्तया पदा बकुल आय विप्रादीनामुत्तरोत्तरं सम्मानाधिक्य