देवासुराख्याति — पृष्ठ 81–90
देवासुर ख्याति · पृष्ठ 81–90
पृष्ठ 81
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः [ ४१ एवमिहापि पृथिव्यां चतुर्दशकलाधिकसप्तत्रिंशदक्षांशमिते [ ३/१४ ] श्रष्टादशाधिकचतुःसप्ततिद्राघिम शिमिते [ ७४ | १८ ] च प्रदेशे ब्रह्मसरो नाम किचिदस्ति सरः । तस्यैषा सन्ने हिरण्य-शृङ्गपर्वतस्य पादप्रदेशे विष्णुसरो नामान्यत् सरोऽद्यापि प्रति-पद्यते । तदद्यत्वे विन्दुसरो नाम पौराणिकैर ॥ ख्यायते । वैदेशिकाः पुनरिदानीं पामीरकुलेति ब्रह्मसरसः, सरीकुलह देति बिन्दुसरसो नामाचक्षते । अनयोर्द्वयो: सरसो: प्रान्तः प्रदेशात् सप्तगङ्ग नाम्ना प्रसिद्धानि सप्त स्रोतांसि निर्गत्य सर्वतः संप्रवहन्ति । तन्निर्गमोप-लक्षितः प्रदेशो मेरुखण्ड: । तस्मात् सुमेरुस्थानादारभ्य 7 * दिव्य ] स्वर्गसंमितभागाः स्वर्गो लोकः । ततो देवयानसंमितभागाः किञ्चि-न्न्यूना या मतभेदेनान्तरिक्षलोकः । ततोऽधस्तात् विषुवत्पर्यन्तं भूर्लोकः । ततोऽन्ये तु प्रान्तभागाः पृथिव्यां स्थिता दिकछब्देन व्यपदिश्यन्ते । दिव्ये त्रैलोक्ये दिक्षु चैते ऋषिपितृदेवासुरादयः दिव्याः प्रारणा यथाभित्र्याप्ता दृश्यते तथाऽस्मिन् भौमे त्रैलोक्ये दिक्षु चैते प्राणिनः सर्वत्र संविभागेन निवसन्तिस्म । सैपा त्रह्मकृता लोकसृष्टिराख्याता ।
पृष्ठ 82
पाठ पढ़ें पाठ छिपाएँ
४२. 1 * देवासुरख्यातिः * त्रैलोक्यविभागः .... अथ लोकव्यवस्थां विदधानो ब्रह्मा सर्वा पृथिवीं लोक-दिग्भ्यां द्वेषा तावद् विभ्रव्य - प्रधानसंस्थानं लोकशब्देन तदधीन. प्रदेशांस्तु दिकछब्देनाख्यापयामास । एकैकं लोकं पुनस्त्रेधा विभज्य तवस्त्रैलोक्यं कल्पयित्वा तत्पारिपार्श्विकानितरान् क्षुद्रक्षुद्रभूमि-खण्डान् परितो दिनु सन्निविष्टान् गौणभूतान् दिक्छब्देन व्यवस्था-पयति स्म ॥.. त्रैलोक्यभेदेन च · तत्तद्दिप्रदेशा अपि भिद्यन्ते । ते च त्रैलोक्यविज्ञानादेव तत्पारिपार्श्विकतया यत्र तत्र स्वयं विज्ञातु शुक्यन्ते । 4 अतस्त्रैलोक्यं किञ्चिदिहाभासमात्रेणानुदर्शयामः । * अष्टविधं हि त्रैलोक्यं श्रुतिस्मृत्यादिवचनादुपगम्यते - १ - प्रतिष्ठा-परायणं, दृष्टिपरायणं, ३ - ब्रह्माण्डपरायणं, ४- ध्रुवपरायणं-सूर्य्यपरायणं, ५- तेजः परायणं, ६ - महामेरुपरायणं, ७- मेरुपरा-यां, ८- शिरः परायणं चेति । तत्राद्यं तावत् । याधस्तादियमस्माकं प्रतिष्ठा भवति सा पृथिवी " तस्या अस्या उपरिष्टाल्लम - ओषधयो वनस्पतय आपो-ऽग्निरिमाः प्रजाः ” । इति श्रुतेः । शत ० १ ५२ ५ या चास्या ऊर्ध्वतः अष्टविधं त्रैलोक्यम् १- प्रतिष्ठात्रैलोक्यम् ५ - सूर्य त्रैलोक्यम् २- दृष्टि त्रैलोक्यम् ६- तेजस्त्रैलोक्यम् ३ - ब्रह्माण्डत्रैलोक्यम् ७ - मेरुत्रैलोक्यम् ४ - ध्रुवत्रैलोक्यम् ... 2 ८- शिरस्त्र लोक्यम्
पृष्ठ 83
पाठ पढ़ें पाठ छिपाएँ
देवासुरख्यातिः * [ ४३ सूर्य चन्द्रनक्षेत्रप्रतिष्ठा सा द्यौः तिस्मा अमुष्याः? अपस्तालक्ष्म-चन्द्रमा नक्षत्रारिण सूर्य्यः ” । इति श्रुतेः ( शत ० ११५५ ) तयोरन्तर्य-दक्ष्यिते तदन्तरिक्षम् । यत्तु सूर्यमेय: केचिदिवमाहुस्तदसत् । अन्तरिक्षादूर्ध्वं हि यत्रार्यं सूर्य: संलप्त इवाभाति सा दृष्टिकल्पिता भूमिरेव द्यौः न त्वयं सूर्य्य एव द्यौ: " अबहताद्धि दिव आदित्यः ” ( श ० हा २३२ ) इति श्रुतेः सूवत्प्रिथकत्वेन दिवः परिचयात् । अत एव च - " बहलेव वा इयं पृथिवी । लेलयेचान्तरिदां । लेलयेवासौ द्यौः । उभे चिनां प्रत्युद्यामिनी स्तामिति । ( शन ० २।१।५।१ ) इति श्रुतेः संगच्छते । अन्यथा सूर्यस्य रूपत्वे पृथिव्या इव दिवोप बहुलारूपत्यप्रस कौसा श्रतिर्विरुद्धा स्यादितिः बोध्यम् । श्रत्र लेलयेत्य-पिण्डरूपत्वमुच्यते । · परे त्वन्यथाहु! - पृथिव्याः स्वधुरिः प्रत्यहं परिक्रमणादन्तरि यौव प्रत्यहं तेलयेव भवतो } नैकरूपतया चिरमवलोक्येते । पृथिव्यास्तु परिक्रमणेपि द्रष्टुः पुरुषस्य सहा-व्यतिरेकेण सत्वान्न विचालित्वमित्यपि द्रष्टव्यम् । तदिदं प्रतिष्ठा-परायणं त्रैलोक्यमेकम् ॥ १ ॥
अथ द्वितीयं दृष्टिपरायणं यथा— यत्र कुत्रापि स्थितवतां दृष्टिपरायणं कुर्म्म-त्रैलोक्यम् चौः अन्तरिक्षम् पथिवी
पृष्ठ 84
पाठ पढ़ें पाठ छिपाएँ
४४ ] ॐ देवासुरख्यातिः सर्वतो दिशं परिपश्यतामस्मार्क या पराकाष्ठा, तया कूर्म्म -शरीरमिवैकं विश्वरूपं परिपश्यामः । कूर्म्मशरीराधस्तलवत् तथा धस्तात् " सर्वतः समतल तुला भूमिः प्रतिपद्यते सा पृथिवी । उपरिष्टात्त कूर्मपृष्ठवन्निन्नोदरवतु लं कपालं दृश्यते । सा द्यौः । यदन्तरा तयोरवकाशो लक्ष्यते तदन्तरिक्षम् । तदेतत् सार्वलौकिकं दार्ष्टिक त्रैलोक्य माध्यर्य्यश्रुतौ श्रूयते -स एष कूर्म्मः इम इव लोकाः । तस्य यदधरं कपालमयं स लोकः । तत्प्रतिष्ठितमिव भवति । प्रतिष्ठित इव ह्ययं लोकः । श्रथ यदुत्तरं सा द्यौः । तद्द्व्य॑षगृहीतान्तमिव भवति । व्यवगृहीतान्तेत्र हि द्यौः । अथ यदन्तरा तदन्तरिक्षम् । स एष इम एव लोकाः । दधि हैवास्य लोकस्य रूपं, घृतमन्तरिक्षस्य, मध्यमुष्य । एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत, यदसृजत् अकरोत् तत्, यदकरोत् तस्मा-त्कूर्म्मः । कश्यपो वै कूर्म्मः । तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति । स यः स कूम्र्मोऽसौ स श्रादित्यः । प्राणो वै कूर्म्मः । प्रारणो हीमाः सर्वाः प्रजाः करोति । ( शत ० ७।४ प्र ० १ ब्रा ० ) । तथा चैतत्कूर्म्मा-कारपरिच्छिन्नो दधिवत्कंठिनीकरणैः स्निग्धकर णैर्मधुमयैश्च रसैः कृतशरीरः सूर्योपजनितः प्राण एवेह पृथिव्यां सर्वं प्राणिजातमुत्पा-दयतीत्यर्थे पर्यवसिते कूर्म्मप्राणशरीरावयवभूताखयो रसा एव यो लोका उप सिद्धम् ॥ २ ॥
पृष्ठ 85
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः * अथाण्डपरायणं पुराणे स्मयेते " रवि ४ " दयो-विच ” ॥ इति । सूर्य्यप्रकाशो यादवका परियो आतित् " प्रकाशमण्डलमेव ब्रह्माण्डम् । तदन्तरियं पृथ्वी कचिन्मण्डला. कारमार्ग परितः क्रमते । तस्य च मार्गस्य पृथिवीरूपतया तादृश-पृथ्वीमार्गरेखया तद् ब्रह्माण्डमधेन विछिन्न् शकल द्वयात्मकं भवति ताम्यां च शकलाभ्यां स दिवं भूमि च निर्ममे । यस्मिन् शकले सनपयो वादयश्च दृश्यन्ते सा द्यौः । तत्समानप्रमाणमपरं ART TE F U शकलं पृथिवी । इयमेवोनपञ्चाशत्कोटियोजन विस्तीर्णा । सूर्याण्डगोल योमध्ये कोट्यः स्युः पश्ञ्चविंशतिरिति भागवते ब्रह्माण्ड-व्यासस्य स्थूलमानेन किं दूनपखविंशको क्र्तेस्तद्द्वैगुण्येन किञ्चिदधिकोनपञ्चाशत्कोटिलाभात् । सावयवै कषष्टलक्षाधिकचतु-निवार विशतिकोटिप्रमाणव्यासार्द्ध गुण्याद् द्वासप्तत्यधिके कानपचाश. कोटियोजनविस्तारा पृथिवीति परे व्याचक्षते । अथ विषुवरे-खातोऽधरतादुपरिष्टाच यावदयं पृथ्वीक्रमणमार्गः प्रवते तदन्त-रिक्षां कल्प्य ि इदमेव तृतीय पारीरिक समस्य
पाद्गम्यं तु यत्किखिद्वस्त्वस्ति पृथिवीमयम् ।
भूक समस्त विस्तारो ऽस्य मयोदितः ॥ ॥ ॥
: FIREPIUSPES भूमिसूर्य्यात्तरं यच्च सिद्धादिमुनिसेवृितम् ।f. भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमैः ॥ २ ॥
पृष्ठ 86
पाठ पढ़ें पाठ छिपाएँ
४६ } * देवासुरख्यातिः ध्रुवसूयन्तरं यत्तु नियुतानि चतुर्दश । '
।
स्वर्लोक: सोपि कथितो लोकसंस्थानचिन्तकैः ॥ ३ ॥
रवि चन्द्रमसोर्या बन्मयूखैरवभास्यते । ( ब्रह्म पु ० इत्येके ) " ससमुद्र मरिच्छेला तावती पृथिवी स्मृता ॥ ॥
यावत्प्रमाण पृथिवी विस्तारपरिमण्डला ।
नमस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ २ ॥
सूर्यादिज्योतिषामेषामूर्ध्वं सप्तर्षयः स्थिताः ।
ज्योतिश्चक्नस्य सर्वस्य मेंढीभूतस्ततो ध्रुवः ॥ ३ ॥
त्रैलोक्यमेतदाख्यात संक्षेपेण द्विजोरमाः । ध बादूव महलोको जनोलोकादयोऽपिच ॥ ४ ॥ इत्यन्ये
सयचन्द्रमसौ यावत् किरणैरवभासत कप तावद् भूर्लोक आख्यातः पुराणे, द्विजपुङ्गवाः ॥ ५ ॥ ॥
यावत्प्रमाणो भूर्लोको विस्तारात्परिमण्डलात्! भुवर्लोकोऽपि तस्यान्मण्डलाद्भास्करस्य तु ॥ ६ ॥
ऊर्ध्वयन्मण्डलं ज्योति ध्रुवो यावदुव्यवस्थितः । स्वर्गलोकः समाख्यातस्तत्र वायोस्तु नेमयः ॥ ७ ॥ इतिपरे
तत्रायं निष्कर्षः । पौराणिक भुवन कोशस्य महामेरु पृथिवी-मध्यमास्थाय व्यवस्थापितत्वात् तत्रस्थेन पादगम्यप्रदेशादूर्ध्व ध्रुवपर्य्यन्तं ये व्योमप्रदेशा लक्ष्यन्ते तेषामेवैतद्विभाग येण त्रैलोक्यं पय्र्यवसीयते । तत्र च विषुववृत्तमेव क्षितिजवृत्तं
पृष्ठ 87
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः [ ४७ भवति । तदूर्ध्वमष्ठा.वंशमुत्तरमक्षांश यावत् सूर्याचन्द्रमसौ कान्त्वा-बभासेते तस्मात्तावत्पय्र्यन्तं भूर्लोकः । तदूर्घ्य पुनः षट्पञ्चाश मुत्तरशियावद्भुतकः । ततः पुनरूध्वं ध्रुवं यावत् स्वर्लोकः । यद्यपि सूर्यमण्डला दूध्वं भुवर्लोकः प्रतिज्ञायते । सूर्यमण्डल तु चतुवमेवाशं यावत् क्रमते । तथापि सूर्यचन्द्रयोरुभयोर्नाम्नोप-काल देह सूर्य चन्द्रस्यादुपलम् । चन्द्रश्चाष्टाविंशं यावदु-कंमते तस्मात्तत एवाध्वं भुवर्लोकः । एतदेव त्रैलोक्यव्यवस्थान युक्तम्, भौमत्रैलोक्यस्य महामेरुपरायणस्याप्येतत्साम्येनैव व्यवस्था-पयिष्यमाणत्वात् । यत्तु भूमिसूर्यान्तरं भुवर्लोक इत्युक्त तत् प्रस्था-नान्तरेण व्याख्ययम् । तत्साम्येन भौमत्र लोक्यन्यानुपपाद्यत्वात् प्रकृते तदनादर इतिदिक ॥ २ ॥
17 अथ तृतंय याज्ञिकं पञ्चचितिश्रुतौ भूयते " प्रजापतिरिमां प्रथमां स्वयमातृष्णां चितिमपश्यत् । तमिः पशुभिरुपैत् । इन्द्रा-भी च विश्वकर्मा चान्तरिक्षं द्वितीयां स्वयमातृरणांचितिमपश्यन् । तान् वायुर्दिग्भिरुपैत् । परमेष्ठी दिवं तृतीयां स्वयमातृणां चितिम. पश्यत, तमसादित्यो लोकम्पूणयोपैत् । अथ यदूव पृथिया अर्वाचीनमन्तरिक्षात् तेन देवा उपायन् । यदूध्यमन्तरिक्षादर्वाचीनं दिवस्नेनर्षय उपायन् ” । इति अपि च श्रूयते " ब्रह्म देवान् सृष्ट्वा एपु लोकेषु व्यारोहयत् । अस्मिन्नव लोक्रेऽग्निम् । वायुमन्तरिक्षे । दिव्येव सूर्य्यम् ” । इति । विष्णुक्रमं पि श्रूयते- " यज्ञोविष्णुः स देवेभ्य इमां विक्रान्ति विचक्रमे - इदमेव प्रथमेन पदेन पुस्पा ।
पृष्ठ 88
पाठ पढ़ें पाठ छिपाएँ
४८ ] * देवासुरख्यातिः * अथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेन । इमान् लोकान् समास्ह्या-थैषा गतिरेषा प्रतिष्ठा य एष तपति । तस्य ये रश्मयस्ते सुकृतः । अथ यत् पर भाः, प्रजापतिर्वासः; स्वर्गो वा लाकः " इति । अभिहा-व्रतमहदुक्थकृतं त्रैलाक्यमप्यत्र वान्तर्भाव्यम् । तथाचायमग्निर्यस्य -प्राण, सोऽये स्थलों मृत्पिण्डः पृथ्वी । यस्यैते रश्मयो यत्रैतत्परम्भा, M P यस्य वा सूय्र्यः प्राणः सोऽयं भास्वरस्तेजः पिएडो द्यौः । अथ " योऽयमन्त रावकाश यस्य वायुः प्राणः सोऽयमाकाश एवन्तरिक्षम् । द्यावापृथिव्यो सायतने निरायतनमन्तरिक्षमिति तत्तछ तित्राक्य-पर्यालोचनया निष्कृष्य लभ्यते || ३ || अथ चतुर्थ त्रैलोक्यं वैज्ञानिक भवति । वैश्वानरप्राणेनाङ्गिरसा सप्राणो मूत्पिण्डः पृथ्वी । तस्या रथन्तरंसाम सूर्यरथादप्यूर्ध्वं पर्यवस्यति तावतीयं पृथिवी वैदि-तम्या । सामान्तमेव सर्व वस्तु रूप घसे तावश्चास्य प्राणोऽशनायया स्वमन्नमादत्ते । तथा च पृथ्वीगर्भस्थः प्राणो यदादत्ते तपौनाकृष्ट न नतः पृथग् भवति । यदस्माक शरीर यच्चैतद्न्यल्लीष्टादिकं पार्थिव किचित् सबै तदनया पृथिव्याकृष्टं तदनुबद्ध पृथिव्यामेव संश्लिष्टमन्न भवति न ततैः पृथग्भाव्यते । एवं मेव सूर्य्यप्राणोऽश-नायया यदन्नमात्मनिकरोति तत्तेन गृहीत तेनाकृष्ट तंत्र वानुषद्धं भवति न ततः पृथग्भाव्यते । स एषोऽन्नादः सूर्यप्राणो बृहत्-सामान्त रूप धत्ते तावती हीयं द्यौः ॥ अथोमाभ्यामेताभ्यामगृहीतं वायुना प्राणेन गृह्यते तत्तेनाकृष्ट भवति । स यावदयं वायुरन्नमा-दत्ते तावदन्तरितम् । इत्थमेषी त्रयाणां देवानां यान्यन्नायतनानि ग
पृष्ठ 89
पाठ पढ़ें पाठ छिपाएँ
* देवासुरख्यातिः * [ ४६ तान्येव त्रयो लोकाः । तथा चैषां त्रयाणां देवानां रसैः कृतशरीरा इमे वयं युगपत् त्रिषु लोकेषूपस्थिता जीवामः । यत्र पार्थिव शरीरं दध्मस्पेन वयं पृथ्वीलोकस्थाः पार्थिवप्राणेनाकृष्टा न सूर्य-पर्य्यन्तमुपरिष्टाद्गन्तुं शक्नुमः । यद्वा दिव्यं तैजस प्राणं दध्मो यद्वा वायव्यं प्रारण दुधमत्तेन वयं दिविष्ठा अन्तरिक्षस्थाश्चेदमुन्नतेन शिरसाऽभ्युन्नता यनस्ततः संचरामः । त्रलोक्यावस्थिता अत्या धिक्येन पृथिव्या ससक्ताः पृथिव्याः क्रोडे निद्दिताः स्मः । श्रत एव च द्यौः पिता पृथिवी मातेत्यभ्युपगच्छामः । तथा चाहुर्महर्षयः ।
“ कौः पितः प्रथिविमावस्थ ग्ररने भ्रातर्वसवो मृड़ता नः ।
विश्वेदेवा महिले सजोषा मध्यस्य शर्मा बहुलं वियन्तेति ॥
बहु म्वा यक्तस्य तदम्यत्रज्ञानामुपपादितः द्रष्टव्यमितिदिक ॥४
ॐ : अथ पञ्चम मेलोक्यमतिहासिक व मः । " पय्यासः सन्नि - वेशश्च भूमेयावत्तु मण्डलम् । पर्य्यासपरिमाणेन भूमेस्तुल्यं दिवः स्मृतम् ” । ( पू ० भा ० अ ० या ० २।अ ० २१ ) । इति ब्रह्माण्डवचनाद्दियश्च भुवश्च साम्येन विभागाः कल्प्यन्ते # त्रपर्यन्तमिद शैलोक्य ध्रु बादूर्ध्वं तु महर्लोकादयश्च.. त्वारो लोकाः कल्प्याः । तत्र तस्या ब्रह्माण्डार्द्ध खण्डात्मिकायाः पृथिव्यास्तेज सपृथिवीशब्दे वास्मत्प्रतिष्ठयत्मिकायास्त्वस्याः प्रथि * एतावानेन पाठो मूलपुस्तके विद्यते नातीऽय । सम्पादकः ।
पृष्ठ 90
पाठ पढ़ें पाठ छिपाएँ
५० ] * देवासुरख्यातिः व्याः मृत्पिण्डपृथिवीशब्देन व्यवहारः काय्र्यः । तथा च तेजसां यत्रेयं मृत्पिण्डवी वर्तते ततो मृत्पिण्डपृथ्वी परितो द्विगुणद्विगुणायामाचतुर्दशविभागाः कल्प्याः । तन्त्र मृत्पिण्ड-पृथ्व परितः प्रथमो वायुस्तरः, ततो रतरतरः, तत: पुनर्वायुग्तर, ततः पुना रसस्तरः, इत्थमेकैकान्तरिताः सम वायुस्तरा सप्तैव च रसस्तराः संभवन्ति । वाय्वश्चैते परस्परं भिद्यन्त- रसाश्चैवम् । तत्र वायु॒स्तरान पश॑देन, रसस्तरांस्तु समुद्रशब्देनाहुः । सप्त-द्वीपा: सप्तसमुद्राश्चैतां मृत्पिण्डपृथ्वीं परित वृण्वते । सममे तु पुष्करपेऽयं सूर्यः प्रवर्तते । सोऽर्द्धम पृथ्वीस्थच स्थश्व भवति । सूर्यतः प्रसूतास्ते ते रसा भिन्नभिन्नेन वायुनाऽवस्कन्दिता शनैः शनैरिमां पृथ्वीमभिप्रवर्षति । सप्तद्वीपा सप्तसमुद्रवेष्टिता चेयं पृथ्वी सूर्यरथमतिक्रम्य संतिष्ठते । तस्मादस्या अवसान-सीमात्मर्क सामरथन्तरमित्युच्यते वेदे । सप्तद्वीपा सप्तसमुद्रा चेयं पृथ्वी सूर्यप्रकाश मरडनात्मके बृहत्सान्नि परितो भ्रमन्ती स द्वीपसमुद्रः परिक्रमते । न बृहत्सामती बहिर्भवति । न वा तैजस-पृथ्वीतो बहिर्भवति । सा रसादीनां विशिष्य विवेचना ब्रह्म-विज्ञाने द्रष्टव्या । इति ब्रह्माण्डपरायणं नाम तृतायं त्रैलोक्यं व्याख्यातम् ॥ ३ ॥