मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 101–110

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 101–110

पृष्ठ 101

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 101 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता २ ९ का ) धर्म ( गुरुशुश्रूषा आदि - ब्रह्मचारी का ), अधर्म ( मांसभक्षण एवं मैथुन आदि-उसी ब्रह्मचारी का ), सत्य ( प्रायः देवों का ), और असत्य ( प्राय: मानवों ) की सृष्टि के प्रारम्भ में जिस - जिस के लिए बनाया; वह वह बार - बार उसी - उसी को अदृष्टवश स्वयं ही प्राप्त होने लगा ॥ २ ९ ॥ स्वयं स्व - स्व कर्म प्राप्ति में दृष्टान्त-यथर्तुलिङ्गान्यृतवः

स्वयमेवर्तुपर्यये ।

स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ ३० ॥

भाष्य - - अत्र दृष्टान्तः । अचेतना अपि यथा भावास्तन्मर्यादयैव व्यवस्थित-स्वभावाः एवं चेतना अपि पुरुषकृतकर्मसहायेन प्रजापतिना कृतां मर्यादां नातिक्रामन्ति, यस्यां जातौ जातास्तदेव कुर्वन्ति नान्यदिच्छन्तोऽपि शक्नुवन्ति कर्तुम् । ऋतवो वसन्तादयः । स्वलिङ्गानि चिह्नानि पत्रफलकुसुमशीतोष्णवर्षादीनि । पर्यये । यस्यर्तोर्यः पर्यायः स्वकार्यावसरः तस्मिन् स ऋतुस्तं धर्मं स्वयमेव प्रतिपद्यते, न पुरुषप्रयत्नमपेक्षते । चूतमञ्जर्यो वसन्ते स्वयमेव पुष्यन्ति, न मूले सलिलसेकमपेक्षन्ते । एवं पुरुषकर्माण्यदृष्टानि । नास्ति स पदार्थों यो न कर्मापेक्षते । तथाहि । वर्षाणां स्व-स्वभावो यो वृष्टिप्रदः - भवति च राजदोषाद्राष्ट्रदोषाद्वा कदाचिदवग्रहः । तस्मात्कर्म-शक्ति रेवानपसार्या । वृत्तानुरोधादसकृदृतुग्रहणम् । अन्ये तु श्लोकत्रयमप्यन्यथा व्याचक्षते । कर्मशक्तीनां स्वभावनियमोऽनेनोच्यत इत्याहुः । ( २८ ) यत्फलं यस्मिन्कर्मण्याहितं प्रजापतिना स कर्मविशेषः पुनः पुनः सृज्य-मानोऽनुष्ठीयमानः स्वयं तत्फलं भजते ददातीत्यर्थः । तेन यागः कृतो यदा फलिष्यति न तदा किञ्चिदन्यदपेक्षत इति प्रतिपादितं भवति । सेवा हि स्वकृताऽपि मन्त्रि-पुरोहितादिवाक्यमपेक्षते । नैवं यागः । दृष्टस्तु व्यापारस्तेनापेक्ष्यते । दृष्टादृष्टकारणद्वय-जन्यत्वात्सर्वस्य कार्यस्यादृष्टान्तरापेक्षा निषिध्यते तदानीम् । ( २ ९ ) कर्माणीष्टानिष्टफलप्रदानि विधिप्रतिषेधविषयाणि । कर्माणि द्विश उदा-हरति । हिंस्राहिंस्रे इति । हिंसा प्रतिषिद्धा । तस्या नरकादिफलप्रदानं नियमितम्, यो ब्राह्मणायावगुरेत् यो मामकायावगुरेत्तं शतेन यातयादिति वाक्यशेषेभ्यः । सा ततः स्वभावान्न च्यवते । प्रायश्चित्तेषु विशेषं वक्ष्यामः | अहिस्रं विहितम् । तस्यापि नेष्ट-फलदानात् स्वभावच्युतिरस्ति । धर्माधर्मयोरेव विशेषायते । विहितं कर्म धर्मः, प्रति-षिद्धमधर्मः, तयोर्विशेषाः सत्याऽनृतादयः । सत्यं विहितमनृतं प्रतिषिद्धम् । एवं सर्वाणि पृर्वोत्तरपदानि विहितप्रतिषिद्धविशेषप्रदर्शनानि ।

पृष्ठ 102

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 102 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३० मनुस्मृतिः [ प्रथम: ( ३ I ) अव्यभिरितदृष्टकार्यकारणसम्बन्धीनि कर्माणि । दृष्टान्तः यथर्तुलिङ्गा-नीति | शेषं समानम् ॥३० ॥

हिन्दी – जिस प्रकार ( वसन्त आदि ऋतु ) परिवर्तन होने पर स्वयं ही अपने-अपने चिह्नों ( पिक - कूलन, आम्र - मञ्जरी आदि ) को प्राप्त करती है, उसी प्रकार देहधारी ( जीव ) अपने - अपने कर्मों ( हिंसा, अहिंसा आदि पूर्व श्लोक्त ) को स्वयं ही करते हैं ॥३० ॥

ब्राह्मणादिवर्णों की सृष्टि-लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ ३१ ॥

भाष्य—– पृथिव्यादीनां लोकानां विवृद्ध्यर्थम् । ' वृद्धि: ' पुष्टिर्बाहुल्यं वा । ब्राह्मणादिषु चतुर्षु वर्णेषु सत्सु त्रयाणां लोकानां वृद्धिः । इतः प्रदानं देवा उपजीवन्ति । ते च यागाद्यधिकृताः । अतस्तै: कर्म कृतमुभौ लोकौ वर्धयति । पुरुषकर्मप्रचोदिता देवाः । आदित्याज्जायते वृष्टिरिति । अस्यापि लोकस्य सृष्टिवृद्धिः । ब्राह्मणादीन् वर्णा-न्निरवर्तयन्निर्वर्तितवान् असृजत् । मुखबाहूरुपादतः । यथाक्रमम्, मुखाद्ब्राह्मणं, बाहुभ्यां राजन्यम्, ऊरुभ्यां वैश्यम्, शूद्रं पादत इति । तसिः अपादाने । कारणात्कार्यं निष्कृष्यत भवति इवति अपाये सति अपादानत्वम् । आद्यं कश्चिद्ब्राह्मणं स्वमुखावयवेभ्यो दैव्या शक्त्या निर्मितवान् – अद्यतनानां सर्वेषां मिथुनसम्प्रयोगद्वारेण तत्त्वेभ्य उत्पत्तिदर्शनात् । परमार्थतः स्तुतिरेषा वर्णानामुत्कर्षापकर्षप्रदर्शनार्थम् । सर्वेषां भूतानां प्रजापतिः श्रेष्ठः । तस्यापि सर्वेषामङ्गानां मुखम् । ब्राह्मणोऽपि सर्वेषां वर्णानां प्रशस्यतमः । एतेन सामान्येन ब्रह्ममुखादुत्पन्न इत्युच्यते । मुखकर्माध्यापनाद्यतिशयाद्वा मुखत इत्युच्यते । क्षत्रियस्यापि बाहुकर्म युद्धम् । वैश्यस्याप्यूरुकर्म पशून् रक्षतो गोभिश्चरन्ती-भिर्भ्रमणं स्थलपथवारिपथादिषु वाणिज्यायै गमनम् । शूद्रस्य पादकर्म शुश्रूषा ॥ ३१ ॥

हिन्दी — लोक - वृद्धि के लिए ब्रह्मा ने मुख, बाहु, ऊरु और पैर से क्रमश: ब्राह्मण, क्षत्रिय, वैश्य और शूद्र की सृष्टि की ॥ ३१ ॥

स्त्री - पुरुष की सृष्टि-द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत् ।

अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ ३२ ॥

भाष्य - एषा सृष्टिः साक्षात्परस्य पुरुषस्य । इयं तु ब्रह्मणस्तस्यैवेत्यन्ये । यत्तदन्तरण्डं समुद्गतं शरीरं तद् द्विधा कृत्वाऽर्धेन पुरुषोऽभवत् पुमान् सम्पन्नः शुक्रसेकसमर्थः । अर्धेन नारी गौरीश्वरभङ्गया । अथवा पृथगेव तां निर्मितवान् । तां

पृष्ठ 103

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 103 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य'मणिप्रभा ' हिन्दीटीकासहिता ३१ निर्माय तस्यां मैथुनेन धर्मेण विराडिति यस्य नाम प्रसिद्धं तं जनितवान् । एतदुच्यते— प्रजापतिः स्वां दुहितरमगच्छत् । इदमपि जायापत्योः शरीरमात्रभेदात् सर्वत्र कार्येष्व-विभागात् तदालम्बनं द्वैधङ्कारवचनम् || ३२ || हिन्दी — वे ब्रह्मा अपने शरीर के दो भाग करके आधे भाग से पुरुष तथा आधे भाग से स्त्री हो गये और उसी स्त्री में ( मैथुन - धर्म से ) ' विराट ' संज्ञक पुरुष की सृष्टि की ॥३२ ॥

मनु की उत्पत्ति-तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् ।

तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ ३३ ॥

भाष्य - स विराट् तपस्तप्त्वा यं पुरुषमसृजत् तं मां वित्त जानीध्वम् । एवं स्मृतिपरम्परया नात्र वः किञ्चिदविदितं मम वर्णयितव्यमस्ति । तन्मध्ये शुद्धिमात्मन आचष्टे । अस्य सर्वस्य स्रष्टारम् । अनेन सर्वशक्तिमाह । जन्मकर्मातिशयवन्तं मां प्रत्ययितरीकरिष्यतीत्यभिप्रायः निश्चयोत्पत्यर्थं च, अन्यतोऽवगतेऽपि मनुजन्मनि स्वयमभिधानात् । यथाऽन्यतः श्रुतोऽपि कश्चित् पृच्छ्यते, ' देवदत्तस्य त्वं पुत्र ' इति, ' वाढ़मिति ' तेनोक्ते निश्चय उपजायते । अभिजनवर्णनं कवीनामत्रपाकरं सत्यामपि पारम्पर्येणात्मस्तुतौ । द्विजसत्तमा इत्यामन्त्रणम् । ' सत्तमाः ' साधुतमाः श्रेष्ठा इति यावत् ॥३३ ॥

हिन्दी – ( मनु भगवान् ऋषियों को सम्बोधित करते हुए कहते हैं— ) हे महर्षि श्रेष्ठ ब्राह्मणों! उस ' विराट ' पुरुष ने तपस्या करके जिसको उत्पन्न किया, उसे इस संसार को रचयिता मुझे ( मनु को ) जानो ॥ ३३ ॥

दश प्रजापतियों की उत्पत्ति-अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ।

पतीन्प्रजानामसृजं महर्षीनादितो दश ॥ ३४ ॥

भाष्य- -अहमसृजमुत्पादितवान् । दश प्रजापतीन्महर्षीन् । आदितः सुदुश्चरं तपः कृत्वा । सुष्टु दुःखेन तपश्चर्यतेऽतिपीडाकरं बहुकालं च ॥३४ ॥

हिन्दी – प्रजापतियों की सृष्टि करने के इच्छुक मैंने अत्यन्त कठिन तपश्चर्या कर पहले दश प्रजापतियों ( महर्षियों ) की सृष्टि की ॥३४ ॥

दश प्रजापतियों के नाम-मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।

प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ३५ ॥

पृष्ठ 104

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 104 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२ मनुस्मृतिः [ प्रथमः भग्ष्य— तान्महर्षीन्नामतो निर्दिशति मरीचिमिति ॥ ३५ ॥

हिन्दी- - ( उन प्रजापतियों के ये नाम हैं— ) मरीचि, अत्रि, अङ्गिरा, पुलस्त्य पुलह, क्रतु, प्रचेता, वसिष्ठ, भृगु और नारद ॥ ३५ ॥

पुनः सात मनुओं तथा देवों की सृष्टि-एते मनूस्तु सप्तान्यानसृजन् भूरितेजसः ।

देवान् देवनिकायांश्च महर्षिश्चामितौजसः ॥ ३६ ॥

भाष्य — एते महर्षयः सप्तान्यान्यनूनसृजन् । अधिकारशब्दोऽयं मनुरिति । मन्वन्तरे यस्य प्रजासर्गे तत्स्थितौ वाऽधिकार उक्तेन प्रकारेण स मनुरित्युच्यते । भूरितेजस अमितौजस इति चैक एवार्थः । एकं प्रथमान्तं स्रष्टुर्विशेषणम्, द्वितीयं द्वितीयान्तं स्रष्टव्यानां मन्वादीनां विशेषणम् । “ ननु देवा ब्रह्मणैव सृष्टाः ” । सत्यम्, न सर्वे । अपरिमिता हि देवसङ्घाताः । देवनिकाया हि देवस्थानानि स्वर्गलोकब्रह्मलोकादीनि ॥ ३६ ॥

हिन्दी — महातेजस्वी इन दश प्रजापतियों ( महर्षियों ) ने सात अन्य मनुओं, ब्रह्मा से पहले नहीं उत्पन्न किये गये देवों, उनके वासस्थानों ( स्वर्ग आदि ) तथा अपरिमित तेजस्वी महर्षियों की सृष्टि की ॥ ३६ ॥

यक्षरक्षःपिशाचांश्च यक्ष आदि की सृष्टि-गन्धर्वाप्सरसोऽसुरान् ॥ नागान् सर्पान् सुपर्णांश्च पितॄणां च पृथग्गणान् ॥ ३७ ॥

भाष्य -- यक्षादीनां स्वरूपभेदश्चेतिहासादिप्रमाणक एव, न प्रत्यक्षादीनामन्यतमेन परिच्छिद्यते । तत्र वैश्रवणानुचरा यक्षाः । रक्षांसि विभीषणादयः । तेभ्यः क्रूरतरा: पिशाचाः अशुचिमरुदेशादिवासिनो, निकृष्टा यक्षराक्षसेभ्यः । हिंस्रास्तु सर्व एव । छद्मना केचित् प्राणिनां जीवमाकर्षन्त्यदृष्टया शक्त्या व्याधींश्च जनयन्तीत्यैतिहासिका मन्त्रवादिनश्च । गन्धर्वा देवानुचरा गीतनृत्तप्रधानाः । अप्सरसो देवगणिका उर्वश्याद्याः । असुरा देवशत्रवो वृत्रविरोचनहिरण्याक्षप्रभृतयः । नागा वासुकितक्षकादयः । सर्पाः प्रसिद्धाः । सुपर्णाः पक्षिविशेषा गरुत्मत्प्रभृतयः । पितरः सोमपाज्यपादिनामान:

स्वस्थाने देववद्वर्तन्ते । तेषां गणमसृजन् ॥ ३७ ॥

हिन्दी — यक्ष, राक्षस, पिशाच, गन्धर्व, अप्सराएँ, असुर ( विरोचन आदि ), नाग ( वासुकि आदि ), सर्प, सुपर्ण ( गरुड़ ) और पितृगण ( आज्यप आदि ) की सृष्टि की || ३७ ||

पृष्ठ 105

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 105 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता

विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।

उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ ३८ ॥

३३ भाष्य — मेघोदरदृश्यं मध्यमं ज्योतिर्विद्युदुच्यते । यस्यास्तडित्सौदामिनीत्यादयः पर्याया विशेषाश्रयाः । अशनिः शिलाभूता हिमकणिकाः सूक्ष्मदृश्याश्च वर्षधारादि-वत्पतन्त्यो वेगवद्वातप्रेरिताः सस्यादिविनाशिन्य उच्यन्ते । मेघा अभ्रोदकमरुज्ज्योतिः सङ्घाता आन्तरिक्षाः । रोहितं दण्डाकारमन्तरिक्षे नीललोहितरूपं कदाचित् दृश्यते । आदित्यमण्डल लग्नं कदाचित् कदाचित्प्रदेशान्तरेऽपि । तस्यैव विशेष इन्द्रधनुः । वक्रत्वं धनुराकारताऽधिकाऽस्य । उल्का संध्याप्रदोषादौ विसारिप्रभाण्युत्पाते दिक्षु पतन्ति यानि ज्योतींषि दृश्यन्ते । निर्घातः भूम्यन्तरिक्ष उत्पातशब्दः । केतव उत्पाते दृश्यमानानि शिखावन्ति ज्योतींषि प्रसिद्धानि । अन्यान्यपि ध्रुवागस्त्यारुन्धतीप्रभृतीनि नानाप्रकाराणि ॥ ३८ ॥

हिन्दी — तदनन्तर बिजली, वज्र, बादल, रोहित ( सीधा इन्द्रधनुष ), इन्द्रधनुष ( सामान्यत: टेढ़ा इन्द्रधनुष ), उल्का, निर्घात, ( आकाश - पृथ्वी के बीच में होने वाला उत्पातसूचक शब्दविशेष ), धूमकेतु ( पुच्छलतारा ) और अनेक प्रकार के ऊँची - नीची ( छोटी - बड़े ) ताराओं ( ध्रुव तथा अगस्त्य आदि ) की सृष्टि हुई॥३८ ॥

किन्नरान्वानरान्मत्स्यान् विविधांश्च विहङ्गमान् ।

पशून् मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ ३ ९ ॥

भाष्य — अश्वमुखाः प्राणिनो हिमवदादिपर्वतेषु भवन्ति ते किन्नराः । वानरा मर्कटमुखा पुरुषविग्रहाः । विहङ्गमाः पक्षिणः । अजाविकोष्ट्रगर्दभादयः पशवः । मृगा रुरुपृषतादयः । व्यालाः सिंहव्याघ्रादयः । द्वे दन्तपंक्ती उत्तराधरे येषां भवतस्ते उभयतोदतः ॥३९ ॥

हिन्दी — इसके पश्चात् किन्नर, वानर, अनेक प्रकार की मछलियाँ, पक्षी, पशु ( गौ आदि ), मृग ( हरिण आदि ); व्याल ( हिंस- व्याघ्र आदि हिंसक जीव ) और दोनों ओर ( ऊपर - नीचे ) दाँत वाले पशुओं की सृष्टि की ॥ ३ ९ ॥

कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।

सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥४० ॥

भाष्य — कृमयोऽत्यन्तसूक्ष्मा प्राणिनः । कीटास्तेभ्य ईषत्स्थूला भूमिचराः । पतङ्गाः शलभादयः । स्थावरं वृक्षपर्वतादि । पृथग्विधं नानाप्रकारम् । ' क्षुद्रजन्तवः ' इत्येकवद्भावः ॥४० ॥

हिन्दी — इसके अनन्तर कृमि ( बहुत छोटे कीड़े ), कीट ( कृमि से कुछ बड़े कीड़े ), पतग ( फतिङ्गे - उड़ने वाले कीड़े ), जूँ, मक्खी, खटमल, सब प्रकार के दंश

पृष्ठ 106

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 106 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४ मनुस्मृतिः [ प्रथमः तथा मच्छर और अनेक प्रकार के स्थावर ( लता, वृक्ष आदि ) की सृष्टि की ॥ ४० ॥

[ यथाकर्म यथाकालं यथाप्रज्ञं यथाश्रुतम् । यथायुगं यथादेशं यथावृत्ति यथाक्रमम् ॥ ७ ॥ ]

[ ( प्राणियों के ) कर्म, समय, बुद्धि ( ज्ञान ), शास्त्र, युग, देश, आचार तथा कर्म के अनुसार ( उस ब्रह्मा ने ) सृष्टि की || ७ || ]

एवमेतैरिदं सर्वं मन्नियोगान्महात्मभिः ।

यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥४१ ॥

भाष्य - एवमिति प्रक्रान्तप्रकारपरामर्शः । एतैर्महात्मभिर्मरीच्यादिभिः । इदं सर्वं स्थावरजङ्गमं सृष्टम् । यथाकर्म यस्य जन्मान्तरे यादृशं कर्म तदपेक्षम् । यस्यां जातौ यस्य तु युक्तमुत्पत्तुं कर्मवशात्स तस्यामेवोत्पादितः । मन्नियोगान्मदाज्ञया । तपोयोगान्तमहत्कृत्वा तपः । यावत्किञ्चिन्महदैश्वर्यं तत्सर्वं तपसा प्राप्यमित्येत-दनेनाह ॥४१ ॥

हिन्दी – इस प्रकार इन महात्माओं ( मरीचि आदि ( श्लो ० ३६ ) दश प्रजातियों ) ने मेरे आदेश से तपोबल द्वारा इन स्थावर तथा जङ्गम् प्राणियों की सृष्टि उनके कर्म के अनुसार की ॥४१ ॥

येषां तु यादृशं कर्म भूतानामिह कीर्तितम् ।

तत्तथा वो s भिधास्यामि क्रमयोगं च जन्मनि ॥ ४२ ॥

भाष्य - येषां भूतानां यादृशं कर्म स्वभावतो हिंस्रमहिंस्रं वा तद्वत्तथैव कीर्तितम् । इदानीं जन्मक्रमयोगमभिधास्यामि । “ क्व पुनः कर्म कीर्तितम् । यत्रेदं यक्षरक्ष इत्यादि नामनिर्देशो न कर्मनिर्देशः " । उच्यते । नामनिर्देशादेव कर्मावगतिः, कर्मनिमित्तत्वादेषां नामप्रतिलम्भस्य । तथाहि यक्षणाद्भक्षणदशनाद्वा ' यज्ञा: ' । रहसि क्षणनाद् रक्षणाद्वा ' रक्षांसि ' । पिशिताशनात् ‘ पिशाचा: ’ । अद्भ्यः सृता इति ' अप्सरसः ' । अमृताख्यायाः सुराया अलाभादसुरा इत्याद्यप्यूह्यम् । जन्मनि क्रमयोगो जरायुजाण्डजा इत्यादि वक्ष्यते ॥४२ ॥

हिन्दी – ( मनु भगवान् महर्षियों से कहते हैं— ) इस संसार में जिस जीव का जो कर्म पूर्वाचार्यों ने कहा है, उसे तथा उन जीवों के क्रम को आप लोगों से मैं कहूँगा ॥४२ ॥

जरायुज जीव के लक्षण-पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।

रक्षांसि च पिशाचाश्च मानुषाश्च जरायुजाः ॥४३ ॥

पृष्ठ 107

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 107 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ३५ भाष्य - एते जरायुजाः । जरायुरुल्वं गर्भशय्या । तत्र प्रथमं ते सम्भवन्ति । मुक्ता जायन्ते । एष एतेषां जन्मक्रमः । दन्तशब्दसमानार्थो दत्शब्दोऽन्योऽस्ती-त्युभयतोदत इति प्रथमाबहुवचने रूपं युज्यते || ४३ | । हिन्दी – पशु ( गौ आदि ), मृग, हरिण आदि ), व्याल ( सिंह आदि हिंसक जीव ), ऊपर - नीचे ( दोनों ओर ) दाँत वाले राक्षस, पिशाच और मनुष्य; ये सब जरा-युज अर्थात् गर्भ से उत्पन्न होने वाले जीव हैं ॥४३ ॥

अण्डज जीव के लक्षण-अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।

यानि चैवम्प्रकाराणि स्थलजान्यौदकानि च ॥ ४४ ॥

भाष्य- -नक्राः शिशुमारादयः । कच्छपः कूर्मः । यानि चैवम्प्रकाराणि

कृकलासादीनि स्थलजानि । एवंरूपाण्यौदकानि जलजानि शङ्खादीनि ॥४४ ॥

हिन्दी — पक्षी, सर्प, मगर, मछली, कछुए तथा इस प्रकार के जो स्थलचर तथा जलचर जीव हैं; वे सब ' अण्डज ' हैं ॥ ४४ ॥

स्वेदज जीव की गणना-स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।

ऊष्मणश्चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम् ॥ ४५ ॥

भाष्य — स्वेदः पार्थिवानां द्रव्याणामग्न्यादित्यादितापसम्बन्धादन्तः क्लेदस्ततो जायते दंशमशकादि । अन्यदपि यदीदृशमत्यन्तसूक्ष्मं पुत्तिकापिपीलिकादि यदूष्मण उपजायते । ‘ ऊष्मा ’ स्वेद एव, तद्धेतुर्वा तापः । ' उपजायन्ते ' इति पाठे ' ये चान्ये केचिदीदृशा ' इति पठितव्यम् ॥४५ ॥

हिन्दी — दंश, मच्छर, जूँ, मक्खी, खटमल और इस प्रकार के जो अन्य जीव ( लिक्षा अर्थात् लीख आदि ) हैं; वे सब ' स्वेदज ' हैं ( गर्मी या पसीने से उत्पन्न होते हैं ) ॥४५ ॥

उद्भिज तथा औषधि जीव-उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।

ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ ४६ ॥

भाष्य — उद्भेदनमुद्भित् । भावे क्विप् । ततो जायन्त इति उद्भिज्जाः । उप्तं बीजं भूमिं च भित्वा विदार्य जायन्ते वृक्षाः । सर्वे बीजात्काण्डाच्च प्ररोहन्ति जायन्ते मूलस्कन्धादिना दृढीभवन्ति । तथौषध्यः । ओषधय इति युक्तम् । ईकारः कृदिकारादिति, छान्दसो वा । इदं तासां स्वाभाविकं कर्म । पाकान्ताः फलपाकः

पृष्ठ 108

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 108 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३६ मनुस्मृतिः [ प्रथमः अन्तो नाश आसामिति । पक्वेफले व्रीह्यादयो नश्यन्ति बहुना च पुष्पफलेनोपगता: युक्ता भवन्ति । औषधीनां वृक्षाणां च यथासम्भवमेतद्विशेषणम् ॥ ४६ ॥

हिन्दी - बीज तथा शाखा से लगने वाले लता वृक्ष आदि ( यथा - आम, अमरूद, गुलाब आदि ) स्थावर जीव ' उद्भिज ' हैं । फल के पकने पर जिनका पौधा नष्ट हो जाता है और जिनमें बहुत फल - फूल लगते हैं; वे ( यथा - लौकी, सेम, काशीफल, धान, चना आदि ) जीव ' ओषधि ' कहलाते हैं ॥ ४६ ॥

वनस्पति तथा वृक्ष के स्वरूप-अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।

पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥४७ ॥

भाष्य — विना पुष्पेण फलं जायते येषां ते वनस्पतयः कथ्यन्ते, न वृक्षाः । पुष्पिणः फलिनश्च वृक्षा उभयोगात् । क्वचिद्वनस्पतयो वृक्षा अपि उच्यन्ते, वृक्षाश्च वनस्पतयोऽपि । तत्र विशेषहेतुं दर्शयिष्यामः । वयं तु ब्रूमः । नायं शब्दार्थसम्बन्धविधिर्व्याकरणस्मृतिवत् । तेन नायमर्थो य एवं स्वभावास्ते वनस्पत्यादिशब्दवाच्याः, किं तर्हि पुष्पफलानां जन्मोच्यते । तस्य वक्तव्यतया प्रकृतत्वात् ‘ क्रमयोगं तु जन्मनीति ' । द्विधा फलानामुत्पत्तिः । अन्तरेण पुष्पाणि जायन्ते पुष्पेभ्यश्च । एवं पुष्पाणि वृक्षेभ्यश्च । तेन यद्यप्येवमभिधानं ‘ ये फलिनस्ते वनस्पतयो ज्ञेयास्तथापि प्रकरणसामर्थ्याद्यत्तदोर्व्यत्ययः कर्तव्यः । ‘ ये वनस्पतय इति एवं प्रतिद्धास्तेऽपुष्पाः ' फलवन्तस्तेभ्यः पुष्पमन्तरेण फलानि जायन्ते इति । ' सामर्थ्याच्चायं क्रमोऽवतिष्ठते । यथा ' वाससा स्तम्भं परिवेष्टयेति ' वाससि-परिधातव्येऽयमर्थोऽस्य भवति - ' स्तम्भे निधाय वासः परिधापयेति । ' प्रसिद्धमप्येतदनूद्यते ‘ तमसा बहुरूपेणेत्ये ' तत्प्रतिपादयितुम् ॥४७ ॥

हिन्दी — बिना फूल लगे फलने वाले ( यथा - बड़, गूलर, पाकर, पीपल आदि ) को ' वनस्पति ' और फूल लगने के बाद फलने वाले ( यथा - आम, जामुन, अमरूद, आमड़ा आदि । को वृक्ष कहते हैं ॥ ४७ ॥

विमर्श - अप्राकृत होने से यह श्लोक नामकोष के समान संज्ञा - संज्ञिबोधक नहीं है; किन्तु पूर्व कथन ( '.. क्रमयोगं च जन्मनि ' श्लोक ० ४२ ) के लिए है, इस प्रकार ' वृक्ष ' के दो रूप हैं । गुच्छ, गुल्म, तृण, प्रतान तथा वल्ली का स्वरूप-गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥ ४८ ॥

पृष्ठ 109

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 109 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ‘ मेधातिथि’भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ३७ भाष्य — याः संहता भूमेर्बद्धाः एकमूला अनेकमूलाश्च लता उत्तिष्ठन्ति न च वृद्धिं महती प्राप्नुवन्ति तासां सङ्घातो ' गुच्छगुल्म ' शब्दवाच्यः तृणमूलकादिः । तयोस्तु भेदः पुष्पवदपुष्पकृतो वा । अन्या वा ' तृणजातयः ' कुशशाद्वलशङ्खपुष्पीप्रभृतयः । प्रताना दीर्घा भूमिगतास्तृणप्ररोहाः । ‘ वल्ल्यो ' व्रतत्यः: भूमेरुत्पत्य वृक्षमन्यं वा कञ्चित्-परिवेष्ट्योर्ध्वमारुहन्ति । सर्वमेतत् वृक्षवत् बीजकाण्डरुहम् ॥४८ ॥

हिन्दी – ' गुच्छ ' ( जड़ से लता समूह वाले, यथा- मल्लिका आदि ), ' गुल्म ' ( एक जड़ से अनेक होने वाले, यथा- - ईख, सरपत्ता, कास आदि ), ' तृण ' ( घास, यथा – उलप आदि ), ‘ प्रतान ' ( सूत के समान रेशे वाले, यथा - करेला, कद्दू, काशीफल आदि ) और ‘ वल्ली ’ ( भूमि से वृक्षादि के सहारे चढ़ने वाले, यथा - गुडूची आदि ); ये सब बीज तथा शाखा ( डाल ) से लगते हैं ॥४८ ॥

वृक्षादि में अन्तश्चेतना तथा सुखादि का होना—

तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।

अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विता ॥ ४ ९ ॥

भाष्य — ' कर्म ' अधर्माख्यं हेतुर्यस्य तमसस्तेन वेष्टिताव्याप्ताः । बहुरूपेण विचित्रदुःखानुभव निमित्तेन । यद्यपि सर्वं त्रिगुणं तथाऽप्येषां उद्रिक्तम् अपचिते सत्व-रजसी । अतस्तमोबाहुल्यान्नित्यं निर्वेददुःखादियुक्ता अधर्मफलमनुभवन्तः सुचिरमासते । सत्त्वस्यापि तत्र भावात् कस्याञ्चिदवस्थायां सुखलेशमपि भुञ्जते । तदाह-सुखदुःख समन्विता इति । अन्तःसंज्ञेति । ‘ संज्ञा ’ बुद्धिस्तल्लिङ्गस्य बहिर्विहारव्याहारादेः कार्यस्य चेष्टा-रूपस्याभावादन्त: संज्ञा उच्यन्ते । अन्यथाऽन्तरेव सर्वः पुरुषश्चेतयते । अथवा यथा मनुष्याः कण्टकादितोदं चेतयन्ते नैवं स्थावराः । ते हि महान्तं प्रतोदं परशुविदारणादि

दुःखसंज्ञायामपेक्षन्ते । यथा स्वापमदमूर्च्छावस्थागताः प्राणिनः ॥४९ ॥

हिन्दी – पूर्व जन्म के कर्मों के कारण अत्यधिक तमोगुण से युक्त ये ' वृक्ष ' आदि अन्तश्चेतना वाले ( भीतर में चेतना युक्त होने पर भी उसे बाहर किसी से प्रकट करने में असमर्थ ) तथा सुख - दुःख से युक्त हैं ॥४९ ॥

एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।

घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ ५० ॥

भाष्य- - एषोऽन्तोऽवसानं वल्लीगतिर्यासां गतीनां ता एतदन्ताः । कृतकर्मफलो-पभोगार्थमात्मनस्तत्तच्छरीरसम्बन्धो गतिरुच्यते । अस्याः स्थावरात्मिकाया गतेरन्या निकृष्टा दुःख बहुला गतिर्नास्ति I । ब्रह्मगतेश्चान्याऽऽद्योत्तमा गतिरानन्दरूपा नास्ति । मनु I- 7

पृष्ठ 110

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 110 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८ मनुस्मृतिः [ प्रथमः एता गतयः शुभाशुभैः कर्मभिर्धर्माधर्माख्यैः प्राप्यन्ते । परब्रह्मावाप्तिस्तु मोक्षलक्षणा केवलानन्दरूपा ज्ञानात् ज्ञानकर्मसमुच्चयाद्वेति वक्ष्यामः । भूतसंसारे ' भूतानां ' क्षेत्रज्ञानां ' संसारे जन्ममरणप्रबन्धे जात्यन्तरागमने । घोरे प्रमादालस्यवतां भीषणे, इष्टवियोगानिष्टयोगोत्पत्या । सततं सर्वकालं गमनशीले विनाशिन्यसारेऽपि नित्यं घोरे च कदाचिदघोरे । देवादिगतिष्वपि सुचिरं स्थित्वा मर्त-व्यमिति नित्यं घोरः 1 । तदनेन धर्माधर्मनिमित्तत्वसम्वर्णनेन संसारस्य शास्त्रस्य महा-प्रयोजनता प्रतिपदिता भवति । शास्त्राद्धि धर्माधर्मयोर्विवेकज्ञानमित्यध्येतव्यम् || ५० || हिन्दी– ( मनु भगवान् महर्षियों से कहते हैं - ) जन्म - मरणादि से भयङ्कर तथा सर्वदा विनाशील इस संसार ( प्राणियों के जगत् ) में ब्रह्मा से लेकर स्थावर तक की गतियों को मैंने कहा ॥५० ॥

ब्रह्मा का अन्तर्धान होना—

एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः ।

आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ ५१ ॥

भाष्य – एवं किञ्चित्साक्षात्किञ्चित्प्रजापतिनियोगेन स भगवान् सर्वमिदं जगत्-सृष्ट्वोत्पाद्य मां च जगत्स्थितौ नियोज्य । अचिन्त्य आश्चर्यरूपो महान् प्रभावः परा-क्रमः सर्वविषया शक्तिर्यस्य स स्रष्टाऽन्तर्दधेऽन्तर्धानं कृतवानिच्छागृहीतं शरीरं योग-शक्त्योज्झित्वा पुनरप्रकाशः सम्वृत्तः । आत्मनीति । यथाऽन्ये भावाः प्रकृतावन्तर्धीयन्त एवं सोऽन्यत्रेत्येवं न, किं तर्ह्यात्मन्येव प्रलीनः । न हि तस्यान्या प्रकृतिरस्ति यत्रान्त-र्धीयेत, सर्वभूतानां तत्प्रकृतित्वात् । जगत्सर्वव्यापारान्निवृत्तिर्वाऽन्तर्धानम् । भूयः कालं कालेन पीडयन् । सृष्ट्वेत्येतत्क्रियापेक्षः शता द्रष्टव्यः । प्रलयकाल सर्गस्थितिकालेन

विनाशयन् । भूयः पुनः पुनरित्यर्थः । वक्ष्यति ' अनन्ताः सर्वसंहारा ' इति ॥५१ ॥

हिन्दी — अचिन्त्य सामर्थ्य वाले ब्रह्मा इस प्रकार ( श्लो ० ५-४७ ) मेरी ( मनु की ) तथा समस्त स्थावर एवं जङ्गम जीवों की सृष्टि कर प्रलयकाल से सृष्टिकाल को नष्ट करते हुऐ अपने में अन्तर्धान हो गये ॥ ५१ ॥

यदा स देवो जागर्ति तदेवं चेष्टते जगत् ।

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ ५२ ॥

भाष्य — स देवो यदा जागर्ति यदैतदिच्छतीदं जगदुत्पद्यतामेतां स्थितिं च कालमियन्तं लभतामिति तदा चेष्टते । मानसवाचिकभौतिकैर्व्यापारैरान्तरैर्बाह्यैश्च श्वास-प्रश्वासाहारविहारकृषियागादिभिर्युक्तं भवति । यदा स्वपिति यदा निवृत्तेच्छो भवति जगत्सर्गस्थितिभ्यां, तदा सर्वं निमीलति प्रलयं प्राप्नोति । जागर्या स्वापश्च प्रजापते-