मनुस्मृति १ हरगोविन्द शास्त्री — पृष्ठ 111–120

मनुस्मृति १ हरगोविन्द शास्त्री · पृष्ठ 111–120

पृष्ठ 111

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 111 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि’भाष्य'मणिप्रभा ' हिन्दीटीकासहिता

रिच्छाप्रवृत्तिनिवृत्ती उच्येते । शान्तात्मत्वं भेदावस्थोपसंहारः ॥५२ ॥

३ ९ हिन्दी — जब वे ब्रह्मा जागते ( संसार की सृष्टि - स्थिति की इच्छा रखते हैं, तब यह संसार ( श्वास - प्रश्वास तथा भोजनादि के द्वारा ) चेष्टा करता है; और जब वे ( ब्रह्मा ) सोते ( संसार की सृष्टि तथा स्थिति की निवृत्ति अर्थात् नाश की इच्छा करते ) हैं, तब

यह संसार नष्ट हो जाता है । इसी को क्रमश: सर्ग तथा प्रलय कहते हैं ॥ ५२ ॥

प्रलयकाल में जीवों की अनुत्पत्ति तथा चेष्टाशून्यता-तस्मिन् स्वपति तु स्वस्थे कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३ ॥

भाष्य – पूर्वव्याख्यानश्लोकोऽयं विस्पष्टार्थः । स्वस्थे सुस्थिरे । शान्तात्म-वच्छुद्धरूपे । स्वात्मन्यवस्थानमौपाधिकभेदनिवृत्तिः । कर्मात्मानः कर्मप्रधानाः संसा-रिणः क्षेत्रज्ञाः । शरीरिणः । कर्मसम्बन्धेन शरीरसम्बन्धानुभवादेवमुच्यन्ते । तस्मिन्-स्वपति शयाने स्वकर्मभ्यो निवर्तन्ते । शरीरचेष्टानिवृत्तिरेतेनोच्यते । मनश्च ग्लानि-मृच्छति । एतेनान्तरव्यापारनिवृत्तिः । अतो बाह्यान्तरव्यापारनिवृत्त्या प्रलयः प्रतिपादितो भवति । ग्लानिर्निरुत्साहः स्वव्यापारेऽशक्ततामृच्छति प्राप्नोति ॥५३ ॥

हिन्दी - स्वस्थ ( सर्वकर्म - रहित ) होकर उस ब्रह्मा के सोने पर अपने - अपने कर्मों के द्वारा शरीर को प्राप्त करने वाले देहधारी उन ( अपने - अपने कर्मों ) से निवृत्त हो जाते ( देह को धारण नहीं करते ) हैं और उनका मन भी ग्लानि को प्राप्त करता हुआ सब इन्द्रियों के साथ चेष्टाशून्य हो जाता है ॥५३ ॥

महाप्रलय का स्वरूप-युगपतु प्रलीयन्ते यदा तस्मिन्महात्मनि ।

तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ ५४ ॥

भाष्य- – यत्तदोर्व्यत्ययेनायं श्लोको व्याख्यातव्यः । अन्यथा पूर्वश्लोकापेक्ष-येतरेतराश्रयः प्रसज्येत । एतदुक्तम्, यदा स्वपिति तदा निमीलति सर्वम् । मुखं स्वपिति निर्वृतः । सुखस्वरूपमेव परं ब्रह्म, न तस्य स्वापावस्थायां सुख-मन्यदा दुःखम् । स्वापश्च तस्य यादृशः । स प्रागुक्त एव । निर्वृतिश्च तस्य सर्वकालम् । न ह्यसौ परमात्माऽविद्योपप्लवतरङ्गैरामृश्यते, केवलसुखमयः । तस्य सर्वस्य कर्तृत्वं उपपद्यते । यथाऽयं पुरुष उपरतो गृहकृत्येभ्यः कृतकृत्यतयाऽर्जितं मया धनं गृहोपयोगि निरुपद्रवश्चास्मि संवृत्त इत्येवं सुखं स्वपिति निर्वृतो निराशङ्कात्मबाध एवमुप-मीयतेऽसावपि । तस्यापीदं जगत् कुटुम्बभूतमिति प्रशंसा । प्रधानविषयो वाऽयं श्लोको वर्णनीयः । तदा प्रधानं स्वपिति यदा युगपत्-

पृष्ठ 112

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 112 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४० मनुस्मृतिः [ प्रथमः सर्वाणि भूतानि तत्र प्रलीयन्ते तदात्मतां कारणरूपतामापद्यन्ते विकारावस्थामुज्झन्ति युगपद्यावन्ति त्रैलोक्योदरवर्तीनि । स्वापश्च परिणामनिवृत्तिर्न पुनर्ज्ञानोपसंहृति: अचेतन-स्य प्रधानस्य । सुखं चोपचारतोऽचेतनत्वादेव || ५४ ॥ हिन्दी – जब एक ही समय में सब प्राणी उस परमात्मा में लीन हो जाते हैं, जब ये सम्पूर्ण जीव निवृत्त ( सर्वव्यापार शून्य ) होकर ( मानो ) सुख से सोते हैं ॥५४ ॥

जीव का निर्गमन-तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।

न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ ५५ ॥

भाष्य — इदानीं संसारिणः पुरुषस्य मरणं देहान्तरप्राप्तिश्चाभ्यां श्लोकाभ्यां कथ्यते । तमो ज्ञाननिवृत्तिस्तां समाश्रित्य चिरं तिष्ठत्यास्ते सेन्द्रियः । न च स्वं कुरुते कर्म श्वासप्रश्वासादिकम् । तदा मूर्तितः शरीरादुत्क्रामति गच्छति । ननु च सर्वगत आत्माऽऽकाशवद्विभुस्तस्य कीदृश्युत्क्रान्ति:? कर्मोपार्जितशरीरत्याग एवोत्क्रान्ति:, न पुनर्मूर्तस्येवार्थस्य देशाद्देशान्तरग-मनम् । अथवा कैश्चिदिष्यते - अस्त्यन्यदन्तराभवं शरीरं सूक्ष्मं यस्येयमुत्क्रान्ति: । अन्यैस्त्वन्तराभवदेहो नेष्यते । यथाह भगवान्व्यासः । “ अस्मिन्देहे व्यतीते तु देहम-न्यन्नराधिप । इन्द्रियाणि वसन्त्येव तस्मान्नास्त्यन्तराभवः । ” साङ्ख्या अपि केचिन्ना-न्तराभवमिच्छन्ति विन्ध्यवासिप्रभृतयः । “ कोऽयमन्तराभवो नाम ” अस्मिञ्छरीरे नष्टे मातृकुक्ष्यादिस्थानं द्वितीयशरीरग्रहणार्थ यावन्न प्राप्तं, तावद-न्तरा निरुपभोगं शरीरमुपजायते सूक्ष्मं यस्य न कचित्संयोगो नाग्न्यादिदाहो न महाभूतैः प्रतिबन्धः । अन्ये तु मूर्तिं परमात्मानमाहुः । सर्वात्मरूपः परमात्मा समुद्रस्थानीयस्ततः प्रादु-र्भवन्ति जीवा अविद्यावशाद्भेदमुपयन्ति, महोदधेरिवोर्मयः । तस्य च ततो निष्क्रामतः पुर्यष्टकाख्यं लिङ्गमभ्युपगम्यते, पूर्वकृतधर्माधर्मवशात्प्रत्येकस्य जीवस्य वासः -स्थानीयं सूक्ष्मं शरीरम् । यथा पुराणोक्तम्-पुर्यष्टकेन लिङ्गेन प्राणख्येन स युज्यते तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन तु ॥ ते च प्राणापानव्यानोदानसमानाः पञ्च बुद्धीन्द्रियवर्ग एवं कर्मेन्द्रियवर्गोऽष्टमं मन इत्येतत्पुर्यष्टकम् । तच्छरीरं न नश्यति आमोक्षावस्थायाः । तदुक्तं “ संसरति निरूपभोगं भावैरधिवासितं लिङ्गम् ” ॥५५ ॥

पृष्ठ 113

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 113 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४१ हिन्दी – जब यह जीव तम ( अज्ञान ) का आश्रय कर इन्द्रियों के साथ बहुत समय तक रहता है और अपना कर्म ( श्वास - उच्छ्वास आदि ) नहीं करता है, तब वह अपने शरीर से ( बाहर ) निकल जाता है ॥ ५५ ॥

जीव का देहान्तर धारण करना-यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।

समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥ ५६ ॥

भाष्य — अण्व्यः सूक्ष्मा मात्रा अवयवा यस्य सोऽणुमात्रिकः । पुर्यष्टकम-न्तराभवदेहो वा, स्वभावत एव वाऽऽत्मानः सूक्ष्माः यथोक्तम् । “ स एष आत्माऽन्त-र्हृदयेऽणीयानित्यादि । ” बीजं शरीरोत्पत्तिकारणम् । स्थास्नु वृत्तादिजन्महेतुभूतम् । चरिष्णु जङ्गमम् । समाविशत्यधितिष्ठति प्रतिनिबध्यते । यदा तेन संसृष्टः प्राणादि-भिस्तदा मूर्तिं विमुञ्चत्याबध्नाति शरीरं गृह्णातीत्यर्थः ॥५६ ॥

हिन्दी – जब यह जीव अणुमात्रक ( ' पुर्यष्टक ' से युक्त ) होकर स्थिरताशील ( वृक्ष आदि ) तथा गमनशील ( मनुष्य आदि ) के बीच में प्रवेश करता है, तब ( ' पुर्यष्टक ' से युक्त होकर कर्म के अनुसार ) स्थूल देह को धारण करता है ॥५६ ॥

विमर्श – भूत, इन्द्रिय, मन, बुद्धि, वासना, कर्म, वायु तथा अविद्या— ये ' पुर्यष्टक ' ' हैं । जाग्रत तथा स्वप्नावस्था से संसार को जिलाना व नष्ट करना-एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् । सञ्जीवयति चाजत्रं प्रमापयति चाव्ययः ॥ ५७ ॥

भाष्य — उपसंहारः पूर्वोक्तस्य । आत्मसम्बन्धिभ्यां जाग्रत्स्वप्नाभ्यां चराचरम्

स्थावरं जङ्गमं जीवयति मारयति च जगत् । अव्ययोऽविनाशी ॥५७ ॥

हिन्दी - विनाशरहित वह ब्रह्मा अपनी जाग्रत तथा स्वप्न अवस्थाओं से संसार को जिलाता ( सृष्टि करता ) और नष्ट करता है ॥ ५७ ॥

इस शास्त्र का प्रचार क्रम-इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः ।

विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ ५८ ॥

१. तदुक्तं सनन्दनेन— भूतेन्द्रियमनोबुद्धिवासनाकर्मवायवः अविद्या चाष्टकं प्रोक्तं ‘ पुर्यष्ट ' मृषिसत्तमैः । इति ( म ० मु ० ) ।

पृष्ठ 114

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 114 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२ मनुस्मृतिः [ प्रथमः भाष्य — इह शास्त्रशब्देन स्मार्तो विधिप्रतिषेधसमूह उच्यते, न तु ग्रन्थस्तस्य मनुना कृतत्वात् । तथा हि मानव इति व्यपदेशोऽस्य । इतरथा हि हैरण्यगर्भ इति व्यपदिश्येत । केचित्तु हिरण्यगर्भेनापि कृते ग्रन्थे मनुना बहूनां प्रकाशितत्वात्तेन व्यपदेशो युज्यत एव । यथा हिमवति प्रथममुपलभ्यमाना गङ्गाऽन्यतोऽप्युत्पन्ना हैमवतीति व्यपदिश्यते, यथा च नित्यं दर्शनात्काठकं प्रवचनं कठेन व्यपदिश्यते । सत्स्वप्यन्येष्वध्येतृष्वध्यापयितृषु च प्रवचनप्रकर्षात्कठेन व्यपदेशः । नारदश्च स्मरति— ‘ शतसाहस्रोऽयं ग्रन्थः प्रजापतिना कृतस्ततः स मन्वादिभिः क्रमेण सङ्क्षिप्त’इति । अतोऽन्यकृतत्वेऽपि मानवव्यपदेशो न विरुद्धः । शास्त्रशब्देन ग्रन्थाभिधानमपि शासन-रूपार्थप्रतिपादकत्वाद्दृष्टमेव । मामेव ग्राहयामासाहं तेनाध्यापित इत्यर्थः । ' स्वयमादितो ' ' विधिव ' दित्येभिः पदैरागमस्याविभ्रंश उच्यते । ग्रन्थकारेण हि स्वकृतो ग्रन्थो यः स्वयमध्याप्यते प्रथमं तत्र मात्राऽपि न परिहीयते । अन्यस्य हि तस्मादधिगतवतोऽन्यमध्यापयतो न तद्-ग्रन्थाविनाशे यत्नो भवति । कर्तुरप्यध्यापितपूर्वस्य प्रतिष्ठापितो मया पूर्वमयं ग्रन्थ इति द्वितीयवारं प्रमादालस्यादिना भ्रंश: • सभाव्यत अत आदित इत्युक्तम् । विधि-वच्छिष्योपाध्याययोरनन्यमनस्कतादिगुणोऽवहितचित्तता ‘ विधिः ’ | अर्हे वतिः । मरीच्यादींस्त्वहं मुनीन् । मरीच्यादयः प्रसिद्धप्रभावास्तैरप्येतन्मत्सकाशादधी-तमित्यात्मनो विशिष्टशिष्यसम्बन्धेन सिद्धमौपाध्यायिकं दर्शयन्महर्षीणां शास्त्रमाहा-त्म्येन च श्रद्धातिशयं जनयत्यध्ययनाविरामाय । एवंविधमेतन्महच्छास्त्रं यन्मरीच्यादि-भिरप्यधीतम् । एष चेदृशो महात्मा मनुस्तेषामुपाध्याय इति युक्तमेतस्य सकाशादेतद्-ग्रन्थाध्ययनमित्याशास्त्रपरिसमाप्तेनपरमन्ते श्रोतार इत्युभयथाऽपि शास्त्रप्रशंसा ॥५८ ॥

हिन्दी – ( मनु भगवान् महर्षियों से कहते हैं - ) उस ब्रह्मा ने इस शास्त्र को बनाकर पहले मुझे ( मनु को ) पढ़ाया और मैंने मरीचि आदि महर्षियों को पढ़ाया ॥ ५८ ॥

विमर्श — यहाँ यह शंका हो सकती है कि जब इस शास्त्र को ब्रह्मा ने मनु को पढ़ाया, तब यह मानवशास्त्र कैसे कहलाया? इस विषय में यह उत्तर दिया जाता कि- मनु को ब्रह्मा ने विधि - निषेधरूप शास्त्राशय का अध्ययन कराया और मनु ने उसका प्रतिपादन करनेवाला यह ग्रन्थ इस रूप में बनाया । कुछ विद्वानों का यह भी मत है कि यद्यपि इस ग्रन्थ के कर्ता ब्रह्मा हैं, तथापि उनसे मनु ने इसका ज्ञान प्राप्त कर स्वरूप तथा अर्थ के साथ मरीचि आदि के लिए प्रकाशित किया, अत एव यह यह मानव ( मनुरचित ) शास्त्र कहलाया, जैसे वेद के अपौरुषेय होने पर भी ' कठ-शाखा ' आदि का व्यवहार होता है । यह भी कहा जाता है कि ब्रह्मा ने एक

पृष्ठ 115

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 115 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्याय: ] ' मेधातिथि’भाष्य‘मणिप्रभा ' हिन्दीटीकासहिता ४३ लक्ष्य ' पद्यों में इस शास्त्र की रचनाकर मनु को पढ़ाया था, उसे मनु ने संक्षिप्त कर मरीचि आदि शिष्यों को पढ़ाया । अतः इस शास्त्र को मनुरचित कहना असंगत नहीं है । भृगु से इस शास्त्र को सुनने का कथन -एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः । एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ ५ ९ ॥ भाष्य - एतच्छास्त्रं वो युष्माकमयं भृगुरशेषतः सर्वं श्रावयिष्यति कर्णपथं नेष्यत्यध्यापयिष्यति व्याख्यास्यति च । एतच्छास्त्रस्यैतदा प्रत्यवमर्श: । एतच्छास्त्र-मेव मुनिरखिलम् अशेषं मत्तो मत्सकाशादधिजगेऽधिगतवान् ज्ञातवान् गुरुमुखा-द्विद्या निष्क्रामतीव शिष्यः प्रतिगृह्णातीवेत्यतः अपादाने तसिर्मत्त इति युक्तः । भृगुस्तु महर्षीणां प्रख्याततरप्रभावः । तस्य प्रवक्तृत्वनियोगेनानेकाशेषनिरतिशयविद्याविदामागम-परम्परयागतमेतच्छास्त्रमिति प्रदर्श्यते । अतश्च केषाञ्चिदयमपि प्रवृत्तिप्रकारो दृश्यते, बहुभ्यो महात्मभ्यः शास्त्रमिदमवतीर्णमिति किमिति नाधीमह इत्यध्ययनादिप्रवृत्त्याभि-मुख्यं शास्त्रे जन्यते ॥५९ ॥

हिन्दी - ये भृगु मुनि यह सम्पूर्ण शास्त्र आप लागों ( महर्षियों ) को सुनावेंगे; ( क्योंकि ) इस मुनि ( भृगु ) ने इस सम्पूर्ण शास्त्र को मुझसे प्राप्त किया ( पढ़ा ) है ॥५९ ॥

भृगु के द्वारा इस शास्त्र का कथन—

ततस्तथा स तेनोक्तो महर्षिर्मनुना भृगुः ।

तानब्रवीदृषीन्सर्वान् प्रीतात्मा श्रूयतामिति ॥ ६० ॥

भाष्य - स महर्षिर्भृगुस्तेन मनुना तथोक्त एष वः श्रावयिष्यतीति नियुक्तस्ततो-ऽनन्तरं तानृषीनब्रवीच्छूयतामिति । प्रीतात्माऽनेकशिष्यसन्निधावहमत्र नियुक्त इति बहुमानेन प्रीतात्मत्वं प्रवक्तृत्वयोग्यतयाज्ञाकरोऽहमनेन सम्भावित इत्यात्मनि भृर्गो-र्बहुमानः ॥६० ॥

हिन्दी - इस प्रकार मनु से आदेश प्राप्त किये हुए भृगु मुनि ने प्रसन्नचित्त होकर उन महर्षियों से कहा- “ सुनिए ” ॥ ६० ॥

मन्वन्तर का वर्णन-स्वायम्भुवस्यास्य मनोः षड् वंश्या मनवोऽपरे ।

सृष्टवन्तः प्रजाः स्वा: स्वा महात्मानो महौजसः ॥ ६१ ॥

' शतसाहस्रोऽयं ग्रन्थः ' इति स्मरति स्म " इति । ( म ० मु ) १. “ तथा च नारदः—

पृष्ठ 116

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 116 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४ मनुस्मृतिः [ प्रथमः भाष्य — उपाध्यायो धर्मान्पृष्टो जगदुत्पत्त्यादि वर्णितवान् । तथैव शिष्योऽपि तन्नियुक्तस्तच्छेषमेव वर्णयितुमारब्धः । अस्येति साक्षात्कारेण मनुं प्रत्यवमृशति । अस्मदुपाध्यायस्य स्वायम्भुव इति ख्यातस्य षडन्येऽपरे मनवो वंश्या एकस्मिन्वंशे कुले जाताः सर्वे वंश्याः । सर्वे हि साक्षाद्ब्रह्मणा सृष्टा इत्येककुलसम्भवाद्वंश्या उच्यन्ते । अथवा एकस्मिन्कार्येऽधिकृता वंश्या एककर्मान्वयेन प्राणिनां वंशव्यवहारो भवति I । ‘ द्वौ मुनी व्याकरणस्य वंश्यौ ' । तेषां चैकं धर्मं दर्शयति सृष्टवन्तः प्रजाः स्वाः स्वाः इति | मन्वन्तरे मन्वन्तरे यस्य मनोरधिकारः स एव प्रजानां पूर्वमन्व-न्तरविनष्टानां स्रष्टा पालयिता च । अतो येन याः प्रजाः सृज्यन्ते तास्तस्य स्वा भवन्ति ॥ ६१ ॥

हिन्दी- - इस स्वायम्भुव ( ब्रह्मा के पुत्र ) मनु के वंश में उत्पन्न महात्मा तथा पराक्रमी अन्यान्य ६ मनुओं ने अपनी - अपनी प्रजाओं की सृष्टि की ॥ ६१ ॥

उन छः मनुओं के नाम—

स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।

चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ ६२ ॥

भाष्य — तान्मनून्नामतो निर्दिशति । महातेजा इति विशेषणम् । अन्यानि नामानि रूढ्या सम्बन्धेन वा । विवस्वत्सुत इति समासपदरूपं शब्दान्तरं कृष्ण-सर्पनरसिंहादिशब्दवत् ॥६२ ॥

हिन्दी – ( उन छ: मनुओं के नाम ये हैं - ) स्वरोचिष, उत्तम, तामस, चाक्षुष और महातेजस्वी वैवस्वत ( सूर्यपुत्र ) ॥ ६२ ॥

स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः ।

स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ ६३ ॥

रैवत, भाष्य - अत्र सप्त मनवो मया प्रोक्ताः । अन्यत्र चतुर्दश पठ्यन्ते । स्वे स्वेऽन्तरेऽवसरे प्राप्तेऽधिकारकाले इति यावत् । उत्पाद्य प्रजा आपुः पालितवन्तः । स्वेस्वेऽन्तरेऽधिकारावसरे, यस्य मनोर्यस्मिन्काले प्राप्तः सर्गस्थितिपालनाधिकारः । अन्ये त्वन्तरशब्दं मासादिशब्दवत्कालविशेषवाचिनं मन्यन्ते । तदयुक्तम् । मनु-शब्दोपसंहितः कालविशेषविषयो ' मन्वन्तरो ' नाम कालो, न तु केवल इति ॥६३ || हिन्दी – महातेजस्वी स्वायम्भुव आदि इन सात मनुओं ने अपने - अपने अधिकार काल में इस सम्पूर्ण चराचर जगत् को उत्पन्नकर इसका पालन किया ॥ ६३ ॥

[ कालप्रमाणं वक्ष्यामि यथावत्तन्निबोधत । ] [ हिन्दी - समय के परिमाण को कहूँगा, उसे आपलोग यथाविधि मालूम करें || ८ || ]

पृष्ठ 117

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 117 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अध्यायः ] ' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता ४५ दिन - रात का परिणाम–

निमेषा दश चाष्टौ च काष्ठा, त्रिंशत्तु ताः कला ।

त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥६४ ॥

भाष्य — स्थितिप्रलयकालपरिमाणनिरूपणार्थं ज्योतिःशास्त्रगोचरं कालविभागं वक्तुमुपक्रमते । अष्टादश निमेषाः काष्ठा नाम कालो भवति । त्रिंशत्काष्ठाः कला । त्रिंशत्कला एको मूहूर्तः स्यात् । तावतः त्रिंशदित्यर्थः । त्रिंशन्मुहूर्तः अहोरात्रम् | विद्यादिति क्रियापदमाहृत्य तावतइति द्वितीयाबहुवचनम् । अथ कोऽयं निमेषो नाम । अक्षिपत्यक्ष्मणोर्नैसर्गिककम्प उन्मेषसहचारी । अन्यैस्तु पठितं यावता कालेन व्यक्त-मक्षरमुच्चार्यते स निमेषः ॥६४ ॥

हिन्दी – १८ निमेष ( पलक गिरने का समय - विशेष ) की १ काष्ठा, ३० काष्ठा की १ कला, ३० कला का १ मुहूर्त ( २ घटी = ४८ मिनट ) और ३० मुहूर्त का १ दिन - रात ( ६० घटी = २४ घण्टे ) होती है ॥ ६४ ॥

विमर्श - ' नामलिङ्गानुशासन ' ( अमरकोष ) के रचयिता ' अमरसिंह ' ने '३० कला - १ काष्ठा, ३० काष्ठा = १ क्षण, १२ क्षण = १ मुहूर्त होता है ' ' ऐसा कहा है । सूर्य द्वारा दैव मानुष दिन - रात का विभाजन--अहोरात्रे विभजते सूर्यो मानुषदैविके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥६५ ॥

भाष्य – अहश्च रात्रिश्च ते अहोरात्रे । तयोर्विभागं करोति आदित्यः । उदित आदित्ये यावत्तदीया रश्मयो दृश्यन्ते तावदहर्व्यवहारः । अस्तमिते तु प्रागुदयाद्रात्रि-व्यवहारः । मनुष्यलोके देवलोके वा । यत्र तर्ह्यादित्यो न व्याप्नोति रश्मिभिस्तत्र कथमयमहोरात्रविभागो विज्ञेयोऽत स्त्वाह । रात्रिः स्वप्नायेति । स्वयं प्रभेषु भूतेषु नित्यप्रकाशित्वात्कर्मचेष्टाकार्यारम्भेण स्वापेन च विभागः । यथैवोषधीनां नियतः प्रादुर्भावकालः स्वाभाव्यादेवं कर्मचेष्टास्वा-पावपि कालस्वभावत एव नियतौ ॥६५ ॥

हिन्दी - सूर्य मानुष ( मनुष्यों की ) तथा दैव ( देवताओं की ) दिन - रात का विभाग करता है, उनमें जीवों के सोने के लिए रात तथा कार्य करने के लिए दिन होता है ॥६५ ॥

१. तद्यथा— अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला । तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादश स्त्रियाम् ॥ इति । ( अ ० को ० १ | ४ | ११ )

पृष्ठ 118

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 118 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ मनुस्मृतिः पितरों की दिन - रात का परिमाण-पित्र्ये रात्र्यहनी मासः, प्रविभागस्तु पक्षयोः । [ प्रथमः कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ ६६ ॥

भाष्य — यो मनुष्याणां मासः स पितॄणामहर्निशम् । कतरदहः कतमा च रात्रिरिति प्रविभागः । इदमहरियं रात्रिरित्येष विभागः । पक्षयोः पञ्चदशरात्रिसम्मित-योरर्द्धमासाख्ययोर्व्यवस्थितः । पक्षाश्रित इत्यर्थः । एकः पक्षोऽहरपरो रात्रिस्तयोश्च भिन्नस्वभावत्वान्नियतक्रमत्वाच्च विशेषमाह । अहः कृष्णः पक्षः । शुक्लः पक्षः शर्वरी रात्रिः । ‘ कर्मचेष्टाभ्य ' इति युक्तः पाठः । यथा ' स्वप्नायेति ' । तादर्थ्यमेव विषयभावेन विवक्षितम् । वृत्तानुरोधादतः सप्तमी ॥ ६६ ॥

हिन्दी - ( मनुष्यों के ) १ मास अर्थात् ३० दिन की पितरों की १ दिन - रात होती है, उनमें दो पक्षों ( पखवारों ) का विभाग है अर्थात् दो पक्षों का १ मास होता है; उन दोनों ( पक्षों ) में कृष्ण पक्ष ( पितरों के ) काम करने ( जागने ) तथा शुक्ल पक्ष ( पितरों के ) सोने के लिए है ॥ ६६ ॥

विमर्श - कृष्णपक्ष तथा शुक्लपक्ष- इन दोनों पक्षों का मनुष्यों के लिए एक मास होता है और यही पितरों की १ दिन - रात होती है, इनमें कृष्णपक्ष पितरों का दिन तथा शुक्लपक्ष पितरों की रात होती है । देवों की दिन - रात का परिमाण–

दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ ६७ ॥

भाष्य- वर्षं मनुष्याणां द्वादशमासास्तदेकमहोरात्रं देवानाम् तयोश्च विभाग-उदगयनदक्षिणायनाभ्याम् । तत्रोदीचीं दिशमभिप्रतिष्ठमानस्यादित्यस्य षण्मासा उदगयनं भवति । ‘ अयनं ’ गमनमधिष्ठानं वा । तस्यां दिशि षण्मासानादित्य उदेति । ततः परावृत्त-स्य दक्षिणायनम् । तथा हि दक्षिणां दिशमाक्रम्योदीची हित्वा ह्युदयं करोति ॥६७ ॥

हिन्दी - १ वर्ष ( मनुष्यों के १२ मास ) देवों की १ दिन - रात होती है, उनमें उत्तरायण ( मकर से मिथुन तक सूर्य का सङ्क्रमण काल ) देवों का दिन और दक्षिणायन ( कर्क से धनु तक सूर्य का सङ्क्रमण काल ) देवों की रात होती है ॥६७ ॥

ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।

एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ ६८ ॥

भाष्य – ब्रह्मा प्रजानां स्रष्टा तस्या यो लोकस्तत्र क्षपाहस्याहोरात्रस्य यत्प्रमाणं युगानां चैतत्समासतः सङ्क्षेपेण निबोधत मत्सकाशाच्छुणुत । एकैकशः एकैकस्यं युगस्य

पृष्ठ 119

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 119 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

' मेधातिथि ' भाष्य ' मणिप्रभा ' हिन्दीटीकासहिता अध्यायः ] सत्ययुग का परिमाण– तदुक्तं विष्णुपुराणे-IFE द्वादशभिस्तद्विभागं निबोध मे । चतुर्युगं ४७ TE अ वक्ष्यमाणस्य प्रकरणस्य पिण्डार्थकथानार्थोऽयं श्लोकः श्रोतॄणामवधानार्थः । तथा च सम्बुध्यन्ते निबोधतेति । प्रकृते कालविभागे पुनः प्रतिज्ञानं प्रकरणान्तर-त्वज्ञापनार्थम् 1 । तेन वक्ष्यमाणोऽर्थो न शास्त्रारम्भशेष एव, अपि तु धर्मायापि । तथा च वक्ष्यति ‘ ब्राह्मं पुण्यमहर्विदुरिति ' तद्विज्ञानाच्च पुण्यं भवतीत्यर्थः ॥६८ ॥

हिन्दी – ( भृगु महर्षियों से कहते हैं कि ) – ब्रह्मा के दिन - रात का और चारों ( सत्य, त्रेता, द्वापर और कलि ) युगों का जो परिमाण है, उसे आप लोग सङ्क्षेप से सुनें - || ६८ ॥

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।

तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ६ ९ ॥

भाष्य — प्रकृतत्वाद्दैविकानि वर्षाणि परिगृह्यन्ते । तथा च पुराणकारः “ इत्येत-दृषिभिर्गीतं दिव्यया सङ्ख्यया द्विजाः ॥ दिव्येनैव प्रमाणेन युगसंख्या प्रकीर्तिता ” । तानि चत्वारि सहस्राणि कृतयुगं नाम कालः । तस्य कृतयुगस्य तावन्त्येव शतानि, चत्वारि, सन्ध्या । सन्ध्यांशस्तस्य तथाविधः तत्परिमाणश्चत्वारिवर्षशतानी-त्यर्थः । यत्रातीतस्य कालस्यागामिनश्च स्वभावानुवृत्तिः सा सन्ध्या । उभयकाल-धर्मानुविधानं सन्ध्यांशः, यत्रेषत्पूर्वधर्मानुवृत्तिर्भूयसी भाविनो युगस्य || ६ ९ ॥ हिन्दी – ४००० दिव्य ( देवों के ) वर्ष ' सत्ययुग ' का काल - परिमाण है और ४००-४०० दिव्य वर्ष उस सत्ययुग के सन्ध्या तथा सन्ध्यांश का परिमाण है ॥६ ९ ॥ विमर्श - यहाँ ' सन्ध्या ' शब्द का युग का ' पूर्वसन्धिकाल ' तथा ' सन्ध्यांश ' शब्द का युग का अन्तिम ' सन्धि - काल ' अर्थ है । उसका मध्यवर्तीकाल युग का काल होता है । यहाँ पर ' वर्ष ' शब्द क्रमप्राप्त दिव्यवर्ष का वाचक है । इस १. युगस्य पूर्वा सन्ध्या, उत्तरश्च सन्ध्यांश: ।

तत्प्रमाणैः शतैः ‘ सन्ध्या ' पूर्वा तत्राभिधीयते ।

सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि यः ॥

सन्ध्यासन्ध्यांशयोरन्तर्यः मुनिसत्तमः ।

युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥

वर्षसङ्ख्या चेयं दिव्यमानेन, तस्यैवानन्तरप्रकृतत्वात् । दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् । इति विष्णुपुराणवचनाच्च " इति ( म ० मु ० )

पृष्ठ 120

मनुस्मृति १ हरगोविन्द शास्त्री, पृष्ठ 120 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४८ मनुस्मृतिः [ प्रथमः प्रकार ४००० + ४०० + ४०० = ४८०० दिव्यवर्ष x ३६० = १७२८०० मानुष वर्ष ‘ सत्ययुग ’ का परिमाण होता है । 1815

त्रेता, द्वापर तथा कलियुग का परिमाण-इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषुः ।

एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ ७० ॥

भाष्य — कृतयुगादन्येषु त्रेतादिषु त्रिषु युगेषु सन्ध्यासन्ध्यांशसहितेषु सहस्रा-ण्येकापायेन वर्तन्ते हानिरपायः । एकं सहस्रं हीनं त्रेतायां कृतयुगात् । एवं त्रेतातो द्वापरस्यद्वापरात्कलेः । एवं च त्रीणि वर्षसहस्राणि त्रेता, द्वे द्वापरः, एकं कलिरिति भवति । शतानि हीयन्ते सन्ध्यातदंशयोः । विशिष्टोऽहः सङ्घातो युगाख्यस्तस्य विशेषाः कृतादयः । तावच्छतीति ईकारः स्मर्तव्यः । इह स्मृतिः । तावतां शतानां समाहारः तावच्छब्द-स्य ‘ बहुगणवतुडतीति ’ वत्वन्तत्वात्संख्यासंज्ञायां सत्यां ‘ संख्यापूर्वो द्विगुरिति ’ द्विगुरिति द्विगुसंज्ञायां सत्यां'टापोपबादो द्विगोरिति ङीप् । तत् परिमाणमस्य इति । ' यत्तदेतेभ्य ' इति वतुप् । ‘ आ सर्वनाम्न ’ इत्याकारः । अन्यथा बहुव्रीहौ तावन्ति शतानि यस्या:, शतशब्दस्याकारान्तत्वात् ' अजाद्यतष्टाप् ' इति टापा भवितव्यम् । तस्मिन्कृते ‘ तावच्छता ’ इति स्यादित्यभिप्राय: ॥७० ॥

हिन्दी - सत्ययुग की सन्धि ( पूर्वसन्धिकाल ) और सन्ध्यांश ( अन्तिम सन्धिकाल ) के सहित क्रमश: ( सत्ययुग के काल परिमाण में से ( १०००-१००० तथा ) सत्ययुग के सन्ध्या और सन्ध्यांश में से १००-१०० ( युग में १००० + सन्ध्या १०० + सन्ध्यांश १००-१२०० वर्ष प्रत्येक में क्रमशः कम करने से त्रेता, द्वापर और कलि का कालपरिमाण होता है ॥ ७० ॥

विमर्श – सन्ध्या - सन्ध्यांश सहित सत्ययुग - काल - परिमाण ४८०० दिव्यवर्ष-१२०० ३६०० दिव्यवर्ष ( या ३६०० × ३६० = १२ ९ ६००० मानुष वर्ष ) ‘ त्रेता युग ' का काल - परिमाण है । त्रेता का कालपरिमाण ३६०० दिव्यवर्ष - १२०० = २४०० दिव्यवर्ष ( या २४०० × ३६० = ८६४००० मानुष वर्ष ) ' द्वापर युग का काल परिमाण है और द्वापर का कालपरिमाण २४०० दिव्यवर्ष - १२०० = १२०० दिव्यवर्ष ( या १२०० × ३६० = ४३२००० मानुष वर्ष ) ' कलियुग ' का कालपरिमाण है । इस प्रकार ४८०० दिव्यवर्ष ( १७२८००० मानुष वर्ष ) सत्युग, ३६०० दिव्य-वर्ष ( १२ ९ ६००० मानुष वर्ष ) त्रेतायुग, २४०० दिव्यवर्ष ( ८६४००० मानुष वर्ष ) द्वापरयुग, और १२०० दिव्यवर्ष ( ४३२००० मानुष वर्ष ) ' कलियुग ' का परिमाण होता है ।